भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 10

10.1

॥ इति स्त्रीजुगुप्सावर्गो नवमः ॥
(10) मद्यजुगुप्सावर्गः
मद्यपानवर्णनसाधनप्रदर्शनम्
मद्यपानं न सेवेत मद्यं हि विषमुत्तमम् ।
नश्यन्ति कुशला धर्मा मद्यपाननिषेवणात्

10.2

यः सेवते सदा मद्यं तस्य बुद्धिरसंस्थिता ।
बलबुद्धी न धर्मो ऽस्ति तस्मान्मद्यं विवर्जयेत्

10.3

नाशानामुत्तमं नाशं मद्यमुक्तं मनीषिभिः ।
तस्मान्मद्यं न सेवेत (मद्यं) नाशयते नरम्

10.4

अनिष्टाः पापका धर्मा मद्यपाननिषेवणात् ।
भवन्ति तस्माद् विषवन्मद्यपानं विवर्जयेत्

10.5

धनक्षयं पापकरं कौसीद्यकरमुत्तमम् ।
मद्यपानस्थिता दोषाः तस्मात् तत् परिवर्जयेत्

10.6

रागस्योद्दीपनं मद्यं क्रोधस्यापि तथैव च ।
मोहस्योद्दीपकं भूयस्तस्मान्मद्यं विवर्जयेत्

10.7

मद्यमूलमनर्थस्य हासस्य नरकस्य च ।
सर्वेन्द्रियविनाशानां हेतुभूतं ह्यनर्थकम्

10.8

अतिहर्षाभिधानस्य शोकस्य च भयस्य च ।
वाग्दोषस्यातिदम्यस्य पारुष्यस्यास्पदं हि तत्

10.9

मद्येनाक्षिप्तमनसः पुरुषाः पशुभिः समाः ।
कार्याकार्य न विन्दन्ति तस्मान्मद्यं विवर्जयेत्

10.10

मद्यक्षिप्तो हि पुरुषो जीवन्नपि मृतो मतः ।
य इच्छेज्जीवितं सौख्यं स मद्यं वर्जयेत् सदा

10.11

मद्यं सर्वदोषास्पदम्
सर्वदोषास्पदं मद्यं सर्वानर्थकरं सदा ।
सर्वपापेषु सोपानं तमसामालयो महान्

10.12

मद्येन प्रेतलोके नरके वा पतनम्
मद्येन नरकं यान्ति प्रेतलोकं तथैव च ।
तिर्यक्षु यान्ति पुरुषा मद्यदोषेण वञ्चिताः

10.13

विषादपि विषं मद्यं नरकान्नरकं तथा ।
व्याधीनां च परं व्याधिर्मद्यमुक्तं मनीषिभिः

10.14

मद्येन हानिप्रदर्शनम्
बुद्धीन्द्रियविनाशाय धर्मरत्नं क्षयाय च ।
यो ऽतिरेकपरं मद्यं ब्रह्मचर्यबधाय च

10.15

मद्येन लघुतां यान्ति पार्थिवा शास्त्रचक्षुषः ।
किं पुनः प्राकृता मर्त्या मद्यपानविलम्बिताः

10.16

मद्यस्य विनाशकरत्वम्
कुठारः सर्वधर्माणां ह्रीविनाशकरं परम् ।
मद्यं निषेवितं मर्त्यैर्विनाशायोपकल्प्यते

10.17

मद्येन ज्ञानाज्ञानविवेकशून्यप्रदर्शनम्
न ज्ञानं नापि विज्ञानं न कार्याणि न च क्रियाम् ।
जानीते पुरुषः सर्व मद्येन हृतचेतसा

10.18

मद्यसेवनस्य परितापसाधनम्
अकस्मात् तप्यते जन्तुरकस्मात् परितप्यते ।
भवत्यकस्मात् पापी (च) यो मद्यमनुसेवते

10.19

मद्यस्य बुद्धिसम्मोहजनकत्वम्
बुद्धिसम्मोहजनकं लोकद्वयविनाशकम् ।
वह्निश्च मोक्षधर्माणां मद्यमेकं व्यवस्थितम्

10.20

मद्यस्य किम्पाकत्वम्
अभ्यासे मधुरं मद्यं विपाके परमं कटु ।
किम्पाकादपि किम्पाकं मद्यमुक्तं परीक्षकैः

10.21

नरकस्य साधनं मद्यम्
न मद्ये विश्वसेद्धीमान् नरं वक्ष्यति मामिति ।
शीतस्पर्श विपाकोष्णं मद्यं नरकगामिकम्

10.22

सम्पत्तौ व्यसनं मद्यं देवानां तु विशेषतः ।
यथा यथा सुखा प्रीतिस्तन्नाशे व्यसनं तथा

10.23

मद्यपानमदोन्मत्ताः सत्त्वा मोहवशानुगाः ।
साक्ष्यमोहमयं पानं पिबन्ति रसतृष्णया

10.24

मद्यं मोहमयं पान पीत्वा कालेन चोदिताः ।
नाकात् प्रत्यक्षनरकं तस्मात् मद्यं न संस्पृशेत्

10.25

दर्शनात्पानाच्च मद्यपानं मोहजनकम्
दर्शनात् स्पर्शनात् पानात मद्यं मोहयते नरम् ।
तस्मात् स मद्यपानं च दूरतः परिवर्जयेत्

10.26

दर्शनाज्जायते लोभः स्पर्शनाद् गन्धसम्भवः ।
गन्धाद् रसाभिलाषश्च रसनादधमा मतिः

10.27

मनीषिणः मद्यसेवनात्पतन्ति
नैकसर्वाधमं न्यासं कथयन्ति मनीषिणः ।
नामरूपनिषेधाय यथा मद्यं निषेवितम्

10.28

मद्यपानफलसूचनम्
वाग्भ्रामयति मस्तिष्कं चक्षुषीध्वनिरेव च ।
सम्भ्रान्तिविमतिर्मूढो न किञ्चित् प्रतिपद्यते

10.29

स्त्रियो ऽपि मद्यपायिनमुपहसन्ति
स्त्रियो ऽप्युपहसन्तीमं पुरुषं पतितं भुवि ।
निश्चेष्टं काष्ठसदृशं निश्चलं पतितं भुवि

10.30

मद्यपानं मरणादपि निकृष्टतरम्
सम्भावितस्य मरणं मद्यपानं प्रकीर्त्यते ।
हालाहलादभ्यधिकं कारावासाधिकं च तत्

10.31

मद्यपानवर्जनं श्रेयस्करम्
आदीनवाश्च षट् त्रिंशन्मद्यपानादवस्थिताः ।
तस्मादादीनवो ज्ञेयः स हि तद् वर्जयेत् सदा

10.32

मद्यपानं विदुषो ऽपि जन्तोः मलिनीकरणाय भवति
अतिजातस्य विदुषो मलिनीकरणं महत् ।
काशपुष्पसमं जन्तुं कुरुते लघुसत्त्वरम्

10.33

विषयानलदग्धः कार्याकार्यशून्यो भवति
प्रमादौह्यति मग्नानां विषयैरपहृष्यते ।
मद्यपानेन भूयश्च मनोव्यामोहकारिणा

10.34

विषयानलदग्धस्य कार्याकार्यमजानतः ।
वनोपवनलब्धस्य मद्यपानस्य किं पुनः

10.35

मद्यपानं मोहाय पापाय जायते
रसेन शोभनं मद्यं परिणामेन दारुणम् ।
परिणामफलं पापं नरकेषूपपद्यते

10.36

पीतं जनयते मोहं मोहात् पापेषु रक्ष्यते ।
संरक्तहृदयो बालो नरकानुपधावति

10.37

मद्यपानमधमत्वसाधनम्
प्रकर्ष जनयत्यादौ विपाके दैन्यमुत्तमम् ।
तृट् छेदं कुरुते चासौ पश्चाद्दाहं सुदारुणम्

10.38

तद् बुद्धिं नाशयत्यादौ पश्चान्नाशयते सुखम् ।
तस्मात् स पुरुषो धीरो यो मद्यं नानुसेवते

10.39

मद्यनिषेविणो विहगसदृशा भवन्ति
विहगैः सदृशं यान्ति पुरुषा मद्यसेविनः ।
तुल्यं व्यामोहजनकं मद्यं मोहमहाविषम्

10.40

विमोहिता दुर्गतिमधिगच्छन्ति
यैर्मद्यं विषवद् दृष्टं तैर्दृष्टं पदमुत्तमम् ।
यैस्तु तद् विरसं पीतं पीतं ताम्र (क) लोहितम्

10.41

निष्प्रतीकारकर्माणि यः करोति विमोहितः ।
मद्यपानसमाविष्टः सो ऽन्ते गच्छति दुर्गतिम्

10.42

मद्यपानसेविनां नाशो भवति
एकत्र सर्वपापानि मद्यपान (निषेवणम्) ।
यस्मान्नाशयते (मद्यं) चित्तमूलश्च संवरः

10.43

मद्यपायी नष्टधर्मो भवति
नैकाङ्गिता हि चित्तस्य न धर्माणां विचारणा ।
यः पा(प)निरतो भिक्षुर्भवेन्मद्यनिषेवणात्

10.44

मद्येनाक्षिप्तमनसो कुशलस्य च घातकः ।
नष्टधर्मस्य सत्त्वस्य नायं लोको न चापरः

10.45

ईर्य्यापथं न जानाति न कालं नापि देशनाम् ।
सद्धर्मतो विरुद्धश्च तुच्छं किमपि भाषते

10.46

स्वयं तावन्न जानाति किमिदं कथ्यते मया ।
वाक्पारुष्यं कथं चान्यं परिज्ञास्यत्यशोभनम्

10.47

लाघवं याति लोकस्य धर्माच्च परिहीयते ।
निधन पुरुषैर्दृष्टं मद्यज्वलनसेवनात्

10.48

मद्यपानं कुत्सां सम्पादयति
नाशो भवत्यतीते हि वर्तमाने सुहृज्जने ।
अनागते कुत्सितानां मद्यं त्रैकाल्यनाशकम्

10.49

मद्यं धर्मप्रदूषकमेव
नामरूपविनाशाय चित्तनाशाय देहिनाम् ।
उत्पन्नदोषजनकं मद्यं धर्मप्रदूषकम्

10.50

मद्यवर्जनं धर्माय पानञ्च मृत्युर्न भवति
समाहिता धर्मशीलाः पुरुषा मद्यवर्जकाः ।
ते यान्ति परमं स्थानं यत्र मृत्युर्न विद्यते

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc