Dharmasamuccaya · अध्याय 9
॥ इति तृष्णावर्गो ऽष्टमः ॥
(9) स्त्रीजुगुप्सावर्गः
स्त्रिय एवानर्थमूलम्
स्त्रियो मूलं (हि) पापस्य धननाशस्य सर्वथा ।
स्वहिते ये न निरताः कुतस्तेषां भवेत् सुखम्
अनर्थकर्मरतयः शाठ्येर्ष्याबहुलास्त्रियः ।
लोकद्वयविनाशाय पुरुषाणामवस्थिताः
नित्यं सरागकुशला नित्यं तद्वचनाः पराः ।
अन्यच्च हृदये तासां कथयन्त्यन्यदेव वा
आपातमधुराः सूक्ष्माः विपाके वज्रचेतसः ।
नोपकारेण सत्कारं स्मरन्ति लघुचेतसः
स्त्रियो विद्युत्स्वभावहृदया अतिचञ्चलाः
नाशयित्वा प्रियशतं स्मरन्त्येकं हि विप्रियम् ।
विद्युत्स्वभावहृदयाः स्त्रियः पापस्य भूमयः
स्त्रीणां नाशसाधकत्वप्रदर्शनम्
स्त्रीहेतुनाशमिच्छन्ति पुरुषा वक्रचेतसः ।
स्त्रीविनाशो विनाशो द्रागिह लोके परत्र च
स्त्रीदर्शनमेवाग्निवद्दहति
एवं तु सर्वविषयाः स्त्रीदर्शनमिहैकजम् ।
अभिभूय सर्वविषयान् नार्यग्निज्वलनं महत्
स्त्रीदोषप्रदर्शनपूर्वकं नारीजुगुप्सासमीक्षणम्
संश्लेषादपि विश्लेषः स्मरणात् कथनादपि ।
स्त्रीणां दाहसमुत्थो ऽयं वह्निरन्तर्जहासकः
रागेण सह जायन्ते नित्यं वै दारुणाः स्त्रियः ।
दानेन सह जायन्ते यथा लोके हुताशनाः
न भवेत् तादृशो दाहो यो ऽयं वह्निसमुद्भवः ।
यादृशः स्त्रीमदो ह्यस्ति देहिनां हृदयोद्भवः
सर्वलोकविनाशाय सर्वधर्मक्षयाय च ।
हेतवो नरकस्यैताः स्त्रियः प्रोक्ता महर्षिभिः
मुखतो मधुरामर्षा हृदयेन विषोपमाः ।
अनवस्थितसौहार्दा नासां कश्चित् प्रियो नरः
मुहूर्तेन प्रियस्तासां मुहूर्तेन तथाप्रियः ।
अनवस्थितसौहार्दाश्चञ्चला क्षणिकोपमाः
वञ्चनाहेतुकुशला नित्यं कार्यपरायणाः ।
नित्यं संयोगमनसो नित्यं मानपरायणाः
देवानां च मनुष्याणां पिशाचोरगराक्षसाः ।
न बन्धभूता यादृश्यः स्त्रियः कालविषोपमाः
नोपकारं स्मरन्त्येता न कुशलं नापि विक्रमम् ।
अनवस्थितचित्ताश्च वायुवेगसमाः स्त्रियः
भवन्ति सम्पदो यत्र रक्ष्यन्ते यत्र योषितः ।
व्यसनेषु विरक्तास्तु त्यजन्ति पुरुषं ध्रुवम्
यं यं गच्छन्ति पुरुषं रक्ष्यन्ते तत्र योषितः ।
शीघ्रं शीघ्रं नरं ह्येतास्त्यजन्ति पुरुषं स्थितम्
यथा हि भ्रमरी पुष्पं शुष्कं त्यजति सर्वदा ।
तथा वित्तेन रहितं पुरुषं त्यजति प्रिया
निस्त्रिंशहृदयाः क्रूराश्चञ्चलास्तमसावृताः ।
स्त्रियः पुरुषनाशाय जाताः केनापि हेतुना
देवानां बन्धनं नाम यथा स्त्रीबन्धनं मतम् ।
स्त्रीबन्धननिबद्धास्तु पतन्ति नरकं पुनः
एतदग्रं हि रागाणां यो रागः स्त्रीसमुद्भवः ।
स्त्रीरागदग्धमनसं पश्चाद् दहति पावकः
प्रत्यक्षाण्यपि कर्माणि रागैश्चापहतः पुमान् ।
न वेत्ति मूढहृदयः स्त्रीरागेण विमोहितः
विश्वास्य विषये पुरुषं बद् ध्वा प्रियमनेकशः ।
त्यजन्ति वित्तनाशेन त्वचं यद्वद्भुजङ्गमाः
सर्वोपायभृता नार्यः सर्वशः परिपालिताः ।
न शक्याः स्ववशीकर्त्तुं स्त्रियः परमदारुणाः
आसां सर्वस्वभावानां नारीणां चलचेतसाम् ।
न यायाज्जातु विश्वासं पुमान् धीरेण चेतसा
स्त्रीविधेयास्तु ये मर्त्या नित्यं कामगवेषिणः ।
पश्चिमदर्शनं तेषां सुरलोके भविष्यति
पञ्चाङ्गिकेन तूर्येण विप्रलुब्धाः समन्ततः ।
विन्दन्ति व्यसने दुःखं यदवश्यं भविष्यति
इमास्ताश्चञ्चला नार्यो यासां रागः कृतस्त्वया ।
ता भवन्तं परित्यज्य पुनरन्यं ततो गताः
द्विधा हि प्रकृतिर्यासां (योषितां) सहचारिणी ।
भूयो ऽभियन्ति पुरुषं व्यसनेषु त्यजन्ति च
मृगवन्मोहयन्त्येताः पुरुषं रागमोहितम् ।
पश्चात् (तु) व्यसने प्राप्ते त्यजन्ति लघुचेतसः
नोपकारं न सत्कारं न प्रियाणि न सन्ततिम् ।
स्मरन्ति योषितस्तीव्रा व्यसने समुपस्थिते
म्लानं पुष्पं यथा त्यक्त्वा भ्रमरो ऽन्यत्र धावति ।
तथा हि व्यसने प्राप्ते त्यजन्ति खलु योषितः
अनपेक्षितसौहार्दाश्चञ्चलाश्च रणप्रियाः ।
भवन्ति योषितः सर्वा विषमिश्रं यथा मधु
मोहयन्ति नरान् कामैर्वाक्यैश्चापि विशेषतः ।
न तेषां विश्वसेद्धीमान् पुरुषो धीरमानसः
आभिर्विमोहिताः किं वा रंजिताः पुरुषाः स्वतः ।
न कुर्वन्ति हितं वाक्यं यथा मुष्णिकगामिकम्
देवासुरनरान् यक्षान् पिशाचोरगराक्षसान् ।
इन्द्रजालमया नार्यो वञ्चयन्ति विशेषतः
एतदग्रञ्च पाशानां यदिदं स्त्रीमयं दृढम् ।
अनेन बद्धाः पुरुषा भ्रमन्ति भवचारके
न कश्चित् पाशपाशो ऽयं हृत्पाशो योषितः परम् ।
हृत्पाशबन्धनैर्बद्धाः पुरुषा दुःखमोहिताः
दहयते छिद्यते पाशस्स्त्रीमयस्तु न दहयते ।
नरकप्रेततिर्यक्षु गच्छन्तमनुगच्छति
मूर्तिमान् बध्यते कायः पाशेन महता तथा ।
अमूर्तिगं चित्तमिदं स्त्रीपाशेन तु बध्यते
(न) दृश्यते पाशमन्यं येन बध्नन्ति योषितः ।
अभिज्ञेयमप्रमाणं स्त्रीमयं बन्धनं महत्
अनेनापातरम्येण (दुःख) मोक्षेण सर्वदा ।
पाशेन बद्धाः पुरुषा न मुच्यन्ते भवार्णवात्
षडिन्द्रियाणि बध्नाति पाशो यः स्त्रीमयो महान् ।
पाशस्तु कायमेवैकं कश्चित् बध्नाति वा न वा
बन्धनं न दृढं हीदं मोक्षवार्य षडायसम् ।
संरक्तचित्तभोगे हि मन्दबुद्धेर्नरस्य च
स्नायुयन्त्रेण बद्धासु विस्तृतकर्मभूमिषु ।
तीक्ष्णरक्तासिना युक्तो मरणार्थमिहागतः
स्त्रीणां दौर्गुण्यम्
वञ्चनाच्छलकूटासु रभसा नु विशेषतः ।
चञ्चलो भ्रान्तचित्तासु भ्रान्तस्त्वङ्गक्षणारिषु
विभ्रान्तो भ्रान्तकथितैर्भूषणानां तथा स्वनैः ।
हरन्ति पुरुषं क्षिप्रं वञ्चनाकुशलाः स्त्रियः
नानाविधेषु पुष्पेषु यथा चरति षट् पदः ।
नानाविधेषु मर्त्येषु तथेमाश्चञ्चलाः स्त्रियः
यथा मधुरिका पीत्वा पुष्पमन्यत्र गच्छति ।
तथा पुरुषमापीयः प्रयान्ति रभसं स्त्रियः
अर्थादानेषु कुशलाः क्रुद्धा नित्यं दुरासदाः ।
वञ्चयित्वा नरं शीघ्रमन्यत्र संप्रयान्ति ताः
साध्यमायाप्रहरणाः कालकूटविषोपमाः ।
स्त्रियः पुरुषघातिन्यश्चातुर्येषु व्यवस्थिताः
वाय्वाकाशानला यद्वन् न शक्ता ग्रथितुं नरैः ।
तथोपायशतैर्नार्यो (न) शक्ता रक्षितुं नरैः
अनर्थव्याधिमृत्यूनां दुष्कृतानाञ्च कर्मणाम् ।
हेतुभूताः परं नार्यो मोक्षचर्याबधस्य च
यदनेकप्रकारेषु शठेषु पापकर्मसु ।
(पतन्ति) मनुजा लोके तत्र हेतुः परस्त्रियः
न बालयौवनेनैव वार्धक्येनैव शाम्यति ।
चापल्यं सहजं स्त्रीणां भास्करस्य यथा प्रभा
अनित्यं सौहृदं तासां दीप्तानामर्चिषां कणैः ।
वैरञ्च शाश्वतं तासामश्मनां च यथा व्रणैः
धनहीने विरज्यन्ते धनयुक्ता भवन्ति च ।
यावदर्थ स्त्रियस्तावदर्थहीने कुतः स्त्रियः?
न सेवाभिश्चदानेन नोपकारैः पृथग्विधैः ।
स्वीकर्त्तुं न स्त्रियः शक्याः ज्वलनोपमचेतसः
यथा नरो ऽनुकूलश्च छन्दकर्त्ता यथा यथा ।
तथा तथा स्त्रियस्तस्य वञ्चनाकुशलाः परम्
पुष्पच्छत्रो यथा सर्पो भस्मच्छत्रो यथा नलः ।
रूपच्छन्नं तथा चित्तमासां भवति योषिताम्
विषवृक्षे यथा पुष्पं दृष्टिरम्यं न शान्तये ।
विषवृक्ष (समा) नार्यः परिवर्ज्याः समन्ततः
नारीणां दर्शनाकांक्षी विषयेसु च तत्परः ।
नरो न सुखभोगाय (हय) स्मिल्लोके न चापरे
नाग्निना न च शस्त्रेण न बलेन न जन्तुभिः ।
स्त्रीमयं बन्धनं हेतुः शक्यते न दुरासदम्
दोषजालमिदं (सूत्रं)स्त्रीमयं चरते भुवि ।
यस्त्रीविवर्जितो धीमान् अस्मिल्लोके महीयते
यथा भूतैर्मनुष्याणां स्वकर्मोत्थापने न च ।
तथा स्त्रियो हि रक्षन्ति विषमार्थ त्यजन्ति च
गतार्थविभवं भूयो वर्जितं स्वेन कर्मणा ।
देवं समीक्ष्य चपलाः स्त्रियो नैव प्रभाविकाः
स्त्रीसुखं क्षणभङ्गुरम्
क्षणभङ्गमिदं सौख्यमधिगतमवस्थितम् ।
चत्वार्येतानि दुःखानि सेवितानि नृभिः सदा
स्त्री विषाग्निसदृशा
तस्मात् तानि विवर्ज्यानि विषाग्निसदृशानि हि ।
यः कश्चिच्चपलो जन्तुर्यश्च दोषोद्भवः सदा
तस्मात् परिसमाविष्टाः स्त्रियः कारणवत्सलाः ।
न सूर्यस्तमसो हेतुर्नाग्निः शीतस्य कारणम्
न स्त्रीणां सौहृदं चित्ते स्वल्पमप्यवतिष्ठते ।
यथा स्थिरा भूमिरियं यथा वायुः सदा चलः
स्त्रियः दोषमेव स्मरन्ति
तथा स्त्रीणां कृतं नास्ति दोषमय्यः सदा स्मृताः ।
चिरप्रयत्नाः पुरुषैः लोभिता बहुशः स्त्रियः
त्यजन्ति व्यसने प्राप्ते शुष्कं सर इवाशुगाः ।
नोर्ध्वगाः सरितो दृष्टा नाश्मनो गतिरिष्यते
गिरीणां गमनं नास्ति स्त्रीणां नैवास्ति सौहृदम् ।
वपुकर्ति सदा नृणां धर्मार्थयशसां तथा
योनिश्चानर्थजालस्य दोषाणामुद्भवस्य च ।
भवेद् वज्रमयी मृद्वी त्यजेद् (रात्रौ यथा) रविम्
न स्त्री त्यजेदसाध्यानि जन्मापेक्षा विशेषतः ।
नोपचारक्रिया दानप्रियवाक्यापलापनैः
स्वीकर्तुं न स्त्रियः शक्या ज्वलनोपमचेतसः ।
सुखेषु समतां यान्ति व्यसनेषु त्यजन्ति च
उपकारांश्च विस्मृत्य दोषमेकं स्मरन्ति ताः ।
वनोपवनशैलेषु भुक्त्वा सुखमनेकशः
स्त्री लोकस्य बन्धनम्
संप्राप्ते व्यसने तीव्रे स्त्रिय परिभवन्ति हि ।
लोकस्य बन्धनं नार्यो वञ्चनाकृतिवर्धिकाः
अधमाः विनिपातानां दोषाणां चास्पदं (बहु) ।
सर्वलोकविनाशाय वशीकुर्वन्ति तृष्णया
यथा स्त्रीबन्धनमिदं दुर्विषह्यं कृतं महत् ।
यदिदं बन्धनं लोके कामरागमयं महत्
स्त्रीवर्जनमेव श्रेयष्करम्
तथा चान्यप्रयत्नेन विचार्य उपलभ्यते ।
वशीकुर्वन्ति ता (नार्यः) कामवाणैरनेकशः
स्वल्पैः पराजितं कृत्वा कामस्य वशगाः स्त्रियः ।
रागेर्ष्याशाठ्यभूमीनां विद्युच्चञ्चलचेतसाम्
लोभाहङ्कारयोनीनां न विश्वास्याः कथञ्चन ।
शस्त्राग्निसदृशास्तीक्ष्णाः कामपाशपरात्मनः
स्वभ्रप्रपातविषमं गंभीरसमचेतसाम् ।
पराभिद्रोहमायेन्द्रजालतद्गतमानसान्
अकालमृत्युवज्राग्निकालकूटसमात्मनाम् ।
अनेकदोषसम्भारनन्दितानामनेकशः
यदि शीललवः कश्चित् स्त्रीणां मनसि वर्तते ।
चिरेण दहते वह्निः स स्पृष्टाः पवनेरितः
स्त्रीदर्शनसमुच्छ्रेयमात्रं दहति पावकः ।
तस्मात् स्त्रियो विवर्ज्याः स्युः यदिच्छेत् सुखमुत्तमम्
एतत् सर्व परं लोके नारीणां वर्जनं सदा ।
यदृच्छाजालिनीहेतुं यः इच्छेद् भूतिमात्मनः
य इच्छति निवृत्तिं तु स नरः स्त्रीं विवर्जयेत् ।
सुखासक्तस्तथार्थो (च) कुसीदश्चञ्चलः शठः
पापसेवी सुमृष्टाशी नरो भद्रं न पश्यति ।
उद्युक्तो वीर्यवान् धीरो धार्मिकः स्त्रीं विवर्जयेत् ।
दक्षो हेतुफलश्रद्धो नरः कल्याणवान् भवेत्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0