Dharmasamuccaya · अध्याय 34
॥ इति सुखवर्गो त्रयस्त्रिंशः ॥
(34) मित्रवर्गः
कः पापान्निवारयति?
तन्मित्रं मित्रमित्युक्तं यन्मित्रं साम्परायिकम् ।
निवर्तयति यः पापाद् व्यसनाच्चापि रक्षति
प्रवेशयति यन्नित्यं तद्धितं साम्परायिकम् ।
मित्रं भवति तन्नृणां न मित्रं पापकारकम्
संसर्गजा दोषगुणा भवन्ति
अपूतिः पूतिसंश्लेषात् पूतिरेवोपजायते ।
न पूतिः पूतसंश्लेषमपूतिं कर्त्तुमर्हति
यादृशेन (हि) संश्लेषं कुरुते पुरुषः सदा ।
तद्दोषात् सदृशो दृष्टः शुभो वा यदि वाशुभः
न शुभं दुःखकारकम्
शुभार्थी पुरुषः सर्वानशुभान्नैव सेवते ।
तेनासौ दुःखमाप्नोति न शुभं दुःखकारणम्
गुणदोषयोर्लक्षणम्
संश्लेषजा गुणाः दृष्टा दोषाः संश्लेषजातयः ।
लक्षणं गुणदोषाणामिदमुक्तं स्वभावजम्
यशसा युज्यते यो हि नित्यं साधुसमागमात् ।
असाधुऽसङ्गमाच्छ्रीघ्रं प्रयाति पुरुषाधमः
सत्सङ्गतिफलम्
एतत् सारं सदा कार्य यदसाधुविवर्जनम् ।
साधुभिश्च सदा वासो दुष्टाणां च विवर्जनम्
दोषान् समुद्धरेद्धीमान् गुणवृद्धिं समाचरेत् ।
(साधु) मित्रं प्रकुर्वीत कौसीद्यविमुखो भवेत्
न मानिनं कुसीदं वा नित्यं सर्वानुशङ्किनम् ।
लिप्तपापमतिक्रूरं मित्रं कुर्यान्न पण्डितः
उद्युक्तं मृदुजातीयं धर्मिष्ठं दोषवर्जितम् ।
सम्यग्दृष्टिरचपलं मित्रं सेवेत पण्डितः
न पापकं भवेन्मित्रं भवेदुत्तमपौरुषः ।
उत्तमं भजमानस्य न दोषेभ्यो भयं भवेत्
कः लघुतां याति?
रूपैश्वर्यकुलादीनि भिद्यन्ते (यस्य) देहिनः ।
भयप्रदं तं मातङ्गः प्रयान्तं नैव पश्यति
उद्वृत्तः पुरुषो नित्यं प्रमादाकुलितेन्द्रियः ।
लघुतां याति लोके ऽस्मिन् प्रेत्यपापेषु पच्यते
रूपैश्वर्यमदार्था ये ते नराः पापकारिणः ।
तेषां न सुशमं (कर्म) प्रेत्यपापेषु पच्यते
रूपैश्वर्यकुलार्था ये न ते तत्त्वस्य भागिनः ।
अतत्त्वबुद्धयो बाला न तरन्ति भवार्णवम्
ज्ञानशीलादियुतं कुलं श्रेष्ठम्
एतत्कुलं ये विभवा यच्चान्यत् सुखमिष्यते ।
सर्वाण्येतान्यनित्यानि तस्मात्तेषु न विश्रमेत्
न ज्ञानशीलनिर्मुक्तं कुशलं यान्ति पण्डिताः ।
येषां ज्ञानं च शीलं च ते कुले महति स्थिताः
चरितुं चामलं शीलं शीलमेव महाद्भुतम् ।
महाकुलप्रसूतास्ते (पण्डिताः) वशमानिनः
दानशीलतपोध्यानसत्यैश्वर्यपराक्रमैः ।
संयुक्ता ये कुलीनास्ते ये न धर्मविवर्जिताः
नैश्वर्यज्ञानहीनस्य न कुलं नापि सङ्गतिः ।
तस्मात्कुलं ज्ञानमयं ज्ञानहीनं न तत् कुलम्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0