भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 30

30.1

॥ इति मार्गवर्ग एकोनत्रिंशः ॥
(30) भिक्षुवर्गः
आदर्शो भिक्षुः लोकमार्गदर्शकः
यो हिनस्ति न भूतानि मित्रवेत्ता सदाक्षयः ।
पितृवत् सर्वभूतानि लोकस्तमनुपश्यति

30.2

अदत्तादानविरतो नित्यं ज्ञानी जितेन्द्रियः ।
प्रशान्तदेहकर्मा (च) तीर्णसम्भवसङ्क्रमः

30.3

नाप्यालेख्यगता नापि चक्षुषा सा निरीक्ष्यते ।
हतकामो दृष्टसत्यो मुक्तस्तादृश उच्यते

30.4

समलोष्टाश्मकनकः वीतशोकः समाहितः ।
न क्लेशोरगसम्पृक्तः स सौख्यं ध्रुवमाप्नुयात्

30.5

कः भिक्षुर्विद्यते?
अर्थानर्थसमो यस्य लाभालाभौ तथैव च ।
सुखदुःखसमायुक्तः भिक्षुः स खलु कथ्यते

30.6

मित्रामित्रप्रहीणो यः समचेता जितेन्द्रियः ।
विभेति यो न विषयैः विज्ञेयस्तादृशो यतिः

30.7

विषयद्वेषी निर्वाणमधिगच्छति
विषमत्वाद्धि विषयान् द्वेष्टि धीरो गतव्यथः ।
न तस्य दूरे निर्वाणं सम्यक्सम्बुद्धदेशितम्

30.8

उदयव्ययतत्त्वज्ञः सम्यग्दृष्टिरलोलुपः ।
हिमवानिव निष्क्रम्य संसारान्मुक्तहेतुकः

30.9

तृणचन्दनतुल्यो हि समतृष्णाम्बराशिनः ।
स कौशेयसङ्घटिततृष्णया नैव बाधते

30.10

लाभसत्कारसन्तुष्टः सन्तुष्टस्तृणसंस्तरैः ।
वह्निवल्लाभसत्कारं यः पश्यति स पश्यति

30.11

बुद्धदेशिताः भिक्षुधर्माः
वाह्यते यो न विषयैस्तृणनद्या न वाहयते ।
स्वकर्मफलतत्त्वज्ञः स भिक्षुर्बुद्धदेशितः

30.12

नातीतं शोचते यो हि बुद्धया (चैव) गतस्पृहः ।
प्रत्युत्पन्नक्रियायोगी न बुद्धिस्तस्य लिप्यते

30.13

निर्वाणे (च) मतिर्यस्य धर्मे नित्यं स्थिता भवेत् ।
न वर्तते स संसारे शुक्लधर्मसमावृतः

30.14

नाविलं क्रियते यस्य चित्तं विद्याग्निकल्पया ।
दारुवद्विषया यस्य तस्य दुःखं न विद्यते

30.15

इन्द्रियाणि वशे यस्य चेन्द्रियेषु वशानुगः ।
ह्रियते यः पुमर्थैनो निकषस्तादृशो मुनिः

30.16

साधुवद्धिमनो यस्य क्षमावान् प्रियदर्शनः ।
प्रह्लादयति चेतांसि स नृणां शशिवन्मुनिः

30.17

अरुणाभिरतो यस्तु हर्म्याग्रेषु न रज्यति ।
सन्तुष्टः पांशुकूलेन भिक्षुर्भिक्षारतो भवेत्

30.18

शान्तो दान्तः सुधीरर्थात् तत्त्ववित् सुखदुःखयोः ।
स यात्युत्तममध्वानं यत्र गत्वा न शोचति

30.19

ऋजुमत्पातकान्यस्य नित्यं ध्यानपरायणः ।
प्राकृतैश्च मलै(र्हीनः) स योगी सत्यवर्त्मनि

30.20

सर्वेन्द्रियविघाती यः सर्वभूतहिते रतः ।
शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर्भवति तादृशः

30.21

षडिन्द्रियरथारूढो रागशत्रुनिवारकः ।
प्रज्ञाधीरः क्रियावान् यः स शान्तिपदमश्नुते

30.22

अरण्यवासी सन्तुष्टो भूमिवासी समाहितः ।
धुनाति पापको धर्मश्चायुर्मेघानिवाम्बरः

30.23

शुभं वा देहकर्मान्तः शुभचर्यासु संरतः ।
तत्त्वदृष्टिः क्रियादक्षो नाशयन्मारसाधनम्

30.24

दयालुर्भिक्षुर्निर्वाणमार्गे स्थितो भवति
रागात्यये न बाधेत शुभचित्तं गतालयम् ।
मैत्र्या कारुण्यबहुलो भिक्षुर्नैर्य्याणिके स्थितः

30.25

यस्य रूपादयो नेष्टा विषया बन्धहेतवे ।
स याति परमां शान्तिं यत्र गत्वा न शोच्यते

30.26

हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः ।
मोक्षस्रोतस्यभिरतस्तृष्णया नैव रज्यते

30.27

यो नादत्ते ऽशुभं कर्म शुभकर्मरतः सदा ।
चन्द्रांशुनिर्मलगतिर्योगी भवति तादृशः

30.28

प्रदहन् पापकान् धर्मान् शुष्केन्धनमिवानलः ।
विभ्राजते त्रिभुवने मुक्तपायो गतव्यथः

30.29

मोक्षे ऽस्ति यस्य तु मनो न संसारे कथञ्चन ।
नासौ बध्नाति संसारे मुक्तः पक्षी यथाम्बरे

30.30

वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः ।
स मुक्त इति विज्ञेयस्तत्त्वविद् ऋतवांश्च सः

30.31

तथाप्येते सुखदुःखे मृष्टामृष्टैर्न लिप्यते ।
दीप्तं पश्यति संसारं यः स योगी सतां मतः

30.32

भिक्षुर्भवति कीदृशः?
अथामूढमतिर्नित्यं नित्यं धर्मपरायणः ।
भिक्षुवृत्तावभिरतो भिक्षुर्भवति तादृशः

30.33

न तृप्तिर्दर्शनारामैः साधूनां दर्शने रतिः ।
निष्क्रान्तगृहकल्माषो भिक्षुर्भवति तादृशः

30.34

न नृत्यगीतसन्दर्शी (सत्यं) च पुनरीक्षते ।
संरक्षितो श्मशानेषु भिक्षुर्भवति तादृशः

30.35

एकाहं परमं पिण्डमादत्ते ऽन्यत्र काङ्क्षति ।
त्रिभागकुक्षिसन्तुष्टो भिक्षुर्भवति तादृशः

30.36

वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते ।
मुक्ताहारविहारो यो भिक्षुर्भवति तादृशः

30.37

कर्माण्यारभते यो न निराशः स च कर्मसु ।
निरुद्धको नोपरतो भिक्षुर्भवति तादृशः

30.38

कायकोटिविनिर्मुक्तो मोहध्वान्तविवर्जितः ।
अलिप्तः पापकैर्धर्मैभिक्षुर्भवति तादृशः

30.39

सर्वाशयजनानीतः सर्वाशयविवर्जितः ।
सर्वाशयविनिर्मुक्तो भिक्षुर्भवति तादृशः

30.40

आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः ।
सर्वार्थधर्मता ह्येषा भिक्षुर्भवति तादृशः

30.41

शान्तेन्द्रियो दृढमतिः कामपाकविवर्जितः ।
एकाग्रसंस्थितमना भिक्षुर्भवति तादृशः

30.42

भूमिसङ्क्रमणज्ञो यो भूमितत्त्वनिदर्शकः ।
भूमेः परापरज्ञो यो भिक्षुर्भवति तादृशः

30.43

सम्भवासम्भवान् धर्मान् हेतुप्रत्ययसम्भवान् ।
जानीते विधिवत् सर्वान् भिक्षुर्भवति तादृशः

30.44

ब्रह्मचारी ऋतुज्ञानी स्त्यानमिद्धविवर्जितः ।
कल्पोदग्रो ऽवनौ दक्षो भिक्षुर्भवति तादृशः

30.45

शमस्थोविपश्यनाश्च चतुर्ध्यानरतश्च यः ।
आलये मुदितारामो भिक्षुर्भवति तादृशः

30.46

पक्षिणो गगनस्थस्य छायेवानुगतः सदा ।
सद्धर्मस्यानुजीवी स भिक्षुर्भवति तादृशः

30.47

क्लेशोपक्लेशबधकः समदर्शी शुभान्वितः ।
अनापानविधिज्ञो यो भिक्षुर्भवति तादृशः

30.48

अनुक्रमविधिज्ञो यो योगवित् तत्त्वदर्शकः ।
पारापारविधिज्ञो यो भिक्षुर्भवति तादृशः

30.49

यो न हृष्यति हर्षेषु भयेषु न बिभेति च ।
मुक्तो हर्षभयोद्वेगैर्भिक्षुर्भवति तादृशः

30.50

जन्ममरणतत्त्वज्ञः सुरासुरनमस्कृतः ।
परावरज्ञः सत्त्वानां भिक्षुर्भवति तादृशः

30.51

सङ्घाटिमात्रसंहृष्टः सञ्चयेषु न रज्यते ।
अल्पेच्छो ब्रह्मचारी यो भिक्षुर्भवति तादृशः

30.52

एकाशी वृक्षमूले यः सदा ध्यानं समीहते ।
लाभसत्कारविरतो भिक्षुर्भवति तादृशः

30.53

उपेक्षाकरुणारागो मोक्षदोषविवर्जितः ।
निर्दग्धदोषसर्वस्वो भिक्षुर्भवति तादृशः

30.54

मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय च ।
नान्ययोगाभिरक्तो यो भिक्षुर्भवति तादृशः

30.55

कौसीद्याभिरतो भिक्षुः नहि कल्याणमर्हति
न शय्यासनसम्भोगी भिक्षुर्बुद्धेन भाषितः ।
कौसीद्यभिरतो यस्तु नासौ कल्याणमर्हति

30.56

क्लेशानां मूलपाकं हि कौसीद्यं यस्य विद्यते ।
तस्य दुःखं महाघोरं संसारे सम्प्रवर्तते

30.57

कौसीद्यमेव यस्यास्ति तस्य धर्मो न विद्यते ।
केवलं वस्त्रमात्रेण ऽभिक्षुःऽ स इति कथ्यते

30.58

भिक्षुर्भवति न तादृशः
नाध्यापने रतिर्यस्य न ध्यानेनाशु रक्षति ।
केवलं वस्तुमात्रेण भिक्षुर्भवति तादृशः

30.59

विहाराभिरतो यस्तु न रतो धर्मगोचरे ।
स्त्रीमद्यलोलुपमतिभिक्षुरस्ति न तादृशः

30.60

(भवेन्मतिर्यस्य नित्यं विविधे) पापकर्मणि ।
स भिक्षुर्देशितो बुद्धैः न भोक्ता स्वकगोचरे

30.61

वरमाशीविषविषं कथितं ताम्रमेव च ।
भुक्तस्यात्यन्तदुःशीलैरधिकं पापभोजनम्

30.62

यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्पते ।
यस्य पिण्डिकृताः क्लेशाः सर्पा इव विलेशयाः

30.63

स भिक्षुः पिण्डभोजी स्यान्न स्त्रीदर्शनतत्परः ।
बन्धकं यदि चात्मानं कृत्वा परशुभक्षतिम्

30.64

भिक्षुर्दुर्गुणानां स्वरूपम्
कथं स भिक्षुर्विज्ञेयः सङ्घरत्नप्रदूषकः ।
यस्येष्टा लाभसत्कारा विषया यस्य सम्मताः

30.65

नारिदर्शनसाकाङ्क्षी न भिक्षुर्न गृहीव सः ।
राजसेविषु सृष्टाशो मद्यपः क्रोधनस्तथा

30.66

सदा भिक्षुर्बञ्चयते दायकान्ननु चेतसा ।
उपायनान्युपादाय राजद्वाराश्रिता हि ये ।
संरब्धा गृहिभिः सार्ध यथा नागा वनाश्रिताः

30.67

तस्मात् तानेव पुष्णन्ति वातेर्ष्यास्ते समागताः ।
पुत्रदारान् परित्यज्य ये शान्ता रत्नमाश्रिताः

30.68

भिक्षोर्गुणानां माहात्म्यम्
प्रहाय दोषान् यो भिक्षुरस्ति दर्शनतत्त्ववित् ।
रूपादिस्कन्धतत्त्वज्ञो मोक्षाय यतते सदा

30.69

धर्मावबोधाभिरतो ध्यानारामविहारवान्
तत्त्वलक्षणसम्बोधात् प्राप्नुयात् पदमव्ययम्

30.70

मैत्र्यारामो हि सततमुद्युक्तो धर्मगोचरे ।
तत्त्वलक्षणतत्त्वज्ञो भिक्षुर्भवति तादृशः

30.71

योनिशस्तु मतिर्यस्य कामक्रोधैर्न हन्यते ।
स भिक्षुरिति विज्ञेयो विपरीतस्ततो ऽन्यथा

30.72

सर्वभूतदृढः शान्तः सर्वसङ्गतिवर्जितः ।
सर्वबन्धननिर्मुक्तो भिक्षुर्भवति तत्त्ववित्

30.73

कर्मणि यस्य विज्ञानविषयैर्यो न हन्यते ।
निर्मलः स्यात् कनकवत् सन्तुष्टो भिक्षुरुच्यते

30.74

प्रियाप्रिये मनो यस्य न लेपमनुगच्छति ।
सङ्कल्पानां विधिज्ञो यः सर्वपापविवर्जितः

30.75

अन्यसंदुष्टचरितो धर्मशीलो जितेन्द्रियः ।
अहीनसत्वो मतिमान् भिक्षुर्भवति तादृशः

30.76

शास्त्रे शास्त्रार्थविज्ञाने मतिर्यस्य सदा रता ।
न पानभोजनरतः स भिक्षुः शान्तमानसः

30.77

भिक्षोः स्वरूपनिरूपणम्
वनारण्यविहारेषु श्मशाने तृणसंस्तरे ।
रमते यस्य तु मनो भिक्षुर्भवति तादृशः

30.78

दोषाणां कर्मतत्त्वज्ञः फलवित् परिशेषतः ।
हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद् वीतकल्मषः

30.79

(हत) किल्विषकान्तारो हतदोषो जितेन्द्रियः ।
पुनर्भवविधिज्ञो यो भिक्षुः शान्तमनाः (स्मृत)

30.80

नोत्कर्षो हृष्टहृदये निन्दया नैव रूष्यति ।
समुद्रतुल्यगाम्भीर्यो योगवान् भिक्षुरुच्यते

30.81

आवेणिको दृढमतिः सूक्ष्मवादी न लोलुपः ।
कामवादी समो दक्षः स भिक्षुः शान्त उच्यते

30.82

कामधातूपगान् हेतून् रूपधातौ तथैव च ।
आरुष्येषु च तत्त्वज्ञः शास्त्रा भिक्षुः स उच्यते

30.83

न लौकिककथासक्तः शत्रुदोषबधे सदा ।
विषवद् यस्य विषयाः स भिक्षुर्देशितो बुधैः

30.84

शुद्धा यस्य (हि)कामेषु मतिर्भवति नित्यशः ।
स निर्मुक्तमतिर्भिक्षुर्मुक्तः संसारबन्धनात्

30.85

ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः ।
हितकारी च सत्त्वानाम् आरण्यो भिक्षुरुच्यते

30.86

प्रश्नोत्तरमतिर्यस्य प्रतिभावन् जितेन्द्रियः ।
स धर्मः कथितो ज्ञेयो विपरीतस्तृणैः समः

30.87

बुद्धशासने कीदृग् भिक्षुः शस्तः?
कायमानसभीर्यस्य सर्वदा नैव खिद्यते ।
सर्वकृत्यकरो ज्ञेयो यः सङ्घाय च तत्परः

30.88

न परार्थ न लोभार्थ यशो ऽर्थ कुरुते न तु ।
सङ्घकार्ये मतिर्यस्य स मुक्तः सर्वबन्धनैः

30.89

न स्वर्गार्थ मतिर्यस्य लाभार्थ यशसे न वा ।
निर्वाणार्थ क्रिया सर्वा स भिक्षुः स्रोत उच्यते

30.90

पापेभ्यो नित्यविरतः सत्कृत्येषु रतः सदा ।
न पापमित्रसंसर्गी भिक्षुः स्याद् बुद्धशासने

30.91

मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः ।
शिक्षापदेषु रक्तस्य निर्वाणं नातिदूरतः

30.92

जरामरणशीलस्य संसारविमुखस्य च ।
ध्याने ऽपि न प्रमत्तस्य निर्वाणं नातिदूरतः

30.93

अनित्यताविधिज्ञस्य शून्यतावत्क्रियावतः ।
ध्यानोत्कर्षविधिज्ञस्य निर्वाणं नातिदूरतः

30.94

धीरो ऽयमग्रचोरो ऽयं यो ऽयं भिक्षुरसंवृतः ।
अन्तःपुरीवरस्रावी बहिश्चीवरसंवृतः

30.95

धर्मविनयाद् रिक्तो भिक्षुर्दुःखभागी भवेदेव
यथा यत्नमयो राशिः सर्वो ऽसारश्च दुर्बलः ।
एवं सञ्चरति रिक्तो वितथो भिक्षुवादिकः

30.96

स नारकेयो दुःशीलः सङ्घरत्नबहिष्कृतः ।
कायस्य भेदान्नरकं नीयते चित्तवञ्चितः

30.97

वञ्चितो धर्मविनयाद् याति तत् स्वेन कर्मणा ।
मलिनस्तमसा बद्धो दुःखभागी भविष्यति

30.98

अप्रावृतः शुभधमन् नग्नः साधुजुगुप्सितः ।
नयते नरकं घोरं यथा धर्मबहिष्कृतः

30.99

अशोभनस्य निचयो दुःखद्वारमनावृतम् ।
संसारबन्धनं तीव्रं दौःशील्यमिति कथ्यते

30.100

असंवरेण यो दग्धः स दग्धो वह्निना भृशम् ।
तस्य संवरक्षीणस्य विनिपातो ध्रुवं स्थितः

30.101

कुकर्तृभिक्षुरपि नरकं याति
मनसा संवरस्थेन स्वाचारैः संवरायते ।
समूढचर्यामारुह्य नरकायोपकल्पते

30.102

अशुभं वर्धते तस्य दिवारात्रौ च सर्वतः ।
यस्य शीलमयं रत्नं दौःशील्येन निवारितम्

30.103

धर्मशून्यस्य रिक्तस्य तमसा संवृतस्य च ।
विद्यते ऽसंवरस्तस्य यो न शौचाय कल्पते

30.104

असंवरमयः पाशो मलिनः साधुवर्जितः ।
आकर्षति स दुःशीलान् पापिष्ठान् शीलवर्जितान्

30.105

असंवरैश्च दौःशील्यैः पापैश्च सह सङ्गतिः ।
दूतका नरकस्यैते कामानामपि सेवकाः

30.106

असंवृतप्रसूतस्य चपलस्य विशेषतः ।
पापकर्माभियुक्तस्य नरकं नातिदूरतः

30.107

किमेते नावगच्छन्ति कर्मणां सदृशं फलम् ।
अक्षिपाताय मूढाय दुर्मतौ (ये) विमोहिताः

30.108

अहन्यहनि वर्धन्ते पापनद्यो दुरासदाः ।
दुःखोर्मिमालाश्चपलाः पापिष्ठजनहारिणः

30.109

न तेषां सुकरं जन्म न तेषां सुकरं मनः ।
अशीलाः पुरुषा ये वा शुक्लधर्मविवर्जिताः

30.110

धर्मो ऽत्युच्चः शुभो मार्गः
अत्युच्चश्च शुभो मार्गः स ऽधर्मऽ इति कथ्यते ।
तं प्राप्यमनुजः शीघ्रं प्रयाति पदमच्युतम्

30.111

ततो ऽपवादाः साध्यन्ते शक्तिमन्तः सुखास्तु ये ।
संवरस्य सदा दासास्तेषां दुःखं न विद्यते ।
दौःशील्यपरमो ह्येष मलिनीकुरुते नृणाम्

30.112

ये शैक्ष्यपदविभ्रष्टा भागिनो नरकस्य ते ।
एवं ज्ञात्वा नरः सर्व संवरं प्रतिपद्यते

30.113

शुभधर्मी भिक्षुर्निर्वाणं नातिचिरं प्राप्नोति
भवार्णस्य सर्वस्य सेतुभूतो हि संवरः ।
शुद्धाजीवविशुद्धस्य शान्तवक्त्रस्य कर्मणः

30.114

ध्यायिनो विप्रमुक्तस्य निर्वाणं नातिदूरतः ।
धूर्धरस्याप्रमत्तस्य श्मशानवनसेविनः

30.115

शायिनो भूतले नित्यं निर्वाणं नातिदूरतः ।
पांशुशय्यावलम्बांसपातमेकं सजर्जरम्

30.116

सन्तोषः फलमूलैश्च स सुखी बुद्धसम्भवः ।
विप्रमुक्तस्य कामेभ्यः सन्तोषो हीतरस्य च

30.117

सविमुक्तकचित्तस्य निर्वाणं नातिदूरतः ।
कुहकामलमुक्तस्य रजो वा तस्य तायिनः

30.118

आकाशसमचित्तस्य निर्वाणं नातिदूरतः ।
बहुबद्धपदैर्युक्ता विज्ञेया (भव)चारिका

30.119

नाशिका ब्रह्मचर्यस्य निर्वाणगतिदुःखिका ।
सेव्यते या जनैर्नित्यं प्राकृतैः शीलवर्जितैः

30.120

अजस्त्रं परिवर्ज्या सा ध्यायिभिस्तत्त्वदर्शिभिः ।
दौर्बल्यमूलमेका सा मनस्कारप्रणाशिका

30.121

नाशिनी ब्रह्मचर्यस्य नरकस्य प्रदर्शिका ।
भ्रंशिका स्वर्गमार्गस्य दुःखसागरशोषिका

30.122

दूतिका प्रेतलोकस्य तिर्यग्योनिनिपातिका ।
नाम्ना सङ्गणिका सेवा संसारे बन्धमातृका

30.123

ध्यानाध्ययनशक्तैव वर्ज्या नित्यं हि भिक्षुभिः ।
ध्यानाध्ययननिर्मुक्तो निमित्ताभिरतः सदा

30.124

परधर्मो भयावहः
विवर्जितः शुभैर्धर्मैरपापगमनाय सः ।
स्वधर्म यः परित्यज्य परधर्मेषु रज्यते

30.125

धर्मद्वयपरिभ्रष्टो विनिपाताय कल्पते ।
स्वगृहं यः परित्यज्य परवेश्यानि तिष्ठति

30.126

सदायं लाघवं याति निधनं चाशु गच्छति ।
तथा यो विमतिर्भूतो विद्वन्मानी जनेच्छया

30.127

स्वधर्मविरतिं कृत्वा परधर्मेषु वर्तते ।
अधर्मे चाशयस्तस्य परलिङ्गोपजीविनः

30.128

तृणविद्याभिलिप्तो ऽयं प्रेतः पापेषु पच्यते ।
यशो ऽन्तं पदमास्थाय पापकर्मणि वर्तते

30.129

नासौ भिक्षुरिहोच्यते
शश्वत् स पतितो दृष्टः शासनान्तात् प्रवर्तते ।
निस्पृहः कामचर्यासु निरामोदः प्रवर्जितः ॥
आरब्धवीर्यः सन्तुष्टो ध्यायी भिक्षुरिहोच्यते

30.130

न च कामेषु संसक्तो नित्याहारविहारवान् ।
काषायसंवृतः क्षौरो नासौ भिक्षुरिहोच्यते

30.131

निमित्तबोधको (यस्तु) नक्षत्रगतिचिन्तकः ।
राजसेवाप्रमत्तश्च न स भिक्षुरिहोच्यते

30.132

वैद्यकर्माणि कुर्वश्च श्रुति सङ्ग्रथनं तथा ।
सङ्कीर्णा दिनचर्या च कुर्वन् भिक्षुः प्रणश्यति

30.133

ध्यानाध्ययनविद्वेषी रतः सङ्गणिकासु च ।
लोभसत्कारलाभं च कुर्वन् भिक्षुः प्रणश्यति

30.134

सुवर्णधातुसंसक्तो बहुमित्ररतिश्च यः ।
अन्यलाभाभिलाषितो भिक्षुः पतति शासनात्

30.135

तपसः सङ्गनिर्मुक्तो न पापगणसेवकः ।
सक्तूदकेन सन्तुष्टः स भिक्षुर्निष्ठुरः स्मृतः

30.136

कः शुद्धो भिक्षुः?
आगतान् विषयान् सर्वान् त्यजति ज्वलनोपमान् ।
विशुद्धदोषो मणिवच्छुद्धो भिक्षुरिहोच्यते

30.137

अन्तर्बहिर्विशुद्धात्मा ज्ञानादिभिरलङ्कृतः ।
श्रद्धया शीलवस्त्रेण क्रियावान् भिक्षुरुच्यते

30.138

लोभधर्मव्यतीतो यः स्थितो मेरुरिवाचलः ।
सर्वलोकप्रियः शान्तः पारगो भिक्षुरुच्यते

30.139

त्रिरात्रिवासी कुत्रापि कुशासनविधारकः ।
गिरिगह्वरसेवी च विमुक्तो भिक्षुरुच्यते

30.140

पापभीरुरसंस्पर्शी संवृतः च सुसंवृतः ।
ज्ञानसेवी स्थिरः शान्त एकाकी भिक्षुरुच्यते

30.141

अचलः प्रियवादी च पापमित्रविवर्जितः ।
अशक्तः सर्वकृत्येषु मुक्तो भिक्षुरिहोच्यते

30.142

राजसेवा कुकषायोक्तिसेवा
राजसेवा विगर्ह्यास्ति भिक्षोश्चारण्यवासिनः ।
कुकषायोक्तिसेवासौ मृत्युतस्करजीविका

30.143

न हि राजसेवको भिक्षुर्यः सेव्यो देवतैरपि ।
न हिंसासवसंसृष्टो महते ऽशुचिसेवकः

30.144

भिक्षोः राजसेवा न शोभते
निर्मलस्य निरामस्य निस्पृहस्य च देहिनः ।
संसारभयभीतस्य राजसेवा न शोभते

30.145

वनारण्यश्मशानेषु पल्वलो गिरिभूमिषु ।
प्रान्तभूमिषु ग्रामस्य स्थितः भिक्षुः प्रशोभते

30.146

वनारण्यश्मशानेषु भिक्षुर्न राजसेवया ।
ध्यानाध्ययननिर्मुक्तः कवलाहारभोजिता ।
न भिक्षुरिति विज्ञेयः पिशाचसममानसः

30.147

ध्यानाद्धि विमलं सौख्यं प्रवदन्ति मनीषिणः ।
न तत्सुखात्सुखं चान्यदस्ति लोके कथञ्चन

30.148

तदुत्तमध्यानसुखं मुक्त्वा यः पुरुषाधमः ।
रसेषु रमते बालस्तेन मूढो विहन्यते

30.149

विषयैर्भ्रामितस्यास्य नित्यं तद्गतचेतसः ।
वर्धन्ते ऽकुशला धर्माः परलोकापकर्षकाः

30.150

आत्मज्ञो भिक्षुर्निर्वाणमधिगच्छति
आत्मनो यानहीनश्च गुरुपृच्छनकस्तथा ।
भिक्षुरुद्युक्तवीर्यश्च निर्वाणमधिगच्छति

30.151

श्रुतं यावद् भवत्येव तावदेव प्रभाषते ।
आत्मज्ञो मानहीनश्च भिक्षुर्भवति तत्त्वविद्

30.152

मानापमानहीनो यो मार्गामार्गविचक्षणः ।
स्वपरार्थविधिज्ञो यः स तुष्टो भिक्षुरुच्यते

30.153

मानिनः कुतः शान्तिः?
मानिनः क्रूरमनसश्चपलस्याल्पमेधसः ।
लाभसत्कारयातस्य कुतः शान्तिर्भविष्यति?

30.154

प्रसन्नाचारयुक्तस्य ज्ञानगोचरसेविनः ।
संसारदोषभीतस्य प्रव्रज्या सफला मता

30.155

स्वभावपरभावेषु यस्य बुद्धिर्नमुञ्चति ।
न कर्मण्यविपाके च मार्गामार्गे तथैव च

30.156

निवासोपहतो भिक्षुः सुखं न विन्दति
सदाचारवियुक्तस्य सुखदुःखाभयस्य च ।
निवासोपहतो भिक्षुर्बालवद् दृश्यते परैः

30.157

तृणवल्लघुतां याति स्वार्थाच्च परिहीयते ।
निवासोपहतो भिक्षुः परिहीणवने स्थितः

30.158

ध्यानाध्ययनकृत्येषु मनो नैव प्रवर्तते ।
निवासोपहतो भिक्षुर्जनसञ्चयतत्परः

30.159

सञ्चयव्यग्रमनसा जीवितं परिहीयते ।
क्षिणोति रेतसं स्वस्य जीवितं नैव गच्छति

30.160

कः दुर्गतिं याति?
न च विन्दति यत् कृत्वा सुखमन्यत्र भुज्यते ।
निवासोपहतो भिक्षुर्जनसञ्चयतत्परः ।
पापानि याति नित्यं स तेन गच्छति दुर्गतिम्

30.161

श्रामण्यधर्मस्य महत्त्वम्
अनभिप्रेतमनसो निराशस्य च देहिनः ।
सर्वसङ्गविमुक्तस्य श्रामण्यं सफलं मतम्

30.162

गिरिगह्वरवृक्षेषु नित्यं ध्यानविहारिणः ।
प्रसीदति शुभं ज्ञानं दौःशील्यपरिवर्जितम्

30.163

केषां सफलं जीवनम्?
सर्वसङ्गविनिर्मुक्तो विषयैर्न च वञ्चितः ।
(स) भिक्षु निष्फलो ज्ञेयः शुष्केन्धनमिवानलः

30.164

निर्वाणाभिरतस्य भिक्षोः प्रशंसा
निर्वाणाभिरतो यो हि भीतस्य विभवार्णवात् ।
भिक्षुर्भवति शुद्धात्मा न निवासेन कर्हिचित्

30.165

तृष्णा एव अनर्थकरी
लोभमोहेषु ये शक्तास्ते शक्ता तृष्णया सदा ।
तृष्णाबन्धनबद्धानां नायं लोको न चापरः

30.166

धर्मज्ञो दुर्गति न लभते
असंशक्ता मतिर्यस्य मिथ्याकर्मसु सर्वदा ।
अपक्षपाती धर्मज्ञो न स गच्छति दुर्गतिम्

30.167

कः मुनिरुच्यते?
दोषपङ्केमनो यस्य न लिम्पति कथञ्चन ।
एकारामविहारीयो निराशो मुनिरुच्यते

30.168

निर्मुक्तो विमलाचारो निवृत्तमलकल्मषः ।
मुक्तो यो विषयैः सर्वैरारण्यो मुनिरुच्यते

30.169

लोकधर्मैर्न निर्वेदं समायाति कथञ्चन ।
सुखदुःखसमप्रज्ञो निर्मलो मुनिरुच्यते

30.170

सन्तोषः परमो(धर्मो) नित्यं कामविवर्जितः ।
निरामयः कृच्छ्रजीवी शुचिर्मुनिरिहोच्यते

30.171

नयेन्न तेन संश्लेषं यत्र यत्रानुगच्छति ।
एकचारी दृढमतिः क्रियावान् मुनिरुच्यते

30.172

शुभाशुभानां सर्वेषां कर्मणां फलतत्त्ववित् ।
शुभाशुभपरित्यागी लोके ऽसौ मुनिरुच्यते

30.173

उद्युक्तो दोषनाशाय नित्यकामगतिः स्मृतः ।
उदयव्ययतत्त्वज्ञो बुद्धिमान् मुनिरुच्यते

30.174

देशकालविदां श्रेष्ठो ऽद्वयवादी जितेन्द्रियः ।
संसारभयभीतो ऽयं प्रशान्तो मुनिरुच्यते

30.175

कः भिक्षुः निर्वाणमधिगच्छति?
एकारामगतो भिक्षुः संक्षिप्तेन्द्रियपञ्चकः ।
देहलक्षणतत्त्वज्ञो निर्वाणमधिगच्छति

30.176

वीर्यवान् (सत्यवाक्) भिक्षुर्नित्यं दोषविवर्जितः ।
उद्यानमिव क्रीडाया निर्वाणमधिगच्छति

30.177

कल्याणधर्मी भव
दग्धे क्लेशे वयं दग्धा वनं दग्धं यथाग्निना ।
कल्याणधर्मे संरक्ता न रक्ता कामभोजने

30.178

मायया जनाः वञ्चकाः भवन्ति
नित्यं प्राप्त्युत्सुका ये (हि) नित्यं स्वजनसंरताः ।
मायया वञ्चका (ये तु) मूढास्ते धर्मवर्त्मनि

30.179

शुभकर्मणि मनः कार्यः
रमणीयान्यरण्यानि तत्रैव रमते मनः ।
रमन्ते वीतरागास्ते न तु कामगवेषिणः

30.180

स कथाभिरतो यस्तु रतो विषयतृष्णयोः ।
न यास्यति पुरं शान्तं यो च मृत्युं न विन्दति

30.181

अद्वयवादी भव
यो ऽत्यन्तशान्तमनसा नित्यं ध्यानपरायणः ।
आदिमध्यान्तकल्याणो नित्यमद्वयगोचरः

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc