Dharmasamuccaya · अध्याय 8
इति कामजुगुप्सावर्गः सप्तमः ।
(8) तृष्णावर्गः
तृष्णाग्निरेव नरकभूतः
भवोताराय तृष्णाग्निर्ज्वलनः शीत उच्यते ।
नरके नारके यो ऽग्निस्तृष्णाग्निस्त्रिषु धातुषु
कल्पभूतो ह्ययं वह्निः यो ऽयं नरकसम्भवः ।
बहुज्वालाकुलो वह्निः तृष्णाहेतुसमुद्भवः
कर्मक्षयाद् विमुच्यन्ते नरकात् पापकारिणः ।
त्रिषु धातुषु दह्यन्ते नरास्तृष्णावशानुगाः
अनादिमति संसारे तृष्णाग्निरतिबन्धकः ।
तृष्णाग्निर्नरकं तस्मान्नाग्निर्नरकसम्भवः
तृष्णाग्निः शरीरं मनश्च दहति
गात्रदाहं परं कुर्यान्नारकेयो हुताशनः ।
शारीरं मानसं दाहं तृष्णाग्निः कुरुते नृणाम्
तृष्णाग्निः सामान्याग्निना विशिष्यते
तस्माद् विशिष्यते वह्निः तृष्णाहेतुसमुद्भवः ।
नारकेयो ऽसमश्चैव तृष्णाग्निर्नितरां स्मृतः
अयमग्निः त्रिकालसम्भवः
त्रिस्थानगः त्रिहेतुश्च त्रिकर्मपरिदीपकः ।
त्रिकालसम्भवो ज्ञेयस्तृष्णाग्निपरकस्तथा
तृष्णाग्निः सदैव सर्वत्र दाहकः
रागाग्निर्दह्यते स्वर्गे द्वेषाग्निस्तिर्यगे तथा ।
मोहाग्निर्दह्यते पापे तृष्णाग्निः सर्वदा स्थितः
तृष्णाग्नेः स्वरूपनिरूपणम्
मानेर्ष्याधूमविशिखः सङ्कल्पे धनसम्भवः ।
लोभाग्निर्दहते लोकं नाग्निः कामसमुद्भवः
तृष्णाग्निर्विषयसेवनेनैव वर्धते
लोभाशीविषदष्टा ये तेषां शर्म न विद्यते ।
सेवितो भावितो लोभो भूय एवाभिवर्धते
लोभसमो रिपुर्भुवि नास्ति
यथा यथेन्धनं प्राप्यानलो वर्धत्यनेकशः ।
शक्यः पालयितुं(वह्नि) र्लोभवह्निर्न(शक्यते)
चक्रवद् भ्रमते लोको लोभेन परिवञ्चितः ।
अनादिनिधने लोके नास्ति लोभसमो रिपुः
विशन्ति सागरजले लोभेन परिवञ्चिताः ।
शस्त्रसङ्घातगहनं युद्धं संप्रविशन्ति च
लोभहेतोर्हि भूपाला नाशयन्ति परस्परम् ।
शस्त्रासिभैरवप्रोता युद्धयन्ते धनतृष्णया
तृष्णाविषविनिर्मुक्ता लोभाङ्गारविवर्जिता ।
समलोष्टकाञ्चना ये निर्वाणस्यान्तिके हि ते
लोभाग्निः सर्वापेक्षया विषमः
अतीवानुपपन्नस्य धनलोभेन दह्यते ।
न वह्निर्विषमस्तत्र लोभाग्निर्यत्र वर्तते
लोभशान्तिं विना निर्वाणकथा वृथा
लोभाधारप्रयत्नेन हन्यात् तान् रभसा बुधः ।
अनिर्वापितलोभस्य निर्वाणं दूरतः स्थितम्
भवसुखपरित्यागी भवजं दुःखं नाप्नोति
भवाभिलाषिणीं नान्दीं नाभिनन्दन्ति ये नराः ।
न तेषां भवजं दुःखं स्वप्ने समुपविद्यते
तृष्णाबद्धान् जनान् मृत्युः शम्बूक इव कर्षति
मत्स्यान् यथा जालबद्धान् शम्बूकः परिकर्षति ।
तृष्णाबद्धांस्तथा सत्त्वान्मृत्युः समुपकर्षति
तृष्णाविषं कुत्रापि न मुञ्चति
सविषैः सायकैर्विद्धो मृगो यत्र (प्र)धावति ।
तत्र तत्र विषं याति तथा तृष्णाविषं नृणाम्
प्रवाहप्रवहन्नद्या गतिर्गत्यऽनुधाविनी ।
यथा निर्दहते बालान् शुष्केन्धनमिवानलः
आपातरम्या(विषया) विपाकज्वलनोपमाः ।
तस्मात् तृष्णा विमोक्तव्या यदि सौख्यं हि रोचते
यथा हि वडिशग्रस्ता मीना मृत्युवशानुगाः ।
तथा प्रतप्ता विषयान् परिधावन्ति दुःखिताः
तृष्णाग्निः नरकादपि महान्
नरकं नारकेयं च तृष्णानिहितं महत् ।
पतन्ति निधना मर्त्याः परदारोपजीविनः
तृष्णाप्रेरितो मुनिरपि दुःखमनुभवति
न चेष्टितमनोपापतृष्णया प्रेरितो मुनिः ।
षडिन्द्रियसमुद्भूतो विषयेन्धनदाहकः
देवानपि तृष्णाग्निर्दहत्येव
तृष्णाग्निर्दहते देवं कायाग्निर्न कथञ्चन ।
सुखावृताः सुखरताः सुखे(न) परिवञ्चिताः
तृष्णापरिवञ्चितः पतनमपि नावगच्छति
पतनं नावगच्छन्ति तृष्णया परिवञ्चिताः ।
ज्वालामालाकुलः सर्वः संसारस्तृष्णयावृतः
तृष्णाग्निना वशीभूता जना गच्छन्ति दुर्गतिम् ।
तृष्णाग्निभिः परिवृतः सुरलोकः समन्ततः
तृष्णाग्निः सदैव वर्धते
दह्यते विवशो रक्तः कामभोगवशीकृतः ।
यथा यथेन्धनं प्राप्य ज्वलनं संप्रवर्धते
तथा तथा सुखं प्राप्य तृष्णाग्निर्वर्धते नृणाम् ।
परिवर्तयते पुंसः काष्ठाग्निर्दाहदीपकः
तृष्णाग्निर्दहते लोकं परिहातुं न शक्यते ।
ये विशालां नदीं तीर्णा सङ्कल्पकृतभैरवीम्
तृष्णापाशशून्यः परमां शान्तिमाप्नोति
ते गताः परमां शान्तिं यान् हि तृष्णा न बाधते ।
तृष्णापाशविमुक्ता ये सङ्गदोषविवर्जिताः
निर्मुक्तपापकल्माषा वीतशोका हि ते बुधाः ।
कल्पकोटिसहस्राणि तृष्णया वञ्चिता नराः
तृष्णया वञ्चितो लोकस्तृष्णामेवोपास्ते
(न)ते त्यजन्ति(विषयान्) मायामोहवशंगताः ।
तृष्णया वञ्चितो लोकस्तृष्णामेवोपसेवते
लवणोदं तृषातोयं यथा पिबति नारिकः ।
न तेन (तुष्यति) जन्तुर्मुहुश्च परिशुष्यति
दुःखकरीं तृष्णां न सेवेत
विषयेष्वेव तृष्णार्तश्चेष्टते पुरुषो ऽधमः ।
तस्मात् तृष्णां न सेवेत सा हि तृष्णा दुरासदा
तृष्णावशो नैव प्रमुच्यते
तृष्णावशो हि पुरुषः संसारान्नैव मुच्यते ।
अनुत्तमानि सौख्यानि भुक्त्वा देवेषु जन्तवः
तृष्णापाशविकृष्टाः नरकं पतन्ति
तृष्णापाशविकृष्टास्ते पतन्ति नरकं पुनः ।
अस्वतन्त्रादिकल्याणं नित्यदुःखमयं कटु
तृष्णया कदापि तुष्टिर्न भवति
तृष्णायाः सेवनान्मुक्तः सन्मार्गमधिगच्छति ।
सतृष्णस्य कुतस्तुष्टिर्विषयेषु भविष्यति
सा तृप्तिर्या वितृष्णस्य वीतशोकस्य देहिनः ।
एवं वितर्कविहिताः प्रमादेन च वञ्चिताः
तृष्णया देवानपि नरकं यान्ति
तृष्णयाः तोषिता देवाः पतन्ति नरकं पुनः ।
विडम्बनेयं परमा यत्सुरा नरकं गताः
क्रीडकाः परमा भूत्वा कामस्य वशमागताः ।
न चोद्विजन्ति संसारान् प्राणिनश्चित्तमोहिताः
तृष्णया दुःखतरं पदमाप्नोति
दुःखाद् दुःखतरं यान्ति तृष्णया परिवञ्चिताः ।
यथा यथा सुखस्याप्तिर्वर्धते जालिनी तथा
जालिनीवह्निदग्धस्य नरकानुपकर्षति ।
सतृष्णस्य वितर्का ये तेषां संख्या न विद्यते
विषयगामिनः तृष्णया मृत्युमुखमेव प्रविशन्ति
अवितर्कवितर्कन्तु मृत्युराजो विकर्षति ।
वितर्ककामवशगास्तृष्णाविषयगामिनः
कामास्वादप्रमत्ताः विषयिणो दुःखिनस्तिष्ठन्ति
सुखस्य भोगिनं दृष्ट्वा न विद्वद्भिस्तथेष्यते ।
कामास्वादप्रमत्तानां प्राणिनां विषयार्थिनाम्
देहिनः तृष्णया दहयन्ते
जालिनी बाधते नित्यं यथा बध्नन्ति देहिनः ।
पञ्चालम्बनमेतत्तु तृष्णया नैव दहयते
तृष्णाविमुक्ता विमला भवन्ति
तृष्णाविमुक्तविमला न पापपुरगामिनः ।
सङ्कल्पदोषा कुटिला त्रिदोषरजसोद्भवाः
तृष्णया संसारसागरे परिवर्ते पतन्ति जनाः
प्रमादजलगम्भीराः स्त्रीरागकृतसेवनाः ।
गीततूर्यस्वराः शीघ्रं सुरापानाच्च चञ्चलाः
सञ्छन्नविषया सर्वे मनः क्षिप्ततरङ्गिणः ।
तृष्णानदीषु विषमे वहन्ति न च गोचरे
गाहन्ते ते च सम्मूढाः सुरा रागेण वञ्चिताः ।
त्रिदोषकाष्ठसंभूताः प्रमादानिलवेगतः
तृष्णानलः सुरगणान् दहते न च ते विदुः ।
न क्षणो नापि हि लवो न मुहूर्त कथञ्चन
या न तृष्णावशगतैः सुरैः समुपभुज्यते ।
तृष्णाभूमिरियं काष्ठा वितर्कजलसम्भृता
तृष्णासर्पदग्धः कालवशीकृतो भवति
यस्मिन् क्रीडन्ति विवशाः देवाः कामवशानुगाः ।
चित्तादिना प्रचण्डेन तृष्णाविषविसर्पिणा
दष्टानुपञ्चशीर्षेण किं वृथा विलपस्यथ ।
तृष्णानदी विशालेयं पञ्चतीर्थसमुद्भवा
तृष्णामोहेन्द्रजालेन विप्रकीर्णेन सर्वदा ।
तथा प्रपञ्चिता देवा यथा न शुभभागिनः
तृष्णाविषयघृतसिक्तो वर्धत एव
नेन्द्रियाणि सदा कामैस्तृप्यन्ति हि कथञ्चन ।
संवर्धते तथा तृष्णा घृतसिक्तो यथानलः
तृष्णया विविधासु योनिषु जनाः भ्रमन्ति
नानाविधैः सुखैरेषा जालिनी लोकनाशिनी ।
नरकप्रेततिर्यक्षु भ्रामयन्ती नरान् सदा
वीततृष्णः निर्मुक्तबन्धनः परमां गतिमाप्नोति
मृत्यूपपत्तिदोलायां श्लिष्यन्ते बालिशाः जनाः ।
सुशीलावीततृष्णाश्च गतास्ते परमां गतिम्
निर्मुक्तबन्धना धीरा गतशोका गतव्यथाः ।
सुखं प्राप्नुवन्ति नित्यं ये न तृष्णावशानुगाः ।
जन्मदुःखमयैः पाशैर्न ते विध्यन्ति सूरयः
तृष्णाविसृष्टिः ज्ञानाय प्रवर्तयति
येषां सर्वास्ववस्थासु ज्ञानेषु विहितं मनः ।
अनिमित्ते मनो येषां विसृष्टा ये च तृष्णया ।
ते वीतमलकान्ताराः पारं प्राप्ताः सुखोदयम्
तृष्णामोहप्रमत्ताः भवे भवे भ्रमन्ति
तृष्णामोहप्रमत्ता ये रतिसौख्यास्तथैव च ।
मोहितास्ते देवगणा भ्रमिष्यन्ति भवे भवे
अहर्निशं तृष्णा तापयति
कुट्टनव्यवहारा ये परिचित्तापहारिणः ।
अविद्याबहुला ये वा नित्यं दाहाभिकाङ्क्षिणः ।
न रात्रौ न दिवा तेषां हृदयं सुप्रसीदति
लोभाभिभूताः तुषाग्निकल्पा भवन्ति
लोभाभिभूतमनसां परिवित्ताभिकाङ्क्षिणाम् ।
तेषां तुषाग्निकल्पानां विश्वसेन्न स्वभावतः
विषयेन्धन सर्पाद् भयमेवोचितम्
बिभेति हि नरः सर्वः सर्पादिव विषेन्धनात् ।
लोभेन विषयेणैवाभिभूतास्ते नरा भृशम्
तृष्णावशगाः विविधां योनिं लभन्ते
ते मृता नरकं यान्ति प्रेतयोनिं तथैव च ।
तस्मादपि विनिर्मुक्ता नरकाद् वह्निसम्मुखात्
आकाङ्क्षिणः नित्यं दुःखभागिनो भवन्ति
पञ्चजन्मशतान्येते भवन्ति परिकाङ्क्षिणः ।
विवर्णा दीनवदना नित्यं दुःखस्य भागिनः ।
भवन्ति मनुजाः सर्वे लोभोपहतचेतसः
विवेकसम्पन्नाः परमां गतिं लभन्ते
प्रहीणलोभा ये सन्ति नित्यं ज्ञानाभिकाङ्क्षिणः ।
बुद्धिमन्तः सदा सन्तः ते गताः परमां गतिम् ।
निर्वाणहृदया वीतलोभमोहाः सदा नराः
लोभाकृष्टस्य विनिपातः
लोभाशीविषदष्टस्य विनिपातो ध्रुवं स्थितः ।
क्रियमाणो ध्रुवं लोको वर्धते स मुहुर्मुहुः
शुष्केन्धनं समादाय यथा वह्निः प्रवर्धते ।
धनतृष्णारताः सत्त्वाः धनोपार्जनतत्पराः
मृत्युकाले समुत्पन्ने त्यजन्ति विवशा धनम् ।
यच्च तत्सम्भवं योगात् तत् सर्व न विनश्यति
लोभात्मा घोरं नरकं याति
तेन वित्तेन लोभात्मा नीयते नरकं भृशम् ।
अन्यैस्तद्भुज्यते वित्तं स तु पापेन लिप्यते
प्रयान्ति नरकं घोरं पश्चात्तापेन दह्यते ।
अनर्थो ह्यर्थरूपेण सुखरूपेण वा सुखम्
लोभत्यागं प्राज्ञः कुर्यात्
अमित्रं मित्ररूपेण लोभो ऽयं हृदि वर्तते ।
न लोभं संश्रयेत् प्राज्ञो लोभाग्निर्दह्यते सदा
लोभदग्धाः नरकगामिनो भवन्ति
तेन दग्धा भृशं सत्त्वाः पश्चान्नरकगामिनः ।
लोकसाधारणा ह्येते विभवाः सुखवर्जिताः
तृष्णाभयविमुक्तिरेव श्रेयस्करी
तेषामर्थे कथं पाप क्रियते मन्दबुद्धिभिः ।
तृष्णाभयविमुक्तस्य निराशस्य हि सर्वतः
वीतकाङ्क्षस्य धीरस्य नित्यं पदमवस्थितम् ।
सम्पत्तौ धाबते लोको विपत्तौ नावबुध्यते
सम्पत्तिः क्षयान्ता
विपदन्ता हि सम्पत्तिः क्षयान्तं दिवसं यथा ।
यथा तिष्ठति सम्पत्तिः विपत्तिः पापिका तथा
कामभोगैर्देवा अपि नरकं यान्ति
अवितृप्तस्य कामेभ्यस्तृष्णया परिदह्यते ।
यस्येष्टाः सम्पदो नित्यं सुखं चाभिमतं सदा
जनि नाशयते तासां तृष्णा नष्टा सुखावहा ।
ते देवा नरकं यान्ति कामभोगैस्तथार्पिताः
अनलाचेष्टितं सर्व तद् वदन्ति तथागताः ।
मनुष्या यच्च नरकं प्रया(न्ति) शतशस्तथा
विमुग्धाः यति जीवनं नावगच्छन्ति
चेष्टितं तद् विशालायाः योषिकाया विदुर्बुधाः ।
विमोहिता न विन्दन्ति त्वरितं स्वल्पजीवितम्
तृष्णया सुकृतानि विनश्यन्ति
सुकृतानि च नश्यन्ति तृष्णा नैव विनश्यति ।
भवे भवे गता सत्वाः न विन्दन्ति शुभाशुभम्
शुभस्य फलमेवेष्टं यत् सुराः परिभुञ्जते ।
अशुभस्य तथा दृष्टमसुखं विनिपातजम्
शुभाशुभप्रहीणा एव जरामरणरहिता भवन्ति
शुभाशुभप्रहीणा ये सङ्गदोषविवर्जिताः ।
ते गताः परमं स्थानं जरामरणवर्जितम्
तृष्णानदीपरिक्षिप्तः जनः किमपि नावगच्छति
पञ्चारं भवचक्रं तत् तृष्णानाभिपुरःसरम् ।
नदीरागपरिक्षिप्तं न च लोको ऽवबुध्यते
दोषावर्ततरा ज्ञेया सङ्कल्पमकराकुलाः ।
तृष्णानदी विशालेयं न च लोको ऽवबुध्यते
तृष्णा त्रिषु कालेषु वञ्चिका
त्रिकाले वञ्चनी तृष्णा नित्यमज्ञानकारिणी ।
न तस्यां विश्वसेद् धीमान् संसारबन्धना हि सा
तृष्णा लोकबन्धनभूता
मित्रवद् दृश्यते काले शत्रुवच्च निकृन्तति ।
न तस्यां विश्वसेत् प्राज्ञः सा हि लोकस्य बन्धनम्
शक्यं हि बन्धनं छेत्तुमायसं दारुवत्तथा ।
न तृष्णाबन्धनं छेत्तुं नित्यं कामगवेषिभिः
यस्येष्टो बन्धभेदो ऽयं यस्येष्टं सुखमव्ययम् ।
स तृष्णया विमुक्तः (स्यात्)प्रज्ञाशो (धनकृद्) भवेत्
ज्ञानेन तृष्णावृक्षस्य छेदनं कर्त्तव्यम्
ज्ञानालोकः सुखालोको दुःखं तृष्णातमःस्मृतम् ।
तस्मादालोकमास्थाय तमो नुदति पण्डितः
ज्ञानखड्गेन तीक्ष्णेन तृष्णावृक्षं निकृन्तति ।
निकृत्तवृक्षः (स) नरः सुखं प्राप्नोत्यनुत्तमम्
दोषेण बहुला ह्येषा नदी प्रस्रवणाकुला ।
दोषा नेतानहित्वा (न) भवान्मुञ्चति पण्डितः
प्रज्ञानावमाश्रित्य तृष्णानद्याः पारं गच्छति
तृष्णानदीं त्रिपथगां प्रमादावर्तदुस्तराम् ।
प्रज्ञानावं समाश्रित्य पारं गच्छन्त्यनामयम्
महेच्छतामहच्छत्रं येन चायान्ति बालिशाः ।
तस्मान्महेच्छता बध्या त्वयेयं ज्ञानचक्षुषा
महेच्छैव हृदयव्रणभूता
महेच्छताव्रणस्तीव्रो हृदये यस्य जायते ।
न रात्रौ न दिवा तस्य सुखं भवति लोभिनः
सङ्कल्पे तु न सम्भूतः तृष्णावायुसमीरितः ।
महेच्छतामयो वह्निर्दहते हृदयं नृणाम्
लोभेनात्मनो ऽहितं कुर्वन्ति जनाः
लोभेनावेष्टितमनाः पुरुषो लघुचेतसा ।
जीवितान्यपि साराणि जहाति धनतृष्णया
पापानि हि च कर्माणि कुर्वन्ति पुरुषाः क्षितौ ।
धनलाभेन तत् सर्व प्रवदन्ति मनीषिणः
ये साहसं न कुर्वन्ति विशन्ति ज्वलनं च यत् ।
तत् सर्व लोभदोषेण कुर्वन्त्यहितमात्मनः
शस्त्रानिलानि दुःखानि विविधानि च (सर्वतः) ।
विशन्ति (वै) नरा मूढा लोभस्तत्र हि कारणम्
हृदयस्थो मनोवह्निर्नित्यं बह्विच्छतां नृणाम् ।
अल्पेच्छतया (हि) हृच्छान्तिर्भवतिलाभिनः
यथाग्निरिन्धनेनैव प्रशान्तिमधिगच्छति ।
तथा वह्विच्छतां नृणां धनैर्वृद्धिः प्रजायते
अल्पेच्छतैव सुखम्
भूपाला (हि) धनैस्तृप्ताः कोटिशो निधनं गताः ।
यास्यन्ति चान्ये निधनं तस्मादल्पेच्छता सुखम्
तृष्णाविहीन एव सुखमाप्नोति
दुःखं वह्विच्छता नृणां लक्षणं सुखदुःखयोः ।
(हेया सर्वप्रयत्नेन) इदमुक्तं परीक्षकैः ।
एष पन्थाः शिवः श्रेष्ठो येन तृष्णा वशीकृता
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0