Dharmasamuccaya · अध्याय 32
॥ इति पुण्यवर्ग एकत्रिंशः ॥
(32) देववर्गः
सौगतमार्गे चरन्तः पुरुषा देवतुल्याः
पन्थानो मुनिना शास्त्रे उक्ता ये तत्त्वदर्शिना ।
तैस्तु सम्प्रस्थितास्ते (हि) पुरुषा देवसम्मताः
सुगतोक्तो मार्गः
सत्यं हि दानं च तथैव मैत्री सत्त्वेषु रक्षा प्रियवादिता च ।
सम्यक्त्वदृष्टिर्विमलं मनश्च पन्थानमाहुस्त्रिदिवस्य बुद्धाः
शुक्लधर्मसमायुक्तः शुक्लचित्तसमन्वितः ।
सुखात् सुखतरं याति ज्योतिर्ज्योतिःपरायणः
ज्योति(हि)र्ज्योतिषा पूर्ण दीपो दीपान्तराद् यथा ।
तस्माद्धि परमांल्लोकान् प्रयाता सम्प्रपद्यते
आचारवान् देवानामन्तिकं व्रजेत्
यस्य शुद्धं सदा चित्तं निर्मलं मणिवत् सदा ।
स शान्तो निर्ममो धीमान् देवानामन्तिकं व्रजेत्
ध्यानशीलसमाधिभ्यो यस्य चित्तं शुभान्वितम् ।
स धीमान् काञ्चनप्रख्यो देवानामन्तिकं व्रजेत्
प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः ।
ऋतुस्रोतो ऽनुकम्पाश्च देवानामन्तिकं व्रजेत्
श्रुतवान् सर्वलोकस्य क्रूरकर्मविवर्जितः ।
अलिप्तः पापकैर्धर्मैर्देवानामन्तिकं व्रजेत्
तृणवत् काञ्चनं यस्य कामा यस्य विषोपमाः ।
स कामवर्जको धीमान् देवानामन्तिकं व्रजेत्
नाकृष्यते मनः कामैर्विषयै रागहेतुभिः ।
समन्तात्भवकान्तारैर्देवानामन्तिकं व्रजेत्
भिन्नाः परम्परा आदौ मित्रवान् धनबान्धवः ।
यः करोति सुसंश्लिष्टा देवानामन्तिकं व्रजेत्
यस्य बुद्धिस्थितं वेश्म न बुद्धिः क्वापि रागिणी ।
स जितारिर्विशुद्धात्मा देवानामन्तिकं व्रजेत्
प्रशस्तकायकर्मान्तो यः पापविरतः सुखी ।
स कामविरतो ध्यायी देवानामन्तिकं व्रजेत्
पापमित्रविनिर्मुक्तस्तृष्णाविषविवर्जितः ।
न बद्धः स्त्रीभयैः पाशैर्देवानामन्तिकं व्रजेत्
प्रयत्नवादी यो धर्मे दानशीलसमाधिमान् ।
नित्योद्युक्तो दृढमतिर्देवानामन्तिकं व्रजेत्
सम्यग्बन्धनो येन पाशश्छिन्नो यथासिना ।
सच्छिन्नपाशः स्ववशी देवानामन्तिकं व्रजेत्
शुभकर्मविपाकेन देवलोके उद्भवः
मनुष्यभूता ये सत्त्वाश्चरन्ति सुकृतावहाः ।
तेन कर्मविपाकेन सुरलोके प्रसूयते
धर्मपथाश्रिता एव बलिनः
मनुष्याणां बलाद् देवा देवानां बलिनो नराः ।
अन्योन्यबलिनो ते ये सद्धर्मपथमास्थिताः
तिस्त्रो ऽपायभूमयः
देवानां सुगतिर्मर्त्याः मर्त्यानां सुगतिः सुराः ।
अपायभूमयस्तिस्रः शुभकर्मविवर्जिताः
सर्व सुखं धर्माधीनम्
धर्माधीनं सुखं सर्व धर्माधीना हि निर्वृतिः ।
धर्मः सुप्तेषु जागर्ति धर्मो हि परमा गतिः
देवैरसुरा जिताः
धर्मेण निर्जितो ऽधर्मः सत्येनानृतिको जितः ।
ज्ञानेन वर्जितो मोहो देवैस्तु ह्यसुरा जिताः
देवलोकं सुखोदयम्
सोपानभूता ये तानि कर्माणि त्रिदिवस्य हि ।
योनिं त्यक्त्वा नरा यान्ति देवलोकं सुखोदयम्
वाक्संयमेन बुधास्त्रिदिवं सुखं भुञ्जन्ति
चतुर्विधो वाङ्नियमः को ऽपि त्रिविधपञ्चधा ।
सप्तसोपानमारूप्यं गच्छन्ति त्रिदिवं बुधाः
प्रभया ते च दिव्यन्तः स्वशरीरेण जातया ।
रमन्ते स्वर्गभुवने रञ्जिताः स्वेन कर्मणा
शीलमेव शुभस्य कारणम्
नित्यामोदविहारा(ये) नित्यं सौख्यविहारिणः ।
यद् देवा देवभवने शीलं तत्र हि कारणम्
यदप्सरः परिवृता यत् सूर्यशशिसन्निभाः ।
देवाः समन्ताद् देवेषु तत्सर्वशुभहेतुकम्
यदीप्सितं सम्भवति सम्भूतं च न हीयते ।
वर्तते च शुभं नित्यं तत् सर्व शुभहेतुकम्
शुभचारी देवानां समतां व्रजेत्
शुभचारी सदा दानी सर्वभूतदयारतः ।
दानमैत्र्या सदा युक्तो देवानां समतां व्रजेत्
प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः ।
सम्यगाजीवकर्मान्तो देवानां सङ्गतिं व्रजेत्
अदत्ते न रतिः किञ्चिद् दाने चास्य सदामतिः ।
शान्तेन्द्रियमतिर्धीमान् देवसङ्गतिमश्नुते
मिथ्याकामैर्विमुक्तो यः सत्पथाभिरतः सदा ।
निर्वाणकांक्षी विमलो देवानामन्तिकं व्रजेत्
विमनस्कं हि यत् प्रीते पुरुषे कुरुते लघु ।
मद्यवर्जी परं धीरो देवानामन्तिकं व्रजेत्
प्रमादविरहितः सुखमाप्नोति
सुख (प्राणो) हि यो देवः प्रमादं नानुसेवते ।
सुखात् सुखमवाप्नोति निर्वृत्तिं चाधिगच्छति
क्षयावसानं तत् सौख्यं निर्वाणमिति शाश्वतम् ।
तत् सप्राप्यविमानेषु राजन्ते पुरुषोत्तमाः
उच्चादुच्चरो मेरुस्तस्मादुच्चं सदा सुखम् ।
शुभेन नियतो जन्तुरकनिष्ठान् सुरान् (जयेत्)
निरवद्ये कुतस्तृप्तिर्देवलोके विशेषतः ।
अतीव सौख्यं लभते कस्माद् देवेषु सर्वदा
कः सौख्यमुपलभ्यते?
तृष्णाग्निपरिदग्धेन न सौख्यमुपलभ्यते ।
एवं सुकृतदग्धेन न सौख्यमुपलभ्यते
त्रिविधं सुकृतं कृत्वा त्रिप्रकारं त्रिहेतुकम् ।
एतदग्र्यं त्रिभूमिष्ठं (त्रिगुणं च) फलं महत्
अहिंसादानपरमा ये सद्धर्मपरायणाः ।
सत्यक्षान्तिदमैर्युक्ताः त्रिदिवं(ते) समागताः
दिव्याभरणसम्पन्ना दिव्यमाल्यविभूषिताः ।
यद् देवा दिव्यमतयः (कुर्वन्ति) शुभमेव तत्
देवानां यन्महत्सौख्यं(न)न्यूनाधिक्यमास्थितम् ।
न्यूनमध्यं तु यस्यैतत् फलं पुण्यस्य दृश्यते
पुण्यकर्ता देवलोकं गच्छति
येन यावद्धि यत् पुण्यं कृतं भवति देहिना ।
तस्य तावद्धि तत् सौख्यं देवलोकेषु पच्यते
शीलसंरक्षणमावश्यकम्
स्वागतं तव भो भद्र! सुकृतं कृतवानसि ।
सप्तधा रक्षितं शीलं तस्यैतत् फलमागतम्
रमस्व सह दैवतैः
वनोपवनशैलेषु पद्माकरवनेषु च ।
हर्म्याग्रेषु रमस्व (त्वं काञ्चनेषु) सदैवतः
वनोपवनशैलेषु वैदूर्यशिखरेषु च ।
वनाद्रिषु च नैकेषु रमस्व सह दैवतैः
कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च ।
सरित्सु च विशालासु (रमस्व) सह दैवतैः
स्त्रोतस्विन्यादियुक्तेषु पर्वतेषु नदीषु च ।
नगरेषु महार्थेषु रमस्व सह दैवतैः
मदगन्धिप्ररोहेषु नीलोत्पलवनेषु च ।
यक्षसद्मसु रम्येषु रमस्व सह दैवतैः
भूमिभागेषु चान्तेषु रत्नाकरवनेषु च ।
विमानेषु च रम्येषु रमस्व सह दैवतैः
पञ्चाङ्गिकेन तूर्येण मनःप्रह्लादकारिणा ।
नृत्यमानः सुखी नित्यं रमस्व सह दैवतैः
शीलबीजं शोधयित्वा शीलेषु विविधेषु च ।
क्रीड त्वं विविधैर्दिव्यैर्यथार्थमनुसेवसे
यत्प्रभामालिनो देवा रमन्ते विविधैः सुखैः ।
तच्छुभस्य फलं दृष्टं निर्मलस्य विशेषतः
यदेतैर्विविधैः सौख्यैर्देवाः क्रीडन्त्यनेकशः ।
न वयं हेतवस्तत्र (तत्र हेतुः) पुराकृतम्
कूटागाराणि सर्वाणि कर्मचित्राणि सर्वदा ।
भुनक्ति देवो देवेषु सत्कृतेनोपबृंहितः
पाशत्रयविमुक्तस्य पञ्चभिः पालितस्य वै ।
एकधर्मव्यतीतस्य देवलोको महीयते
प्रमुद्यच्चेतसां पुंसां स्पष्टचेष्टा समाहिता ।
आगता देवसदनं स्वकर्मफलसाक्षिणी
सुकृतफलम्
उपर्युपरि सौख्यानि (तथा च) सुकृतस्य वै ।
भुञ्जन्ति विबुधाः स्वर्ग यद्धि पूर्वकृतानुगम्
साक्षिभूता इमे सर्वकर्मणां विविधा द्रुमाः ।
निरन्तरं सुसदृशं कथयन्ति मनीषिणः
भाग्यं फलति सर्वत्र
येन येन विपाकेन यत्र यत्रोपपद्यते ।
पुरुषो लभते स्वस्य प्रारब्धस्य शुभाशुभम्
शुभकर्मणा प्राणी नित्यं देवेषु जायते
शुभेन कर्मणा जन्तुर्नित्यं देवेषु जायते ।
तथाशुभेन नरके पतन्ति पुरुषाधमाः
कामिनो मरणं नावगच्छन्ति
शुभाशुभाभ्यां संरक्ताः कामिनः काममोहिताः ।
नावगच्छन्ति मरणं यदवश्यं भविष्यति
शुभाशुभविपाको ऽयं यो वृक्षेषूपलभ्यते ।
न सौख्याद् विरमन्त्येते मनः सौख्येन मोहिताः
सुकृतं कृत्वा मानवाः देवेषु यान्ति
त्रिविधं सुकृतं कृत्वा भावयित्वा च सप्तधा ।
त्रिसंख्याकान् रिपून् हत्वा यान्ति देवेषु मानवाः
कः देवानामन्तिकं व्रजेत्?
नासूयति क्रियाक्लेशान् न च नन्दीमसूयति ।
स नन्द्यसूयकः शुद्धो देवानामन्तिकं गतः
विनिन्द्य मात्सर्यमिदं दुःखस्यायतनं महत् ।
समं च त्रिविधं दत्त्वा देवानामन्तिकं गतः
प्राणिनां प्रणयं नित्यं रक्षयित्वानुकम्पया ।
मैत्रचित्तः सदा दान्तो देवानामन्तिकं गतः
अदत्तं च धनं दत्त्वा दत्त्वानन्दं च सर्वतः ।
चेतनाभावितमतिर्देवानामन्तिकं व्रजेत्
मातृवत् परदारांश्च दृष्ट्वा तत्त्वार्थचिन्तकः ।
अलिप्तो पापकैर्धर्मैर्देवानामन्तिकं व्रजेत्
(कृतः) स्वचित्तप्रीत्यर्थ जिह्वारणिसमुद्भवः ।
कथ्यते स मृषावादस्तं हित्वा सुगतिं व्रजेत्
पैशून्यं च सदा हित्वा मैत्र्यनर्थकरं पदम् ।
श्लक्ष्णप्रभः श्लक्ष्णमतिः देवानामन्तिकं व्रजेत्
पारुष्यं शत्रुवद्धीरो वर्जयत्येव सर्वदा ।
श्लक्ष्णप्रभामतिर्नित्यं सर्वेषु गतिगामिकः
अधर्मो यस्य जिह्वाग्रे न भूतो न भविष्यति ।
सदा दुष्कालतत्त्वज्ञो देवानामन्तिकं व्रजेत्
येनेदं रक्षितं शीलं सप्तधा बुद्धदेशितम् ।
स धीरः शीलतत्त्वज्ञो देवानामन्तिकं व्रजेत्
कः सफलः धर्मज्ञः?
विविधकर्मवशगं जन्मेदं लभते सुरैः ।
तत्प्राप्य यो न धर्मज्ञः स पश्चात् परितप्यते
सुकर्मणा शुभजं फलम्
वनोपवनरम्यो ऽयं लतावेदिकमण्डपः ।
यद्विचित्रमयो लोकस्तत् सर्व शुभजं फलम्
येन येन यथा कर्म कृतं भवति शोभनम् ।
तस्य तस्य तथा दृष्टं फलं तदनुगामिकम्
प्रत्यक्षं दृश्यते देवैर्हीनमध्योत्तमं सुखम् ।
येन येन यथा चीर्णं तस्य तस्य तथा फलम्
कुकर्मणा दुःखजं फलम्
विचित्रवेषाः संमूढा देवा मोहवशानुगाः ।
तन्नाशान्मनसा मूढा न पश्यन्ति महद्भयम्
विचित्रकामरतयो विचित्रफलकाङ्क्षिणः ।
न वा कुर्वन्ति कर्माणि ते ऽसुरा मूढचेतसः
के प्रेमपरायणाः?
फलं येषां प्रियं चित्तं न च शीले रता मतिः ।
ते प्रदीपं परित्यज्य प्रेमालोकपरायणाः
हेतुफलतत्त्वज्ञाः सुखिनो भवन्ति
ये हेतुफलसादृश्येनेच्छन्ति सुरसत्तमान् ।
ते हेतुफलतत्त्वज्ञा भवन्ति सुखभागिनः
ज्ञानादेव मुक्तिः
विनाबीजं फलं नास्ति विना दीपं कुतः प्रभा? ।
विना शीलैः कुतः स्वर्गो मुक्तिर्ज्ञानं विना कुतः?
कः धीमतः?
तत्सुखं तद्विमुक्तस्य गतकाङ्क्षस्य तायिनः ।
विमुक्तकामतृष्णस्य निर्ममस्य च धीमतः
सुकर्मैः सुखं भवत्येव
यदिदं कर्मजं सौख्यं सर्व (तज्ज्ञेय) कल्मषम् ।
यं नेष्टकं भवत्येव तत् सर्वममलं स्मृतम्
देवलोकस्य वर्णनम्
यो मनोरथकृत्स्नस्य बहिरन्तश्च (सर्वतः) ।
सर्वालोकः सदालोको देवतागणसेवितः
विराजते गिरिवरो रत्नमाणिक्यसन्निभः ।
प्रभूतसलिलो यश्च पद्मिनीभिः समावृतः
वनोपवनरम्यो ऽयं मृगपक्षिनिषेवितः ।
कन्दरोदरसंरम्भो भित्वा गगनमुत्थितः
कुत्र देवतैः सेव्यते?
सेव्यते देवतैर्नित्यं दिव्यमाल्यविभूषितैः ।
नृत्यगीतप्रकृष्टाभिर्देवताभिश्च सर्वतः
पञ्चाङ्गिकेन तूर्येण प्रेरित इव लक्ष्यते ।
शिरोभूतो महारम्यः प्रभामाली समन्ततः
सुकृतेन शुभेनायं कर्मणाधिगुणेन वै ।
यं समाश्रित्य क्रीडन्ति देववृन्दानि सर्वतः
के स्वर्ग गच्छन्ति?
दानशीलयुता वृद्धा नित्यं तद्गतमानसाः ।
ये भवन्ति सदा दान्तास्ते जनाःस्वर्गगामिनः
संक्षिप्तमनसः शान्तास्ते जनाः स्वर्गगामिनः ।
वैरिणां विषयो नित्यं प्रशान्तमनसस्तु ये
(वीतरागा वीतमोहास्ते जनाः) स्वर्गगामिनः ।
भवाभवेन तीव्रेण बाधते (यत्र) साधनम् ।
सुदान्तमानसां धीरास्ते जनाः स्वर्गगामिनः
सत्यमार्गविलम्बेन हयतीव सुखभागिनः ।
सारासारविधिज्ञाश्च ते जनाः स्वर्गगामिनः
संसारे ये न रक्षन्ति स्वमनो (ननु) देहिनः ।
निर्वाणाभिरता नित्यं ते जनाः स्वर्गगामिनः
वृक्षमूले श्मशाने वा तथा च गिरिकन्दरे ।
ध्यायिनः सत्त्वमनसस्ते जनाः स्वर्गगामिनः
मात्रज्ञा देशकालज्ञाः पापमित्र(वि)वर्जिताः ।
मैत्रेण चेतसा ये तु ते जनाः स्वर्गगामिनः
न स्नानदर्शनरता नराः मन्मथवारिणा ।
एकान्तगामिनः शान्तास्ते जनाः स्वर्गगामिनः
क्षणे क्षणे सदा कायं पश्यन्त्यशुचिसम्भवम् ।
कार्याकार्यविधिज्ञा ये ते जनाः स्वर्गगामिनः
धर्माणां धर्मतां ये च पश्यन्ति विविधा समाः ।
न च रक्षन्ति संसारे ते जनाः स्वर्गगामिनः
वेदना मध्यतत्त्वान्तमनेकविधसम्भवम् ।
पश्यन्ति च न रक्षन्ति ते जनाः स्वर्गगामिनः
मायोपमं च क्षणिकं गन्धर्वनगरोपमम् ।
ये जानन्ति (सदा) चित्ताः ते जनाः स्वर्गगामिनः
एकलक्षणतत्त्वज्ञा विलक्षणविदः स्वयम् ।
निर्वाणरागमनसस्ते जनाः स्वर्गगामिनः
मातृवत् परदारान् ये पितृवत् सर्वदेहिनः ।
पश्यन्ति ये भयं लोके ते जनाः स्वर्गगामिनः
शून्यवर्गगतो नित्यं सत्त्वानां प्रियवादिनः ।
अक्रूरा ऋद्धिमनसस्ते जनाः स्वर्गगामिनः
काष्ठवल्लोष्ठवत् सर्व परवित्तसमीक्षकाः ।
संतुष्टाः स्वेन चित्तेन ते जनाः स्वर्गगामिनः
न रात्रौ न दिवा येषां कौसीद्यद्युतिरिष्यते ।
नित्योद्युक्तविहारा ये ते जनाः स्वर्गगामिनः
कौकृत्यं स्त्यानमिद्धं च कौसीद्यं च विशेषतः ।
वर्जयन्ति सदा धन्यास्ते जनाः स्वर्गगामिनः
दौःशील्यं पञ्चरन्ध्रेभ्यः परिशुद्धमनेकधा ।
संक्षिपन्ति सदा दुःखं ते जनाः स्वर्गगामिनः
उपादानचतुष्ट्वज्ञाः सत्यानि च तथैव च ।
ये पश्यन्ति बुधाः प्रज्ञां ते जनाः स्वर्गगामिनः
दुःखं दुःखविपाकश्च दुःखेषु च मनश्च यत् ।
पश्यन्ति ये सदा तत्त्वं ते जनाः स्वर्गगामिनः
तीव्रव्यसनमापन्ना ये (च) धर्माविमुञ्चकाः ।
शान्ताश्च धर्ममतयस्ते जनाः स्वर्गगामिनः
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च ।
पिण्डपातरता नित्यं ते जनाः स्वर्गगामिनः
अदण्डाः शान्तमनसो नित्यं ध्यानविहारिणः ।
नैष्कर्म्यनिरताः सर्वे ते जनाः स्वर्गगामिनः
मृष्टं च यदि वाङ्मृष्टं यथेच्छाविधिमागतम् ।
सन्तुष्यन्ति न कुप्यन्ति ते जनाः स्वर्गगामिनः
शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च ।
संवृतौ चैव संतुष्टास्ते जनाः स्वर्गगामिनः
शय्यातले यथा भूमौ हर्म्याग्रे वा तथापरे ।
न दुष्यन्ति (न हृष्यन्ति) ते जनाः स्वर्गगामिनः
चक्षुर्विषयमापन्नं यत्कर्म साम्परायिकम् ।
तत्त्वतो ये प्रपश्यन्ति ते जनाः स्वर्गगामिनः
अप्रियं वा प्रियं वापि ये श्रुत्वा तीव्रसम्भ्रमात् ।
अक्षुब्धमतयो मुक्तास्ते जनाः स्वर्गगामिनः
षडिन्द्रियाणि सर्वाणि विषयांस्तु तथैव च ।
संक्षिपन्ति न रक्षन्ति ते जनाः स्वर्गगामिनः
यथा कर्म कृतं सर्वमविशेषेण तत्त्वतः ।
पश्यन्त्यमनसो धन्यास्ते जनाः स्वर्गगामिनः
कर्मणां च विपाकं च कृतं (ये धीरचेतसा) ।
बिभ्यतीह सदा दुःखेते जनाः स्वर्गगामिनः
इत्येतानि महार्थानि नित्यं दुःखकराणि च ।
कुर्वन्ति विधिवत् सर्व ते जनाः स्वर्गगामिनः
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0