भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 7

7.1

॥ इति अप्रमादवर्गः षष्ठः ॥
(7) कामजुगुप्सावर्गः
कामस्य नरकहेतुत्वम्
न कामेषु रतिं कुर्यात् कामाः परमवञ्चकाः ।
संसारबन्धना घोराः सर्वे नरकहेतवः

7.2

यः संरक्षति कामेषु तस्य दुःखमनन्तकम् ।
न कामोरगदष्टस्य सुखमस्ति कथञ्चन

7.3

रागादिवशगानां चेष्टितम्
वरं निशितधारेण क्षुरेण स्वयमात्मनः ।
संक्षोदिता भवेज्जिह्वा न चोक्तं कामगंव(चः)

7.4

रागेण वञ्चिताः सत्त्वा द्वेषेण परिपीडिताः ।
मोहस्य वशमापन्ना भाषन्ते ऽमधुरं वचः

7.5

रागवशगः सदा दुःखतममनुभवति
अल्परागान्निरुद्धो यः कुरुते दुष्कृतं बहु ।
स रागवशगो मूढो दुःखाद् दुःखमवाप्नुयात्

7.6

कामपरिणतिमाह
अतृप्तिरस्मात् कामास्ते न सुखा नापि शाश्वताः ।
परिणामे महातीव्रास्तस्मात् तान् परिवर्जयेत्

7.7

रागाभिभूताः पुरुषा नरकालयवर्तिनः ।
न रागवशगा ये तु न तेषां नरकाद् भयम्

7.8

कामविषं परित्याज्यम्
चण्डाचण्डिसमुत्थाश्च चण्डाश्च परिणामतः ।
कामा विषाग्निप्रतिमाः परिवर्ज्याः प्रयत्नतः

7.9

परिवर्जितकामस्य नित्यं मोक्षरतस्य च ।
नश्यन्त्यकुशला धर्मास्तमः सूर्योदये तथा

7.10

कामानलः नरके पातयति
इन्द्रियाणीन्द्रियार्थज्ञो मोहयित्वा पृथग्विधाः ।
नरके पातयन्त्येते कामाः बालमनोहराः

7.11

रागाग्नेः महिमा
पञ्चेन्द्रियप्रसक्तस्य विषयैः पञ्चभिस्तथा ।
मुहूर्तमपि रागाग्निर्विषयैर्नैव तृप्यति

7.12

संश्लेषाज्जायते वह्निर्विश्लेषान्नैव जायते ।
संश्लेषादपि विश्लेषो (रागा) ग्निर्जीर्यते नृणाम्

7.13

दूरान्न दाहको वह्निर्विषयस्तस्य नास्ति सः ।
दूरान्तिकसमो घोरो रागाग्निरतिदाहकः

7.14

सङ्कल्पकाष्ठप्रभवः स्पृहाकुटिलवेगवान् ।
तृष्णा घृतप्रसक्तो ऽयं रागाग्निरपि दाहकः

7.15

दग्ध्वा शरीरमेतद्धि ज्वलनः सम्प्रशाम्यते ।
नामरूपविनिर्मुक्तो रागाग्निर्नैव शाम्यते

7.16

उद्वेजयति भूतानि वह्निः परमदाहकः ।
रागाग्निरतितीक्ष्णो ऽपि नोद्वेगं कुरुते नृणाम्

7.17

पञ्चेन्द्रियसमुत्थो ऽयं विषयैः पञ्चभिर्वृतः ।
तृष्णासमीरणबलाद् रागाग्नि(र्दहति) प्रजाः

7.18

वितर्कारणिसम्भूतो विषयैः परिवर्धितः ।
काष्ठवद् दह्यते तेन न च दृश्यो जनस्य सः

7.19

यथा यथा हि प्रबलो रागाग्निस्तप्यते महान् ।
तथा तथा (च) रागान्धैः स्वसुखं परिसेव्यते

7.20

अग्निः प्रकाशको भवति रागाग्निस्तमसावृतः ।
तस्माच्छिशिरवद् धीमान् रागाग्निं परिवर्जयेत्

7.21

विषयपरिणाममाह
विषयाभिरतो जन्तुर्न सुखी स्यात् कथञ्चन ।
विषयाः विषयैर्दष्टाः परिणामे च दारुणाः

7.22

नाद्ये नान्ते न मध्ये च नास्मिंल्लोके न चापरे ।
सुखदा विषया कामं भवन्तीह कथञ्चन

7.23

बालिशस्य हि सर्वस्य तृष्णाक्रीडनसंभवैः ।
न तृप्तो विषयैरग्निर्ज्वलनस्य यथेन्धनैः

7.24

अतृप्तोः विषयैः सर्वो जनो ऽयं परिवञ्चितः ।
मृत्युनाभ्यासनिरत एतैर्दोषैर्विदह्यते

7.25

काममोहान्धानां स्थितिमाह
सुखानां कामचाराणां मोहस्य खलु चेष्टितम् ।
तदेव यदि देवानां खगैः स्युस्ते समाः सुराः

7.26

कल्पान्तेष्वभिसन्तप्तः शस्यते सरितां पतिः ।
न दृष्टिस्तृप्यते रूपैः कल्पकोटिशतैरपि

7.27

स्यात् समुद्रस्य चर्याप्तिः सलिलैर्वशगादिभिः ।
न तु दृष्टिः समुद्रस्य रूपार्थैस्तृप्तिरस्ति हि

7.28

अवितृप्तस्य कामेभ्यः किं सुखं परिकल्प्यते ।
तृप्तिर्यास्ति वितृष्णस्य गतशोकस्य देहिनः

7.29

माद्यन्ते बहुमोहान्धा न च बुद्धयन्ति बालिशाः ।
मन्देन क्षणिका यद्वत् मलयेन्धनपादपाः

7.30

कामा असाराः वञ्चकाश्च भवन्ति
स्वप्नप्रमोषधर्माणो गन्धर्वनगरोपमाः ।
रिक्तास्तुच्छा असाराश्च कामाः परमवञ्चकाः

7.31

(का) मा मोहेन (च) समाः किं पाकसदृशोपमाः ।
कामा लोकहितकरा वह्निवत् परिकीर्तिताः

7.32

कामस्यादीनवं ज्ञात्वा येन तत्फलमोहिताः ।
तेन तद्दर्शकाः प्रीता गतकांक्षस्य (देहिनः)

7.33

(अ)न्यथा चिन्त्यमानानां यथा प्राप्ता पुनस्तथा ।
सर्वतः पापकर्तारः कामा लोके विषोपमाः

7.34

कामैरतृप्तमनसस्ते ते देवाश्च्युताः पुनः ।
पतन्ति नरके मूढाः कामेन परिवञ्चिताः

7.35

नारीं निन्दयति
नदीतरङ्गचपला विद्युल्लेखसमाश्च ते ।
मीनावर्तबला नार्यः कामलोकविषास्पदाः

7.36

विचिन्तिता विवर्धन्ते वर्द्धिता वह्निसन्निभाः ।
आदौ चान्ते तथा कामास्तस्मात् कामान् विवर्जयेत्

7.37

कामसेवनफलम्
यथा यथा हि सेव्यन्ते विवर्धन्ते तथा तथा ।
वह्निज्वालासमासृष्टाः कामाः कटुविपाकिनः

7.38

कामवर्जनफलम् आह
एवं दोषं सदा ज्ञात्वा धीरः कामान् विवर्जयेत् ।
परिवर्तितकामस्य सुखं भवति नैष्ठिकम्

7.39

कामाग्निः देवान्नपि पातयति
असङ्ख्यानि सहस्राणि देवानां नियुतानि च ।
पतन्ति कामदहनं नरकं वह्निभैरवम्

7.40

यथाग्निविषशस्त्राणि वर्जयन्ति सुखार्थिनः ।
तथा कामाः सदा वर्ज्या हेतवो नरकस्य ते

7.41

न दृष्टो न श्रुतः कश्चिद् यः कामवशगः पुमान् ।
न कामैर्विप्रलब्धः स्यान्न च दुःखेन पीडितः

7.42

तस्मादलमलं कामैर्मा चैतेषु मनः कृथाः ।
सर्वे सर्वास्ववस्थासु कामा वह्निविषोपमाः

7.43

अनादिर्मति संसारे शत्रवश्चित्तसम्भवाः ।
अहन्त्वात्तु भवेत् प्रीतिर्न सा कामैः कथञ्चन

7.44

सकल्मषा कटुफला दुःखात् कामोद्भवा रतिः ।
या तु कामविनिर्मुक्ता सा रतिः परि(भाषिता)

7.45

योगिनः परमा गतिः
तां समाश्रित्य गच्छन्ति योगिनः परमां गतिम् ।
न तु कामकृता प्रीतिर्नयते पदमच्युतम्

7.46

कामजरतिं निन्दति
आपातमधुरा रम्या विपाके ज्वलनोपमा ।
रतिर्भवति कामाग्निजन्या नरकगामिनी

7.47

आपातरम्या मधुरा मध्ये रम्या च सर्वदा ।
शान्तमन्ते च विमलं नयते पदमच्युतम्

7.48

आद्यन्तमध्यकल्याणी नित्यं मातेव शोभना ।
तां व्युदस्य कथं बाला रक्षन्ते (कामजां रतिम्)

7.49

कामकृता रतिः निरतं तपति
मध्यादिनिधने दुःखा नित्यं दोषादिभिर्वृता ।
कथं सा सेव्यते बालैर्या न दृष्टा सुखावहा

7.50

विषमञ्जरिवद् रम्या स्पर्शे ज्वलनसम्भवा ।
तथा कामकृता प्रीतिः परिणामे विषोपमा

7.51

हूयमानो यथा वह्निर्ज्वलनेन प्रशाम्यति ।
दाहेन च प्ररोहः स्यात् तद्वत् कामकृता रतिः

7.52

पतङ्गः पश्यति ह्यग्नि दाहदोषं न पश्यति ।
तथा कामकृतां प्रीतिं पश्यन्त्यकृतबुद्धयः

7.53

यस्तु रागकृतो दाहः पच्यते कामिनां सदा ।
पतङ्गसदृशं दाहं सर्वथा नै(व) पश्यति

7.54

कामप्रमादात् पतनं ध्रुवमेव
तस्मात् काम(विषं) त्यक्त्वा नित्यं जीवथ हे सुराः ।
भवन्तु मा वृथा जन्मप्रमादेन प्रपातनम्

7.55

संक्षीणशुभकर्माणो नित्यं कामैर्विमोहिताः ।
तं हित्वा नरकं यान्ति काममोहेन वञ्चिताः

7.56

काममोहितः विषवृक्षमयं पुष्पं पिबति
विषवृक्षमयं पुष्पं पीयते भ्रमरैर्यथा ।
तथा विषात्मकमिदं सुखं भुङ्क्ते हि मोहितः

7.57

जीवेयुः पामराः केचित् विषं पीत्वापि दुर्भगाः ।
न कामविषपीतस्य जीवितं दुर्लभं भवेत्

7.58

यथा हि नरके वह्निर्ज्वलयत्य विचारिणम् ।
तथा काममयो वह्निर्दहतीह दिवौकसः

7.59

कामाग्निः हिंसक एव
श्रुतिपाशमयो वह्निः प्रेतानेष दहत्यति ।
दहने हिंसको वह्निर्नृणां पर्येषणात्मकः

7.60

एवमग्निसमं तावत् परिहार्य समन्ततः ।
सर्वलोकमशेषेण दह्यते काममोहितः

7.61

विषयासक्तं मनः व्यसने पातयति
विषयेषु सदाचित्तं धावन्तं चञ्चलं महत् ।
न त्याज्यं व्यसने मूढ यद् पश्यसि भविष्यति

7.62

कामेषु रक्ष ते चित्तं व्यसनेनावबुध्यते ।
व्यसनौघे समुत्पन्ने तत् पश्चात् परितप्यते

7.63

काममोहिताः महद्भयमपि न पश्यन्ति
वृथा काममदैर्मत्ता देवाः प्रकृतिदुर्बलाः ।
भ्रमन्ति भ्रमिताः कामैर्न पश्यन्ति महद् भयम्

7.64

विश्वसन्ति हि ये देवाः कामेष्वहितकारिषु ।
व्यतिरेकेषु ते पश्चात् प्रतिबुध्यन्त्यमेधसः

7.65

कामाः परमवञ्चका भवन्ति
न च पश्यन्ति (वि)बुधाश्चित्तेन परिवञ्चिताः ।
क्षणिका मधुरा जाताः कामाः परमवञ्चकाः

7.66

काम प्रति न विश्वसेत्
शतशश्च सहस्त्रैश्च कोटिशः पद्मशस्तथा ।
लब्धा नष्टा पुनः कामा न तेषां विश्चसेत् पुमान्

7.67

कामैर्मोहितः पतङ्गसमो नरकाग्निना दह्यते
विषयाद् बन्धनं तीव्रं सर्वे नरकहेतवः ।
तस्मादत्यन्ततस्त्यक्त्वा श्रेयसे क्रियतां मनः

7.68

रागेण रञ्जिताः पूर्वं द्वेषेण च तिरस्कृताः ।
मोहेन मोहिताश्चैव ते ऽश्रुताकृतकारिणः

7.69

कामार्थैरेष्यते बालः पुनः कामैर्विमोहितः ।
स पतङ्गसमो मूढः दह्यते नरकाग्निना

7.70

कामवशगाः सुरलोकादपि पतन्ति
अवश्यम्भावि पतनं सुरलोकात् समन्ततः ।
न ज्ञात्वा कामवशगो स्यादिह कथञ्चन

7.71

कामेन वञ्चिताः सत्त्वाः कामेन च विमोहिताः ।
कामपाशापकृष्टास्ते पतन्ति नरके सदा

7.72

कामं त्यक्त्व स्वहिते मनः कर्त्तव्यम्
तदेतद् व्यसनं सत्त्वाः स्वहिते क्रियतां मनः ।
मनसापि स्वदान्तेन नानुतप्यन्ति देहिनः

7.73

मनोविषेण ये दष्टाः कामवेगेन सर्वदा ।
ते मूढा मृत्युवशगाः कामानलहता नराः

7.74

न तृप्तिरस्ति कामानां तृष्णया हितकारिणाम् ।
तृष्णापि तृप्तिजनिका मनो नैव हि तृप्यति

7.75

ज्ञानदीपेनैजेन्द्रियाणां विषयेभ्यस्तृप्तिर्जायते
न जातु विषयैस्तृप्तिरिन्द्रियाणां भविष्यति ।
यदि न ज्ञानदीपेन क्षपयिष्यन्ति (ते नराः)

7.76

नारीसेवनेन नाशः सुनिश्चितः
योषितः सेव्यमाना हि वितर्कशतमालिकाः ।
प्रवर्धति यथा वह्निर्वायुना समुदीरितः

7.77

कामाग्निदीप्ताः कदापि शान्तिं नाप्नुवन्ति
तं मत्वा वेगरभसा नित्यं कामो ऽग्निदीपितः ।
कामान् हापयति ज्ञानी बुद्धतत्त्वविचिन्तकः

7.78

ये नित्यं भ्रान्तमनसो नित्यं विषयतत्पराः ।
रमन्ते विबुधाः सर्वे तत् सर्वं मोहचेष्टितम्

7.79

सेव्यमानो हि विबुधैर्विषयाग्निर्विवर्धते ।
पाशेनानेन संयुक्तो वह्निर्वायुसमीरितः

7.80

रागविवशा अमरा अपि पतन्ति
अमराः रागविवशा नित्यं विषयतत्पराः ।
देवलोकात् पतन्त्येते मोहरागेण वञ्चिताः

7.81

रमन्ते विषयैरेते तत्र तल्लीनमानसाः ।
न च विन्दन्ति यद् दुःखं विप्रयोगो भविष्यति

7.82

वियोगजं दुःखं कष्टप्रदमेव
यदेतत् सुखमेवादौ दिव्यं पञ्चगुणान्वितम् ।
वियोगजस्य दुःखस्य कलां नार्हतिषोडशीम्

7.83

कामानां तद्विघातो हि जनेनैवोपयुज्यते ।
सतृष्णस्य तथा तृप्तिः कामेभ्यो नैव जायते

7.84

कामानुसेविनः दुःखं कदापि शान्तिं नाधिगच्छति
अनपेक्षितचित्तस्य नित्यं कामानुसेविनः ।
दीर्घरात्रानुशयिकं दुःखं नैव प्रशाम्यते

7.85

त्वरितं रक्ष्यते मूढो व्यसनेनैव बुध्यते ।
पश्चात्तु व्यसने प्राप्ते जानीते यस्य तत् फलम्

7.86

आस्वादभद्रका ह्येते कामाः परमदारुणाः ।
दूतकान् नरकस्यैतान् चरन्त्यहितकारिणः

7.87

विषयाग्निदग्धाः नरकं यान्ति
यस्तेषां विश्वसेत् मर्त्यो ज्ञानचक्षुर्विगर्हितः ।
विषयाग्निरभ्रतुल्यः स याति नरकं नरः

7.88

अल्पास्वादाल्पहृदया नित्यं पुरुषवञ्चकाः ।
गन्धर्वनगरप्रख्याः कामा आस्वादभद्रकाः

7.89

विषयमोहिताः देवा अपि दुर्गति यान्ति
(यथा) दीपप्रभा(भस्म) सञ्छन्नेव पुनः पुनः ।
न च बिन्दत्यमनसो देवा विषयमोहिताः

7.90

विषयेणातिरभसा नित्यं कामवशानुगाः ।
न विदन्ति महद् दुःखं यदवश्यं भविष्यति

7.91

रमणीयानि कामानि यस्यैवं जायते मतिः ।
स पश्चाद् व्यसने प्राप्ते मूढो ऽसौ विप्रलप्यते

7.92

न कामेन मदान्धस्य विषयैर्मोहितस्य च ।
नैत्यिकं भवति शर्म्म यत्सुखानामनुत्तमम्

7.93

आध्यात्मिकसुखापेक्षया कामसुखं हीनतमम्
यच्च कामसुखं लोके यच्च तृष्णोद्भवं सुखम् ।
एकस्याध्यात्मिकस्येदं कलां नार्हतिषोडशीम्

7.94

कामी कदापि सुखं नाश्नुते
न सुखी वर्तते तावद्य यस्य कामो हृदि स्थितः ।
स सर्वदुःखभागार्हो नरकानुपधावति

7.95

न तृप्तिर्विद्यते कामैरपि (भोगः) शतं नृणाम् ।
यत्र सौख्यं न तत्रास्ति तृप्तिर्विषयसेविनाम्

7.96

सेव्यमानाः सदा कामा वर्धन्ते च मुहुर्मुहुः ।
ते वर्धिता विषसमा भवन्ति विनिपातिनः

7.97

विपत्तिकुशला घोरा नित्यं पतनहेतवः ।
न च तेषां परित्यागं कुर्वन्ति विषयोत्सवाः

7.98

यस्य दृष्टिसमुद्रस्य रूपैस्तृप्तिर्न विद्यते ।
तथा शर्ममनोज्ञैश्च रसतृप्तिर्न विद्यते

7.99

गन्धैरपि सदा घ्राणं न तृप्तिमधिगच्छति ।
स्पर्शाः सम्मुखसंस्पर्शाः सेव्यन्ते नैव तृप्यते

7.100

शब्दैः कान्तैः सुमधुरैः श्रोत्रमेति न तर्पणम् ।
मनो ऽपि तृप्तिविश्वस्तं वर्धमानं न तृप्यति

7.101

इन्द्रियाणि कामभूमिषु पातयन्ति
षडेन्द्रियाणि चपलान्याधृतानि रतौ पुनः ।
भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः

7.102

न तृप्तिरस्ति देवानां गजानां वै तृणैर्यथा ।
अनलस्य स्वभावो ऽयं तस्य तृप्तिर्न विद्यते

7.103

षडेते वह्नयस्तीव्रा वितर्कानिलमूर्छिताः ।
भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः

7.104

इन्द्रियदग्धा नरकं यान्ति
तैरयं दह्यते लोको न च विन्दत्यबुद्धिमान् ।
आस्वादभद्रका हयेते नरकस्य च हेतवः

7.105

काममोहितः सुखवञ्चितो भवति
कामा विषयलोभास्ते लेलिहाना यथोरगाः ।
विलोचनवरो हयेष न च कामैर्विमोहितः

7.106

कामवशीनरः नेत्रहीना मूढतरः
सुखानुसारिणः कामो नरकानुपधावति ।
न नेत्रहीनो नरके पात्यते सत्क्रियान्वितः

7.107

तस्माद् वरं विचक्षुः स्यान्न तु कामवशो नरः ।
अशक्यवञ्चिता मूढाः कामैरहितकारिभिः

7.108

कामचारिणां ज्ञानादिकं दुर्लभम्
अनिर्विद्यन्ति कामेभ्यो मोहिताः स्वेन चेतसा ।
न ज्ञानं नापि विज्ञानं विद्यते कामचारिणाम्

7.109

कामः मृत्युभवनं नयति
यद् दुःखकामजं हत्वा पुनः कामवशानुगाः ।
मित्ररूपा च ये कामाः किम्पाकफलसन्निभाः ।
नयन्ति मृत्युभवनं दुर्गतीश्च पुनः पुनः

7.110

अनिवर्त्त्य यथा तोयमापगानामनेकशः ।
तथा सौख्यगतं नृणां सर्वथा न विवर्तते

7.111

वनोपवनभोगेषु सुखप्राप्तेष्वनेकशः ।
यो न तृप्यति कामेषु स नरो ऽधमगामिकः

7.112

प्रमादो पहतो जन्तुः कामास्वादेषु तत्परः ।
रूपेषु रक्ष्यते नित्यं परिणामे च विद्यते

7.113

घनच्छायास्वरूपाणि कर्ममिश्राणि यानि वै ।
तानि चैव कथं देवाः शक्ष्यन्ते कामगोचरे

7.114

कामाः कदापि न सेव्याः
यदि नित्या भवेयुर्न कामास्ते स्युर्विषोपमाः

7.115

कामतृष्णादुःखकरी
तथापि कामतृष्णा या न सा जाति विलक्षणा ।
प्रागेव नित्यं दुःखाय शून्यमात्मानमेव च

7.116

तेषु दुःखविपाकेषु कथं रक्षन्त्यबुद्धयः ।
कामास्वादेषु रक्ष्यन्ते बालिशाः मन्दबुद्धयः ।
आदीनवं न बुद्धयन्ते किम्पाकफलसन्निभम्

7.117

रूपशब्दादिबद्धो ऽयं तृष्णाविप्रकृतो जनः ।
दीप्यते विवशो नित्यं, कुकर्मफलमोहितम्

7.118

आस्वादयित्वा पुरुषाः कामान् विषफलोपमान् ।
तृष्णया तृप्तमनसः पतन्ति नरके पुनः

7.119

यथाभिवर्षते तोयं वर्धन्ते सरितो यथा ।
तथा कामाभिवर्षेण देवानां वर्धते ऽनलः

7.120

कामसुखस्य नान्तो विद्यते
जलसम्भवमीनो ऽपि दृश्यते तृष्णयातुरः ।
एवं सुखाभिवृद्धा च न वितृप्यति देवता

7.121

आकाशस्य यथा नान्तो विद्यते नापि संशयः ।
एवं कामेषु नास्त्यन्तः कामिनां नास्ति संक्षयः

7.122

सलिलादिभिरतृप्तस्य सागरस्योर्मिमालिनः ।
न तु कामैरतृप्तस्य तृप्तिरस्ति कथञ्चन

7.123

अप्राप्तैर्विषयैर्देवा न वितृप्यन्ति बालिशाः ।
विषयैर्नैव तृप्यन्ति सुखलालसतत्पराः

7.124

कामस्तापाय, न तु शान्त्यै
संप्राप्ते व्यसने तीव्रे च्यवमानेप्यनेकशः ।
तप्यते विषये तस्मात् परं कामो न शक्यते

7.125

विलोक्य पुरुषानेते कामविश्वासघातिनः ।
त्यजन्ति व्यसने प्राप्ता विपद्यन्ते हि ते नराः

7.126

अतृप्तस्य सुखं नास्ति विषयैश्चापि तृप्यते ।
ये वा तृइप्तिकरा दृष्टास्तान् बुद्ध्वा (तु) विवर्जयेत्

7.127

विषयान्परित्यज्य शान्तिः सेव्या
सुखमूला सदा शान्तिरसुखा विषया मताः ।
तस्माच्छान्तिसुखा देवा वर्जयित्वा विषयोरगान्

7.128

बधबन्धनरोगादि विषयेभ्यो महद्भयम् ।
सम्भ्रान्तिरिह संसारे विषयैरेव जायते

7.129

संयोगा विप्रयोगान्ताः शतशो ऽथ सहस्त्रशः ।
जातौ जातौ सदा दृष्टाः सौगतैस्तत्त्वदर्शिभिः

7.130

अनेक सुखसंसारः विषयात्मक एव
अनेकसुखसंसारो विषयेषु हि विद्यते ।
विषयैश्च भवेत् सर्व जातौ जातौ प्रजायते

7.131

कष्टैर्यैरनकामैर्न शक्यते ऽमूढचेतसा ।
पुनस्तानेव मोहान्धाः सेवन्ते ऽकृतबुद्धयः

7.132

विषयशत्रुसेविनः बालिशाः भवन्ति
वर्जते हि सदा शत्रुवञ्चनाशङ्कया नरः ।
विषयाः शत्रुभूता हि न वश्यन्ते कथञ्चन

7.133

कामबद्धाः सदा मोहबालिशा वा भवन्ति ते ।
न त्यजन्ति कथं मूढा मोहिताः स्वेन कर्मणा

7.134

यथा बह्निभयात् कश्चिद् वह्निमेवोपसेवते ।
तथा विषयसंमूढो विषयानुपसेवते

7.135

स्नायुसङ्ग्रथितः पाशो दृष्टिरम्यो यथा भवेत् ।
तथा विषयरम्यो ऽयं पाशः परमदारुणः

7.136

कामसुखं नाशाय भवति
किंपाकस्य यथास्वादो मधुराग्रो महोदयः ।
पश्चाद् भवति नाशाय सुखं तद्वदिदं नृणाम्

7.137

प्रदीपस्य शिखां यावत् पतङ्गो मोहमूर्छितः ।
पतते दह्यते चैव तथेदं सुखमिष्यते

7.138

अज्ञात्वा हि तथा बाला रम्यदेहसुखेच्छया ।
स्पृशन्ति ज्वलनं तद्वत् सुखमेतद् भविष्यति

7.139

तृष्णाविघात एव सुखाय जायते
यथा रम्यो वनमृगस्तृष्णार्त उपधावति ।
न च तृष्णाविघातो ऽस्य तदिदं सुखमिष्यते

7.140

न तृप्ता न च तृप्यन्ति न च तृप्तिर्भविष्यति ।
विषयैः सर्वदेवानां तस्मात् कामो न शान्तये

7.141

विषयैः प्रमत्ताः दुःखमनुभवन्ति
प्रत्युत्पन्नसुखाः कामा नान्तकल्याणकारकाः ।
रञ्जिता विषयैर्देवा विक्षिप्तमनसः सदा

7.142

नानासौख्यप्रमत्तस्य विषयैर्वञ्चितस्य च ।
सम्प्राप्ते मृत्युकाले च न शमायास्य विद्यते

7.143

अनुक्रमेण मरणमभ्येति तच्च विद्यते ।
विषयापहतैर्देवैः कामव्यासक्तबुद्धिभिः

7.144

कामा अहितकारिणो भवन्ति
जानीयादद्य मे देवा यद् दुःखं विप्रयोगजम् ।
मुहूर्तमपि कामेषु न कुर्यात् तत्र संस्थितिम्

7.145

रागाग्निना दग्धो विमोहितो जायते
अनित्यात्मभयाः कामा नित्यं चाहितकारिणः ।
तथा विमोहितान् कालः पुनस्ताननुसेवते

7.146

रागाग्निना प्रदहयन्ते नित्यं देवाः प्रमोहिताः ।
दह्यमानाः पुनस्तत्त्वं प्रशंसन्ति पुनः पुनः

7.147

रथचक्रवत्सदा भ्रान्ता विषयविमोहिताः भवन्ति
विषयेषु न रक्ष्यन्ते तेषां दुःखमिव स्थितम् ।
त्रैधातुकमिदं सर्व भ्राम्यते रथचक्रवत्

7.148

गन्धर्वनगरसदृशाः कामाः भवन्ति
सत्त्वा अविद्यया मुग्धा नित्यं दुःखस्य भोगिनः ।
विद्युदालातचक्रेण समाः कामाः प्रकीर्तिताः ।
स्वप्ने गन्धर्वनगरसदृशा विप्रलम्भिनः

7.149

पञ्चस्कन्धमतिर्दुःखितस्तिष्ठति
अनित्यदुःखशून्येषु न कुर्यान्मतिमात्मवान् ।
पञ्चस्कन्धासुरैः प्रोक्तः शुभै रिक्तः स्वभावतः

7.150

अन्यथा विषवद् विज्ञः कामेषु च प्रसह्यते ।
स बुधः पारगः शान्तः सत्त्वानामनुकम्पकः

7.151

निर्वाणोन्मुख एव दोषाच्छान्तिमधिगच्छति
हित्वा क्लेशमयं पाशं निर्वाणस्यान्तिके स्थितः

7.152

कामविभ्रान्तस्य शान्तिकथा वृथा
प्रभवेन्न च दोषेषु कामचर्यारतस्य च ।
विभ्रान्तमनसस्तस्य कुतः शान्तिर्भविष्यति?

7.153

विभ्रान्तं पश्यतु मनो विषयेषु प्रधावति ।
सद्धर्मपथविभ्रान्तो नरकेषूपपद्यते

7.154

अशक्तप्राप्तविभ्रष्टे किं कामैर्विद्युतोपमैः ।
किंपाकविषशस्त्राग्निसन्निभैर्दुःखहेतुभिः?

7.155

कामाग्निः विषयसेवनेन वर्धते
यथा यथा हि सेव्यन्ते वर्धन्ते ते तथा तथा ।
अवितृप्तिकरा ह्येते वह्निदाहस्य हेतवः

7.156

कामान् वर्जयित्वैव सुखमश्नुवते जनाः
दाहदोषेण सम्भ्रान्ताः ये सुराः सुखकाङ्क्षिणः ।
वर्जयित्वाशिवान् कामास्ततः सौख्यं भविष्यति

7.157

कामाः विद्युद् गुणोपमाः चञ्चलाः
वञ्चयित्वा जनं मूढं शाटी कृत्येव बन्धनम् ।
प्रत्ययो नेत्रचपलः कामा विद्युद् गुणोपमाः

7.158

उपर्युपरि कामा यैः सेव्यन्ते कामतृष्णया ।
ते रागवह्निना दग्धा दाहाद् दाहमवाप्नुयात्

7.159

अतिमूढतमा ह्येते ये सुराः काममोहिताः ।
अथवा ये न गच्छन्ति यत्सुखात् सुखमुत्तमम्

7.160

निर्वाणगामिनो नास्ति विना मुक्त्या कुतः सुखम्? ।
तस्मात् कामान्न सेवेत कष्टः कामसमागमः

7.161

इन्द्रियाणि न तृप्यन्ते विषयै रागसेविनः ।
अतृप्तौ च कुतः शर्म सर्वथा सम्प्रवेशते

7.162

तस्याग्रमुभयाद् वेत्ति संसाराद् दुःखसागरात् ।
कामान् तृष्णाविषयगान् परित्यजति पापकान्

7.163

कामोदयव्ययौ सम्यगवधेयौ
एतानि गिरिकूटानि रम्याणि विविधैर्द्रुमैः ।
ध्यायन्ते तानि संश्रित्य कामानामुदयव्ययौ

7.164

शीलेन श्रद्धया च इष्टसाधनं कर्त्तव्यम्
न कामबन्धनेस्तृप्ताः कामजं निधनं हि तत् ।
न शीलश्रद्धे येनेष्टे लभ्यते ऽशिवकारणम् ।
कामजं निधनं ह्येतत् संसाराटविदेशकम्

7.165

पापानि परित्यज्य सुखावहः शान्तिमार्गः सेवनीयः
यत्र कामविसंयुक्तं बन्धनं वनमुच्यते ।
यत्र भासयते पापाद् यत्र शान्तिः सुखावहा ।
तत् केवलं महाज्ञानं कथ्यते निधनं धनम्

7.166

कामतृष्णाभ्यां विमुक्तः शिवमाप्नोति
ये प्रसक्ता न कामेषु तृष्णया न प्रलोभिताः ।
ते शिवं स्थानमापन्ना न कामाग्निप्रवेशकाः

7.167

अवितृप्ताः नराः नश्यन्त्येव
तृप्तिर्नास्ति सदा कामैर्न कामाः शान्तये स्मृताः ।
तृष्णासहायसंयुक्ता ज्वलन्ति ज्वलनोपमाः

7.168

अवितृप्ता विनश्यन्ति नरा देवास्तथोरगाः ।
ते केवलं प्रणष्टा हि नरकाग्नि प्रदर्शकाः

7.169

तृष्णामोहितस्य मृत्युरधिपतिः
वितर्कापहतस्यास्य विषयैर्वञ्चितस्य च ।
तृष्णया मोहितस्यैष मृत्यू राजा भविष्यति

7.170

कामासक्ताः पथ्यापथ्यं न विजानन्ति
संसक्तकामभोगेषु पथ्यापथ्यं न विद्यते ।
जना विमोहिताः सर्वैविषयैः कामसंज्ञकैः

7.171

कामवशानुगाः विषयैरेव बध्यन्ते
विषयैरेव कृष्यन्ते ये सुरा मूढचेतसः ।
ये (तु) बुद्धगुणैर्युक्ता न ते कामवशानुगाः

7.172

ऽधीरऽ परिभाषा
प्रत्युत्पन्नेषु कामेषु सदोषेषु विशेषतः ।
यो न मुह्यति सौख्येषु स ऽधीरऽ इति कथ्यते

7.173

कामपतितानां सुराणां स्थितिमाह
स्वप्नकायविचित्रेषु ज्वालामालोपमेषु च ।
गन्धर्वपुरतुल्येषु कामेषु पतिताः सुराः

7.174

तृष्णाजनकभूतेषु विनाशान्तकरेषु च ।
कान्तारेषु विशालेषु कामेषु पतिताः सुराः

7.175

इत्त्वरेषु त्रिछिद्रेषु नदीवेगोपमेषु च ।
चञ्चलेष्वतिदुर्गेषु (कामेषु) पतिताः सुराः

7.176

पवनोद्धृतवेगोर्मिजलचन्द्रे चलेषु च ।
अतातचक्रलोकेषु कामेषु पतिताः सुराः

7.177

समं विद्युल्लताचक्रमृगतृष्णोपमेषु च ।
फेनवच्चाप्यसारेषु कामेषु पतिताः सुराः

7.178

कदलीगर्भतुल्येषु गजकर्णोपमेषु च ।
नदीतरङ्गवेगेषु कामेषु पतिताः सुराः

7.179

किंपाकफलतुल्येषु वह्निसन्निभजातिषु ।
मायारश्मिनिभेष्वेषु कामेषु पतिताः सुराः

7.180

ज्ञानाङ्कुशेन कामो वर्जनीयः
ज्ञानाङ्कुशेन वार्यन्ते विषयास्तत्त्वदर्शिभिः ।
ये ऽमुक्ताश्चपलास्तीव्राः सर्वानर्थकरा मताः

7.181

विषया एव नरकपातहेतवः
विषयाशा च मूढानां सङ्कल्पहृतचेतसाम् ।
मृत्युपाशो ऽयमभ्येति जीविताशा(वि)बन्धकः

7.182

पचन्ति निरये कामाः प्राणिनं लघुचेतसम् ।
न च विन्दन्ति मूढा ये मोहेन परिवञ्चिताः

7.183

विषयाश्चपलाः सर्वे गन्धर्वनगरोपमाः ।
दुःखसंवर्तका ह्येते नरकाः पञ्चहेतवः

7.184

सङ्कल्पजो रागः नरकं पातयति
सङ्कल्पाज्जायते रागः रागात् क्रोधः प्रवर्तते ।
क्रोधाभिभूतः पुरुषो नरकानुपसेवते

7.185

कामपरित्यागपूर्वकं निर्वाणप्राप्तये यतेत
तस्मात् कामं परित्यज्य क्रोधं निर्वास्य पण्डितः ।
मोहं चापि परित्यज्य निर्वाणाभिमुखो भवेत्

7.186

निर्वाणपथिकानां कृते शत्रुवदेव कामः परिवर्जनीयः
शत्रुवद् विषया ज्ञेया निर्वाणं चैव मित्रवत् ।
पुमान् विश्रान्तविषयो निर्वाणमधिगच्छति

7.187

काममलैरलिप्त एव विमलप्रकाशमाप्नोति
अलोलुपः काममलैरलिप्तः प्रहीणदोषो हतवाणतृष्णः ।
संक्षीणदोषो विमलप्रकाशः प्रयाति शान्तिं स्वफलोपभोगी

7.188

सुखार्थी कामं परित्यज्यैव शान्तिमधिगच्छति
यः कामपङ्कोद्धृतवानदोषः
सर्वेषु सत्त्वेषु सदा सुखार्थी ।
स निर्मलो ऽशान्तमनोविमुक्तः
प्राप्नोति निर्वाणसुखं प्रसह्य

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc