भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 4

4.1

॥ इति कायजुगुप्सावर्गस्तृतीयः ॥
(4) परिवर्तवर्गः
कस्य कालः परिवर्तते
कामैरेवावितृष्णस्य तृष्णया तृषितस्य च ।
चञ्चलेन्द्रियचित्तस्य कालो ऽयं परिवर्तते

4.2

अनित्यध्येयता यस्य सुखसक्तस्य देहिनः ।
स्त्रीदर्शनेन मत्तस्य कालो ऽयं परिवर्तते

4.3

जातिमरणवश्यस्य मोहितस्य च तृष्णया ।
बालस्य तु जनस्यास्य कालो ऽयं परिवर्तते

4.4

गतिचारकबद्धस्य उद्वेगवशगस्य च ।
प्रमादविषमूढस्य कालो ऽयं परिवर्तते

4.5

औद्धत्यादिप्रसक्तस्य गात्रशोभारतस्य च ।
लाभैरतृप्तमनसः कालो ऽयं परिवर्तते

4.6

पञ्चबन्धनबद्धस्य षड्भिर्व्यामोहितस्य च ।
त्रैलोक्यविधिमूढस्य कालो ऽयं परिवर्तते

4.7

विनिपातानभिज्ञस्य वितर्कोपहतस्य च ।
जनस्य सक्तमनसः कालो ऽयं परिवर्तते

4.8

तत्कालरमणीयेषु परिणामहितेषु च ।
कामेषु सक्तमनसः कालो ऽयं परिवर्तते

4.9

पूर्वदुःखानभिज्ञस्य दिव्यसौख्यरतस्य च ।
विप्रयोगानभिज्ञस्य कालो ऽयं परिवर्तते

4.10

कर्मजालेन बद्धस्य मनस्येव विचेष्टिनः ।
सत्पथात् परिभ्रष्टस्य कालो ऽयं परिवर्तते

4.11

भवदोषानभिज्ञस्य तृष्णया मूढचेतसः ।
मोहान्धकारमग्नस्य कालो ऽयं परिवर्तते

4.12

कामैकपाशबद्धस्य निःसहायस्य देहिनः ।
देवीगणविमूढस्यं कालो ऽयं परिवर्तते

4.13

इन्द्रियाद् व्यपकृष्टस्य सत्पथभ्रामितस्य च ।
त्रैधातुकरसज्ञस्य कालो ऽयं परिवर्तते

4.14

संवरासंवरज्ञस्य व्यापादबहुलस्य च ।
नष्टसम्बुद्धमार्गस्य कालो ऽयं परिवर्तते

4.15

हिताहितवहिर्गस्य कार्याकार्यजडस्य च ।
क्रीडाबाल सदृशस्य कालो ऽयं परिवर्तते

4.16

नदीप्रस्त्रवणोच्चेषु वनोपवनभूमिषु ।
(सं)क्रीडातत्परस्यास्य कालो ऽयं परिवर्तते

4.17

विमानगिरिपृष्ठेषु धर्माकरवनेषु च ।
रमतः कामभोगेषु कालो ऽयं परिवर्तते

4.18

कर्मधर्म विपाकेषु निरासक्तस्य देहिनः ।
केवलाहारसक्तस्य कालो ऽयं परिवर्तते

4.19

शरीरस्थितस्यापि शरीरानभिज्ञता
कर्मणायुः परिश्रान्तं त्रैधातुकमिदं सदा ।
भ्रमन्ति चक्रवन्नित्यं न च विन्दन्ति बालिशाः

4.20

जगतः दोषानभिज्ञता
विनिपातोच्छ्रु यमयं यो नामारोहते जगत् ।
न च दोषावधेयत्वं प्रकुर्वन्ति विमोहिताः

4.21

धीरस्य कामपरिवर्जनं सौख्यहेतुः
एतत् (तु) परमं सौख्यं यत् कामपरिवर्जनम् ।
वीतकांक्षस्य धीरस्य गतशोकस्य तापिनः

4.22

मुनीनां चरमपदप्राप्तिफलम्
तदादिमध्यनिधने कल्याणं क्षेममुत्तमम् ।
यद् प्राप्यमुनयः श्रान्ताश्चरन्ति विगतज्वराः

4.23

दुःखहेतवः कामाः
सत्कामजं भवेत् सौख्यं विनिपातगतं तु तत् ।
न हि कामविशेषं च किञ्चिद् दुःखविपाकजम्

4.24

तस्मात् कामेषु मतिमान् न लुभ्येत् कथञ्चन ।
ते हि संसारदुःखानां हेतुभूताः सुदारुणाः

4.25

वनोपवनशैलेषु पद्माकरवनेषु च ।
विभ्रान्तास्तृष्णया बालाः पतन्ति सह दैवतैः

4.26

शुभकर्मासक्तेः उपदेशः
काञ्चनेषु (च) शैलेषु वैदूर्यशिखरेषु च ।
क्षीयते हि शुभं कर्म यतस्व सह दैवतैः

4.27

कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च ।
चरतस्तैः शुभं क्षीणं यतस्व सह दैवतैः

4.28

भूमिभागेषु रम्येषु रत्नाकरवनेषु च ।
न शुभं ते सदा चीर्ण यतस्व सह दैवतैः

4.29

पञ्चात्मकेन वीर्येण मनःप्रहलादकारिणा ।
हतस्य गतकालस्य यतस्व सह दैवतैः

4.30

देवानां हितानभिज्ञता
कामं संसक्त मनसैर्नित्यं विषयतत्परैः ।
न ज्ञायते हितं देवैर्यदमन्त्राहितं भवेत्

4.31

देवनिन्दा
अल्पशिष्टमिदं पुण्यं च्यवनं समुपस्थितम् ।
गन्तव्यमन्यत्र सुरैः सुकर्मफलभोजिभिः

4.32

ये नित्यं शुभसंसक्ताः कुर्वन्ति वा शुभं सदा ।
तेषां विसदृशो हेतुर्मूर्खाणां हि विवर्तते

4.33

के मृत्युं प्रतीक्षन्ते
भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
शुभशीलतमो ऽज्ञानाः सर्वदा न परायणाः

4.34

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये न कर्मविपाकस्य ज्ञानं रोषवधे रताः

4.35

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
प्रज्ञापयन्ति न समा स्तृष्णाग्निपरिवारिताः

4.36

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
विप्रयोगकृतं दुःखं ये न पश्यन्ति दारुणम्

4.37

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
स्त्रीजनासक्तहृदया न विन्दन्ति पुनर्भवम्

4.38

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
विपत्तिव्याधिशोकेभ्यो नोद्विजन्ति कथञ्चन

4.39

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये पापमित्रसंसर्ग प्रकुर्वन्ति महारूषम्

4.40

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
भावितं चेतसा यैर्न न च तत्त्वप्रवेशिता

4.41

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
येन सर्वास्ववस्थासु संसारभयभीरवः

4.42

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
कार्याकार्येषु ये नित्यं न सुभाषितचेतसः

4.43

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये न तत्त्वधियो नित्यं सर्वभूतहिते रताः

4.44

भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः ।
ये शरीर सुखार्थेन धर्म हिंसन्ति मोहिताः

4.45

पण्डितलक्षणम्
एकान्तमनसा नित्यं शुभं कार्यं प्रयत्नतः ।
अशुभं च सदा वर्ज्यमेतत् पण्डितलक्षणम्

4.46

विनिपातसाधनानि
क्षयं यातं च यत् शीलं स्पृष्ट्वा यः समुपागतः ।
प्रमादावञ्चितो ऽवश्यं विनिपातो भविष्यति

4.47

विषयिणः परिवर्तनशीलता न तु विषयाणाम्
गता गच्छन्ति यास्यन्ति देवेशाश्चैव सर्वतः ।
तिष्ठन्ति शिखरे रम्ये नानारत्नविभूषिते

4.48

वैदूर्यशिखरा रम्यास्तथान्ये वनमालिनः ।
विषयास्तादृशा एव जनस्तु परिवर्तते

4.49

वनोपवनरम्याणि भूमिभागानि सर्वशः ।
तिष्ठन्त्यविकलान्येव जनस्तु परिवर्तते

4.50

वैदूर्यमयनालानि काञ्चनानि विशेषतः ।
पद्माकराणि तान्येव जनस्तु परिवर्तते

4.51

सरांसि सरितो रम्याः पक्षिसङ्घैर्निरन्तरम् ।
तथैवाविकला ह्येते जनस्तु परिवर्तते

4.52

विमानानि रथाश्चैव हर्म्याणि च तथैव च ।
तिष्ठन्त्यविकला ह्येते जनस्तु परिवर्तते

4.53

परिवर्तनं लोकस्य विषयैर्वञ्चितस्य च ।
तथापि नामलोकस्य नोद्वेगो हृदि जायते

4.54

अभ्यासेन खरी भूतं चित्तं संसारचारिणम् ।
येन मन्ये महद् दुःखं हृदये नैव वर्तते

4.55

शूलिकेन यथा बद्धाः पशवो गृहपञ्जरे ।
एकैकशो विनश्यन्ति शेषाणां नास्ति सम्भ्रमः

4.56

सुखाय कामिनामेव इयं भूमिरवस्थिता ।
च्युताश्चैवोपपन्नाश्च तथामी बालिशाः सुराः

4.57

विषयोन्मुखानां मरणानभिज्ञत्वम्
प्रमादाय हताः सत्त्वा मृत्युः क्षणिकदुःखदः ।
नावबुद्धयन्ति मरणं पशुवद् वीतसम्भ्रमाः

4.58

ते पश्चाद् दीर्घमनसः कालस्य वशमागताः ।
पश्चात्तापमयो वह्निर्धक्ष्यते निष्प्रतिक्षयः

4.59

दारुणं निष्प्रतीकारमवश्यं रूपदेहिनाम् ।
मरणं कालवशगं तद् विदित्वागमं चरेत्

4.60

विप्रयोगान्ताः सर्वे संयोगाः
समागमाः प्रियालोके वियोगाश्चाप्रियाः सदा ।
संयोगो विप्रयोगान्तो धर्मतेयं सनातना

4.61

क्षणे लवे मुहूर्ते च दिवारात्रौ तथाध्वनि ।
मरणं चिन्तयेद् धीरस्तस्य नास्ति प्रतिक्रिया

4.62

गतकल्मषा एव शान्तिमधिगच्छन्ति
स्मृतिमग्न्यां प्रशंसन्ति येषां मरणसंभवा ।
श्रेयसैकपरां शान्ति प्रयान्तिं गतकल्मषाः

4.63

मृत्योरर्थमनुस्मृत्य दोषो ऽयं कस्य सम्मतः ।
निर्दोषं हि मनः सर्वं शान्तं भवति नित्यशः

4.64

तथागतैः अप्रमादपरं श्रेष्ठमुक्तम्
अप्रमादपरं श्रेष्ठमिदमुक्तं तथागतैः ।
यन्मृत्योः स्मरणं नित्यमशुभानां च वर्जनम्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc