भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 33

33.1

॥ इति देववर्गो द्वात्रिंशः ॥
(33) सुखवर्गः
सुखस्वरूपनिरूपणम्
अनुत्तरेषु सौख्येषु ध्यानोपात्तेषु ये रताः ।
तेषां सुखं यथावत् स्यात् निर्वाणपुरदर्शकम्

33.2

नवेन सुखदुःखेन पुराणमभिहन्यते ।
देवस्यैतन्नवेनैव पुराणमभिहन्यते

33.3

धू(म) मिश्रं यथा काष्ठं वि(ष्ठा) मिश्रं यथोदनम् ।
तथा सुखमिदं सर्वमस्वत्वं नावगम्यते

33.4

निर्वाणपुरगामिनां सुखम्
तत् सुखं यद् वितृष्णानामेकान्तसुखचारिणाम् ।
निर्मोहिणामरागाणां निर्वाणपुरगामिनाम्

33.5

तेषां विमलमाद्यन्तं सौख्यानामपि तत् सुखम् ।
येषां तृष्णानुगा चाशा सर्वथा नैव चेतसि

33.6

सङ्गृहीतस्य चित्तस्य निरात्मस्य च सर्वतः ।
कार्याकार्येषु मूढस्य सुखं नित्यमुपस्थितम्

33.7

कः श्रेष्ठः सुखी?
सा बहिर्निहता येन नन्दिसंसारहेतुकी ।
स धीरः पारगः श्रेष्ठः सुखी निर्वाणमाश्रितः

33.8

नैतत् सुखेन तृष्णानां यद् रागद्वेषसंयुतम् ।
यत्र रागादिनिर्मुक्तं तत् सुखं निर्मलं मतम्

33.9

कुत्र तृष्णा न बाधते?
देवलोके समासाद्य यः सुरो नावमन्यते ।
स सुखात् सुखतां याति यत्र तृष्णा न बाधते

33.10

तदन्त्यसुखि श्रेयो यत्र मृत्युर्न विद्यते ।
मृत्युपाशैर्न बद्धस्य न सुखं विद्यते क्वचित् ।
यत् सुखं कामजनकं न तत् सौख्यं सतां मतम्

33.11

यत्र कामविनिर्मुक्तस्तत्सुखात् सुखमुत्तमम् ।
यत् सुखं जनयेत् श्रेयः (पयोमिश्रं) यथोदनम्

33.12

यत्र तृष्णाविनिर्मुक्तिः पयोमिश्रं यथोदनम् ।
यथा पद्मवने गृद्धा यान्ति(ते) क्रव्यभक्षिणः

33.13

एवं शान्तेष्वरण्येषु न भान्त्यशुभचारिणः ।
क्वचिच्छान्तं वनं रम्यं क्वचिद् देवाः प्रमादिनः

33.14

कः परमं सुखं प्राप्नोति?
विपरीतं न सदृशं भानोः शीता यथा प्रभा ।
गततृष्णस्य यत् सौख्यं मुक्तदुःखस्य तायिनः

33.15

तस्यान्तरेण सौख्यस्य सुखमेतन्न गण्यते ।
ध्यायिनस्त्वप्रमत्तस्य मुक्तपापस्य सर्वदा

33.16

तत् सुखं तत् परं सौख्यं नेदं तृष्णाविदां मतम् ।
मुनिसेव्यं वनमिदं सेवितं च सुभाषितैः

33.17

नार्हा (यूयं) रागगणं सेवितुं भो सुरोत्तमाः ।
यदेतद् भवतां सौख्यमेतन्न खलु शाश्वतम्

33.18

तत् सुखं परमं शान्तं वीततृष्णै निषेव्यते ।
निःसेवितं वनमिदं ये गताः परमं पदम्

33.19

यत् प्राप्य सर्वदुःखस्यच्छेदो भवति सर्वथा ।
ब्रह्मचर्यादनिर्मुष्टाः शीलालापेन वञ्चिताः

33.20

भिक्षूणां वने वास एव सुखावहः
नार्हन्ति सेवितुं रम्यं वनं शान्तं सुभाषितम् ।
शान्तं च भावितं (चैव) रमते शुभगोचरे

33.21

न रागचारिणां चित्तं रमते वनगोचरे ।
न रागव्याकुलं चित्तं वनेषु लभते धृतिम्

33.22

कः पुरुषोत्तमः?
श्रव्यामूढा मतिर्यस्य नित्यं त्रिभुवनं करे ।
स रतिं लभते शान्तिं वने पुरुषसत्तमः

33.23

सुखाय वनं सेव्यम्
स कल्परागकुटिलो नित्यं रागादिभिर्वृतः ।
स शान्तिं नैव लभते वने शान्ते सुखावहे

33.24

येषां तु मनसा नित्यं वने ध्याननियोगिनाम् ।
वनं तेषां सदारम्यं न तु रागगवेषिणाम्

33.25

वनेषु भावितं चित्तं नगरेषु न कुप्यते ।
तस्माद् वनं सदा सेव्यं नगरं नैव शस्यते

33.26

विक्षिप्यते हि नगरे नृणां रागादिभिर्वृतः ।
विक्षिप्त मोहकुटिलं वनं भूयः प्रसीदति

33.27

तस्माद् वनं परं शान्तं योगिनामालयं महत् ।
संसेव्यं वीतमनसा यस्य तद् वीतकल्मषम्

33.28

रतिं मा कृथा
प्रशान्तेन्द्रियचित्तस्य या रतिर्योगिनो हृदि ।
नासौ शक्तिः सहस्रस्य (मानवानां) भविष्यति

33.29

या ध्यायिनो रतिर्दृष्टा व्यवदानाय सर्वदा ।
न यामेष्वपि सा दृष्टा नित्यं रागानुरागिणी

33.30

रतिर्या कामवशगा सा नित्यं दुःखसम्भवा ।
या तु क्लेशवशात् प्रीतिः (सा प्रीतिः) शाश्वता नहि

33.31

कः श्रेयस्पदं प्राप्नोति?
श्रेयो वनेषु चरितं तत्तदुच्चरितं नृभिः ।
यस्मात् तत् प्रतिबद्धं हि श्रेयसां पदमुच्यते

33.32

सुसम्भृतेन धर्मेण रक्षितेनेव चेतसा ।
सुदृष्टं लभते स्थानं यत्र दोषो न विद्यते

33.33

यः क्षिप्तमनसा नित्यं न च धर्मपरायणः ।
तेषां वृथा सुखमिदं गच्छति न निवर्तते

33.34

तत्त्वज्ञा दुःखं न पश्यन्ति
ये तु तत्त्वविदो धीराः पश्यन्ति जगतः स्थितिम् ।
अनित्यदुःखशून्यानां तेषां दुःखं न विद्यते

33.35

सुखधर्मस्य चरणं ज्ञानस्य च निषेवणम् ।
अहिंसा सत्यवचनं तदप्येकान्ततः स्थितम्

33.36

कः स्वर्ग याति?
एकधर्मव्यतीता ये ये ऽधर्मपरिवञ्चकाः ।
त्रिस्थानलक्षणाविष्टास्ते जनाः स्वर्गगामिनः

33.37

सुखस्य स्वरूपम्
उदयव्ययधर्माणामनित्यं कर्मजं हि तत् ।
तत् सुखं सास्त्रवं नित्यं न भूतं न भविष्यति

33.38

तत् सुखं तद्वितृष्णस्य नीरागस्य हि देहिनः ।
मुक्तिर्भवति दोषस्य पारस्थस्य हि तापिनः

33.39

तत् किञ्चित् सास्रवं सौख्यं तत् सर्व क्षणिकं मतम् ।
रागबन्धाद् विनिर्मुक्तं तत् सर्व निश्चलं सुखम्

33.40

ये न क्षिपन्ति दुःखेन सुखे येषां न सङ्गतिः ।
ते दुःखसुखनिर्मुक्ता निर्वाणसुखगामिनः

33.41

अनुपायेन ये मूढाः प्रार्थयन्ति सुखं सदा ।
बालुकाभिर्यथा तैलं यल्लभ्यं नित्यमेव तत्

33.42

न चेतसा नरः प्राज्ञो मनोरथशतैरपि ।
शक्रो ऽपि तत् सुखं कर्तु यथा कर्म कृतं महत्

33.43

सुखाय धर्ममाचरेत्
ससुखं यस्य तु मनः सद्धर्मानुचरो भवेत् ।
दुःखैर्मुक्त्यभिलाषो ऽयं स धर्मे कुरुते मतिम्

33.44

नाहेतुकं सुखं दृष्टं दुःखं वा त्रिविधात्मकम् ।
सुखे दुःखे पृथग्भावे तस्मान्नु सुकृत चरेत्

33.45

नेदं सौख्यं सदा शस्तमध्रुवं विप्रलोपि च ।
तृष्णाविषेण सम्मिश्रं विषमिश्रं यथोदनम्

33.46

तत् सौख्यं (हि)सतां शस्तं यत्र मृत्युर्न विद्यते ।
न च प्रियेण विश्लेषो नाप्रियेण समागमः

33.47

कीदृशं सुखं दुःखजनकम्?
यदेतत् स्त्रीमयं सौख्यमेतद् दुःखाय कल्प्यते ।
तद्बीजवर्तका दृष्टा नरकेषूपपत्तये

33.48

यत् सुखं दुःखजनकं कथं तत् सुखमिष्यते?
दुःखाद् दुःखतरं ज्ञेयं परिणामवशेन तत्

33.49

यदेतद् भुज्यते सौख्यमेतत् कालेन नश्यति ।
सूर्यस्तास्तङ्गतस्यैवं रश्मयः सह चारिणः

33.50

विकृतिं यस्य (च) मनः सुखदुःखैर्न गच्छति ।
स धीमान् सुरलोके च गत्वान्यल्लभते सुखम्

33.51

भुक्तं सुखं पुराणं तु हीनकर्म करोति च ।
पुराणं सुकृतं शीर्ण मृत्युकाले न बुध्यते

33.52

सर्व सुखमनित्यं भवति
यदिदं दृश्यते सौख्यं मनोवाक्कामजंभृशम् ।
अनित्यं तद् विनाशत्वमचिरेण भविष्यति

33.53

फेनबुद्बुदसङ्काशं मरीच्युदकसन्निभम् ।
चञ्चलोर्मि सुखं सर्व विनिपातो भवार्णवे

33.54

निष्प्रतीकारविषमः सर्वभूतभयावहः ।
चक्रवातप्रवेगो (वै) मृत्युराजैष धावति

33.55

नाशयित्वा सुखं सर्व नाशयित्वा च जीवितम् ।
कर्मसङ्कल्पवाह्येषु लोकमन्यत्र नेष्यति

33.56

यदतीव सुखं नृणां तद्धि सौख्याय कल्प्यते ।
यन्नैष्यति सुखं किञ्चित् तद्धि नैव विगण्यते

33.57

वर्तमानं तु यत् सौख्यं तृष्णाविषविवर्जितम् ।
सर्व ह्यनात्मजं दुःखमनित्यं संस्कृतं बलम्

33.58

लौकिकं सुखं न सुखम्
यद् सुखं त्रिषु लोकेषु न शस्तं तत्त्वदर्शिभिः ।
तेन मत्वा कथं देवा भवन्ति विगतज्वराः?

33.59

अविष्टोवतकालो ऽयं भैरवो याति सत्त्वरम् ।
यो भोक्ष्यते सुरान् सर्वान् शुष्केन्धनमिवानलः

33.60

अतियाति सुखं सर्व क्रियतां श्रैयसं मनः ।
मा पश्चात् संभवो योगे मृत्युकालो भविष्यति

33.61

सुखमस्थिरं भवति
जन्मान्तरसहस्रेषु यद् मुक्तं कर्मजं सुखम् ।
तरङ्गसन्निभः क्वायं(जानीयाद्) बालिशो ऽस्थिरम्

33.62

कः सुखेन प्रसीदति?
न सुखैस्तृप्यते बालस्तथा काष्ठैर्यथानलः ।
तस्मान्न (सुख) सक्तस्य सुखं भवति नैष्ठिकम्

33.63

विषस्य दोषमुक्तस्य कामदोषानुदर्शिनः ।
ध्यायिनश्चाप्रमतस्य तत् सुखं यदनाविलम्

33.64

सुखी भवति तत् प्राप्य न सुखं भवजन्मनः ।
बन्धमिश्रं विषं यद्वद् धर्मसौख्योदयस्तथा

33.65

कामविरहितः सुखमश्नुवते
तस्मात् तत्सुखसक्तानां नित्यं कामगवेषिणाम् ।
भवन्त्यनेकसौख्या(नि)तस्मात् कामो न जायते

33.66

ज्ञानेनैवेन्द्रियाणि स्वगोचरे निवर्तन्ते
नेन्द्रियाणां जयः शक्यः कर्त्तु विषयगोचरे ।
ज्ञानेन हि निवर्तन्ते इन्द्रियाणि स्वगोचरे

33.67

बाला एव गतिपञ्चके भ्रमन्ति
दुःखे सुखाभिसंसक्ता नित्यं बाला (हय)मेधसः ।
विपर्यया परिभ्रान्ता भ्रमन्ति गतिपञ्चके

33.68

कुत्र सुखं दुःखसदृशं भवति?
यदत्यन्तसुखं दृष्टं तत् सुखं सत्यमुच्यते ।
यत्र दुःखं विपाकं स्यात् तत् सुखं दुःखमेव तत्

33.69

पापस्याकरणमेव सुखम्
अन्यागतस्य दुःखस्य प्रतिघातयते बुधः ।
पापस्य हेतुजं दुःखं पापस्याकरणं सुखम्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc