Dharmasamuccaya · अध्याय 3
॥ इति धर्मोपदेशवर्गः द्वितीयः ॥
(3) कायजुगुत्सावर्गः
कायस्य स्वरूपनिरूपणम्
सत्कारैर्वृहणैर्मासैरपि शय्यासनादिभिः ।
न स्वीकर्तुमयं कायः कदाचित् केनचित् कृतः
कायस्य रिपुत्वम्
कृतघ्नस्याविदक्षस्य नित्यं रन्ध्रप्रहारिणः ।
कः कायस्य रिपोरर्थ पापं कुर्याद् विचक्षणः
रोगानी तमनर्थानां बहूना भाजनं तथा ।
अशुच्यङ्गस्य निकरं कायमित्यभिधीयते
अविज्ञेयं मरणं जीवितञ्च क्षणिकम्
उपस्थितमविज्ञेयं मरणं तत्त्वचिन्तकैः ।
जीवितं च क्षणादूर्ध्वं न गच्छति निरूप्यते
कायस्य हेयत्वम्
आयुष्कर्मार्थनिर्माणमेतं कायं त्यज्ययम् ।
अपि विद्धस्तथा शेते काष्ठलोष्ठसमो भुवि
क्षणे क्षणे ऽपि कायो ऽयं जीर्यते न निवर्तते ।
तथा यौवनमदैर्बाला मुहयन्ते (मुग्धचेतसः)
धनधान्यमदैर्मत्ताः कुर्वन्त्यहितमात्मनः ।
तन्नाशमुपयात्येवं स च पापेन दहयते
अधार्मिकनिन्दा
न मनुष्या मनुष्यास्ते येभ्यो धर्मो न रोचते ।
न मार्गे च स्थितास्तत्त्वे निर्वाणपुरगामिके
मनुष्ययोनेः भवसागरतरणोपायः
कथं प्राप्य हि मानुष्यं श्रेयसामालयं महत् ।
न ज्ञानप्लवमारूहय तरन्ति भवसागरात्
जीवनस्य क्षणिकता
विद्युदालातसदृशं गन्धर्वनगरोपमम् ।
सदा तद् याति रभसं जीवितं सर्वदेहिनाम्
शरीरे न मदं कुर्यात् क्षणिके भङ्गुरे सदा ।
इत्वरे चपले ऽसारे जरामरणभीरुके
ध्यायिनान्नगतं ह्येतत् शोकानामालयो महान् ।
शुभाशुभानां क्षेत्रं च शरीरमवधीयते
सफलजीवनरहस्यम्
ज्ञानशीलदयादानैर्यस्य गात्रं विभूषितम् ।
तस्य सत्त्वैकसारस्य शरीरं सफलं मतम्
धातुज्ञानात् मोक्षः
धातूनां मारकात् सर्वमिदं मुक्तं कलेवरम् ।
शरीरधातु विचयात् साक्षाद् भवति नेतरात्
शरीरधातुं यो मुक्त्वा धातुष्वन्येषु रज्यते ।
स धातुकत्वशिक्षातो दुःखेनैव प्रमुच्यते
हिरण्यधातुर्न तथा दुःखशान्त्यै हि वर्तते ।
शरीरधातुतत्त्वज्ञो यथा दुःखात् प्रमुच्यते
दुःखाद् दुःखोदयस्तेन दुःखी न परिरक्ष्यते ।
प्रवीणो राजचौरादिभयैः सर्वैरूपद्रुतम्
तस्मादनर्थकं नित्यं दूरतस्तं विवर्जयेत् ।
वर्जनात् सुखितो दुष्टसङ्ग्रहाद् दुःखितः पुमान्
शरीरधातुतत्त्वज्ञो धातुलक्षणतत्त्ववित् ।
ध्यानाध्ययनसंसक्तो दहति क्लेशपर्वतान्
तस्माच्छरीरजान् धातून् पण्डितः प्रत्यवेक्षते ।
तेषां स्वलक्षणं ज्ञात्वा मोक्षो भवति देहिनाम्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0