भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 36

36.1

॥ इति राजाववादवर्गः पञ्चत्रिंशः ॥
(36) स्तुतिवर्गः
बुद्धस्तुतिः
समसत्त्वाग्रवेदाय सर्वसत्त्वेषु बन्धवे ।
सन्मार्गसार्थवाहाय भवबन्धनभेदिने

36.2

(ना)नादृष्टिविभेदाय सर्वसंशयमोचिने ।
सम्यग्दृष्टिनिवेशाय नमः सञ्ज्ञानचक्षुषे

36.3

सर्वसङ्कटभेदाय त्रिदोषमलशोधिने ।
नमो नक्षत्रभूताय सर्वबीजफलोरुहे

36.4

सर्वप्रज्ञाकराग्राय सर्वध्यानाग्रवेदिने ।
सर्वरत्नोत्तमार्याय नमो ऽलानाग्रदर्शिने

36.5

इयं सा लोकनाशस्य विप्रयुक्तस्य तापिनः ।
प्रतिमा दृश्यते शान्ता मोक्षमुद्घाट्यकारिका

36.6

समर्चतीमां नित्यं (यः) पुरुषः शान्तमानसः ।
स मुच्यते भवभयान्निवृत्तिं चाधिगच्छति

36.7

एतच्छान्तपदं रम्यमेतन्नैष्ठिकमुच्यते ।
यदयं भाषते धर्म निर्वाणपुरदेशिकः

36.8

अस्य वाक्यं समालम्ब्य पुरुषाधीनविक्रमाः ।
आकर्षन्ति पदं नित्यं यदनन्तसुखावहम्

36.9

एतत् पूर्व समारुहय पुरुषास्तत्त्वचिन्तकाः ।
त्रिलोकौघार्णवं घोरं तरन्ति भवसागरम्

36.10

अयं स चक्षुर्लोकस्य समन्ताद्धि विचक्षुषः ।
अयं ज्योतिः परं ज्योतिर्यज्ज्योतिःकाष्ठसम्भवम्

36.11

कल्पान्तं प्राणिनां चित्ते नृणां रागादिभिर्मलैः ।
ज्ञानतोयेन महता शोधयत्येव वाङ्नृपः

36.12

यन्न दृष्टं पदं सर्वैस्तीर्थिकैर्ज्ञानपाणिभिः ।
तत्पदं विमलैर्वाक्यैस्त्वया नृणां प्रदर्शितम्

36.13

प्रमादपरमो ऽनाथो जनो ऽयं तारितस्त्वया ।
तीर्णः पारगतो नाथस्तारयत्यघनाशनात्

36.14

हितार्थ सर्वजगतस्त्वमेवैको व्यवस्थितः ।
अहितानां हितायैव त्वमेव पुरुषोत्तमः

36.15

अनादिमति संसारे नृणां क्लेशापहारकैः ।
त्वया विशोधितो वाक्यैस्तमः सूर्योदये यथा

36.16

अक्षयः सर्वधर्माणां ज्ञानलोककरो महान् ।
त्वमेवैको जगन्नाथ लोकोत्तरगुणार्णवः

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc