Dharmasamuccaya · अध्याय 29
॥ इति निर्वाणवर्गो ऽष्टाविंशः ॥
(29) मार्गवर्गः
आर्यचतुष्टयोपासकः पारं गच्छति
सत्यानि चत्वारि शिवानि तानि, सुभावितान्येव समीक्ष्य विद्वान् ।
सुचिन्तको जातिजराभयेभ्यः, प्रमुच्यये पारमुपैति शान्तः
कामेषु सक्तः भवभोगबद्धः भवति
अचिन्तको यस्तु विभूतबुद्धिः कामेषु सक्तो भवभोगबद्धः ।
स बन्धनैः काममयैर्निबद्धो, न मुच्यते जातिजराभयेभ्यः
भवार्णवे सुखद्रष्टा अन्ते नरकं याति
विचिन्त्य यो दुःखमिदं विशालं, न खेदमायाति भवार्णवेभ्यः ।
स कामवाणैर्निहतो हि मूढः, कष्टामवस्थां नरके ऽपि याति
आभ्यन्तरं क्षेमसुखं च हित्वा, किं कामभोगाभिरता हि बालाः ।
नैते बिजानन्ति भयं च तीव्रमभ्येति मृत्युर्ज्वलनप्रकाशः
तत्त्वमार्गप्रदर्शकैः किमुक्तम्?
अनित्यदुःखशून्यो ऽयमात्मा कारकवर्जितः ।
संसारः कथितो बुद्धैः तत्त्वमार्गप्रदर्शकैः
तेन सर्वमिदं तत्त्वज्ञानं ज्ञेयं समासतः ।
ज्ञानज्ञेयविनिर्मुक्तं तृतीयं नोपलभ्यते
कः तत्त्वविधिज्ञः?
अन्तपारविधिज्ञो यः षोडशाकारतत्त्ववित् ।
ऊर्ध्वगतिविधिज्ञो हि क्षान्तितत्त्वविचक्षणः
तत्त्वविदेव धर्मतामनुविशति
अग्रलोकैकधर्मज्ञः समनन्तरतत्त्ववित् ।
स धर्मतामनुविशेद् यथा (च) न विकम्पते
द्वयोपायविनिर्मुक्तो नष्टान् नाशयते मुहुः ।
नष्टपापगतिर्वीरः स्त्रोतापन्नो निरुच्यते
स्रोतांस्य कुशला धर्मा जीर्यन्ते पापगामिनः ।
मोक्षाग्निना प्रतप्यन्ते स्रोतापन्नो भवत्यतः
प्रस्रब्धिजं महोदर्कमुक्तं संसारमोक्षकम् ।
तृष्णाक्षयसुखं दृष्टं सत्यतः सुखकारकम्
कः सदैव सुखी भवति?
नावबध्नाति यं तृष्णा न वितर्कैर्विहस्यते ।
सम्प्राप्तभवपारस्तु सुखी भवति सर्वदा
आर्य मार्गचतुष्टयम् अन्योन्यफलसम्भूतम्
अन्योन्यफलसम्भूत सर्वतः सम्प्रवर्तते ।
तदेव कारणं ज्ञेयमार्यमार्गचतुष्टयम्
आर्यसत्येषु विदितः पुरुषो विद्यते ध्रुवम् ।
विषयेषु हि संघुष्टं जगद् भ्रमति चक्रवत्
कः श्रेष्ठो मार्गः?
स मार्गो देशकः श्रेष्ठो यो मार्गो भाषितः शिवः ।
येन मार्गेण प्राचीना (ध्रुवं) याता मनीषिणः
त्रिशरणगत एव सुखं जीवति
सुजीवितं भवेत् तस्य यस्य बुद्धौ स्थितं मनः ।
नहि बुद्धिविनिर्मुक्तं जीवितं जीवितं भवेत्
सुजीवितं भवेत् तस्य यस्य धर्मे स्थितं मनः ।
नहि धर्मविनिर्मुक्तं जीवितं जीवितं भवेत्
सुजीवितं भवेत् तस्य यस्य सङ्घे स्थितं मनः ।
नहि सङ्घविनिर्मुक्तं जीवितं जीवितं भवेत्
केषां सुजीवितं जीवनम्?
सुजीवितं भवेत् तस्य यस्य सत्ये स्थितं मनः ।
नहि सत्यविनिर्मुक्तं जीवितं जीवितं भवेत्
सुजीवितं भवेत् तस्य यस्य मार्गे स्थितं मनः ।
नहि मार्गविनिर्मुक्तं जीवितं जीवितं भवेत्
निर्वाणगमने यस्य नित्यं बुद्धिरवस्थिता ।
स दोषादेव निर्मुक्तो न देवः क्रीडति स्वयम्
कीदृशी क्रीडा सुखोद्भाविका?
या भवव्यापिनी क्रीडा नित्यमेकाग्रचेतसः ।
सा सुखोद्भाविका क्रीडा न क्रीडा रागकारिका
केन मार्गेण शिवं स्थानं मिलति?
सुखादीनिह सत्यानि यथा दान्तेन विन्दति ।
तदा क्षेमं शिवं स्थानं प्राप्नोति पुरुषोत्तमः
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0