भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 6

6.1

इति अनित्यतावर्गः पञ्चमः
(6) अप्रमादवर्गः
प्रमादरतस्य न मोक्षः
यः प्रमादरतो जन्तुर्नासौ मोक्षाय कल्पते ।
प्रमादविषमूढस्य निर्वाणं दूरमेव तत्

6.2

न प्रमादे मनः कार्यम्
न प्रमादेषु बध्येत् प्रमादः शत्रुरुत्तमः ।
प्रमादपरमा देवाः पतन्ति नरके पुनः

6.3

स्वभावतामिमां ज्ञात्वा धर्माणामुदयव्ययम् ।
न प्रमादे मनः कार्य प्रमादविषमुत्तमम्

6.4

प्रमादाप्रमादयोः परस्परविरोधित्वम्
अप्रमादो ऽमृतपदं प्रमादो मृत्युनः पदम् ।
अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः

6.5

यथा विषं तथा वह्निः प्रमादः प्राणिनां तथा ।
प्रमादोन्मादिताः सत्वाः दुःखाद् दुःखं प्रयान्ति ते

6.6

अप्रमत्ताः सदामर्त्याः सर्व प्रक्रमसंस्कृताः ।
प्रयान्ति परमां शान्ति प्रमादो यत्र नास्ति हि

6.7

यः प्रमादे रतो जन्तुर्न शुभान्यनुचेष्टते ।
तस्य धर्मविमूढस्य कुतः स्वर्गो भविष्यति?

6.8

प्रमादं वर्जयेद् यस्मात् प्रमादं विषमुत्तमम् ।
अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः

6.9

सौभाग्यं प्राप्य यो मर्त्यः प्रमादेषु च वर्तते ।
न पण्डित इतिख्यातो विपरीतस्तु नान्यथा

6.10

न प्रमादस्य कालो हि हर्षस्य न कथञ्चन ।
व्यामोहजननाच्चेतो मृत्युकाले महाबले

6.11

प्रमादमुखेन प्रमादवर्णनम्
हर्षो धूमः प्रमादो ऽग्निर्देवान् दहति नैकशः ।
विषयैर्मोहिता मूढा न च विन्दन्त्यचक्षुषः

6.12

अव्युच्छिन्नानि पश्यन्ति संस्काराणि च देहिनाम् ।
यथा हि विषयैर्मूढा नावगच्छन्ति यद्द्विषः

6.13

तस्मात् प्रमादं विषवत् कथयन्ति मनीषिणः ।
सुखं न दृश्यते पूर्व प्रमादोमन्दबुद्धिभिः

6.14

(यथा) प्रमादोपकृताः प्रयान्ति नरकं पुनः ।
फले प्राप्ते प्रमादो ऽयं पश्चात् सन्तप्यते व्यथा

6.15

प्रमादो ऽनर्थकरः
सर्वानर्थकरो दृष्टः प्रमादः पण्डितैः नरैः ।
तथा च कुशलं प्रायो यः प्रमादं न सेवते

6.16

दुःखं यस्य भवेदिष्टं स प्रमादं निषेवताम् ।
न प्रमादपरः कश्चित् कदाचित् सुखमाप्नुयात्

6.17

प्रमादशून्यानामच्युतपदप्राप्तिः
प्रमादविरताः सन्तो गच्छन्ति पदमच्युतम् ।
ना प्रमादपरः कश्चिन्नरके दुःखितान्नयेत्

6.18

यदि देवाः सहन्तीमं रमन्ते मन्दमेधसः ।
तिरश्चां हि सुराणां च विशेषो नैव विद्यते

6.19

प्रमादवशात् देवलोकाद् पतन्ति
प्रत्येकं कर्मवैचित्र्यं प्रमादपरमाः सुराः ।
नावगच्छन्ति पतनं देवलोकाद् भविष्यति

6.20

सन्निकृष्टं सदा दुःखं पतनं वा भविष्यति ।
देवलोकोत्तरा देवा यथा स्यात् सुखमात्मनः

6.21

देवलोकं समासाद्य यः प्रमादेषु रक्षते ।
स क्षीणशुभकर्मान्तं च्यवनान्ते विबुध्यते

6.22

मा प्रमादपरोभूयाः प्रमादो नोचितः सुरैः ।
प्रमादैर्दोषविहताश्च्यवन्ति त्रिदशालयात्

6.23

प्रमादवशगः पुरुषः नाशमेति
दह्यते पुरुषः सर्वः प्रमादेन विमोहितः ।
स पश्चाद् विगते तस्मिन् प्रत्यादेशेन रक्ष्यते

6.24

दोषोद्भवामिमां भूमिं प्रमादावृत्तशाद्वलम् ।
विचरन्ति सदा मूढाः सुराः सत्कृतमोहिताः

6.25

चञ्चला विषमास्तीव्रा प्रमादाः कामहेतवः ।
न तेषां विश्वसेद् वीरो यस्मात् स्वप्नोपमा हि ते

6.26

कामः नारकस्य हेतुरिति
न स्वप्नो नरके हेतुः कामाः स्वप्नस्य हेतुकाः ।
तस्मात् काममिमं मुक्त्वा नित्यं सुचरितं चरेत्

6.27

अप्रमादात्सर्व प्राप्तुं शक्नोति
यत्रावाप्तं पदं कृत्स्नं सुरैः कामविमोहितैः ।
तत् प्राप्यते पदं वीरैरप्रमादपरैर्नरैः

6.28

प्रमादमूलसंसारः
प्रमादमूलसंसारो देवानामालयस्तथा ।
ये प्रमादविषैर्मत्तास्ते मग्ना भवसङ्कटे

6.29

तमः प्रमादमूलञ्च अविद्या हयपकारिका ।
अन्धकारेण ये मूढास्तेषां चक्षुर्न विद्यते

6.30

प्रमादः मोहात्मकः
तेजसा हि तथा मूलैरग्निना न च कथ्यते ।
मोहानां प्रवरस्तद्वत् प्रमादः परिकीर्त्यते

6.31

प्रमादानलतप्तेन मनसा तद् विचेष्टते ।
मुहयन्ते येन ते बालाः प्रयान्ति नरकं पुनः

6.32

प्रमादोन्मादितः सुखमेवानुभवति
प्रमादोन्मादिता देवास्त्रिविधा ये चलात्मकाः ।
वियोगदुःखं विस्मृत्य संयोगे सुखकांक्षिणः

6.33

पतनान्तमेव जीवनम्
उपस्थिते महादुःखे पतनान्ते हि जीविते ।
पश्चाद् वहन्ति विरसं पतनान्तं सुखं चलम्

6.34

संयोगो विप्रयोगान्तः पतनान्तः सुखं सदा ।
जरान्तं यौवनं सर्व कर्मान्तः सर्वदेहिनाम्

6.35

संसारः कर्मनाटकसम्बद्धः
शुभाशुभेन बद्धा हि कर्मणा सर्वदेहिनः ।
नटवन्नटयन्त्येते गत्यां गत्यां पृथक् पृथक्

6.36

कर्मनाटकसम्बद्धः संसारो भ्रमते सदा ।
न तत्र विश्वसेद्धीमाननित्या कर्मणां गतिः

6.37

प्रमादः परमोदोषः
सर्वपापानि विषवत् प्रमादः परिबर्ज्यताम् ।
प्रमादेन तु ये मुक्ता (स्ते) तीर्णास्ति भवार्णवात्

6.38

प्रपातपतितो दोषी कदाचिदपि जीवति ।
न प्रमादप्रपतितः कदापि सुखवान् भवेत्

6.39

प्रमादः परमो दोषः कदाचित् सर्वकर्मसु ।
न रात्रौ न दिवा तस्य शुभं भवति कर्हिचित्

6.40

यत् सुखं लौकिकं किञ्चिद् यच्च लोकोत्तरं मतम् ।
नश्यते तत् प्रमादेन तस्मात् तत् परिवर्जयेत्

6.41

अप्रमादो ऽमृतपदम्
अप्रमादो ऽमृतपदं प्रमादो मृत्युनः पदम् ।
अप्रमादेन ते देवाः देवानां श्रेष्ठतां गताः

6.42

प्रमादमूलः संसारः अप्रमादश्च (सद्) गतिः ।
तस्माद् प्रमादविरतः सुखी भवति सर्वदा

6.43

दुःखाद् विभेति चेत् प्रमादं परित्यजेत्
इच्छते यत्सुखं नित्यं यश्च दुःखाद् विभेति (वै) ।
स (हि) प्रमादाद् विरमेत् प्रमादो विषवन्नृणाम्

6.44

प्रमादनिद्राविहता प्रमादविषमोहिताः ।
प्रपातं हि प्रपद्यन्ते जनाः शुक्ल कृतात्मकाः

6.45

अप्रमादः परं श्रेयः
अप्रमादः परं श्रेयो न प्रमादः कथञ्चनः ।
अप्रमादेन सुखिनः प्रमादेन (सु)दुःखिताः

6.46

प्रमादमूढाः नरकं व्रजन्ति
प्रमादमूढा हि नरा भूयो मद्येन मोहिता ।
धिक् प्रमादविमूढास्ते चरन्ति नरकं पुनः

6.47

प्रमादवागुराबद्धा विषयार्णवसंस्थिताः ।
तृष्णाविषयसम्बद्धो देवः क्रीडत्यनेकशः

6.48

जातमात्रस्य देवस्य तत् क्षणं क्षीयते सुखम् ।
न विन्दन्ति विवशाः प्रमादावृत्तचेतसः

6.49

प्रमादवशः कामवशगो ऽतृप्त एव तिष्ठति
प्रमादोद् भ्रान्तमनसो नित्यं विषयतत्पराः ।
अतृप्ताः कामभोगेषु सुखेन सुखिता हि च

6.50

कामानलेन सन्दग्धाः विप्रमादेन मोहिताः ।
न विन्दन्ति बलं सर्व विनाशान्तं हि जीवितम्

6.51

अनेकानि सहस्त्राणि सुराणां नियुतानि च ।
कामानलेन सन्दग्धाः प्रमादेन विमोहिताः

6.52

प्रमादयुताः पतन्ति
ह्रियते पुरुषः सर्वः प्रमादेन विमोहितः ।
स पश्चाद् व्यसने प्राप्ते बुध्यते तस्य तत्फलम्

6.53

विषवत् प्राणहृद् दृष्टः प्रमादस्तत्त्वदर्शिभिः ।
अग्निवद् दह्यते नित्यं शस्त्रवच्च निकृन्ततिः

6.54

मित्रवद् दृश्यते पूर्व पश्चाद् भवति शत्रुवत् ।
वहिशः सर्वदेवानां प्रमादः सम्प्रवर्तते

6.55

देवासुरमनुष्याणां नागानां च विशेषतः ।
प्रमादः कारणं दृष्टं सर्वान्नर्थान् करोति सः

6.56

यः प्रमादहतो नित्यं नासौ कल्याणमर्हति ।
कल्याणवर्जितः पुरुषो नरकानुपकर्षति

6.57

विविधा कृतयस्तिर्यग् प्रमादपरिवञ्चिताः ।
मैथुने भोजने चैव येषां बुद्धिः सदारताः

6.58

यदा सुचरितं कर्म चान्तीभूतं दिवौकसाम् ।
भविष्यति तदाभूयः क्व यास्यन्ति प्रमादिनः

6.59

प्रमादवारिणां दुःष्टाः कर्मवायुभिराहताः ।
पतन्ति वृक्षवद् देवा गत्यां गत्यां पृथक् पृथक्

6.60

सुराणामपि संवेगजनितः शोको जायते
शतशो न हुतश्चैव दिवि जाता दिवौकसः ।
न च संवेगजनितो हृदि शोकः प्रजायते

6.61

प्रमादकलुषं पीत्वा मोहात्पानं दिवौकसः ।
पतन्ति नरकं तीव्रं वह्निना परिवारितम्

6.62

सुदुर्लभस्य मानुषस्य जन्मनः साफल्यवैफल्ये
सुलब्धं मानुषं जन्म ये लब्ध्वा अप्रमादिनः ।
कुर्वन्ति सुकृतं कर्म देवलोकोपगामिनः

6.63

दुर्लभं मानुषं कर्म लब्ध्वापि ये प्रमादिनः ।
ते प्रमादात् परिभ्रान्ताः पतन्ति नरके नराः

6.64

मृत्युसमये प्रमादी तपत्येव
प्रमादरतसत्त्वो यः कृपया परिवर्तते ।
स पश्चान्मृत्युसमये तप्यते स्वेनचेतसा

6.65

प्रमादस्य दाहकत्वम्
न तथा दह्यते वह्निर्न च शस्त्रं विकृन्तति ।
पञ्चेन्द्रियसमुद्भूतं प्रमादो दह्यते तथा

6.66

सुखरूपं तथा दुःखं मित्ररूपं तथा रिपुः ।
प्रमादिनां हि तन्नित्यं तस्मात्तं परिवर्जयेत्

6.67

प्रमादतृष्णया मिश्रो रागस्तदनुवर्धकः ।
त्रयस्ते रिपवः क्रुष्टाः नाशयन्ति सुखं नृणाम्

6.68

ये प्रमादरता नित्यं न च धर्मरता बुधाः ।
ते मृत्युसमये प्राप्ते यमदूतैः पराकृताः

6.69

विषवत्प्रमादं मत्वा तत्परित्यागिनःधन्या
प्रमादं विषवद् ये तु परिरक्षन्ति पण्डिताः ।
ते मृत्युसमये प्राप्ते भवन्ति सुखभागिनः

6.70

प्रमादः परमो मृत्युरप्रमादः परं सुखम् ।
तस्मात् सुखार्थिनाः नित्यं मा प्रमादे मतिं कृथाः

6.71

धात्वायतन सम्मोहः श्रेयसां विध्न
धात्वायतनसम्मोहः श्रेयसां विघ्नकारकः ।
सन्यासः सर्वकर्माणां प्रमादः सम्प्रवर्तते

6.72

दोषयन्त्रविलग्नाय मायाद्वारस्य दूतकः ।
सम्मोहस्याग्रणी पापः प्रमादः सम्प्रवर्तते

6.73

प्रमादरताः मृत्युमुखं प्रति गच्छन्ति
ये प्रमादरता बालास्ते मृत्योर्हस्तमास्थिताः ।
प्रमादसेवका ये तु ते सर्वे निधनंगता

6.74

प्रमादिनो देवा अपि क्षीणपुण्याः भवन्ति
पुण्यक्षयाय देवानां प्रमादेन विहिंसिताः ।
पतन्ति सुखसंमूढास्त्राणं तेषां तदा कुतः

6.75

सद्धर्माचरणं भूतदयैव
एको धर्मस्तथाश्रेयः कृपया संयतः पृथुः ।
क्षान्तिश्चापि सदा युक्ता दया भूतेषु सर्वदा

6.76

बलभूता भवन्त्येते मृत्युकाले महाभये ।
तस्मात् प्रमादरहितैः सेवनीयाः प्रयत्नतः

6.77

विद्याविधिज्ञस्यैव प्राणिनः शान्तिर्जायते
अविद्यावर्तनं श्रेयो विद्याया रक्षणं सदा ।
विद्याविधिज्ञो यः (सत्वः) प्रमादस्तस्य शाम्यति ।
पुरुषार्थो नियतो (ह्यत्र) यत् प्रमादस्य वर्जनम्

6.78

अप्रमादरतस्यैव पुरुषार्थसिद्धिर्भवति
अप्रमादरतस्यैव पुरुषार्थः सतां मतः ।
प्रमादो बन्धनं प्रायो मुक्तिस्तस्याप्रमादतः

6.79

प्रमादसेवनाद् बन्धनम्
मोक्षबन्धनयोरेतल्लक्षणं स्यात् सतां मतम्
एवं मत्वा सदा देवो यः प्रमादेन रक्षति ।
स पश्चान्मृत्युसमये ज्ञास्यते तस्य तत्फलम्

6.80

सन्तोष एव निर्वाणसाधनम्
यथा यथा हि सन्तोषः सेव्यते यतिभिः सदा ।
तथा तथा हि निर्वाणमनिके तस्य वर्तते

6.81

विरागः सर्वकामेषु निर्वाणे च प्रवर्तताम् ।
नासौ मारस्य विषयः कदाचित् सम्प्रवर्तते

6.82

ज्ञानेनैव दुःखप्रहाणम्
नराणां पश्य मनसो नित्यं व्यापारमेव च ।
उद्योगश्च सदाज्ञानं स कथं दुःखमेष्यति

6.83

कः बन्धनमुक्तो भवति?
अतीतभयसम्पन्नः प्रत्युत्पन्ने च बुद्धिमान् ।
अनागतविधिज्ञो यः स मुक्तः क्लेशबन्धनात्

6.84

अप्रमादरतो नित्यमविश्वासे च कातरः ।
संज्ञानसेवी विमलो निर्वाणस्यान्तिके स्थितः

6.85

महत्सुखं प्रमादेन नश्यति
प्रमादेनापि नश्यन्ति देवाः प्राप्यमहत्सुखम् ।
किं पुनर्येन वा मूढाः प्रमादवशसेविनः

6.86

मृतः स नरो भवति यः प्रमादविहारवान् ।
जीविते च प्रमत्तो ऽयं सततं ज्ञानधारणे

6.87

प्रमादाप्रमादयोरन्तरम्
अप्रमादप्रमादाभ्यामिदमन्तरमिष्यते ।
मृत्युं च वर्जयेद् दोषं प्रमादं दुःखमूलकम्

6.88

नित्यं प्रमुदिता देवाः नित्यं प्रमुदिता वयम् ।
पक्षिणां च सुराणां च विशेषो नोपलभ्यते

6.89

न धर्माचरणं दृष्टं मोक्षचर्या न यात्यसौ ।
तथैव यदि देवानां ते गताः पक्षिभिः समा

6.90

ये प्रमादविनिर्मुक्ता ये च धर्मरताः सदा ।
ते देवाः सत्पथा लोके न प्रमादविहारिणः

6.91

यदि क्रीडारता देवाः प्रमादचरिताः सदा ।
देवानां च खगानां च विशेषो नोपलभ्यते

6.92

धर्मपतितः जात्या न शोभते
कर्मणां तु विशेषेण जातिर्धर्मैर्विशिष्यते ।
न धर्मपतितः कश्चिद् जात्या भवति शोभनः

6.93

येन निन्दन्ति संसारमिमं सर्वक्षयात्मकम् ।
ते सुरापिसमा नित्यं पक्षिभिर्मूढबुद्धिभिः

6.94

येषामेवस्थिता बुद्धिरमता धर्मगोचरे ।
ते देवाः सम्मत्ता लोके न प्रमादविचारिणः

6.95

ये जन्महेतुप्रभवं दुःखं बुध्यन्ति शोभनम् ।
ते देवा न तु ये सक्ताः कामेषु हितकारिषु

6.96

वियुज्यमाना बहुशो भृत्यस्वजनबान्धवैः ।
ये नोद्विजन्ति संसारे ते देवाः पक्षिभिः समाः

6.97

मद्यपानाधिकः प्रमादः
मद्यपानाधिको दृष्टः प्रमादस्तत्त्वदर्शिभिः ।
जीर्यते मद्यपानं हि प्रमादो नैव जीर्यते

6.98

प्रमादमत्तो गतिपञ्चके भ्रमते
प्रमादोपहतोलोको भ्रमते गतिपञ्चके ।
तस्मात् प्रमादमत्तो हि सर्वोपायैर्विशिष्यते

6.99

प्रमादः मद्यादपि हीनतरः
एकाहं परमं मद्यं प्रमादयति देहिनः ।
प्रमादः कल्पकोटिभिर्भ्रमतो ऽपि न जीर्यते

6.100

ये प्रमादैर्विरहितास्ते गताः पदमव्ययम् ।
ये तु प्रमादवशगास्ते भवन्ति खगा नराः

6.101

हितार्थिना मनुष्येण प्रमादोवर्ज्य एव हि ।
यस्मात् प्रमादवशगाः क्लेशा बुद्धेन देशिताः

6.102

देवानां कृते ऽपि प्रमादो हेय एव
खगा यदि प्रमादेन कुर्वन्ति लघुचेतसः ।
कस्माद्देवाः प्रमादं(तं) न जहंति विशेषतः

6.103

यस्तु दूरात् प्रमादेन भयं नावैति दुर्मतिः ।
सो ऽवश्यं व्यसने प्राप्ते पश्चात्तापेन दह्यते

6.104

पतनं देवलोकात् ते दानै रक्षन्ति दारुणम् ।
तद् विचिन्त्य प्रमादस्ते न संसेव्यः कथञ्चन

6.105

ये प्रमादरता नित्यं न ते सौख्यस्य भागिनः ।
प्रमादो दुःखमूलश्च मूलमेकं सुदारुणम्

6.106

पद्मकोटिसहस्त्राणि नियुतान्यर्बुदानि च ।
असंख्यानि च देवानां प्रमादेन वितन्विताः

6.107

अप्रमादः परं मित्रं प्रमादश्च शत्रुः
अप्रमादः परं(मित्रं) नित्यं हितकरं नृणाम् ।
प्रमादस्तु परं शत्रुस्तस्यन्मित्रपरो भवेत्

6.108

शुभस्यान्तकरो हयेष विषवद् दारुणं परम् ।
दुर्गतीनां परं मार्गः प्रमाद इति कथ्यते

6.109

प्रमादेन प्रमत्ता ये विषयैश्चापि रञ्जिताः ।
नरास्ते मूढमनसो नित्यं दुःखस्य भोगिनः

6.110

ज्ञानशून्याः भयदुःखमविगण्य पशुभिः समाः भवन्ति
येषां भयं न दुःखं (च) न च ज्ञानावलोकनम् ।
पशुभिस्ते समाविष्टा न पुरा सुखकांक्षिणः

6.111

आहारमैथुनरतिः पशूनां हृदि वर्तते ।
सा रतिर्यदि देवानां ते गताः पशुभिः समाः

6.112

प्रमादः मृत्योः पर्याय एव
क्रीडन्त्यतिशयं ह्येते मृत्योर्गम्ये पुरःस्थिता ।
सम्प्राप्ते मृत्युसमये फलं दास्यन्ति (दारुणम्)

6.113

विषवत् परिहेयो(ऽयं) सर्वैरपि (सुदुःसहः) ।
मृत्योः पर्यायनामैष प्रमादो हृदि देहिनाम्

6.114

प्रमादेन हतान् पूर्वं पश्चान्मृत्युः प्रमर्दति ।
धर्मजीवितसौख्यानां तमेकांशं प्रकथ्यते

6.115

अप्रमाद एव स्वर्गमार्गः
अप्रमाद इति ख्यातः स्वर्गमार्ग प्रदेशकः ।
अर्थानथौ समावेतौ पश्चान्मोक्षस्तथैव (च)

6.116

अप्रमादः गुणः प्रमाद एव दोषः
अप्रमादः प्रमादश्च गुणदोषसमाविभौ ।
तत्रैव मूढमनसो विजानन्ति च देहिनः

6.117

शत्रुणा सह रक्षन्ति ज्ञाने परिहरन्ति च ।
प्रमादविषवृक्षस्य शाखास्तिस्त्रः प्रतिष्ठिताः

6.118

जरा व्याधिश्च मृत्युञ्च नित्यं तस्योपरिस्थिताः ।
जरादयो न बाध्यन्ते पुरुषं सत्क्रियान्वितम्

6.119

अप्रमादी सदा भयनिर्मुक्तः सन् सुखीतिष्ठति
संसारे तिष्ठते धीमानप्रमादरतः सदा ।
निकृन्तन्ति सदा दोषा न प्रमादं परिष्वजेत्

6.120

सदा भयविनिर्मुक्तः सुखं प्राप्नोत्यनुत्तमम् ।
(अ) प्रमादाच्च यत् सौख्यं शाश्वतं स भयं हि तत्

6.121

यत्तु तस्माद् विनिर्मुक्तं तत् सौख्यं ध्रुवमच्युतम् ।
शतशो मनुजा (हयत्र) प्रमादेन विमोहिताः

6.122

तथापि नाम वशगास्ते प्रमादे प्रतिष्ठिताः ।
चत्वारो हि विपर्यासाः प्रमादस्योपरिस्थिताः

6.123

प्रमादविरहात्तेपि नश्यन्ति लोकशत्रवः ।
यदनेकविकल्पो ऽयमनेकभयसङ्कटः

6.124

प्रमादरहिताः देवाः सन्तो ऽच्युतं सुखमश्नुते
संसारो भ्रमते दुःखे तत् प्रमादस्य चेष्टितम् ।
एकः प्रमादविरहात् प्राप्यते सुखमच्युतम्

6.125

प्रमादेन विनश्यन्ति सर्वधर्मा हतास्त्रवाः ।
देवानां च प्रमादो ऽयमुपर्युपरि वर्तते

6.126

कथं प्रमादसम्मूढाः देवा यास्यन्ति निर्वृतिम् ।
तदे(त)त् सौम्यमनसा चिन्तयित्वा विकल्पयेत्

6.127

तथा मे हित मास्थेयं यथा यत् स्यात् (सुखावहम्) ।
ये देवा यच्च तत्सौख्यं पश्यन् यदपिकिञ्चन

6.128

संस्कृतस्यैव ध्रुवपदप्राप्तिर्भवति
तत् सर्व (हि) ध्रुवं गत्वा संस्कृतस्यैष सम्भवः ।
अवश्यं ते विनश्यन्ति ये भावाः संस्कृताश्चलाः

6.129

प्रमादवशाद् देवा अपि दुःखभागिनः भवन्ति
प्रमादनिरता (देवा)नित्यं दुःखस्य भागिनः ।
प्रमादापहतजनो यस्तेषां कुरुते मतिः

6.130

संवियोगे समुत्पन्ने दुःखेन परितप्यते ।
विषयेषु सकामेषु तृष्णावनगतेषु च

6.131

तेन ते वञ्चिता देवाः प्रमादवशवर्तिनः ।
मूलमेतदनर्थानां यत्प्रमादानुसेवनम्

6.132

प्रमादवर्जनं क्षेमकरम्
तस्यैतद् वर्जनं धन्यं सर्वक्षेमकरं महत् ।
सत्वा नैवापन्नसुखा दुःखैश्चापि समन्विताः

6.133

तथा बुद्धिरनुष्ठेया यथा मत्स्या जलानुगाः ।
स्वर्गे प्रमादवशगा स्त्रीविधेयाश्च ते सुराः

6.134

प्रमादिनो दुःखभागिनो भवन्ति
ते स्त्रीवह्निविनिर्दग्धा नित्यं दुःखस्य भागिनः ।
तस्मात् प्रयत्नशो देवैरङ्गना परिवर्जनम्

6.135

कर्त्तव्यं कामलोलस्य मनसा धृतिवर्धनम् ।
कार्याकार्येविमूढस्य धर्माधर्मे तथैव च

6.136

पुरुषस्यात्मभङ्गस्य निर्वाणं दूरमेव तत् ।
गुरुताभावतत्त्वज्ञो निपुणो धर्मगोचरः

6.137

धर्मिण एव सुखमाप्नुवन्ति
धर्माकांक्षी फलाकांक्षी तादृशं लभते सुखम् ।
निधौतमघकल्माषाः नित्यं धर्मानुवर्तिनः

6.138

प्रमादविमोहिता एव दुःखमाप्नुवन्ति
सुखिनस्ते सदा दृष्टा न प्रमादविहारिणः ।
प्रमादापहतः पूर्व प्रमादेन विमोहितः

6.139

मद्येन देवो ऽपि प्रमादमेति
देवो वा पुरुषश्चापि न सुखस्यान्तिके हि सः ।
मृतः स पुरुषो नित्यं यो मद्येन प्रमाद्यति

6.140

मद्यदोषाधृताः सर्वे भवन्ति नरके नराः ।
असंसर्गचरो दोषो मद्यमित्यभिधीयते

6.141

मद्येन मोहिता नित्यं देवाः नरकगामिनः ।
असम्भूतेषु रक्षन्ते न सम्भूते कथञ्चनः

6.142

मदात्स्वाकारमलिना देवाः कामैर्विमोहिताः ।
कामेन मोहिता देवा मद्येनापि तथैव च

6.143

प्रमादी तत्त्वं न पश्यति
न तत्त्वमत्र पश्यन्ति जात्यन्धा इव सत्पथम् ।
प्रमादाकुलितं चित्तं न तत्त्वमनुपश्यति

6.144

प्रमादश्चाग्निवत्तस्मात् परिवर्ज्यः समन्ततः ।
प्रमादेन विनश्यन्ति कुशला धर्मयोनयः

6.145

प्रमादविषसेवनं नाशायैव जायते
मार्ग च विषसंस्पृष्टं सर्वथा नैव पश्यति ।
दशधर्मा विनश्यन्ति प्रमादविषसेविनाम्

6.146

ध्यानानि चैव चत्वारि प्रणश्यन्ति प्रमादिनः ।
अप्रमादं प्रशंसन्ति बुद्धाः कामविवर्जिताः

6.147

अप्रमत्ता जरामुक्ता भवन्ति
प्रमादञ्च जुगुप्सन्ति जरामरणपञ्जरम् ।
अप्रमत्ता जरामुक्ता प्रमत्ता दुःखभोगिनः

6.148

प्रमाद एव बन्धनम् ।
प्रमादो बन्धनं हयेतद् दुःखितं मन्दबुद्धिनाम् ।
अप्रमादेन कुशला देवानां समितिङ्गताः

6.149

तस्मात् ते पतिता भूयो ये प्रमादानुसेविनः ।
प्रमत्तपुरुषः सर्व संसारान्नैव मुच्यते

6.150

प्रमादपाशपाशेन येन बद्धा हि देहिनः ।
अकार्य कार्यसदृशं कार्य कुर्वन्ति सर्वदा

6.151

अप्रमादिनः कल्याणपरम्परामाप्नुवन्ति
अप्रमादान्नरः सर्व विपरीतं (हि) पश्यति ।
न लौकिकेषु कार्येषु कुतो न श्रैयसेषु च

6.152

प्रमादं न प्रशंसन्ति पण्डिता बुद्धिपारगाः ।
यथा शुभं परिक्षीणं भविष्यति दिवौकसाम्

6.153

प्रमादफलं हानिकरम्
तदा प्रमादस्य फलं ज्ञास्यन्ति कटुकं हि तत् ।
कामसंसक्तमनसां तस्यान्ते सुखसेविनाम्

6.154

भविष्यति सुखं तस्माद् विनिपातोदयो महान् ।
विषयाभिमुखेप्सूनां नित्यमाशागतात्मनाम्

6.155

स्त्रीदर्शनसुमत्तानां विनिपातो भविष्यति ।
(नित्यं कामान्) निषेवन्ते प्रमादरागसेविनः

6.156

ताः सर्वा मृत्युसमये परित्यक्ष्यन्ति योषितः ।
च्यवमानं सुरं सर्वे न कश्चिदनुगच्छति

6.157

मोक्षाभिलाषिणः दुष्कृतं त्यजन्ति
कर्मणा पृष्ठतः सर्व गच्छन्तमनुयाति च ।
युक्तं च (हि) सदा सेव्यं वर्जनीयं च दुष्कृतम्

6.158

प्रमादं च मदं जहयात् प्रमाद (वि)रतो भवेत् ।
प्रमादो भवमूलो ऽयं प्रमादस्तु न शान्तये

6.159

प्रमादाप्रमादौ विचिन्त्य धीरः सुखमेधते
अप्रमादप्रमादाभ्यामिदमुक्तं स्वलक्षणम् ।
तद् विचिन्त्य सदा धीरः सुखं सुचरितं चरेत्

6.160

धर्मचारी कदापि दुःखं नाप्नोति
न धर्मचारी पुरुषः कदाचिद् दुःखमृच्छैति ।
संसरन्त्यथ संसारे प्राणिनः स्वेन कर्मणा

6.161

प्रमादो विनिपाताय
किमर्थमिहलोको ऽयं प्रमादेन विहन्यते ।
प्रमादः श्रेयसां नाशः प्रमादो बन्धनं परम्

6.162

प्रमादो विनिपाताय प्रमादो नरकाय च ।
दुःखस्य हेतुरेवैकः प्रमादः परिकीर्तितः

6.163

अप्रमादरतो निर्वाणमधिगच्छति
तस्मात् सुखार्थी पुरुषः प्रमादं परिवर्जयेत् ।
यैः प्रमादः परित्यक्तः प्राप्तं तैः पदमच्युतम्

6.164

अप्रमादरतो यो हि निर्वाणस्यैव सो ऽन्तिके ।
अप्रमादपदं हयेतन्निर्वाणस्याग्रतः पदम्

6.165

प्रमत्तः सदैव दुःखितो भवति
प्रमादो विनिपाताय हेतुरेषः प्रकीर्तितः ।
प्रमत्तः पुरुषः सर्वः सोन्माद इव लक्ष्यते

6.166

लघुत्वं याति लोके ऽस्मिन् प्रत्यवायेषु पच्यते ।
प्रमत्तः पुरुषः शक्तो विपरीतेषु वर्तते

6.167

हेतौ कर्मविपाके च मृत्यूत्पत्तौ तथैव च ।
प्रमादाग्निश्च यं तीक्ष्णो नरकानुपकर्षति ।
तस्मान्नरकमोक्षार्थ प्रमादं विनिवर्जयेत्

6.168

ये प्रमादं विनिर्जित्य नित्यं ज्ञानरता नराः ।
ते क्लेशबन्धनं छित्वा पदं याताः सुखोदयम्

6.169

कर्मसूत्रैर्निबद्धाश्च चित्तदोलां समाश्रिताः ।
भ्रमन्ति विभवे सत्त्वा मा प्रमादेषु रक्षथः

6.170

सुखी भवति दुःखी वै दुःखितश्चापि सुखितः ।
भर्तापि तृप्तो भवति मा प्रमादेषु रक्षथः

6.171

माता पिता वा भवति भार्या मातृत्वमेव च ।
परिवर्तो महानेषु मा प्रमादेषु रक्षथः

6.172

प्रमादाज्जायते रागो रागाद् द्वेषः प्रपद्यते ।
स दोषपथमापन्नो नरकानुपधावति

6.173

प्रज्ञारुढः प्रमादशून्यः सन् शिवं पन्थानमाप्नोति
प्रज्ञाप्रासादमारोह योगक्षेममनुत्तमम् ।
एष पन्थाः शिवः श्रेष्ठो यः प्रमादविवर्जितः ।
तेन मार्गेण सततं निर्वाणं यान्ति पण्डिताः

6.174

विरोधो मार्गसम्पत्तौ चित्तसन्तानदूषकः ।
आछेत्ता धर्मसेतूनां प्रमादः परिकीर्तितः

6.175

प्रमादोपहताः नाशं यान्ति
स्मृति सन्दूषकं दृष्टं मोक्षाय वृत्तिनाशकः ।
दुर्गतीनां परं नेता प्रमादः सम्प्रवर्तते

6.176

अनेक पुरुषः क्षिप्तो नात्मनो विन्दते हितम् ।
नावाच्यं न च कार्याणां विन्दते ऽमृतकोपमः

6.177

त एते पशुभिस्तुल्या देवविग्रहधारिणः ।
प्रमादोपहता मूढा नृत्यन्ति च हसन्ति च

6.178

उत्पन्नाविच्युताः मार्गात् क्षान्तिं ये नाशयन्ति च ।
नृभवार्णवभूता ये ते प्रमादानुधाविनः

6.179

जनकः सर्वदोषाणां बन्धनं पापकर्मणाम् ।
प्रमोषः सर्वधर्माणां प्रमादारिः प्रवर्तते

6.180

सर्वेषां शुभकर्माणां प्रमादः शत्रुरेव
नाध्यात्मिकानि कर्माणि न बाहयानि कथञ्चन ।
प्रमादोपहतो जन्तुर्जानीते नष्टमासनः

6.181

क्रीडायां व्यग्रमनसो नृत्यगान्धर्वलालसाः ।
अतृष्णार्विषयैर्दिव्यैर्नक्ष्यन्ति विबुधालयाः

6.182

भयस्थाने हसन्त्येते प्रमादेन विमोहिताः ।
मार्गामार्ग न विन्दन्ति जात्यन्धेन सुराः समाः

6.183

कामधातावेव प्रमत्ताः भ्रमन्ति
कामधातौ भ्रमन्येते चक्रवद्गति पञ्चके ।
ध्यानेभ्यो यद्धि पतनं तत् प्रमादस्य चेष्टितम्

6.184

प्रमादचेष्टितं कर्मपतनाय जायते
आरूप्येभ्यश्च यत्स्थानं चतुर्थं प्राप्यलौकिकात् ।
भ्रमन्ति भ्रमदोलायां तत् प्रमादस्य चेष्टितम्

6.185

प्रमादबन्धनैर्बद्धं तृष्णापाशैश्च यन्त्रितम् ।
त्रैधातुकमिदं कृत्स्नं न च बुद्धयन्त्य चेतसः

6.186

यत् प्रयान्ति धर्मस्थानं तृष्णाभयदर्शिताः ।
न भूयः खेदमायाति तत् प्रमादस्य चेष्टितम्

6.187

प्रमादवशात् दुःखमेवाप्नोति जनः
प्रियविश्लेषजं नृणां यद्दुःखं हृदि जायते ।
सेवनाद् यत् प्रमादस्य कथयन्ति तथागता

6.188

अनर्था हि त्रयो लोके यैरिदं नश्यते जगत् ।
व्याधिर्जरा च मृत्युश्च प्रमादालस्य सम्भवाः

6.189

प्ररोहन्ति यथा भूमौ सवौषधितृणादयः ।
तथा प्रमादिनां क्लेषाः प्रवर्तन्ते पृथग्विधाः

6.190

प्रमादस्य विषाङ्कुरः
स्त्रीश्लेषो मद्यपानं च क्रीडा च विषयैः सह ।
चापल्यमयकौसीद्यं प्रमादस्य विषाङ्कुरः

6.191

प्रमादाप्रमादयोर्लक्षणम्
प्रमादः परमं दुःखप्रमादः परं सुखम् ।
समासाल्लक्षणं प्रोक्तमप्रमादप्रमादयोः

6.192

अतः प्रमादो न सेव्यः
तस्मात् प्रमादो न नरेण सेव्यः, स दुर्गतीनां प्रथमाग्रमेव ।
विहाय तं दुःखसहस्त्रयोनिं, प्रयान्ति बुद्धा भवपारग्रयम्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc