भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 5

5.1

॥ इति परिवर्तवर्गश्चतुर्थः ॥
(5) अनित्यतावर्गः
सुखं क्षयान्तम्
क्षयान्तं हि सुखं सर्व न सुखं विद्यते ध्रुवम् ।
संसृजेन्न सुखं तस्मात् यदीच्छेत् सुखमात्मनः

5.2

मृत्युः सर्वानपि आकर्षति
गच्छतां तिष्ठतां चैव हसतां क्रीडतामपि ।
अविसह्यो महावेगो मृत्युर्नश्यति दारुणः

5.3

न तत्स्थ मिहामुत्र यत्रासौ प्रतिपद्यते ।
तथापि नाम संमूढा जनयित्वा वशंगतः

5.4

(न बालं न युवानं वा) न स्थविरमेव वा ।
गृहस्थमगृहस्थं वा यदासौ नापकर्षति

5.5

सुखितं दुःखितं वापि गुणवन्तं तथैव च ।
व्रतस्थमव्रतस्थं वा यदासौ नापकर्षति

5.6

दुःशीलं शीलवन्तं च (दानिनं च तथोत्तमम्) ।
राजानं चोत्तमं चापि यदासौ नापकर्षति

5.7

दैवं वा नारकं वापि तिर्यञ्च प्रतजं तथा ।
प्रमत्तमप्रमत्तं वा यदासौ नापकर्षति

5.8

कामधातूपपन्नं वा रूपधातौ स्थितञ्च यः ।
आरुप्यधातूपपन्नं वा यदासौ नापकर्षति

5.9

कर्मपाशो जरादण्डो व्याधिदण्डो महावनम् ।
रक्तोपमो मृत्युरयं सत्त्वानादाय गच्छति

5.10

एवंविधे प्रतिभये मृत्यौ परमदारुणे ।
(उपस्थिते प्रवर्तन्ते) सुराः कामविमोहिताः

5.11

पतनान्तं सर्वसुखं सन्त्यजेत्
यद् दुःखं च्यवमानस्य देवलोकात् सुरस्य च ।
नरके यद्भवं दुःखं विप्रयोगपुरःसरम्

5.12

विषमाक्षिकसंयुक्तं यथान्नं चापि (शोभनम्) ।
(ततो) देवगतं सौख्यं पतनान्तं विसर्जयेत्

5.13

क्षीणपुण्यस्य दीनस्य स्वदारैर्वर्जितस्य च ।
यद् दुःखं च्यवमानस्य तस्यौपम्यं न विद्यते

5.14

सुकृतक्षीणमन्दस्य द्विपस्येव गतत्त्विषः ।
शाम्यति देवस्य यद्दुःखं महद्दुःखं प्रजायते

5.15

देवस्यापि च्यवनम्
तृष्णाविषयवृद्धस्य शोकोपहतचेतसः ।
मन्दवाग्देहचेष्टस्य देवस्य च्यवनाद् भयम्

5.16

दुःखस्य विषयतरत्वम्
यथा यथा सुखास्वादाः कामा परमवञ्चकाः ।
(तथा) तथा भवत्येव तेषां दुःखं महत्तरम्

5.17

यतमानस्य यद् दुःखं देवलोकान् प्रजायते ।
तस्यान्तरेण नरकं कलां नार्हति षोडशीम्

5.18

च्यवनान्तं देवलोकं मरणान्तं तदा भुवि ।
दृष्ट्वा दुःखं (भवत्येव श्रेयसे क्रियतां मनः)

5.19

सौख्यं पतनान्तम्
पतनान्तं सदा सौख्यं नास्ति लोकस्य नित्यजाः ।
तद् बुद्ध्वा कारणं सर्व श्रेयसे क्रियतां मनः

5.20

सर्व दुःखान्तम्
सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

5.21

जातस्य मरणं नित्यं न तस्यास्तीति नित्यता ।
न भूतारावितानेन त्रिषु धातुषु दृश्यते

5.22

गर्भमेके विनश्यन्ति तथैके सूतिकागृहे ।
परिसर्पणकाश्चैके तथैव (च विनश्वराः)

5.23

मरणं ध्रुवम्
उदयास्तं च गमनं भास्करस्य प्रदृश्यते ।
तथा जातस्य सर्वस्य स्थितं मरणमग्रतः

5.24

सर्व सुखं क्षयान्तम्
क्षयान्तं हि सुखं सर्व यो न विन्दति मोहधीः ।
स पश्चान्मरणे प्राप्ते (दुःखाय जनिभाग्भवेत्)

5.25

कुशलं कार्य(करणं कुशली च) प्रियः सदा ।
सुखं हि धर्माचरणं कथयन्ति मनीषिणः

5.26

अनित्यमध्रुवं सर्व परिणामे कटुः सदा ।
संसारः कथितो बुद्धेर्हेतुस्तत्त्वविचारणे

5.27

देवाः सुखप्रमत्ता ये तेषां सुखमशाश्वतम् ।
च्यवमानस्य च यद्दुःखं देवलोकात् सुरस्य हि

5.28

तस्योपमानं नैवास्ति नरकान्नरकं हि तत् ।
किमेते नावबुध्यन्ते पतनान्तं सदा सुखम्

5.29

अजरामरवल्लोकं पश्यन्ति सुखमोहिताः ।
च्युत्युपपत्तिमल्लोकः संख्या तस्य न विद्यते ।
न चोद्विजन्ति पुरुषास्तृष्णया परिवञ्चिताः

5.30

अभियाति सदा जन्म त्वरितं याति यौवनम् ।
संयोगो विप्रयोगश्च सहजः परिदृश्यते ।
विमूढा नानुपश्यन्ति विषयैः परिवञ्चिताः

5.31

तृष्णाविवशा देवाः च्यवन्ति
च्यवन्ति देवाः विवशास्तृष्णया परिमोहिताः ।
सा भूमिस्तानि पद्मानि वनानि विविधानि च

5.32

सर्वपदार्थानामापातरमणीयत्वम्
शिखराग्राणि रम्याणि रत्नवन्ति महान्ति च ।
सरांसि नद्यो विविधा रत्नपाषाणभूषिताः

5.33

वृक्षा विचित्रकुसुमाः पङ्क्तिभिर्विविधैः स्थिताः ।
हर्म्याग्राणि च रम्याणि रत्नवन्ति महान्ति च

5.34

कल्पवृक्षा हेममया केचिद्वैदूर्य निर्मलाः ।
राजतास्तपनीयाश्च विमिश्रा वररोहिणः

5.35

भ्रमरैरूपगीताश्च विभान्ति कमलाकराः ।
विभूषणानि रम्याणि देवार्हाणि च सर्वतः

5.36

सर्व क्षणिकम्
सर्वमेतत् तथैवास्ति जनस्तु परिवर्तते ।
मायाबुद्बुदफेनाभं गन्धर्वनगरोपमम्

5.37

सुखं सर्वस्य देवस्य तृष्णया वञ्चितस्य हि ।
स विनाश्य जनं सर्व भ्रामयित्वा भवार्णवे

5.38

तृष्णैव दुःखमूलम्
तृष्णा विषाग्निसदृशा लोकानामत्र तिष्ठति ।
अवितृप्ता कामभोगैरपि तप्ता सुखोद्भवा

5.39

कालानलेन निर्दग्धा क्व ते देवगणाः गताः ।
सर्वथाधिगता येयं तृष्णा लोकवितन्विनी

5.40

यया विमोहिता देवाः कालस्य वशमागताः ।
देवासुरा नरा यक्षा नरके यान्ति जङ्गमाः

5.41

कालपाशयोजितं त्रैधातुकमिदम्
गच्छन्ति विवशाः सर्वे कालपाशं दुरासदम् ।
त्रैधातुकमिदं सर्व कालपाशेन योजितम्

5.42

तृष्णाविमोहिताः मरणं न पश्यन्ति
न च पश्यन्ति विवशास्तृष्णामोहेन मोहिताः ।
अनेन हि यथा देवाः शतशो ऽथ सहस्त्रशः

5.43

गताः कालाग्निनिर्दग्धा विषयैर्धनसंभवैः ।
परस्य दृश्यते मरणमात्मनो नैव दृश्यते

5.44

पश्चात्ते व्यसने प्राप्ते विन्दन्ते दुःखमात्मनः ।
प्रमादकलुषं चेतो विषयाभिरतं सदा

5.45

न विन्दन्ति ध्रुवं मृत्युं देहिनां सहजस्थितम् ।
सुखोत्तरमनाशस्य प्रमादाभिरतस्य च

5.46

मृत्युसैन्यमुपैतीदं प्रमाथि विषसन्निभम् ।
न मन्त्रौषधकर्माणि न देवा नासुरास्तथा

5.47

कालपाशबद्धस्य न को ऽपि त्राता
कालपाशेन बद्धस्य त्रातारो न भवन्ति ते ।
रजसा गुण्ठितं वक्त्रं आत्मनो नैव विन्दति

5.48

तृष्णाया हेयत्वे हेतुः
प्राप्तेश्च्यवनभूतो ऽयं मृत्युः पश्चाद् भविष्यति ।
लोलुपस्य सदा यत्नैरवितृप्तस्य तृष्णया

5.49

सहसाभ्येति मरणं यन्नदृष्टं सुखार्थिनाम् ।
अयं तवाग्रहो दुःखं मृत्युना प्रेषितो महान्

5.50

अस्मादनन्तरं मृत्युर्भविष्यति सुदारुणः ।
महागिरिवरादस्मात् वनोपवनभूषितात्

5.51

बद्धानरा विषयगा स्वकर्मफलभोगिनः ।
क्रीडाविहारिणस्तावत् क्वचित् तृष्णासुखं न हि ।
तर्ष्यया तृष्णया मूढाः पतन्ति विवशा भुवि

5.52

धूमस्यानन्तरं वह्निर्यथा भवति नित्यशः ।
तथा च्यवनलिङ्गस्य पृष्ठतश्च्यवनं स्थितम्

5.53

जात्या जात्या ध्रुवं मृत्युश्चारोग्ये सति रुक् स्थिता ।
सम्पत्तौ व्यसनप्राप्तियौवने सहजा जरा ।
सर्वैः प्रियैर्वियोगश्च न संयोगो ध्रुवं स्थितः

5.54

धर्मतायाः महत्त्वम्
धर्मतेयं सदालोके सम्यग्बुद्धेन देशिता ।
उभयस्य क्षयो नाशो जनस्यो परिवर्तते

5.55

जातौ सत्यां यथा मृत्युरवश्यं स्थित एव हि ।
क्षीयते सुकृतं कर्म आयूंषि क्षणिकानि हि

5.56

संवरादिकं भजध्वम्
संवर धर्मविनये भजध्वं पुरुषोत्तमाः ।
अभ्येति यौवनं सर्वं जीवितं चानुगच्छति

5.57

सर्वस्य नाशशालित्वम्
नश्यन्ति सर्वदा सर्वा मा प्रमादे मनःकृथा ।
न नित्यं लभ्यते स्वर्गो न नित्यं क्षणसम्पदा

5.58

यस्य यावन्नाभिपतनं तावत् क्षिप्रं (प्र)युज्यताम् ।
(तस्य जाते हि पतने तत् प्रयोगो वृथा भवेत्)

5.59

अयं स हि द्रुमवनो नानारत्नविभूषितः ।
लतागह्वरसंच्छन्नः पद्माकरविभूषितः

5.60

जाम्बूनदमयैश्शुद्धैः प्रासादैः रत्नचित्रितैः ।
नानाविधैः प्रस्त्रवणैर्लताभिरुपशोभितः

5.61

कर्मसाक्षीजनस्यास्य भित्वा गगनमुच्छ्रितः ।
कल्पाग्निविरतो मेरुः सर्वथा न भविष्यति

5.62

किं पुनर्ये सुरास्तत्र फेनबुद्बुदसन्निभाः ।
उत्पद्यन्ते विनश्यन्ति प्रमादमदमोहिताः

5.63

सुखदुःखमनन्तं च स्वेच्छाकामफलोद्भवम् ।
देवलोकाद् यथा देवाः पतन्ति नरके पुनः

5.64

तद् दुःखं परमं कटु
शरीरमानसैदुःखैर्विद्यमानेषु सर्वतः ।
न तच्छक्यं प्रमत्ते स्यात् तद्दुःखं परमं कटु

5.65

वियोगदुःखं दुःखनामग्रतः परिपठ्यते ।
तच्चदेवगतौ नित्यमग्रतः सम्प्रवर्तते

5.66

सर्वप्रियैर्मनापैश्च विप्रयोगो भविष्यति ।
न च देवाः प्रपश्यध्वं मरणान्तं हि जीवितम्

5.67

च्युतिकाले तु सम्प्राप्ते विह्वलेन्द्रियचेतसा ।
जानीध्वं तत्परं दुःखं यदवश्यं भविष्यति

5.68

सर्वं क्षणिकम्
अकालचक्रप्रतिमं गन्धर्वनगरोपमम् ।
त्रिभवे संभवं सर्व फेनबुद्बुदसन्निभम्

5.69

यः फेनराशौ संमूढः कुर्याच्छादनसंस्तरम् ।
स मूढः संस्कृते कुर्यादभिस्वादं भ्रमात्मकम्

5.70

मृत्युमहिमा
न देवा न नरा यक्षा नासुरा गरुडास्तथा ।
त्रायन्ते मृत्युसमये कर्मणा परितप्यताम्

5.71

यावन्नायाति समये मृत्युराजः सुदारुणः ।
तावत्तु सुकृतं कार्य मा पश्चात् परितप्यथ

5.72

यद्भूतकामजं सौख्यं प्राकृतं विषयोद्भवम् ।
मृत्युकाले समुत्पन्ने तिष्ठन्ति न बुधर्षमा

5.73

किं करिष्यन्ति सौख्यानि किं स्त्रियः किञ्चबान्धवाः ।
मृत्युना ह्रियमाणस्य देवलोकात् समन्ततः

5.74

स्थिरास्ता भूमयः सर्वा वनोपवनभूषिताः ।
मृत्युरज्ज्वा विबद्धश्च त्वन्तु कालेन नीयसे

5.75

आकाशे जलदा यद्वद वायुना समुदीरिताः ।
संश्लिष्टाश्च वियुज्यन्ते संसारे प्राणिनस्तथा

5.76

ऋतौ ऋतौ यथा पुष्पमागतैर्दृश्यते नरैः ।
व्यतीते तु ऋतौ सर्वे प्रतियान्ति यथागताः

5.77

यथा काले समुत्पन्ने मोदन्ते सुकृतैः सुराः ।
व्यतीते तु शुभे काले प्रतियान्ति यथागताः

5.78

ऋतौ ऋतौ यथा वृक्षे पर्णजायते ऽनेकशः ।
व्यतीते तु शुभे काले शीर्यते तत् समन्ततः

5.79

यथा पर्णोपमादेतन्न सौख्यमभयं भवे ।
शीर्यते सततं सौख्यं नासौख्यं विद्यते ध्रुवम्

5.80

प्राबृट्काले यथा वर्षमाकाशे न निवर्तते ।
तथा सौख्यमिदं सर्व गच्छति न निवर्तते

5.81

बर्हिणां च यथा नादो वायुना समुदीरितः ।
श्रूयते तत्प्रणाशाय तथा सौख्यमिदं स्मृतम्

5.82

यथा हि ज्वलने क्षिप्तं ध्रुवं कालं प्रदहयते ।
तथा वहन्युपमः कालः काष्ठवच्चरतां स्मृतः

5.83

आगताश्च गताश्चैके शतशो ऽथ सहस्त्रशः ।
संवेगो न भवत्येषा तृष्णया मोहितास्तथा

5.84

यथा यथा महासौख्यं स्वयं भोगो यथा यथा ।
तथा तथा महद् दुःखं पतनान्तोद्भवं ध्रुवम्

5.85

जात्यादि दुःखपरम्परा
जातिर्दुःखा जरा दुःखा मरणं दुःखमेव च ।
प्रियैश्च सह विश्लेषो दुःखस्यैषा परम्परा

5.86

मृत्युना न बिभेत्
एकस्य पतनं दृष्ट्वा कथं नोद्विजते जनः ।
ममापि पतनं ह्येतत् सर्वपापैर्भविष्यति

5.87

यः पश्यति भयं दूरात् प्रतिपत्तौ च वर्तते ।
(स)म्प्राप्ते मृत्युसमये न विभेति गतव्यथः

5.88

विभुज्यमानो दौनैश्च मृत्युः स्वजनबान्धवैः ।
यद्दुःखं मृत्युसमये तन्न शक्यं प्रभाषितुम्

5.89

पतनान्तं हि मरणं पतमानो यथा गिरिः ।
निष्प्रत्यनीकं बलवत् पुरुषानपकर्षति ।
संश्लिष्यते महावेगः सम्प्रहारी च सर्वदा

5.90

तं ज्ञात्वा मा प्रमादेषु स्तुबध्वं देवसत्तमाः ।
संश्लेषयति विश्लेषं यौवने च सदा जरा

5.91

जीविते च सदा मृत्युः पदमेतत् सदा स्थितम् ।
अनित्येनाग्निनावश्यं दग्धब्यो यत्र गोचरः

5.92

कल्पान्ते किं पुनर्देवा ये फेनकदलीसमाः ।
न तदस्ति भवेत् किञ्चिद् यद् ज्ञानं संस्कृतं चलम्

5.93

यन्नित्यं (च) सुखं वा स्यादेतत्स्थानं न विद्यते ।
उपस्थितमिव ज्ञेयं मरणं सर्वजन्तुभिः

5.94

यस्मात् तस्य प्रतीकारः सर्वोपायैर्न शक्यते ।
रूपं क्षणिकमेतेषां वयो ऽपि क्षणिकं तथा

5.95

क्षीयते च तथा सौख्यं न च बुद्धयन्त्यमेधसः ।
यदा तत् सर्वमेतेषामनेकं शुभलक्षणम्

5.96

जन्मतः कालचक्रेण परिपाटया विनाशितम् ।
तथैवैतत् पुरा नष्टमनेकशतलक्षणम्

5.97

तथैतदपि जन्मैषां मृत्युराजो हरिष्यति ।
प्रमादमनसां ह्येषां नित्यं सुखविहारिणाम्

5.98

निधनाय कालपाशो ऽयमभ्येति सुखनाशकः ।
सुखारोग्यबलप्राणप्रियविश्लेषकारकः

5.99

बलवन्मृत्युराजो ऽसौ समीपमुपसर्पति ।
यः समीपगतो ह्येषां प्रमत्तानामनेकशः

5.100

सुखनाशः सुनिश्चितः
जीवितं सह सौख्येन त्वरितं नाशयिष्यति ।
दीर्घकालमिदं ध्वस्तं प्रमादापहताः सुराः

5.101

नावबुद्धयन्ति मोहान्धाः सौख्येन प्रतिबोधिताः ।
यदा हीनप्रभाह्येते विह्वलेन्द्रियचेतसः

5.102

यमलोकं पतिष्यन्ति तदा ज्ञानस्य तत्फलम् ।
जीयते बत कालो ऽयं क्षणिकं च यथा सुखम्

5.103

तथापि रक्तमनसो नावबुद्धयन्त्यचक्षुषः ।
रम्याद् रम्यतरं यान्ति नित्यं सुखविहारिणः

5.104

प्रयास्यन्ति यथा हयेते मृत्युराजो हरिष्यति ।
जरा जातिविपत्तीनां यो न मूढो विषीदति

5.105

स पश्चात् मृत्युसमये तप्यते (हीनचेतसा) ।
सुखं देवेषु सम्प्राप्य (तदेतद्) गुणसम्मतम्

5.106

कृतहुतं विनाशान्तं क्षणिकं जीवितं चलम् ।
यथा हि यद् विनाशान्तं तथैषामपि जीवितम्

5.107

अचिरेणापि कालेन भविष्यति न संशयः ।
यावन्नायाति मरणं यावद् बुद्धिरनाविला

5.108

मनसा धर्मरतिः कार्या
तावद्धर्मरतं धार्य मनोबलेन धीमता ।
सर्वजीवितनाशाय सर्वसौख्यक्षयाय च

5.109

प्रियवियोगः निश्चितः
सर्वप्रियवियोगाय मृत्युराश्रयमेति च ।
तस्मिन्नाप्ते महाध्याने मृत्युः परमदारुणः

5.110

नान्यत् त्राणमृते धर्मात् तस्माद् धर्मरतो भवेत् ।
उपपन्नस्य देवस्य या प्रीतिरुपपद्यते

5.111

नासौ च्यवनदुःखस्य कलामर्हति षोडशीम् ।
मृत्युकाले समुत्पन्ने न कश्चित् कस्यचित् तथा

5.112

सर्वस्य नाशत्वम्
न च गच्छन्तिमप्येकं पदमेकं हि गच्छति ।
यदा जातं तदारम्य नरो मृत्युपरायणः

5.113

नानामोहपरीतस्तु भयमेतन्न विद्यते ।
यदा ते च्यवनं प्राप्ते भवभोगकरं परम्

5.114

तदा विन्दति मूढात्मा यद् भयं मृत्युजं महत् ।
विषयोरगसन्दष्टा तृष्णा विषविमोहिता

5.115

न विन्दन्ति सदा देवाश्च्यवनान्ते महद् भयम् ।
च्यवन्ति च तथा दुःखमुत्पादयन्ति देहिनाम्

5.116

यथोपपत्तिश्च्यवनं देवानां सम्प्रजायते ।
कर्मवायुसमुद्भ्रान्तं प्रयोगेण च दुःखितम्

5.117

पुरुषं नयते मृत्युरवशं (सुखवञ्चितम्) ।
न मातरो न पितरो न मित्राणि न बान्धवाः

5.118

सहायतां व्रजन्तीयं पुरुषं कालचोदितम् ।
असहायो जनश्चायं जनः प्रकृतिवञ्चितः

5.119

मन एव पाशबन्धनम्
केवलं तु मनःपाशैर्बन्धनैर्बध्यते जनः ।
न जनः स्वजनश्चेह त्राता भवति कस्यचित

5.120

गृहीत इव केशेषु मृत्युना धर्ममाचरेत्
मृत्युकाले समुत्पन्ने स्वजनो ऽपि यथा जनः ।
यस्त्वं पश्यसि देवानां सुखमेतन्महोदयम्

5.121

तत् प्रसह्यमहादेवो मृत्युराजो हरिष्यति ।
त्वरितं याति जन्मेदं न च विन्दति बालिशः

5.122

पश्चात्तु व्यसने प्राप्ते प्रतिविन्दन्ति दुःखिनः ।
यदि दुःखाद्भयं त्वरितं यदि मृत्युभयश्च यः

5.123

धर्मे हि क्रियतां बुद्धिरेवं सुखमवाप्स्यथ ।
विनाशान्तं सदा सौख्यमनित्यं सर्वतश्चलम्

5.124

देवत्वं पतनान्तम्
सर्वदेवकृतं सौख्यं न च विन्दन्ति मोहिताः ।
अभूत्वा च च्यवन्त्येते भूत्वावश्यं हि चञ्चलाः

5.125

देवाः पतनभावाय धर्मतेयं व्यवस्थिता ।
प्रमत्ताः कामभोगेषु ये देवाश्चलमानसाः

5.126

न पश्यन्ति सुरास्तीव्रं व्यसनान्तं हि जीवितम् ।
यदैव जायते देवस्तदैव मरणाय सः

5.127

श्रेयसे मतिः कर्त्तव्या
दिवसान्ते यथा रात्रिरवश्यं प्रतिपद्यते ।
दिवसं जीवितं प्रोक्तं रात्रिः स्थान्मरणोपमा

5.128

तस्मात् तदुभयं ज्ञात्वा श्रेयसे क्रियतां मनः ।
तदेतदर्थ नृणां हि स्त्रीरागवशवर्तिनाम्

5.129

तदिष्टं मृत्युसैन्येन प्रसहयमवमर्दितम् ।
भावाभावादिभिर्मूढान् वञ्चयित्वा स्त्रियो नरान्

5.130

प्रयान्ति मृत्युसमये स्वकर्मफलभोगिनः ।
पद्मोपवनशैलेषु नदीनां निर्झरेषु च

5.131

बहुशः क्रीडनं कृत्वा कूपायाभिगताः प्रियाः ।
अवश्यम्भावि मरणमवश्यं च वियोगिता

5.132

तथापि नाम पुरुषा नित्यं रागवशानुगाः ।
सुखितं दुःखितं वा(पि) जीर्णमन्यत्र यौवनम्

5.133

मृत्युराजो ऽवमर्दति
दुष्कुलीनं कुलीनं वा मृत्युराजो ऽवमर्दति ।
सुरूपं वा विरूपं वा बलवन्तं तथाबलम्

5.134

सनाथं नष्टनाथं वा मृत्युराजो ऽवमर्दति ।
राजानं वा तथा मृत्युः गृहिणं वा तथा यतिम्

5.135

क्रूरं वा मृदुकं वापि मृत्युराजो ऽवमर्दति ।
निर्धनं वा दरिद्रं वा सगुणं निर्गुणं तथा

5.136

स्त्रियं वा पुरुषं वापि मृत्युराजो ऽवमर्दति ।
प्रवासिनं गृहस्थं वा जले वापि स्थलेस्थितम्

5.137

स्थितं वा गिरिशृङ्गेषु मृत्युराजो ऽवमर्दति ।
जागरन्तं तथा सुप्तं भुञ्जानं वा तथा स्थितम्

5.138

प्रमाथी सर्वलोकस्य मृत्युराजो ऽवमर्दति ।
भूमिस्थं (वा) विमानस्थं विदेशस्थं तथा गृहे

5.139

क्रकचः कालचक्रो ऽयं मृत्युराजो ऽवमर्दति ।
भाग्यवन्तं तथा धन्य निस्त्रिशं (चैव) धर्मिकम्

5.140

रोगिणं स्वस्थदेहं वा मृत्युराजो ऽवमर्दति ।
चण्डं सुशीलिनं चापि कदर्य धनिनं तथा

5.141

प्रमत्तमप्रमत्तं वा मृत्युराजो ऽवमर्दति ।
नारकेयं तथा प्रेतं तिर्यञ्चो मनुजं तथा

5.142

अनिवृत्तबलोत्साहो मृत्युराजो ऽवमर्दति ।
कामधातौ च ये देवा रूपधातौ च ये स्थिताः

5.143

तान् सर्वान् हि प्रतिबलान् मृत्युराजो ऽवमर्दति ।
आरूप्येषु च ये देवाः समापत्तिनिवेशकाः ।
तान् सर्वानपि वै देवान् मृत्युराजो ऽवमर्दति

5.144

सर्व विनाशान्तम्
यद् जातं संस्कृतं किञ्चिद् तद् विनाशान्तमेव हि ।
तन्नास्ति संस्कृतं किञ्चिद् यस्य नाशो च विद्यते ।
मृत्योर्बलमिदं ज्ञात्वा कामदोषं च सर्वतः

5.145

तृष्णया वञ्चनं चापि विरमध्वं भवार्णवात् ।
तदैतद् व्यसनं मत्वा मृत्योरपि चलाचलम्

5.146

सुदान्तं क्रियतां चित्तम्
सुदान्तं क्रियतां चित्तं येनेदं भ्राम्यते जगत् ।
वनोपवनशैलेभ्यो विमानेभ्यश्च सर्वतः

5.147

सर्वदेवाः पचिष्यन्ति कालाग्निविनिपातिताः ।
प्रमादमनसो मूढा भूयो विषयजिहिमताः

5.148

तृष्णापाशेन सम्बद्धा देवाः यास्यन्ति दुर्गतिम् ।
रभसं जीवितं सौख्यं प्रयाति खलु देहिनाम्

5.149

न च विन्दन्ति विबुधा जात्यन्धा इव सत्पथम् ।
जलबुद्बुदसंकाशं जीवितं सर्वदेहिनाम्

5.150

नदीतरङ्गचपलं यौवनं व्यतिवर्तते ।
अनित्या (हि)कटाक्षेक्षाप्रदुःखास्तुषिताः सुराः

5.151

रागस्य हेयत्वम्
निर्वायत्यवशो दीनो दीपः स्नेहक्षयादिव ।
कर्मक्षयपरिक्षिप्तो द्वादशारो महाबलः

5.152

धर्मचक्रो भवत्येष निपाती स्यान्न चञ्चलः ।
विचित्रविषयारम्या अनेकसुखमण्डिताः

5.153

कालग्रासाः सर्वे भवन्ति
तुषिताः पतन्ति विवशाः कालस्य वशमागताः ।
कालस्य वशमापन्ना यथा रोहन्ति पादपाः

5.154

ते पुनः कालमासाद्य भवन्ति विगतत्विषः ।
यथा कालं समापद्य भवन्ति सुखिताः सुराः

5.155

पुनस्तमैव संसृत्य पतन्ति विवशा हि ते ।
कर्मकालं समासाद्य लोको ऽयं परिवर्तते

5.156

सुखं व्रजति दुःखं हि कालस्य वशमागतः ।
यद्वृत्तं प्राक्शुभं कर्म तच्च दुष्टमहोदयम्

5.157

तदिदं भुञ्जते स्वर्गं क्षीयते च ततः पुनः ।
सहेतुकस्य सर्वस्य क्षणिकस्य विशेषतः

5.158

अनित्यतापरामर्शो नासौ भवति सर्वतः ।
ये भावाः संस्कृता नित्याः सर्वे ते विप्रलोभिनः

5.159

विप्रलोभ्य जनं याति धर्मतेयं व्यवस्थिता ।
शीघ्रस्रोता यथा नद्यस्तथा सौख्यं शरीरिणाम्

5.160

क्षणिकं जीवितं सर्व न च विन्दन्ति बालिशाः ।
जरा व्याधिश्च मृत्युश्च विपत्तिः कर्मसंक्षये

5.161

भवन्त्येतानि देवानां नित्यानां कामचारिणाम् ।
नायुर्ध्रुवं भवत्येव न सौख्यं त्रिषु धातुषु

5.162

न (च) विन्दन्ति विवशा देवाः कामेन मोहिताः ।
वर्षधारा यथाकाशे दुःस्था भवति सर्वतः

5.163

तथा सौख्यमिदं सर्व वर्षधारोपमं सदा ।
वायुना पांसवो यान्ति अन्योन्य परिघट्टिताः

5.164

भ्राम्यते गगने ऽवश्यस्तथा श्लेषः शरीरिणाम् ।
सुचिरमपि संरम्यं नित्यता नास्ति देहिनाम्

5.165

अचिन्त्यार्थे सौख्यमिदं न च विन्दन्ति बालिशाः ।
वातेरितं तु यत् सौख्यं विनाशान्तं भविष्यति

5.166

सुखस्य दुःखमिश्रितत्वम्
विनाशं नैव बुध्यन्ति कामिनश्चित्तवञ्चिताः ।
दुःखमिश्रं सुखमिदं प्रच्छन्नमिव विद्यते

5.167

पद्ममालापरिच्छिन्नो विषपूर्णो यथा घटः ।
ओदनं विषसम्मिश्रं मरणान्तं (हि) तत् तथा

5.168

तथा सौख्यमिदं सर्व तस्मात् तत् परिवर्जयेत् ।
आदौ मध्ये तथा चान्ते नरकाय भविष्यति

5.169

उत्पादस्थितिभङ्गानि सर्वाणि वस्तूनि
उत्पादस्थितभ्ङ्गान्तं सर्व संस्कृतमुच्यते ।
सर्व च संस्कृतं सौख्यं ननु भट्टारमेव तत्

5.170

भट्टारञ्च विलासश्च (सु)व्ययक्षणिकं तथा ।
सुखं च जीवितं सर्व तस्मात् तत् परिवर्जयेत्

5.171

आदौ मध्ये तथा चान्ते श्रेयस्येव मनः सदा ।
सुदान्तः शुद्धचितस्य मृत्युकाले न सीदति

5.172

मरणस्यावश्यम्भावित्वम्
अवश्यम्भावि मरणं प्रियस्य च वियोगता ।
न च चिन्तयतः काले विषये विप्रलोभिनः

5.173

जरामरणचक्रं तमविषह्यं सुदारुणम् ।
पादपान् देवगान् सत्त्वान् न च बुद्धयन्त्यचक्षुषः

5.174

सर्वस्य जातस्य च्यवनं भवति
च्यवमानस्य देवस्य विकलेन्द्रियचेतसः ।
यद् दुःखं सुकरं तस्य नौपम्यमिह विद्यते

5.175

यथा यथा महत् सौख्यं तृष्णोपहतचेतसः ।
तथा तथा महद् दुःखं च्यवमानस्य दुःसहम्

5.176

कृत्वा हि संस्कृतं कर्म न ज्ञात्वा कर्मणः स्थितिः ।
मृत्युकाले समुत्पन्ने पश्चात्तापेन दहयते

5.177

मृत्योः पूर्वमेव स्वहितमाधेयम्
यावन्नाप्येति मरणं यावच्च क्षणसम्पदः ।
तावत् स्वहितमाधेयमेष मार्गः सुखावहः

5.178

च्यवनं देवलोकेषु मरणं नरभूमिषु ।
विदित्वा कः पुमान् आस्थां कुर्यात्सोपद्रवे भवे

5.179

सर्व विनाशि
तैलवर्तिप्रणाशेन दीपनाशो यथा ध्रुवम् ।
कर्मक्रिया तथा कस्य विनिपातः सुरालयात् ।
भित्तिनाशो यथावश्यं चित्तनाशो ध्रुवंस्थितः

5.180

कर्मनाशात्तथा सौख्यमवश्यं विनिपद्यते ।
क्षीणपुण्याः निपत्यन्ते देवाः सर्वे सुरालयात्

5.181

अनित्यतैषां सर्वेषां सत्त्वानां विनिपातिका ।
मृत्युः पिवति भूतानि जरा पिवति यौवनम्

5.182

व्याधिः पिवति चारोग्यं न च लोको ऽवबुध्यते ।
उपपन्नाः सुबहुशः प्रतीताश्चाप्यनेकशः

5.183

जायते जीर्यते चायं च्यवने चोपपद्यते ।
न क्षणो ऽस्ति मुहूर्तो वा परिवर्तस्तथापि वा

5.184

यत्र मृत्युर्विलम्बेन न च लोको ऽवबुध्यते ।
उपपन्नास्तु बहुशः प्रतीताश्चाप्यनेकशः

5.185

यन्न मृत्युविलम्बः स्यान्न च लोको ऽवबुध्यते ।
अनित्यं जीवितं सर्व न विलम्बि च यौवनम्

5.186

सर्वभूतान्यनित्यानि न च लोको ऽवबुध्यते ।
अन्ते क्रमेण नश्यन्ति भावाः क्षणविलम्विनः

5.187

सम्बद्धाः कर्मसूत्रेण न च लोको ऽवबुध्यते ।
देवकोटिसहस्त्राणि वनोपवनसेविनाम्

5.188

निमीलितानि कालेन न च लोको ऽवबुध्यते ।
पङ्काभावचरा देवाः प्रमत्ता भोगतृष्णया

5.189

यास्यन्ति विलयं सर्वे न च लोको ऽवबुध्यते ।
फेनबुद्बुदसङ्काशं स्वप्नद्रव्योपमं सुखम्

5.190

क्षयं प्रयाति शीघ्रं च न च लोको ऽवबुध्यते ।
सर्वस्य सर्वथा सर्वो विनाशो नियतो भवे

5.191

न च बालस्य संसारान्निर्वेदमुपपद्यते ।
न सर्वः सर्वथा सर्व सर्वोपायैः प्रयत्नशः ।
संत्राता भवने प्राप्ते मृत्युकाले सुदारुणे

5.192

मृत्युरित्यभिधीयते
व्युच्छेत्ता सर्वसौख्यानां दुःखनामाकरो महान् ।
विश्लेषः सर्वबन्धानां मृत्युरित्यभिधीयते

5.193

भयोपनेता भूतानां दुःखानामुदधिः समः ।
व्यामोहकर्त्ता बुद्धीनां मृत्युरित्यभिधीयते

5.194

सञ्छेत्ता जीवितानामिन्द्रियाणां च नाशकः ।
अमृश्यः सर्वभूतानां मृत्युरित्यभिधीयते

5.195

अधृष्यः सर्वभूतानामजेयः सर्वकर्मणाम् ।
विनाशः सर्वसत्त्वानां मृत्युरित्यभिधीयते

5.196

अवश्यम्भावि तत्त्वानामन्तकं सर्वदेहिनाम् ।
निकायभागनाशो ऽयं मृत्युरित्यभिधीयते

5.197

सदेव यक्षगन्धर्वपिशाचोरगरक्षसाम् ।
कालचक्रविनाशी (च) मृत्युरित्यभिधीयते

5.198

असंयमी प्रमाथी च बह्निवत् सर्वदेहिनाम् ।
क्रूरश्चाविनिवर्त्त्यश्च मृत्युरित्यभिधीयते

5.199

स्कन्धायतननाशश्च आरुप्यस्याथ चेतसः ।
कालधर्मो महावेशो मृत्युरित्यभिधीयते

5.200

श्रेयसे मतिः करणीया न तु प्रमादे
स एव धा(त)वे शीघ्रं विनिपाताय देहिनाम् ।
श्रेयसे क्रियतां यत्नो मा प्रमादेः मनः कृथाः

5.201

गतं जीवनं नायाति
यथा (हि शीघ्र) गमनं पक्षिणां पवनस्य वा ।
तथा शीघ्रतरं याति जीवितं सर्वदेहिनाम्

5.202

गतो निवर्तते वायुर्निवर्तन्ते च पक्षिणः ।
जीवितं यन्निरुद्धं तु तस्य नागमनं पुनः

5.203

द्रुतं क्षीयन्ति कर्माणि द्रुतमभ्येति चान्तकः ।
अवश्यम्भावि विश्लेषं न च विन्दन्ति देवताः

5.204

अनिर्वायो महावेगश्चतुःसत्यनिवर्हणः ।
अवश्यम्भावि बलवानेष मृत्युरुपैति च

5.205

श्रुति प्रमादिनो देवाः सुखेन परिवञ्चिताः ।
न विन्दन्ति महद् दुःखं यदवश्यं भविष्यति

5.206

संस्कृतस्य हि सर्वस्य समयस्य विशेषतः ।
विनाशो भवति (चा)सौ धर्मतेयं भवे भवे

5.207

जरायौवननाशाय प्राणनाशाय चान्तकः ।
विपत्तिभूतनाशाय स्थिता (वै) नाशहेतवः

5.208

एवंविधे महाघोरे व्यसने (वै) महद् भये ।
प्रमादिनो हि यद् देवाः नूनमेते च चेतनाः

5.209

अनागतभयं यो हि पश्यति ज्ञानचक्षुषा ।
स पण्डित इति ज्ञेयो विपरीतस्तु बालिशः

5.210

कर्मक्षये सुखस्य नाशः
विमूढमनसः सर्वे वञ्चिताः स्वेन चेतसा ।
कर्मक्षये तु नश्यन्ति दीपा स्नेहवशादिव

5.211

अनेकविषयाणां च इदं सौख्यमनुत्तमम् ।
भुक्त्वा कर्मक्षयो भूत विनिपातो भविष्यति

5.212

अनित्यत्वानवगमादधर्मरतिः
जलतरङ्गचपलं जीवितं याति देहिनाम् ।
न च बुद्बुदनिःसारमवगच्छन्ति बालिशाः

5.213

फेनराशिश्चिरं तिष्ठेद् उपायैः कतिभिर्ननु ।
न तु देवाश्चिरं तिष्ठन्त्यनित्यो भावनमिति

5.214

लोभवशादेव मृत्योरुपेक्षा
कृष्यते भूरियं सर्वा मनुजैः फलकांक्षिभिः ।
न च संदृश्यते मृत्युर्लाभसक्तैरपण्डितैः

5.215

क्षणे क्षणे विवर्धन्ते लोभाशा मोहिते जने ।
न च विन्दन्ति संसाराः क्षीयमाणाः क्षणे क्षणे

5.216

दण्डत्रयमुपसंहरति
जरादण्डो ऽयमभ्येति यौवनान्तकरो नृणाम् ।
आरोग्यशक्तिनाशाय व्याधिदण्डो ऽयमागतः ।
दण्डत्रयमिदं घोरं ससुरासुरनाशकम्

5.217

अभ्येति न च मूढो ऽयं लोकं पश्यति बालिशः ।
परस्परं प्रलोभाच्च स्वजनं स्नेहचञ्चलम्

5.218

मोहबद्धाः मृत्युं वियोगं च नावगच्छन्ति
गच्छत्यन्योन्यसंश्लिष्टो मोहबद्धे जने जनः ।
पुत्रपौत्रप्रपौत्राणां वशगाश्चापि ये नराः

5.219

कर्मस्कन्धस्य दुःखावहत्वम्
सर्वे तेन भविष्यन्ति त्वं तु सङ्गेन बाध्यसे ।
जीवितान्तकरः शत्रुर्न विशङ्को महाबलः

5.220

सो ऽविलम्बी महावेगो मृत्युरेषो ऽभ्युपैति च ।
चलाचलविधिर्ज्ञेयः कर्मस्कन्धैर्निदर्शितः

5.221

देवादीनां क्षयो भवति
देवनागाः (स)गन्धर्वा पिशाचोरगराक्षसाः ।
न शक्ताश्च्यवने क्षान्तं बलं तस्य तथागतम्

5.222

तत्त्वदर्शको दुर्गतिं नाधिगच्छति
चलाचलविधिर्ज्ञेयः कर्मणा तत्त्वदर्शकः ।
अलिप्तः पापकैर्धर्मैर्न स गच्छति दुर्गतिम्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc