Dharmasamuccaya · अध्याय 35
॥ इति मित्रवर्गश्चतुस्त्रिंशः ॥
(35) राजाववादवर्गः
धार्मिको राजा स्वर्ग याति
भुवं परिजनो पश्यन् धर्मचारी जितेन्द्रियः ।
स राजा धार्मिको धीमान् स्वर्गलोकोपपत्तये
कः लोभनिर्मुक्तो राजा?
नियतं यः करं काले धर्मेण परिभुज्यते ।
स राजा लोभनिर्मुक्तो यामानामधिपो भवेत्
राज्ञः स्वरूपम्
क्षमावान् प्रियवाक्यो यः क्रोधहर्षादिधारकः ।
स महीं पालयेत्त्वेनां लोके हि श्रेष्ठतां गतः
अपक्षपातिनः श्रद्धा मित्रेण च (वि)हन्यते ।
स राजन्यसभाजेता देवलोकाय कल्प्यते
बद्धदर्शी महात्मा यो गुरुपूजक एव च ।
अलोलो यो दृढमतिर्देवानामन्तिकं व्रजेत्
पूर्वे यत् पितृभिर्दत्तं देवानुपदिशन्ति च ।
न च हिंसति भूतानि स देवेषूपपद्यते
दानशीले सदा दक्षो धर्मवादी जितेन्द्रियः ।
स मत्वार्यां महीं कृत्स्नां देवलोकं महीयते
नाधार्मिकं धारयति धार्मिकेषु च रक्षति ।
स धर्मशीलसंशुद्धो देवानामन्तिकं व्रजेत्
न स्त्रीणां वशगो राजा साधूनां च वसेत् सदा ।
स निर्मलमतिर्धीरः सुरलोकोपपत्तये
न सर्वस्य वचोग्राही प्रियः साधुजनस्य तु ।
सो ऽमृतस्तत्त्वदर्शीवा नाकृष्ट इव रोहति
को यामानामधिपो?
यो धर्मलोभमायाति द्रविणं नैव लप्स्यते ।
स लोभमलनिर्मुक्तो यामानामधिपो भवेत्
न मिथ्यादर्शनेनापि स्त्रीत्वदर्शनतत्परः ।
स शुद्ध एव विमलो यामानामधिपो भवेत्
कः राजा देवप्रियो भवति?
प्राज्ञः शीले सदायुक्तो दानेनाभीक्ष्णतां गतः ।
प्रविजित्य महीं कृत्स्नां प्रेत्य देवप्रियो भवेत्
प्रियस्य तु भवेद् वाक्यं स्तोत्रोत्सवकरं परम् ।
आह्लादयित्वा वसुधामन्ते देवोपपत्तये
अविसंवादकं वाक्यं यस्य मेरुरिवाचलम् ।
सत्यसोपानमारुह्य देवानामन्तिके गतः
ह्रासवृद्धी च भूतानामकस्मात् कुरुते हि यः ।
स राजा वै परो देवैर्देवलोके च तिष्ठति
मनुष्यान्तरतत्त्वज्ञो यो वेत्ति हि बलाबलम् ।
स धीबलाभ्यां संयुक्तो यामानामधिपो भवेत्
त्रैधातुकपदं यच्च रत्नत्रयमिहोच्यते ।
यस्तत् पूजयते राजा स देवेषूपजायते
कालं नियतदर्शी यः प्रजानां च हिते रतः ।
सर्वतो भद्रकान्तारो देवानामधिपः स्मृतः
निन्दामलविनिर्मुक्तः सङ्गदोषविवर्जितः ।
ज्ञानगोचरसम्पूज्यो नियतं देव एव सः
कः स्वर्ग याति?
कौसीद्यदोषरहितो नित्यं दृढपराक्रमः ।
नाशयित्वा स दोषौघान् प्रेत्य स्वर्गेषु जायते
सन्मित्रैः परिवारितो राजा देवाधिपो भवति
हितानि यस्य मित्राणि कर्मकर्तृणि नित्यशः ।
स मित्रैः सम्परिवृतो नृपो देवाधिपो भवेत्
नानुसेवेत दुर्वृत्तान् वाक्क्षेपेण च वर्जितः ।
स सद्यो विषनिर्मुक्तः सुराणामधिपो भवेत्
क्रोधहर्षविघाताय न च पापेषु रक्ष्यते ।
स पापपङ्कनिधौतः सुरलोकाधिपः सदा
न शक्तः पानभोज्येषु संसक्तस्तु शुभे सदा ।
स शुद्धधर्मसन्दर्शी विबुधो ऽधिकतां व्रजेत्
कः पदमुत्तमं प्राप्नोति?
सुचिन्तितं चिन्तयति (यो) धर्मेषु च वर्तते ।
धर्मोदयेन दृष्टेन यथा याति त्रिविष्टपम्
संसाराद् दीर्घसूत्राद् यस्त्वरितं धर्ममाचरेत् ।
स दीर्घसूत्रनिर्मुक्तः प्रयाति पदमुत्तमम्
धर्मेण प्रजापालकः स्वर्गसुखं याति
धर्मेणैव प्रजा नित्यं प्रपालयति (यो) नृपः ।
स धार्मिकः प्रशस्तात्मा सुरलोके महीयते
दशेमे कुशला धर्मा इहोक्तास्तत्त्वदर्शिना ।
यस्ते प्रकुरुते धर्मान् स सुराधिपतां व्रजेत्
हेतुप्रत्ययसन्दर्शी मार्गामार्गौ तथैव च ।
स दृष्टिमलनिर्मुक्तो विबुधो ऽधिकतां गतः
कीदृशैर्गुणयुतैः राजा देवानामधिपो भवति
यो देवतां पूजयति यथा चाह्नि महीपतिः ।
स देवपूजितो भूयो देवानामधिपो भवेत्
अनाविलेन मनसा प्रसन्नश्चाधिदारकः ।
स्वस्वदारैश्च सन्तुष्टो देवानामधिपो भवेत्
कः शीलवान्?
हीयते यो न विषयैः सर्वबालापहारिभिः ।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः
अविद्यावर्जकान् नित्यं सेवते यः सुधार्मिकान् ।
सद्धर्मचिन्तकः सौख्यं कल्पते सुर(सं)सदि
(व्यापारैः स्वस्थचित्तो यः) पार्षदालापहारिभिः ।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः
सद्धर्मी राजा एव वसुधाधिपतिः
सद्व्यापाराद्धर्ममिमं पालयन् वसुधाधिपः ।
प्रशास्ति च महीं कृत्स्नां यामानामधिपो भवेत्
सत्कर्मनिरतस्य राज्ञो भृत्यो ऽपि शोभते
सत्कर्मनिरतो भृत्यो नृपे सद्गुणशालिनि ।
जनो निर्मलतां याति शरच्चन्द्र इवाम्बरे
कः राजा देवतुल्यो भवति?
हेतुलक्ष्यविधिज्ञा ये अविरुद्धाः परस्परम् ।
सम्यक्स्वाम्यर्थकर्त्तारः देवानां वशमागताः
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0