धर्मसूत्र (टीका सहित) · अध्याय 1
ओं
गौतमगृह्यसूत्रम्.
मस्करिभाष्यसहितम्.
प्रणिपत्यादिदेवाय वासुदेवाय भक्तितः ।
गौतमीयच्छलेनेदं सर्वस्मृतिनिबन्धनम् ॥
क्रियते ऽद्य मया भाष्यं सूनुना वामनस्य तु ॥
को वाभिसम्बन्धः ? अयमुच्यते-सन्ति चतुर्दश विद्यास्थानानि, तद्यथा-
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
इति ॥
तेषां मध्ये परिगणितमिदं धर्मशास्त्रमारभ्यत इत्यभिसम्बन्धः ।
अथवा-पुरुषस्य सुखदुःखोपभोगार्थैः शरीरेन्द्रियविषयैः संयोगवियोगरूपो जन्मजरामरणप्रबन्धः संसारः ।
स च धर्माधर्मनिमित्तो नान्यनिमित्तः ।
तयोश्च धर्माधर्मयोरिष्टानिष्टोपभोगहेतुत्वादुपादानपरिवर्जनार्है तौ भवतः ।
तदुभयमपरिज्ञाने न सम्भवतीति धर्माधर्मस्वरूपावबोधनार्थं गौतमेन शास्त्रं प्रणीतमिति ।
प्रयोजनमपि चास्यैतदेव, धर्माधर्मोपादानपरिवर्जनयोः पुरुषार्थत्वादिति ।
अभिधेयमष्टकादीनि, यथा श्रौतान्यग्निष्टोमादीन्यवश्यकर्तव्यानि तथाष्टकादीन्मपीति ।
तत्र सर्वकार्याणां कारणतः प्रवृत्तिदर्शनात्पूर्वं कारणविशेषप्रतिपादनार्थमाह-
वेदो धर्ममूलम्
ननु विधिप्रतिषेधरूपत्वाच्छास्त्रस्य ऽउपनयनं ब्राह्मणस्याष्टमेऽ; इत्याद्येव वक्तव्यम्, न त्वनुवादरूपत्वाद्वेदो धर्ममूलमित्यादि, निष्प्रयोजनत्वादनुवादस्येति ।
न चानेन वेदस्य प्रामाण्यं प्रतिपाद्यते, तस्य स्वत एव सिद्धेः अन्यथा येन प्रामाण्यं प्रतिपाद्यते तस्याप्यन्येन प्रामाण्यं तस्याप्यन्येनेत्यनवस्था स्यादिति ॥
उच्यते-वेदस्य धर्ममूलत्वानुवादः तद्द्वारेण स्मृतिशीलयोरपि धर्ममूलत्वप्रतिपादनार्थः ।
कथमिति
चेदुच्यते-वेदवचनादुच्चरितात्तत्पदार्थविदां विशिष्टेर्ऽथे या प्रतिपत्तिर्निःसंदिग्धा जायते न च कालान्तरे देशान्तरे पुरुषान्तरे ऽवस्थान्तरे वा विपर्येति सा धर्ममूलमिति ।
यच्च निःसंदिग्धमविपरीतं च ज्ञानमुत्पद्यते तस्य प्रामाण्यमध्यवसितुं शक्यते ।
न च वेदजनितप्रत्ययस्य कारणदोषकृतं मिथ्यात्वं, कर्तुरनभ्युपगमात् ।
कर्तृगतो हि दोषः शब्दजनितस्य प्रत्ययस्य मिथ्यात्वमापादयति ।
एवमुत्तरार्थो ऽनुवादः ॥
इदानीं सूत्रं विब्रीयते-तत्र वेदो मन्त्रब्राह्मणाख्यो ग्रन्थराशिः ।
विद ज्ञाने, ज्ञायते ऽनेन धर्मादिस्वरूपमिति वेदः ।
यद्यपि स्मृत्यादेरेतत्तुल्यत्वम् ।
तथापि परिव्राजकादिवद्रूढत्वाददोषः ।
तथा च स्मृत्यन्तरं-
श्रुतिश्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ॥
इति ॥
स च ऋग्वेदादिभेदेन भिद्यते ।
जात्यपेक्षयैकवचनम् ।
धर्मः कर्म आचार इत्यर्थः, अपूर्वाख्यो वा ।
मूलं कारणं ज्ञापकं, प्रमाणमित्यर्थः ।
तत्र विधिप्रतिषेधात्मको हि वेदो धर्माद्यवबोधकत्वं प्रतिपद्यते, न तु मन्त्रार्थवादरूप इति चेदुच्यते- अर्थवादादेरपि विध्येकवाक्यत्वेनोपकारकत्वात् पारंपर्येण धर्ममूलत्वमविरुद्धम् ।
अर्थवादस्तावत् स्तुतिनिन्दाद्वारेण विधिप्रतिषेधरूपत्वं प्रतिपद्यते, मन्त्रस्त्वनुष्टानकाले विहितार्थस्मारकत्वात् ।
ततः सर्वप्रकार एव वेदो
धर्ममूलमिति ।
केचिन्मन्त्रार्थवादमूलमेव प्रतिजानते यता ऽधन्वन्निव प्रपा असिऽ; इत्यत्र प्रपा कर्तव्येत्यादि ।
अन्ये त्वाहुः-अध्ययनमात्रादेव धर्मसिद्धिः, यथाऽह-
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्यपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥
इति ॥
अतः पाठ एव धर्ममूलमिति ।
तदयुक्तं, कर्मफलश्रुतेः आनर्थक्यप्रसङ्गात्, मीमांसकैरध्ययनफलस्य निस्तत्वाच्च ।
अथवा वेदवाच्या क्रिया वेदशब्देनोच्यते, स धर्मस्य मूलमिति ।
श्येनादिषु न भवतीति चेत्, उच्यते-तत्रापि वैरिवधात् प्राणधनपुत्रदारादिरक्षणद्वारेण धर्मो ऽस्त्येवेति ।
ततश्चावगम्यते-यदिदं पुत्रपशुग्रामादि दृष्टं, यच्च
सर्गाद्यदृष्टं, तत्सर्वं धर्महेतुकमिति ॥
धर्मः पञ्चप्रकारः-वर्णधर्म आश्रमधर्मो गुणधर्मो वर्णाश्रमधर्मो निमित्तधर्म इति ।
वर्णधर्मो ऽध्ययनादिः, आश्रमधर्मः समिदाधानादिः गुणधर्मो ऽभिषेकादिगुणयुक्तस्य रक्षणादिः, वर्णाश्रमधर्मो ब्राह्मणस्य पालाशो दण्ड इत्यादिः, निमित्तधर्मः प्रायश्चित्तादिः ।
मूलं कारणम् ।
तथा चाह-ऽवेदाद्धर्मो हि निर्बभौऽ; इति ।
सूत्रारम्भप्रयोजनं च-यथैव वेदो धर्ममूलं तथा स्मृतिशीले अपीति ॥
न केवलं वेद एव धर्ममूलं, किं तर्हि-
तद्विदां च स्मृतिशीले
वेदविदां च ये स्मृतिशीले ते अपि धर्ममूले भवतः ते अपि वेदाविरोधिनी, तद्विदामित्यारम्भात् ।
मूलशब्दश्चेह द्वाभ्यामभिसम्बध्यमानो द्विचनान्तो द्रष्टव्यः ।
तच्छब्देन षडङ्गो वेदो लक्ष्यते ।
स्मृतिरुपनिबनन्धनं मनु-यम-वसिष्ठ-भृग्वङ्गिरो-बृहस्पत्युशनो-भारद्वाज-गौतपापस्तम्ब-संवर्त-व्यास-शतातप-
शङ्ख-लिखित-हारीत-बोधायन-याज्ञवल्क्य-प्रचेतादिभिः कृतम् ।
शीलमनुपनिबद्धः समाचारः कौतुकमङ्गलादिः बहुत्वात्प्रतिदेशं भिद्यमानत्वाच्चानुपनिबद्धः ।
चकारो ऽनुक्तसमुच्चयार्थः ।
यथाऽह मनु--
वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च ॥
इति ॥
सन्ध्योपरमणकाले त्रिः प्रदक्षिणादिः शिष्टाचार ।
वेदविदां सकलानुष्ठानपराणां निर्देषत्वेन यद्विज्ञानमुत्पद्यते, साऽत्मतुष्टिः ।
वक्ष्यति-"यच्चात्मवन्तो वृद्धाः"इत्यादि ॥
केचिद्वर्णयन्ति-अष्टकादिवदेषां कौतुकमङ्गलादीनां अनुपनिबन्धो ऽकरणे प्रत्यवायाभावात् ।
आचारात्मतुष्टी अपि शील एवान्तर्भूते इति न पृथगुपन्यस्ते ।
चकारोप्युक्तसमुच्चयार्थ एवेति ॥
इदानीं पूर्वपक्षीकरोति वेदविदां शीलं धर्ममूलं न भवति यतः-
दृष्टो धर्मव्यतिक्रमः
धर्ममूलत्वं न प्राप्नोतीति शेषः ।
यथा प्रजापतिः स्वां दिहितरमभ्यध्यायत्,यथेन्द्रस्याहल्यागमनादिः यथा व्यासभीष्मादीनामनाश्रमावस्थानम् ॥
किञ्च-
साहसं च महताम्
अत्रापि धर्ममूलत्वं न प्राप्नोतीति शेषः चशब्दोपादानात् ।
सहःशब्देन बलमुच्यते ।
यथा च नारदः-"सहो बलमिहोच्यते"इति ।
तेन शास्त्रं लोकसंव्यवहारं चानवेक्ष्य यत् क्रियते तत् साहसम् ।
महतां लोकविख्यातानामित्यर्थः ।
यथा रामस्य ताटकादिस्त्रीवधः ।
जामदग्न्यस्य मातुःशिरचश्छेदः, वसिष्ठस्य जलप्रवेशः इत्यादि ।
तेन अयुक्तं शीलस्य धर्ममूलत्वमिति ॥
कथं पुनर्धर्मव्यतिक्रमसाहसयोः भेदः-विषयाभिलाषेण यदयुक्तमाचर्यते, स धर्मव्यतिक्रमः, क्रोधाद्यभिभवेन यत् क्रियते तत् साहसम् ॥
अत्रोत्तरमाह-
न तु दृष्टार्थे ऽवरदौर्बल्यात्
तुशब्द- पक्षनिवृत्त्यर्थः ।
दृष्टार्थो दृष्टप्रयोजनः तस्मिन् दृष्टप्रयोजने शीलं धर्ममूलं न भवति ।
तथा च
वसिष्ठः-"अगृह्यमाणकारणो धर्मः"इति ।
नैताद्विवचनं, दृष्टार्थे धर्मव्यतिक्रमसाहसे इति ।
तस्मिन् गृह्यमाणे"ईदुदेत्"इत्यादिना प्रगृह्यसंज्ञायां सत्यां"दृष्टार्थे अवरदौर्बल्यात्"इति पाठः प्राप्नोति ।
अवरदौर्बल्यात् न वरः अवरो निकृष्टः द्वेषाद्यभिभूतः अपरमार्थज्ञान इत्यर्थः तस्य दौर्बल्यात् धर्माधर्मपरिज्ञानाशक्तेरित्यर्थः ।
एतच्चानेन ज्ञापितं भवति- महतामपि तद्विदां कदा चिदभिभवो ऽस्तीति, शरीरवत- प्रियाप्रिययोरवश्यंभावित्वात् ।
तस्माद्यावदेतेषां रागादिदोषेणाभिभवः, तावत्तेषां आचारो ऽपि न ग्राह्यः ।
तथाच वसिष्ठः--"शिष्टः पुनरकामात्मा"इति ।
अथवा-अवरशब्देनेदानींतनाः कलियुगपुरुषा उच्यन्ते, तेषां दौर्बल्यात् असार्मथ्यात् ॥
एवं स्मृतिप्रमाणमुक्त्वा अधुना एकार्थोपनिपतितानां वाक्यानां परस्परविरोधे सति किं क्रव्यमित्यात आह-
तुल्यबलविरोधे विकल्पः
तुल्यप्रमाणप्रापितः पदार्थस्तुल्यबलः ।
तयोः परस्परविरोधे सति विकल्पो वेदितव्यः, अयं वायं वेति ।
नोभयपरित्यागः, उभयोः प्रमाणप्रापितत्वात् ।
नान्यतरपरिग्रहः, एकस्मिन् गृह्यमाणे द्वितीयस्यानर्थक्यप्रसङ्गः स्यादिति ।
किमुदाहरणं-श्रुतौ तावत् उदिते होतव्यं, अनुदिते होतव्यमित्येवमादि ।
स्मृतावपि,"नित्यमभोज्यं केशकीटावपन्नम्"इति गौतमः ।
पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥
इति मनुः ॥
ननु-चात्र सार्मथ्यादेव विकल्पप्रसिद्धेः अनर्थकमिदं सूत्रं समुच्चयस्तावदत्र न संभतीति ।
न ह्यनुदिते हुत्वा पुनरुदिते होतुं शक्यते, गुणभूतकालवशेन प्रधानस्य होमस्यावृत्तेरन्याय्यत्वात् ।
प्रधानवशवर्तिनो हि गुणाः, न गुणवशवर्ति प्रधानमिति ।
न चानावृत्तमुभयो- कालयोर्हेतुं शक्यते ।
एवं स्मृतावपि शुद्धिपरित्यागयोनैर्व समुच्चयः सम्भवतीति, परस्परविरोधादिति ।
न चोभयपरित्यागो युक्त इत्युक्तम् ।
तेनात्र विकल्प एव प्राप्नोतीति नार्थो ऽनेनेति ॥
एवं तर्हि न्यायप्राप्तानुवादो ऽयं विशेषार्थः ।
को विशेषः ? तुल्यबलयोरेव विरोधे विकल्पः, अतुल्यबलयोस्तु बाध एवेति ।
तेन श्रुतिस्मृत्योर्विरोधे स्मृतिरेव बाध्यते ।
श्रुतौ हि प्रत्यक्षः शब्दः स्मृतावानुमानिकः ।
न चानुमानं प्रत्यक्षविरोधे प्रमाणीभवति ।
एवं स्मृत्याचारविरोधे च मातुलदुहितृपरिणयनाद्याचारो बाध्यत इति, तत्र ह्याचारात् स्मृत्यनुमानमिति ।
विरोधे विकल्पवचनात्, अविरोधे तु तुल्यप्रमाणशिष्टानां समुच्चयः यथा आचमनादीनां श्रौतेषु कर्मस्विति ॥
ननु च यदि वेदलिङ्गप्रभवत्वाभ्युपगम एव स्मृतेः श्रुत्या सहातुल्यबलत्वमुपपाद्यते, तदा हि मन्त्रार्थवादवाक्येष्वन्यपरेष्वपि यानि स्मार्तधर्ममबलभूतानि लिङ्गानि"कुमारा विशिखा इव"इत्येवमादीनि तेषां प्रत्यक्षवेदवाक्यविरोधे सति विरोधिवाक्यानुमानविरोधात् दुर्बलत्वं प्रसज्यते ।
यदा तूत्सन्नशाखापूर्विका स्मृतिरभ्युपगमे-यथाऽहापस्तम्बः-"ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते"इति तदोभयोश्च वैदिकत्वात् तुल्यबलतैव प्रसज्यते ।
न ह्यनुमितस्य वेदवाक्यस्य प्रत्यक्षस्य च बलाबलविशेषो ऽस्ति प्रत्यक्षानुमानपरिच्छिन्नाग्निवदिति ।
स्यादेतत् यत्र स्मृतिवचने वेदविरोधो ऽस्ति तन्नैव वेदवाक्यानुमापकं भवति, किं तर्हि भ्रान्त्यादिप्रभवमेवैतदिति ।
तच्च न युक्तं, धर्मशास्त्रप्रणेतुरनाप्तत्वाभ्युपगमे अविश्वासप्रसङ्गात् ।
यदापि वेदवदविच्छिन्नपारंपर्येणागता स्मृतिरभ्युपगम्यते तदापि तुल्यबलत्वमुपपद्यत इति तत्रापि तन्नैवोपपद्यते ।
यस्तावन्मातुलदुहितृपरिणयनादिकः समाचार उपन्यस्तः स कामाद्यभिभवे सति दुष्टाचारत्वाच्छिष्टाचार एव नोपपद्यते ।
यस्त्वविगानेनोक्तलक्षणैः शिष्टैराचर्यते तस्य वेदमूलत्वाविशेषात् स्मृत्या सह तुल्यबलत्वमेव प्राप्नोति ।
विबन्धनानिबन्धनयोस्त्वन्यदेव प्रयोजनमुपदिष्टम् ।
न च समाचारस्य स्मृतिवाक्यान्तरितरूप्सय वेदवाक्यानुमानसंनिकर्षकृतं बलाबलत्वं सिध्यति ॥
अत्रोच्यते-अतुल्यबलत्वं तावत् वेदादीनां सूत्रारम्भसार्मथ्यादेवावगम्यते ।
यदि हि तुल्यबलान्येतानि स्युः तदा विरोधे विकल्पः सार्मथ्यादेव सिद्धः, किमनेन सूत्रेणेति तुल्यबलग्रहणं चानर्थकं स्यादिति ।
अस्मिनपि वेदाद्युर्बलतरत्वं स्मृतेरुपपद्यते ।
तत्र लिङ्गप्रभवत्वमुपपद्यते इत्युक्तम् ।
तेनायमेव
पक्षोयुक्तः वस्तु
स्वतन्त्रपक्षो ऽभिहितः, स पक्षः"तद्विदां च स्मृतिशीले"इत्येतस्मिन् सति दुरुपपाद एवेति ।
तस्माद्वेदलिङ्गप्रभवत्वमेव स्मृतीनां निर्देषतरमिति ॥
ननु चैवमपि नोपपद्यते, क्वचित् स्मृत्या श्रुतेर्बाधदर्शनात् यथा सामान्येन प्रवृत्तो वैदिककर्माधिकारः स्मृत्या उपनीतादिपुरुषविशेष एवाधिक्रियते ।
तथा संस्कारैकदेशेनाप्यात्मगुणयोगे सति विशिष्टफलाभिधानात्, तथा गामालभेतेति श्रुतिचोदितो ऽपि गोवधः स्मार्तप्रतिषेधबलीयस्त्वान्न क्रियते, तथाग्निहोत्रादिकं चोदितजीवनोपाधिकं कर्म द्रव्यसाध्यमपि न स्मार्तचौर्यादिप्रतिषद्धेनापि द्रव्यमार्जयित्वा तत्क्रियते ।
अतः श्रुत्या स्मृतिर्बाध्यत इत्ययुक्तमुक्तमिति ॥
उच्यते-विरोधे सत प्रमाणानां बलाबलचिन्ता युज्यते ।
यत्र तु विरोधाभावः तत्र दुर्बलोपि नैव बाध्यत इति ।
यस्तावदुपनीतस्य कर्माधिकारः सः श्रुत्या नैव विरुध्यते, उपनयनस्य वेदग्रहणार्थत्वात्, तस्य च कर्मार्थत्वात्, न चापूर्वसंयोगमन्तरेण प्रधानसिद्धिः ।
यच्चोक्तं गोवर्धेस्तु श्रुतिचोदितोपि न क्रियत इति, तदपि न केवलं स्मृत्या, किन्तु मन्त्रवर्णाच्च ऽमा गाः प्रमापयाश्वान् प्रमापयऽ; इत्यादि ।
अतः स्मृत्या श्रुतिर्नैव बाध्यते ।
केचिदुत्सन्नशाखापूर्विकां स्मृतिमाहुः ।
तदयुक्तम् ।
तत्र विचार्यते-किं स्मरणात्पूर्वमेव नष्टाः शाखाः उतोत्तरकालमिति ।
यादे पूर्वं तत्र स्मरणं नोपपद्यते, विनष्टत्वात्, पूर्वविज्ञानसदृशत्वात् स्मृतेः ।
यद्युत्तरकालं, तदोत्सन्नशाखापूर्वकत्वं वक्तुं न युज्यते, तदानीमुपलभ्यमानत्वात् ।
आपस्तम्बोक्तस्याप्ययमभिप्रायः-उत्सन्नाः क्वचित्क्वचिद्देशे न सर्वत्रेति ऽतेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्तेऽ; इत्यत्रापि व्याख्या कर्तव्या ॥
एवमियं धर्मप्रमाणपरिभाषोक्ता ।
इदानीं स्मृत्या यत्प्रमीयते तदभिधानार्थमाह-
उपनयनं ब्राह्मणस्याष्टमे
वेदस्य अग्नेराचार्यस्य यमनियमानां वा समीपे नयनमुपनयनम् ।
तदष्टमे वर्षे, वर्षगणनासार्मथ्यात् ।
नित्यो ऽयमुपनयनकालः, काम्यापत्कल्पयोरूर्ध्वमभिधानात् ।
क्षत्रियवैश्ययोरूर्ध्वमभिधानात् शूद्रस्यैकजातित्वादर्थसिद्धस्यापि ब्राह्मणग्रहणस्य जातिनिमित्तत्वप्रसिद्ध्यर्थमारम्भः ।
न च द्विजत्ववत् ब्राह्मणत्वं क्रियत इति ।
एवं च सुरापस्य ब्राह्मणस्य ऽसुरापस्य ब्राह्मणस्योष्णामासिंचेयुःऽ; इत्येवमादयो ब्राह्मणोद्देशेन विधीयमाना अनुपनीतस्यापि भवन्ति ।
यद्वा-ब्राह्मणग्रहणेन विना त्रयाणामप्येतन्नित्यं स्यात्, काम्यं तु ब्राह्मणस्य नवमे पञ्चमे वा स्यात्, इतरयोस्त्वेकादशद्वादशयोः स्यातां, काम्यानन्तरमभिधानात् ।
पूर्वसंस्कारभावे ऽपि उपनयनेनाधिक्रियते, न त्वनेन विनोपरितनैरिति गर्भाधानादिमनुक्त्वा उपनयनस्यैवेहारम्भः ॥
नवमे पञ्चमे वा काम्यम्
कामाय हितं काम्यं तदुपत्पादनसमर्थम् ।
पञ्चमे नवम इति वाच्ये क्रमभेदः अनयोरन्तरा क्षत्रियवैश्ययोः काम्यकालपरिग्रहार्थः ।
तथा च मनुः-
राज्ञो बलार्थिनष्षष्ठे वैश्यस्यार्थार्थिनो ऽष्टमे ॥
विसमासः काम्यभेदज्ञापनार्थः ।
तथाचच स्मृत्यन्तरं-ऽनवमे त्वायुष्माकं पञ्चमे ब्रह्मवर्चसकामम्ऽ; इति ।
वाशब्दो विकल्पार्थः ।
स इच्छातो द्रष्टव्यः ॥
गर्भादिःसङ्ख्या वर्षाणाम्
गर्भसहचरिता दश मासा गर्भ इत्युच्यते ।
तत्प्रभृति वर्षगणना कर्तव्या, न तु जन्मत आरभ्य ।
ततश्च ऽउपनयनं ब्राह्मणस्यऽ; इत्येवमादौ ऽगर्भाष्टमेऽ; इत्येवमादि योज्यम् ॥
तद्द्वितीयं जन्म
तत् उपनयनं द्वितीयं जन्म ।
तेन संस्कृतो द्विजो भवतीत्यर्थः ।
ऽद्विजातीनामध्ययनम्ऽ; इत्येवमादौ व्यवहारार्थं द्विजसंज्ञाकरणम् ।
तद्ग्रहणं नित्यकाम्योपनयनसंग्रहणार्थम् ॥
तद्यस्मात्स आचार्यः
तद्ग्रहणं नित्यकाम्योपनयनसंग्रहणार्थम् ।
ऽआचार्यः श्रेष्ठो गुरूणाम्ऽ; इत्यादौ व्यवहारार्थं संज्ञाकरणम् ॥
वेदानुवचनाच्च
वेदानुवचनं समस्तवेदानुचनम् ।
अदृष्टार्थमेकदेशाध्यापनेन गुरुः ।
तथा च मनुः-
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥
इति ॥
दृष्टार्थं चेदुपाध्यायः ।
तथाच वसिष्ठः-ऽयस्त्वेकदेशं स उपाध्यायःऽ; इति ।
चकारात् अङ्गव्याख्यातापि ।
तथाच यास्कः-ऽआचार्य आचारानाचिनोति, अर्थानाचिनोति, बुद्धिं वाऽ; इति ।
केचिच्चकारं पूर्वसूत्रेण समुच्चयार्थं व्याचक्षते ।
तेनोभयकरणादेवाचार्यः ।
तथाच मनुः-
उपनीय तु यःशिष्यं वेदमध्यापयेद्द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥
इति ॥
एकादशद्वादशयोः क्षत्रियवैश्ययोः
नित्यो ऽयं कालः, काम्यापकत्कल्पयोरूर्ध्वमभिधानात् ॥
यदा तु नित्यकाम्ययोः केनचिद्दुर्भिक्षादिना निमित्तेनातिक्रमः स्यात् तदानीमापत्कल्पमाह-
आ षोडशाद्ब्राह्मणस्यापतिता सावित्री
आङ्त्राभिविध्यर्थः, सहषोडसेन वर्षेणेति, ऽद्व्यधिकायाःऽ; इति लिङ्गात् ऽषोडशे सर्वकामम्ऽ; इति स्मृत्यन्तरदर्शनाच्च ।
अपतिता अनपगता ।
सावित्रीशब्देन तत्साधनमुपनयमुच्यते, उपनयनस्याधिकृतो भवतीत्यर्थः ।
एवं च पित्रादिष्वनुपनीतेष्वपि प्रायश्चित्तेनोपनयने ऽधिक्रियते ।
तथाचापस्तम्बः-ऽयस्य पिता... पितामहः....प्रपितामहःऽ; इत्यादि ॥
द्वावंशते राजन्यस्य
अत्राप्याङ्नुवर्तते वर्षसहितम् ।
राजन्यशब्दप्रयोगो राजत्वप्रसिद्ध्यर्थः, तस्योपनीतस्यैव राज्याधिकार इति ॥
द्व्यधिकाया वैश्यस्य
द्वाभ्यामधिकाभ्यां सहिता या द्वाविंशतिः सा द्व्यधिकाः, चतुर्विंशातेरित्यर्थः ।
चतुर्विंशतेरिति वक्तव्ये एवमभिधानं पूर्वत्राङो ऽभिविधिज्ञापनार्थम् ॥
उक्त उपनयनकालः ।
इदानीं तत्साधनाभिधित्सयाऽह-
मौञ्जीज्यामौर्वीसौत्रयो मेखलाः क्रमेण
मुञ्जविकारा मौञ्जी ।
मूर्वा प्रसिद्धा, तद्विकारा मौर्वी ।
ज्याचासौ मौर्वी चेति समानाधिकरणसमासः ।
ततश्च धनुषो ऽपनीय ग्राह्या ।
सूत्रं शणसूत्रम् ।
एकगुणा मौर्वी, इतरे त्रिवृतौ ।
यथाऽह मनुः-
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥
इति ॥
ज्यामौर्व्योर्द्वित्वव्यावृत्त्यर्थं क्रमग्रहणम् ।
केचिदभावे वैकल्पिकार्थमिति वर्णयन्ति ।
तथाच मनुः-
मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्बजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वेति ॥
न्यायसिद्धे क्रमग्रहणस्यान्यार्थत्वादिति ॥
कृष्णरुरुबस्ताजिनानि
अजिनशब्दः प्रत्येकमभिसम्बध्यते ।
कृष्णः कृष्णमृगः, रुरुः पृषन्मृगः, बस्तः प्रसिद्धः ।
एतानि क्रमेणोत्तरीयाणि ।
तथा च स्मृत्यन्तरम्-ऽअजिनमेवोत्तरीयं धारयेयुःऽ; इति ॥
वासांसि शाणक्षौमचीरकुतपाःसर्वेषाम्
शणाधिकारःशाणः ।
क्षुमा अतसी,तद्विकारः क्षौमः ।
दर्भादिपरिनिष्पन्नं चीरम् ।
कुतपः पार्वतीयच्छागरोमनिष्पन्नः ।
एतान्यधोवसनानि ।
विषमसङ्ख्यत्वादेव सर्वेषां सिद्धेः स्मृत्यन्तरे ऽशाणं क्षौमं वासो ब्राह्मणस्यऽ; इति तदाश्रित्य यद्यथासङ्ख्यं तन्निवृत्त्यर्थं सर्वेषां ग्रहणं, अधिकारार्थं वा ॥
कार्पासं चाविकृतम्
सर्वेषामित्यनुवर्तते, वास इति च ।
अविकृतमरागसम्बन्धम् ।
स्वभावतः शुक्लमेवेत्यर्थः ।
पूर्वेषामप्यविकृतत्वज्ञापनार्थश्चशब्दः ॥
काषायमप्येके
रागसम्बन्धमपि केचिदिच्छन्ति ।
अपिशब्दो निन्दार्थः ।
अतः पूर्वेषामभावे द्रष्टव्यम् ॥
इदानीं काषायपक्षे नियमार्थमाह-
वार्क्षं ब्राह्मणस्य
वृषकषायकृतं वार्क्षं तदेव ब्राह्मणस्य वासः ॥
माञ्जिष्ठहारिद्रे इतरयोः
मञ्जिष्ठया विकृतं क्षत्रियस्य ।
हरिद्रया विकृतं वैश्यस्य ॥
बैल्वपालाशौ ब्राह्मणदण्डौ
बैल्वः पालाशो वा ब्राह्मणस्य दण्डः ।
यद्यपि द्वन्द्वनिर्देशैः, तथापि ऽयज्ञियो वा सर्वेषाम्ऽ; इत्येकवचननिर्देशात्, ऽप्रतिगृह्येप्सितं दण्डम्ऽ; इति स्मृत्यन्तरदर्शनाच्च एकस्यैव धारणं युक्तम् ॥
आश्वत्थपैलवो शेषे
अश्वत्थः प्रसिद्धः, पीलुः कल्किः, शेषे क्षत्रियवैश्यविषये ।
तत्रापि क्षत्रियस्याश्वत्थः, वैश्यस्य पैलवः ॥
यज्ञियो वा सर्वेषाम्
यज्ञार्हे वा स्यात् विभीतकबिल्वकयावकादिर्वर्जितो वृक्षविशेष इत्यर्थः ।
वाशब्दो ऽभावविकल्पार्थः, अतः पूर्वेषामभावे ।
अन्यथापार्थो वाशब्दः ।
सर्वेषांग्रहणमनन्तरयोरेव मा भूदिति ॥
इदानीं दण्डगुणमाह-
अपीडिता यूपवक्राःसशल्काः
अपीडिता वल्लीवेष्टनकीटाग्न्यादिभिरनुपहता इत्यर्थः ।
यूपवक्राः यूपवन्नताग्रा इत्यर्थः ।
सशल्काः सत्वचः ।
असमासात् सर्व एवंरूपाः, न तु यथासङ्ख्यम् ।
तथा चाह मनुः-
ऋजवस्ते तु सर्वे स्युरव्रणाःसौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥
इति ॥
मूर्घललाटनासाग्रप्रमाणाः
प्रमाणशब्दः प्रत्येकं सम्बध्यते ।
मूर्धप्रमाणा ब्रह्मणस्य, ललाटप्रमाणाः क्षत्रियस्य, नासाग्रप्रमाणा
वैश्यस्य ।
तथा च मनुः -
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥
इति ॥
इदानीं ब्रह्मचारिवेषमाह-
मुण्डजटिलशिखाजटाश्च
मुण्डो मुण्डितशिरस्कः ।
जटिलः सकेशः ।
शिखा एव जटा यस्य स शिखाजटः ।
एवं मुण्डशब्देन समस्तमुण्डनमुच्यते ।
चकारो वार्ऽथः प्रत्येकमभिसम्बध्यते-मुण्डो वा जटिलो वा शिखाजटो वेति ।
ब्राह्मणक्षत्रियवैश्याभिप्रायं बहुवचनम् ।
यथाक्रमनिवृत्त्यर्थं वेति नोक्तम् ।
तथा च मनुः-
मुण्डो वा जटिलो वा स्यादस्य वा स्याच्छिखाजटः ॥
इति ॥
इदानीं शौचतो ऽध्ययनाधिकारात् शौचार्थं पूर्वं द्रव्यशुद्धिरुच्यते-
द्रव्यहस्त उच्छिष्टो निधायाचामेत्
ब्राह्मणभोजनादौ प्रवृत्तो द्रव्यहस्तः पूर्वमनुच्छिष्टः केनचित्कारणेनोच्छिष्टस्पर्शादप्रयतो भवति, तदा तद्द्रव्यं भूमौ निधाय स्थापयित्वाऽचामेत् ।
तथा च वसिष्ठः-
प्रचरन्नभ्यवहार्येषु उच्छिष्टं यदि संस्पृशेत् ।
भूमौ निधाय तद्द्रव्यमाचम्य प्रचरेत्पुनः ॥
इति ॥
पुरुषशौचविवक्षायां द्रव्यहस्तग्रहणमनर्थकम् ।
अतो द्रव्यस्य निधानमात्रादेव शुद्धिः, पुरुषस्याचमनात् ।
यत्तु द्रव्यस्य स्मृत्यन्तरे प्रोक्षणमुक्त-ऽभूमौ निक्षिप्य प्रोक्षणाद्द्रव्यं शुद्ध्यतिऽ; इति तदभ्यवहार्यपक्वद्रव्यविषयमेव द्रष्टव्यम् ।
कथं पुनस्तुल्यसंहिते सूत्रे विशेषो ऽवगम्यते-निधायाचचमनं न पुनरनिधायेति ।
उच्यते-यद्यनिधायाचमनमिष्टं स्यात्ततो ऽद्रव्यहस्त उच्छिष्ट आचामेत्ऽ; इत्येतावदेव वक्तव्यं स्यात्, किं निधानेन क्रियत इति, ततः सूत्रातिरेकान्निधानपक्ष एवाभीष्ट इत्यवगम्यते ।
यत्तु मनुनोक्तं-
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्द्रव्यमाचान्तःशुचितामियात् ॥
इति ॥
तदनभ्यवहार्यद्रव्यविषयं द्रष्टव्यम् ।
एवंचाभ्यवहार्यद्रव्यस्यापक्वस्य कदलीफलादेः निधानमात्रादेव शुद्धिः ।
पक्वस्य भूमौ निक्षिप्य प्रोक्षणाच्छुद्धिः ।
अनभ्यवहार्यद्रव्यस्य वस्त्रादेरनिधायाचमनाच्छुद्धिः ॥
इदानीं द्रव्यशुद्धिमाह-
द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि
तैजसमार्त्तिकदारवतान्तवानाम्
तैजसादीनां द्रव्याणां परिमार्जनादिना क्रमेण शुद्धिः ।
द्रव्यत्वे सिद्धे तेषां द्रव्यवचनं स्वकार्यनिष्पादनसार्मथ्यार्थम् ।
ततश्च भिन्नभाण्डादीनां न शौचम् ।
तेजसा हेतुभूतेन यानि क्रियन्ते तानि तैजसानि सौवर्णादीनि ।
तेषां तैजसानामुच्छिष्टलिप्तानाम् ।
कुत एतत् ? मूत्राद्युपहतानां स्मृत्यन्तरे शुद्ध्यन्तरविधानात् ।
तथा चौशनसं-ऽतैजसानां मूत्रपुरीषरेतः कुणपोपहतानां आवर्तनमुल्लेखनं भस्मना त्रिः सप्तकृत्वः परिमार्जनम् ।
अतैजसानामेवंभूतानामुत्सर्गःऽ; इति ।
तथा अन्यशरीरमलदूषिते कण्ववचनमारब्धम्- ऽश्लेष्माद्युपहतानामेकविंशतिपरिमार्जनच्छुद्धिःऽ; इति ।
तथाचास्पृश्योछिष्टानामौशनसं वचनं संगतमारब्धम्- ऽअनुलोमशूद्रश्वकाकोपहतानामुल्लेखनं प्रतिलोमेषु स्पृश्योपहतानोमकविंशतिपरिमर्जनमस्पृश्योपहतानामावर्तनम्ऽ; इति ।
तथा मांसरुधिरोपहतानां शङ्खवचनमारब्धं-ऽमृदरिष्टकेङ्गुदबिल्वसर्षपकल्कगोमूत्रगोमयादीनि शौचद्रव्याणिऽ; इति ।
तथा ऽरजस्वलादुष्टानामेकदिनं पञ्चगव्ये निक्षिप्य एकविंशतिपरिमार्जनाच्छुद्धिःऽ; इति पैठीनसिवचनम् ।
एवमन्येष्वपि स्मृत्यन्तरेषु मलान्तरदूषितेषु तैजसेषु शुद्ध्यन्तराण्याम्नातानि ।
अतोत्रोच्छिष्टलिप्तानामेव कल्पयितुं न्याय्यमिति ।
तेषामुच्छिष्टलिप्तानां परिमार्जनं भस्मना परितः सर्वतः ।
मार्त्तिकानां मृन्मयानामस्पृश्योपहतानाम् ।
कुतः? स्मृत्यन्तरे विशेषदर्शनात् ।
तथोशनसो वचनं-ऽमृन्मयानामुच्छिष्टलिप्तानामपमार्जनमुच्छष्टस्पृष्टानां प्रोक्षणम्ऽ; इति ।
तथा वसिष्ठवचनम्-
मद्यमूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥
इति मद्यादिदूषितानां त्याग उक्तः ।
अतोत्र चण्डालाद्युपहतानामेव कल्पयितुं न्याय्यमिति ।
प्रदाहः प्रकर्षेण दाहः पूर्वस्वभावोत्पादनमित्यर्थः ।
दारवाणां आसनशयनादीनां अणेध्याद्युपहतानां तक्षणं तनूकरणं यावन्मात्रमुपहतम् ।
अस्पृश्यस्पृष्टानां प्रोक्षणम् ।
कुतः ? ऽप्रोक्षणं संहतानाम्ऽ; इति मनुवचनात् ।
प्रक्षालनशक्यानां प्रक्षालनम् ।
तान्तवानां तन्तुमयानां कार्पासादिविकाराणां अस्पृश्यदूषितानाम् ।
मलदूषिते स्मृत्यन्तरं द्रष्टव्यम्-ऽधावनं तन्मात्रच्छेदनमुत्सर्गःऽ; इति ।
ऽचेलादीनां मलादिदूषितानाम्ऽ; इति पैठीनसिवचनम् ।
तथा ऽश्रीफलैरंशुपट्टानाम्ऽ; इत्येवमादीनि मनुनोक्तानि द्रष्टव्यानि,अस्पृश्यदूषितानां बहूनां वस्त्राणां प्रोक्षणम् ऽबहूनां धान्यवाससामऽ; इति मनुना प्रोक्षणेनैव शुद्धिविधानात् ।
अतोल्पानामस्पृश्यदूषितानां निर्णेजनम् ॥
तैजसवदुपलमणिशङ्खशुक्तीनाम्
तैजसवच्छुद्धिरुपलादीनाम् ।
अतिदेशः स्मृत्यन्तरोक्तशुद्ध्यपेक्षार्थः ।
उपलानां मणीनां तावच्छ्रूयते-
निर्लेपं काञ्चनं भाण्डं अद्भिरेव विशुद्ध्यति ।
अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥
शङ्खशुक्तिमणीनां च गोमूत्रेणोदकेन वा ॥
इति मनुवचनम् ।
ऽपयसा शङ्खशुक्तीनाम्ऽ; इति पैठीनसिवचनम् ॥
दारुवदस्थिभूम्योः
अस्थि हस्तिदन्तादिसंव्यवहार्यद्रव्याणि ।
भूमिः, गृहादिः दारुवदिति प्रकृतिद्रव्येणातिदेशं ब्रुवन् एतत् ज्ञापयति-यत् विकारस्य शोचमुच्यते प्रकृतिद्रव्यस्यापि तदेव भवतीति ।
इतरथा दारववदिति वक्तव्यमासीदिति ।
अस्थिभूम्योः स्मृत्यन्तरोपदिष्टापेक्षार्थो ऽतिदेशः ।
तथा च स्मृत्यन्तरोपदिष्टापेक्षार्थो ऽतिदेशः ।
तथा च स्मृत्यन्तरम्-ऽअस्पृश्यस्पृष्टानां भूम्यस्थ्नां प्रोक्षणाच्छुद्धिःऽ; इति कण्ववचनम् ॥
आवपनं च भूमेः
भूमिग्रहणमस्थिनिवृत्त्यर्थम् ।
चकोरात् स्मृत्यन्तरोक्तान्यपि द्रष्टव्यानि ।
तथाचोक्तं वसिष्ठेन-
खननाद्दहनाद्धर्षात् गोभिराक्रमणादपि ।
चतुर्भिःशुद्ध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥
इति ।
तथा च मनुः-
सम्मार्जनेन सेकेन दाहेनोल्लेखनेन च ।
गवां च परिवासेन भूमिःशुद्ध्यति पञ्चभिः ॥
इति ।
यथालेपं विकल्पेन समुच्चयेन वा शौचं कर्तव्यम् ॥
चेलवद्रज्जुविदलचर्मणाम्
रज्जुः दर्भादिनिष्पन्नः ।
विदलः वंशमयूरपक्षादिनिष्पन्नः चर्म व्याघ्रचर्मादि तेषामस्पृश्यस्पृष्टानां चेलवत् वस्त्रवच्छौचम् ।
चर्मशब्देन प्रकृतिग्रहणेन विकारस्यापि ग्रहणम् ।
रज्ज्वादीनां प्रोक्षणस्यापि प्रवेशार्थमतिदेशः ।
अतोस्पृश्यस्पृष्टानां प्रोक्षणमपि कर्तव्यम् ।
तथा च पैठनसिः-ऽरज्जुविदलचर्मणामस्पृश्यस्पृष्टानां प्रोक्षणाच्छुद्धिःऽ; इति ॥
उत्सर्गो वात्यन्तोपहतानाम्
रज्ज्वादीनां त्यागो वा ।
व्यवस्थैतविकल्पो ऽयम् ।
अतो ऽत्यन्तोपहतानां त्यागः ।
इतरेषां शौचमिति ॥
इदानीं ऽद्रव्यहस्त उच्छिष्टो निधायाचामेत्ऽ; इत्युक्तं, तदाचमनविधित्सयाऽह-
प्राङ्मुख उदङ्मुखो वा शौचमारभेत
प्राङ्मुख उदङ्मुखो वेतीच्छातो विकल्पः ।
ननु च शौच ग्रहणमनर्थकम्, उत्तरत्राचामोदिति वक्ष्यति, तेनैवार्थसिद्धत्वादिति ।
उच्यते-अन्यदपि शौचाङ्गमेतद्दिगभिमुख एव कुर्यादिति ।
एवं च पादप्रक्षालनादिकमपि तद्दिगभिमुख एव कुर्यादिति ।
आरभेतेति समाहितार्थम्, अतो यावदाचमनपरिसमाप्तिः तावन्तं कालमनन्यचित्तो भवेत् ॥
शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्या मणिबन्धात्पाणी प्रक्षाल्य वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाप आचामेत्
शुचौ देशे स्थाने अनुपहते ।
एवं च पादप्रक्षालनमप्यर्थसिद्धं मा भूत्
अशुद्धिपादसम्बन्धाद्देशस्याप्यशुचिभाव इति ।
तथा च वखिष्ठः- ऽप्रक्षाल्य पादौ पाणो चा मणिबन्धनात्ऽ; इति ।
आसीन एव, नान्यावस्थः ।
तथाच वसिष्ठः-ऽव्रजन् तिष्ठन् शयानः प्रणतो वा नाचामेत्ऽ; इति ।
दाक्षिणं बाहुं जान्वोर्मध्ये कृत्वा ।
यज्ञोपवीतोति ।
यदि कदाचित् अयज्ञोपवीति भूत्वाप्यास्ते तथाप्याचमने अवश्यं यज्ञोपवीतिना भवितव्यमिति ।
तथा चापस्पम्बः-ऽउपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीति स्यात्ऽ; इति ।
आचमनाङ्गत्वेनान्ययज्ञोपवीतोत्पादनार्थं वा ।
तथा च वसिष्ठः-
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्दे यष्टिः सोदकश्च कमण्डलुः ॥
इति ॥
मणिर्यस्मिन्देशे बध्यते स मणिबन्धः ।
तस्मादामणिबन्धनात्पाणी प्रक्षाल्य वाग्यतस्तूर्ष्णीं हृदयस्पृशो हृदयंगमाः ।
अपांपरिमाणार्थमिदम् ।
माषनिमज्जनमात्रास्तावत्यो भवन्ति ।
तथाचाहोशना ऽमाषनिमज्जनमात्रा हृदयंगमा भवन्तिऽ; इति ।
त्रिश्चतुर्वेत्यत्र विकल्पो व्यवस्थितः- यदा ऽआपः पुनन्तुऽ; इत्यादिमन्त्रमुक्त्वाऽचम्यते तदा चतुः
अन्यत्र त्रिरिति ।
अब्ग्रहणं गोमूत्रादिनिवृत्त्यर्थं तेषां शुद्धिहेतुत्वसामान्याद्ग्रहणं मा भूदिति ।
उष्णबुद्धुदफेनकषायादिवर्जनार्थं वा ।
पिबेदिति वक्तव्ये आचामेदिति गुरुसूत्रकरणं विध्यन्तरोपसङ्ग्रहार्थम् ।
तत्र तूशनाऽह- ऽदक्षिणं हस्ततलं गोकर्णाकारं विन्यस्य ब्राह्मेण तीर्थेनाशब्दं पिबेदृग्यजुःसामवेदान् ध्यायन्ऽ; इति ॥
द्विः परिमृज्यात्
प्रकृताबोष्ठौ, अत्रानुक्तत्वात्, स्मृत्यन्तरदर्शनाच्च, ब्राह्मेणैव तीर्थेन ।
परित्युपसर्गो विध्यन्तरोपसंग्रहार्थः ।
तत्र तूक्तं कण्वेन-ऽअथर्ववेदेतिहासपुराणानि ध्यायन् ब्राह्मेण तीर्थेनोष्ठयोः सलोमप्रदेशं मृज्यात्ऽ; इति ॥
पादौ चाभ्युक्षेत्
चकारात् मुखं च ।
अभ्युपसर्गो विध्यन्तरोपसंग्रहार्थः ।
तत्राह भार्गवः-ऽओष्ठौ परिमृज्यात्ततो मुखं
परिमृजेदग्नान्ध्यायं स्ततः पादावभ्युक्षेत् विष्णुं ध्यान्ऽइति ॥
खानि चोपस्पृशेच्छीर्षण्यानि
खानि शीर्षण्यानि नयननासिकाकर्णानि ।
चकाराद्धृदयं च ।
तथाच मनुः-
त्रिराचामेदपः पूर्वं द्विरुन्मृज्यात्ततो मुखम् ।
खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरः ॥
इति ॥
उपोपसर्गो विध्यन्तरोपसंग्रहार्थः तन्नोशना ऽअङ्गुष्ठोपकनिष्टिकाभ्यां नयने चन्द्रादित्यौ ध्यात्वा तत उपस्पृश्य तर्जन्यङ्गुष्ठाभ्यां नासिकावकाशौ प्राणान् ध्यात्वा तत उपस्पृश्य कनिष्ठिकाङ्गुष्ठाभ्यां कर्णौ दिशो ध्यात्वा तत उपस्पृश्याङ्गुष्ठेन केवलेन हृदयमुपस्पृशेदात्मानं ध्यायन्ऽ; इति ॥
मूर्धनि च दद्यात्
मूर्धनि चेत् वक्तव्ये दद्यादिति ग्रहणं सर्वाङ्गुल्यर्थम् ।
तथाच स्मृत्यन्तरं ऽसर्वाङ्गुलिभिः श्रियं ध्यात्वा मूर्धनि प्रक्षिपेत्ऽ; इति ।
चकारात्सव्ये च पाणौ ।
तथा च वसिष्ठः-ऽमूर्धनि च दद्यात्सव्ये पाणौऽ; इति ।
क्षत्रियवैश्ययोरप्येतदेवाचमनं विशेषानभिधानात् स्त्रीशूद्रौ च सकृत्सकृत्ऽ; इति स्मृत्यन्तराभिधानात् स्त्रीशूद्रयोश्च सकृत्पानात् सकृदोष्ठस्पर्शनाच्च शुद्धिर्द्रष्टव्या अत्रानुक्तापि ॥
न केवलमुच्छिष्टस्पर्श एवाचमनं, अन्यदप्याचमननिमित्तमिदानीमाह-
सुप्त्वा भुक्त्वा क्षुत्वा च पुनः
पुनर्ग्रहणं आदावन्ते चाचमनं कुर्यादित्येवमर्थम् ।
चकारात् स्नात्वा रुदित्वा च ।
तथा च वसिष्ठः- ऽसुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत्ऽ; इति ॥
तत्र क्षुतस्यानियतकालत्वात् आदावशक्यमाचमनमिति चेत् तत्रापि नित्यप्रायत्यार्थ आरम्भः ।
यथाऽहापस्तम्बः-ऽमुहूर्तमपि शक्तिविषये नाप्रयतस्तिष्ठेत्ऽ; इति ।
स्वापादौ प्रयतस्याप्याचमनमारम्भसार्मथ्यात् ।
अतस्तत्रादावन्ते चाचमनं कुर्यात् तत्र भोजने केचिदादावपि द्विराचमनमिच्छन्ति ।
तथाचापस्तम्बः ऽभोक्ष्यमाणस्तु प्रयतो द्विराचामेत्ऽ; इति ।
अन्ये स्वापादावन्त एव द्विराचमनमिच्छन्ति यथाऽहोशना-
ऽसुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेद्द्विऽ; इति ।
एवं च भोजने आदावन्ते च्च द्विराचमनं स्वापादावेकमन्ते च द्विः ।
क्षुतस्यानियतत्वादन्त एव द्विरिति सिद्धान्तः ॥
इदानीनुच्छिष्टसंश्लेषे अशुचित्वे प्राप्ते आह-
दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् ॥
दशनान्तरलग्नेषु भक्ष्यभोज्यावयवेषु दन्तवत् अनुच्छिष्टो भवतीत्यर्थः ।
न चेज्जिह्वया संस्पृश्यन्ते ॥
अत्रापि-
प्राक्च्युतेरित्येके
सत्यपि जिह्वाभिमर्शने यावत् स्वस्थानान्न च्यवन्ति तावच्छुचिरित्येके मन्यन्ते ॥
च्युतेष्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः
च्युतेषु आस्ये यज्जलं तदास्रावे यद्वद्विजातीयात् तन्निगिरन् शुचचिरेव भवति ।
आचमनशङ्का
नास्तीत्यर्थः ।
एवं चास्रावमपि निगिरन् शुचिरेव भवति ।
कुतः च्युतेषु निगिरन् शुचिरिति वक्तव्ये आस्राववद्विद्यादित्यारम्भात् ।
गौतमस्तु दन्तश्लिष्टानां सति जिह्वाभिमर्शने अशुचिर्भवतीति ।
अन्यमतं तु प्राक्च्युतेरिति ।
सो ऽयं व्यवस्थितविकल्पः, कर्मानुष्ठानाधिकृतस्याचमननमन्यस्य नेति ॥
यथोच्छिष्टावयवो बहिर्भूतः अशुचित्वमापादयति तद्वदास्रावस्यापि प्राप्त आह-
न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति
मुखे भवा मुख्याः विप्रुष आस्राबावयवाः ते मन्त्रयमाणस्य विनिर्गता नाप्रायत्यं जनयन्ति यद्यङ्गे स्तनोदरादौ न निपतन्ति ।
निशब्दो निश्चयार्थः अतो निश्चयेन यद्यङ्गे पतन्ति तदानीमेवोच्छिष्टं जनयन्ति नाशङ्कामात्रेणेति ।
एवं चोच्छिष्टावयवो यत्रकुत्रचिन्निपतन्नुच्छिष्टं जनयति, आस्रावो ऽङ्ग एवेति सिद्धान्तः ॥
सर्वशौचार्थमिदमधुनोच्यते-
लेपगन्धापकर्षणे शौचममेध्यलिप्तस्य
लेपगन्धयोरपनयने कृते अमेध्यलिप्तस्य अमेध्यसम्बद्धस्य शुचित्वं भवति ।
अमेध्यशब्देन द्वादशमला उच्यन्ते ॥
यथाऽह मनुः-
वसा शुक्लमसृङ्मज्जा मूत्रविड्घ्राणकर्णविट् ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥
अनभिव्यक्तगन्धानां श्लेष्मादीनां लेपमात्रदर्शनात् लेपग्रहणम् ।
मूत्रादीनां लेपानुपलब्धेर्गन्धमात्रोपलब्धेश्च गन्धग्रहणम् ।
शौचाधिकारे पुनः शौचग्रहणं तैजसादीनामपि लेपगन्धापनयनयादेव शौचमित्येवमर्थम् ॥
तत् केन कर्तव्यमित्यत आह-
तदद्भिः पूर्वं मृता च
तच्छौचमद्भिः पूर्वं ततो मृदा ।
चकारात्तत उभयेन ।
तद्ग्रहणं अन्नलेपस्यापि चूर्णादिना अपकर्षणार्थम् ।
तदद्भिर्मृदा चेति वक्तव्ये पूर्वग्रहणं यत्र नातीव लेपो लक्ष्यते तत्राद्भिरेव शसौचमित्येवमर्थं, यथाऽह मनुः-
निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति ।
अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥
इति ॥
अथवा यत्र यत्र शौचमुक्तं तत्र तत्राद्भिरेव शौचं प्रथमं कार्यमित्येवमर्थम् ।
यथा मृदा अद्भिरिति समुच्चीयते तथा भस्मादिभिरपि समुच्चयार्थो विसमासः ।
तैसजादीनां द्रव्याणामुक्तत्वात् इदं शौचं शरीरावयवस्यामेध्यलिप्तस्य द्रष्टव्यम् ॥
मूत्रपुरीषस्रेहुविस्रंसनाभ्यवहारसंयोगेषु च
चकारः आचमनानुकर्षणार्थः ।
विस्रंसनं निरसनं, तत् मूत्रपूरीषस्रेहूणां प्रत्येकं सम्बध्यते ।
अभ्यवहारसंयोगो ऽभ्यवहार्यद्रव्योपयोगः ।
तस्यानमेध्यत्वात् लेपगन्धापकर्षणार्थमभिधानं, आचमनस्य ऽसुप्त्वा भुक्त्वाऽ; इत्यनेन सिद्धत्वात् लेपगन्धापकर्षणं च मृत्सलिलप्रक्षालनेन कुर्यात् ।
एवं च ऽतदद्भिः पूर्वम्ऽ; इत्यत्र यदुक्तं चूर्णादिना अन्नलेपापकर्षणं तेनाशक्यमिदं द्रष्टव्यम् ।
अथवा-अभ्यवहारसंयोगस्यापि आचमनार्थ एवोपन्यासः ।
ऽसुप्त्वा भुक्त्वाऽ; इत्यनेनैव सिद्धमनूद्यते क्रमार्थम्, कथं-तद्ग्रहणेनान्नलेपापकर्षणमुक्तं तदपकर्षणं पूर्वं कृत्वा ततआचामेदित्येवमर्थं अन्यथा सन्देहः स्यादिति ।
तथा चापस्तम्बः ऽमूत्रं कृत्वा पूरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान्
रेतसश्च ये लेपास्तान् प्रक्षाल्य पादौ चाचम्य प्रयतो भवतिऽ; इति ।
मूत्रपुरीषौ प्रसिद्धौ ।
स्रेहू रेतः ।
मूत्रादीनामाचमनार्थमुपन्यासः लेपगन्धापकर्षस्य ऽलेपगन्धापकर्षणे शौचम्ऽ; इत्यनेनैव सिद्धत्वात् ॥
यत्र चाम्नायो विदध्यात्
तत्र तदेव भवतीति शेषः ।
आम्नायो वेदः, स यत्र यज्ञविषये स्फ्यादीनां प्रक्षालनमात्रादेव शुद्धिं विदध्यात् तत्र तदेव, न दारुसामान्येन तक्षणादि ।
अतुल्यबलत्वादेवेदं सिद्धमिति चेत् श्रुत्युक्तस्य लौकिके अननुप्रवेशनार्थ उपन्यासः, यथार् दव्या यागविषये श्रुत्या प्रक्षालनेन शुद्धिरुक्ता, तस्या लौकिके व्यापृताया अपि
दर्वीसामान्येन श्रुत्युक्ता मा भूत् स्मृत्युक्तामेव कुर्यादित्येवमर्थमुपन्यासः ।
अथवा-आम्नायशब्देन मनुरुच्यते ।
स यत्र शौचं विदध्यात् तत्र तदेव, यथा ऽयतीनां तु चतुर्गुणम्ऽ; इत्यादि ।
तदुक्तत्वादेवासन्देह इति चेत् उच्यते- यस्मिन्विषये न किंचिदुच्यते तत्र स्मृत्यन्तरोक्तं भवति ।
यत्र लेपगन्धापकर्षणादि किंचिदुच्यते तत्र स्मृत्यन्तरेण विकल्पशङ्का भवतीति तन्निरासार्थमुक्तं ऽयत्र चाम्नायो विदध्यात्ऽ; इति ।
एवं च लेपगन्धापकर्षणे कृते ऽपि ऽद्विगुणं ब्रह्मचारिणःऽ; इत्येवमाद्याश्रयणीयम् ॥
इदानीं कृतशौचस्य ब्रह्मचारिणो ऽध्ययनार्थं गुरूपसदनविधिमाह-
पाणिना सव्यमुपसङ्गृह्यानङ्गुष्ठमधीहि भो इत्यामन्त्रयेत गुरुम्
पाणिना दक्षिणेन सव्यं पाणिमनङ्गुष्ठवर्जितं गृहीत्वा अधीहि भो इति प्रार्थयेत गुरुमध्यापकम् ।
पाणिग्रहणं पादनिवृत्त्यर्थम् ।
पाणिप्रकरणातसव्यमपि पाणिमेवेति गम्यते ।
उपसङ्ग्रहणं अङ्गुलिप्रदेशे इति
गम्यते अनङ्गुष्ठमित्युक्तत्वात् ॥
किञ्च-
तत्र चक्षुर्मनाः
तत्र गुरौ चक्षुर्मनसी व्यवस्थापयेदित्यर्थः ॥
किञ्च-
प्राणोपस्पर्शनं दर्भैः
कार्यमिति शेषः ।
साक्षात्प्राणानामुपस्पर्शनासम्भवात् प्राण इति चक्षुरादीन्द्रियाणि शीर्षण्यान्युच्यन्ते ।
तान्युपस्पर्शयेद्दर्भैराचमनोक्तेन क्रमेण ॥
किञ्च-
प्राणायामास्त्रयः पञ्चदशमात्राः
कार्या इति शेषः ।
प्राणायामः प्राणनिरोधः निरुच्छ्वासेनावस्थानं, ते त्रयः कार्याः ।
प्रत्येकं पञ्चदशमात्राः ।
मात्रा नाम मध्यमाङ्गुष्ठशब्देन लोके प्रसिद्धा ॥
किञ्च-
प्राक्कूलेष्वासनं च
प्रागग्रेषु, प्रकरणाद्दर्भेषु, आसनमुपवेशनं, कार्यमिति शेषः ।
चकारात् दर्भपवित्रप्राणिश्च ॥
किञ्च-
ओंपूर्वा व्याहृतयः पञ्च सत्यान्ताः
उदाहर्तव्या इति शेषः ।
प्रत्येकं प्रणवपूर्वा भूराद्यास्तिस्रः पुरुषमध्याः सत्यान्ताः ।
एवं जाबालिश्रुतौ प्रसिद्धः ॥
किञ्च-
गुरोः पादोपसङ्ग्रहणं प्रातः
कार्यमिति शेषः ।
उपसङ्ग्रहणमिति वक्तव्ये पादग्रहणं स्मृत्यन्तरोपदिष्टविध्युपसङ्ग्रहणार्थम् ।
यथाऽह मनुः-
व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्पृष्टव्यो दक्षिणेन तु दक्षिणः ॥
इति ॥
प्रातरुत्थायोत्थाय प्रतिदिनम् ।
गुरुग्रहणं आत्मनो मा भूदिति ।
तटः पूर्वं प्राणोपस्पर्शनमात्मनः ॥
किञ्च-
ब्रह्मानुवचने चाद्यन्तयोः
वेदपाठस्याद्यन्तयोः आरम्भावसानयोः ।
चकारः पादोपसङ्ग्रहणानुकर्षणार्थः ॥
किञ्च-
अनुज्ञात उपविशेत्प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा
आचार्येणादिष्टः तस्य दक्षिणस्यां दिशि प्राङ्मुख उदङ्मुखो वोपविशेत् संभवतो विकल्पः आसीनस्याचार्यस्य यथा तदभिमुखो भवति तथा प्राङ्मुख उदङ्मुखो वा उपविशेदित्यर्थः ।
कथं ? ऽतत्र चतुर्मनाः ऽ; इत्युक्तत्वात् ।
शिष्यग्रहणमन्यस्याप्युपसन्नस्यायमेव विधिरिति ज्ञापनार्थम् ।
ऽअनुज्ञातो दक्षिणतःऽ; इति च नियमार्थः नाननुज्ञात उपविशेन्नादक्षिणत इति ॥
किञ्च-
सावित्री चानुवचनमादितो ब्रह्मण आदाने
सावित्री तत्सवितुरित्यादि ।
चकारादोङ्कारपूर्वा व्याहृतयश्च ।
तथाच मनुः-
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव गायत्री विज्ञेया ब्रह्मणो मुखम् ॥
इति ॥
अनुवचनमध्येतव्यम् ।
ब्रह्मणो वेदस्यादाने आरम्भे अध्ययनारम्भकाल इत्यर्थः ।
आदितः पूर्वम् ॥
किंच-
ओङ्कारो ऽन्यत्रापि
अनुवचनानन्तरं ओङ्कारश्चोदाहर्तव्यः अन्यत्रापि ।
अत्र क्रमः प्रातरुत्थाय पादौपसङ्ग्रहणं, तदाहूय उपविशेत् दर्भेषु, ततः प्राणोपस्पर्शनं दर्भैः, ततः प्राणायामान्कृत्वा महाव्याहृतीः पञ्च उक्त्वा, अञ्जलिना ऽअधीहि भोःऽ; इति गुरुमामन्त्र्य, ओङ्कारपूर्विका व्याहृतीः सावित्रीं चोक्त्वा प्रणवपूर्वमधीयीत ।
प्रथमाध्ययन एवायं विधिः कुतः ? सावित्री चानुवचनं ततो ऽधीयीतेति वक्तव्ये आदितो ब्रह्मण आदान इत्यारम्भात् ।
प्रतिदिवसमोङ्कारमेवोक्त्वा ।
कुतः ? ओङ्कारो ऽन्यत्रेत्युक्तत्वात् ।
अन्यत्र प्रथमाध्ययनादन्यत्र ।
अपिशब्दः प्रथमाध्ययने ऽपि प्रणवप्रवेशनार्थः ।
केचिदन्यत्रापीत्यनेनाङ्गादौ प्रणवमिच्छन्ति ॥
अन्तरागमने पुनरुपसदनम्
यद्यधीयतामन्तरा मध्ये कश्चिद्गच्छेत्ततः पुनरपि पादोपसङ्ग्रहणादिप्रणवोच्चारणान्तो यो विधिस्तं कुर्यात्तस्य प्रायश्चित्तार्थम् ।
अप्रकरणे ऽपि प्रायश्चित्तमानन्तर्येणानुष्ठानार्थम् ।
मानुषाणां गमन एतत्, इतरेषामूर्ध्वमभिधानात् ।
अत्रानध्यायश्रवणाभावात् प्रायश्चत्तानन्तरमधीयीत ।
प्रथमाध्ययनापे7या पुनर्ग्रहणम्, अन्यत्रोपसदनाभावात् ।
अतो ऽन्यत्र प्रायश्चित्तार्थमेवोपसदनं कर्तव्यं तदनन्तरमध्ययनं कर्तव्यम् ।
तथाऽहापस्तम्बः- ऽअधीहि भो इत्युक्त्वाधीयीताध्यापयेद्वाऽ; इति ॥
किञ्च-
श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहमुपवासो विप्रवासश्च
एते प्रसिद्धाः ।
श्वादीनां प्रत्येकमन्तरा मनगे त्र्यहं भक्तत्यागः प्रायश्चित्तं, विप्रवासो गुरुणा विरहितस्यावस्थानमेकाहम् ।
एवं च गुरुविप्रयोगोपदेशादेव एकाहमनध्यायसिद्धिः ।
कुत एकाहोपलब्धिरिति चेत्, विसमासात् ।
अन्यथा त्र्यहमुपवासविप्रवासौ चेत्यवक्ष्यत् ।
अत एकाहमेवानध्यायः ।
तथा च मनुः-
पशुमण्डूकमार्जारश्वसर्पनकुलेषु च ।
अन्तरा गमने विद्यादनध्यायमहर्निशम् ॥
इति ॥
एवं चात्रापि श्वग्रहणं चतुष्पदां पशूनामुपलक्षणम् ।
चतुष्पाद्ग्रहणेन गृह्यमाणत्वात् मार्जारस्य पुनरुपन्यासः प्रायश्चित्तगौरवार्थः ।
यथाऽहोशना- ऽमार्जारान्तरागमने धृतं प्राश्यत्र्यहमुपवसेत्ऽ; इति ।
उपसदनानुकर्षणार्थश्चकारः ।
अतो ऽध्ययनकाले तत्कृत्वाधीयीत ।
केचिदुपवासमध्ययनत्यागमाहुः ।
तद्युक्तमयुक्तं वेति विचार्यम् ॥
किञ्च-
प्राणायामा घृतप्राशनं चेतरेषाम्
इतरेषां काकादीनां प्राणायामास्त्रयः, बहुवचनश्रवणात् ।
घृतप्राशनं कायाप्लवनमात्रम् ।
उपसदनानुकर्षेणार्थः चकारः ।
ततस्त्रीन्प्राणायामान् धारयित्वा घृतं प्राश्योपसदनं च कृत्वाधीयीत, अनध्यायाश्रवणात् ॥
श्मशानाभ्यध्ययने चैवं श्मशानाभ्यध्ययने चैवम्
मूल पाठ: Dharmasūtra, 1-3 with Maskari's commentary Gautamasmṛtibhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0