भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 31

31.1

॥ इति भिक्षुवर्गस्त्रिंशः ॥
करुणादानशीलानिक्षान्तिर्वीर्यमथापि च ।
ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश ॥
॥ इति तृतीयम् उदानम् ॥
अथ चतुर्थम् उदानम्
(पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः ।
सद्धर्मस्मृतिवैपुल्यै गृहीतो ऽयं समुच्चयः ॥ ) ॥
(31) पुण्यवर्गः
पुण्यप्रशंसा
रमणीयानि पुण्यानि फलं तेषां परं शुभम् ।
तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं धनम्

31.2

पुण्यं निधानमक्षय्यं पुण्यं रत्नमनुत्तमम् ।
प्रदीपसदृशं पुण्यं मातृवत् पितृवत् सदा

31.3

पुण्यं कृत्वा गता देवाः पुण्यं नयति सद्गतिम् ।
पुण्यं कृत्वा नरा लोके मोदन्ते त्रिदिवे हि (ते)

31.4

पुण्यं परं सुखम्
पुण्याधिका हि पुरुषा भवन्ति सुखिनः सदा ।
तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं सुखम्

31.5

पुण्यं कृत्वा गता देवाः पुण्यप्रियधनस्य च ।
हेतुभूतं सदा दृष्टं तस्मात् पुण्यं परं सुखम्

31.6

पुण्यादृते सुखमसंभवम्
पुण्यं नित्योत्तमं दृष्टं छायावदनुगामिकम् ।
तस्मात् सुखं परं पुण्यं नास्ति पुण्यादृते सुखम्

31.7

पुण्यापुण्यफलयोरन्तरम्
पुण्योत्तीर्णाः पुनर्देवा पतन्ति सुकृतानुगाः ।
पुण्यापुण्यफलो लोकस्तस्मात् पुण्यं समाचरेत्

31.8

अपुण्यनिन्दा
ये पुण्यहीना दुर्दान्ता नित्यं कुगतिगामिनः ।
कुतस्तेषां सुखं दृष्टं सिकतासु यथा घृतम्

31.9

वित्तेन वञ्चिता मूढाः पुण्येन परिवञ्चिताः ।
न तेषां विद्यते शर्म दुःखं तेषामनुत्तरम्

31.10

पुण्यवशाद् देवलोकं गच्छति
मानुष्यं सुकृतं ह्येतत् कृते भवति देहिनः ।
तेन कर्मविपाकेन स्वर्गलोकेषु जायते

31.11

प्रियो भवति यस्यात्मा यस्य सौख्ये स्थिता मतिः ।
स करोतु महत्पुण्यं देवलोकोपपत्तये

31.12

धर्मचारी पुरुष एव सुखमवाप्नुते
धर्मचारी हि पुरुषः सुखात् सुखमवाप्नुते ।
निर्मलश्च परां शान्तिं क्षिप्रमेवाधिगच्छति ।
तस्मात् कुरुत पुण्यानि (यन्नित्यं) सांप्रचायिकम्

31.13

पुण्यकर्त्तृ अव्ययं सुखमश्नुते
पुण्यकारी सदा दान्तो पदं गच्छति चाव्ययम् ।
रमणीयानि पुण्यानि करणीयान्यनेकशः

31.14

पुण्यस्य वैचित्र्यं धर्मस्य उपादेयता च
विचित्रं हि कृतं पुण्यं विचित्रं परिपच्यते ।
धर्माधर्मप्रधानस्य जीवलोकस्य सर्वतः ।
शमत्राणो यथा धर्मस्तस्माद् धर्मरतो भवेत्

31.15

अधर्मी दुःखं प्राप्नोति
यो (हि) धर्म परित्यज्य रमते कुकृते नरः ।
तस्य दुष्कृतदग्धस्य दुःखं भवति नित्यशः

31.16

धर्मे एव मनः कार्यम्
यावन्नाभ्येति मरणं यावत् सकलचिन्तनम् ।
तावद् धर्मे मनः कार्यमुपशान्तिर्भविष्यति

31.17

परोपकर्तृ निर्वाणपुरं याति
यो हि देशयते धर्म परेषां हितकाङ्क्षया ।
स माता स पिता चैव निर्वाणपुरदेशकः

31.18

शास्तुः सुभाषितममूल्यम्
शुभाधिकपरश्चैकः यो देशयति देशिकः ।
स गत्यन्तरमार्गज्ञो नाथो भवति देहिनाम् ।
न मूल्यं विद्यते शास्तुः सुभाषितपदस्य वै

31.19

साधारणद्रव्याद् धर्मद्रव्यस्य वैलक्षण्यम्
न पदं लभते शान्तं यद् धनैरुपलभ्यते ।
द्रव्यं साधारणं दृष्टं न धर्मो बुद्धिबन्धनम्

31.20

धर्मद्रव्यमक्षुण्णमस्ति
द्रव्यं विनश्यति नृणां धर्मद्रव्यं न जातु वै ।
आभ्यन्तरसहस्त्राणि धर्म एको ऽनुगच्छति

31.21

न धनं पदमप्येकं गच्छन्तमनुगच्छति ।
हीयते द्रविणं तेषां राजचौरोकाग्निभिः ।
धर्मवित्तं न तच्छक्यमपहर्तु कथञ्चन

31.22

अतो धर्मपरो भवेत्
अचिरेणापि कालेन भुक्त्वा सौख्यमनेकशः ।
भवत्यवश्यं पतनं तस्माद् धर्मपरो भवेत्

31.23

धर्म एकः परं त्राणं धर्म एकः परा गतिः ।
धर्मेण पूर्ववर्त्येष मरणं चाप्यधर्मतः

31.24

धर्मचारिणः प्रशंसा
वरं धर्मो धर्मचारी धर्ममेव निषेवते ।
स सुखात् सुखमाप्नोति न दुःखमनुपश्यति

31.25

अधर्मचारिणो निन्दा
अधर्मचारी पुरुषो यदाधर्म निषेवते ।
स तदा दुःखमाप्नोति नरकेषु पुनः पुनः

31.26

निर्वाणमहत्त्वम्
रत्नत्रयप्रसादस्य भावितस्याप्यनेकशः ।
फलं भवति निर्वाणं पूर्वस्वर्गोपजीविनः

31.27

आत्मनैव पुण्यमाचरणीयम्
आत्मना क्रियते पुण्यमात्मना प्रतिपद्यते ।
सुखं वा यदि वा दुःखमात्मनैवोपभुज्यते

31.28

शीलवतः पुण्यप्रभावो विपुलः
नदीस्त्रोत इवाजस्त्रं पुरुषस्य प्रवर्तते ।
पुण्यप्रभावो विपुलो यस्य शीले रतं मनः

31.29

भवजन्यं फलं यस्य (यस्मै) धर्मो न रोचते ।
धर्मो हि नयति स्वर्ग धर्मचारी सुखान्वितः

31.30

धर्मादृते पुरुषः नरकं याति
एतदेव हि पर्याप्तं यद् धर्मपरिपालनम् ।
धर्मादृते हि पुरुषो नरकानुपधावति

31.31

धर्मविगर्हणान्मरणं श्रेयः
श्रेयो भवेद्धि मरणं न तु धर्मविगर्हणम् ।
धर्मेण वर्जितो लोकः संसारे सर्वदा भ्रमेत्

31.32

धर्मविरहितस्य दुःखमयं जीवनम्
धर्मचक्षुर्विमुक्तस्य मोहेनाक्रान्तचेतसः ।
वृथा सौख्यमिदं दृष्टं दृष्ट्वा यातो यथापरः

31.33

धर्माङ्कुरो मनः क्षेत्रे नैव रोहत्यचेतसः ।
यस्य शीलप्रदा बुद्धिः धर्माचरणतत्परा

31.34

शुभेन सविशुद्धेन भावितेन प्रयत्नतः ।
प्रयान्ति तत् पदं शान्तं यत्र दुःखं न विद्यते

31.35

इन्द्रियवशी मारं नातिवर्तते
इन्द्रियाणां वशे यस्तु विषयेषु तथैव च ।
स सर्वबन्धनैर्बद्धः स मारं नातिवर्तते

31.36

पापकैर्धर्मैरलिप्त एव स्वस्थः
अलिप्तपापकैर्धर्मैः निर्धनात् कनकद्युतिः ।
स मुक्तभवकान्तारः स्वस्थो भवति सर्वतः

31.37

बुद्धादीनां पूजया निर्वाणलाभः
बुद्धो येषां बहुमतो नित्यं धर्मश्च गोचरः ।
शुश्रूषाचार्यपादानां श्रद्दधानश्च कर्मणाम्

31.38

त्रिरत्नपूजया नित्यं सद्बुद्धिश्च (सु) निर्मला ।
मातापितृणां पूजातः निर्वाणपुरगामिनाम्

31.39

प्रव्रज्याभावधर्माश्च समेषां सम्प्रकीर्तिताः ।
ब्रह्मचर्यात्तचर्याणां सर्वसौख्याग्रकारकाः

31.40

धर्मदानं सर्वोत्तमम्
दानानामुत्तमं दानं धर्मदानं प्रकथ्यते ।
उद्योगानां सदा ध्यानं येन गच्छति निर्वृतिम्

31.41

अग्रयस्तथागतः प्रोक्तः
ऊर्ध्वाधस्तिर्यगुक्तस्य लोकस्यानेककर्मणः ।
अग्रयस्तथागतः प्रोक्तो धर्माणां तत्त्वदर्शकः

31.42

वर्गाणां चार्थसङ्घोरे प्रवरः शान्त उच्यते ।
क्षेत्राणां त्रिविधं पुण्यं गुणदुःखोभयं ततः

31.43

माता पितृसमः पूज्य उपाध्यायः सदा भवेत् ।
स उन्मीलयते चक्षुर्वशगोचरतां प्रति

31.44

निःसुखा विषया मताः
अग्राह्या वा सदा दृष्टा मुनिना तत्त्वदर्शिना ।
सुखस्य भूमयो ह्येता निःसुखा विषया मताः

31.45

यद्येवं कुरुते धर्म निर्मलं मार्गदर्शिनम् ।
सौख्यं तस्य भवेन्नित्यं न सौख्यं देवभूमिषु

31.46

भवान्तरेषु सुकृतं पृष्ठतो देहिनां स्थितम् ।
स आहूय प्रयत्नेन सेवितव्यः सदा नरैः

31.47

अनागते भयं यो हि पश्यति बुद्धचक्षुषा ।
स पण्डितः सदा धीरो मूर्खत्वादतिभीरुकः

31.48

विपत्तिजं भयं दृष्ट्वा (मार्ग) पश्यति बुद्धिमान् ।
स हि विघ्ने तु सम्प्राप्ते न विषादेन बाध्यते

31.49

अथ मूढमतिर्नित्यं विषयानेव सेवते ।
विमोहितः स विषयैः पश्चात्तापेन दह्यते

31.50

समग्रं जन्म पुण्यानि करणीयानि
यावत् समग्रं जन्मेदं ज्ञानं याति विनाविलम् ।
तावत् कुरुत पुण्यानि दुःखं हयकृतपुण्यता

31.51

क्षयं प्रयान्ति पुण्यानि त्वरितं याति जीवितम् ।
धर्मसङ्ग्रहणे यत्नः कर्त्तव्यस्तुषिते सुरैः

31.52

यो हि धर्म परित्यज्य प्रमादोपहतो नरः ।
न सञ्चिनोति पुण्यानि स पश्चादपि तप्यते

31.53

न यावदायाति जरा न व्याधिः सह मृत्युना ।
तावत् कार्याणि पुण्यानि मा पश्चात् परितप्यथ

31.54

असङ्गृहीतपुण्यस्य प्रमादोपहतस्य च ।
नरके कारणं दुःखं प्रमादस्त्वां हनिष्यति

31.55

किं तस्य जीवितेनार्थः किं भाग्यैः किं च बान्धवैः ।
सबलेन्द्रियतां प्राप्य यो न धर्मरतः सदा

31.56

अहन्यहनि कर्त्तव्यं धर्मसङ्ग्रहणे मनः ।
विरतिश्चापि पापेभ्यः साधूनां दर्शने न च

31.57

शीलेन यः सुरो जन्म लब्ध्वेदं काममोहितः ।
न सञ्चिनोति पुण्यानि स भवं नातिवर्तते

31.58

धर्मरताः सदा वन्द्याः
ज्ञानारम्भाभिरतयः शीलरत्नविभूषिताः ।
कामरागाद्धि ये भीता देवानां देवसम्मताः

31.59

देवास्ते हि सदा वन्द्या ये धर्मे निरताः सदा ।
ये तु नित्यं भवासक्तास्ते सर्वे निधनं गताः

31.60

धर्मसेतुमिमं प्राप्य पारावारगतं महत् ।
न सञ्चरति यस्तूर्ण भवान्नैव प्रमुच्यते

31.61

शुभं नैव प्रणश्यति
शुभानुचारिधर्मैश्च शुभं भवति सर्वदा ।
कल्पकोटिसहस्त्रेण शुभं नैव प्रणश्यति

31.62

पुण्यप्राप्त्यर्थे करणीयानि कर्त्तव्यानि
सङ्गृहीतं सदा शीलं ज्ञानं च परिवर्तितम् ।
दानं चाभिक्षया दत्तं भवति स्वरसात्मकम्

31.63

सदैव गुणाः सेव्याः
दोषास्त्रयः प्रणश्यन्ति त्रिभिर्दानादिभिर्नृणाम् ।
तस्माद् दोषान् परित्यज्य गुणाः सेव्याः प्रयत्नतः

31.64

ज्ञानेन लौकिकं दुःखं नश्यति
संसर्गो धर्मशीलानां ज्ञानारम्भः प्रयत्नतः ।
नश्यति भवजं दुःखमर्कपादैर्यथा तमः

31.65

अभ्युपेयो देवरतो देवताभिश्च वन्द्यते ।
प्राप्य जन्मान्तर चापि निर्वृतिं चाशु गच्छति

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc