Dharmasamuccaya · अध्याय 2
॥ इति जितवर्गः प्रथमः ॥
(2) धर्मोपदेशवर्गः
गुरुः कीदृग्भवेत्?
यो हि देशयते धर्म क्षेमं निर्वाणगामिनम् ।
स सर्वबन्धनच्छेत्ता गुरुर्भवति देहिनाम्
छित्त्वा मोहमयं पाशं यो हि देशयते शिवम् ।
सन्मार्गदेशकः प्रोक्तो दुर्मार्गविनिवारकः
धर्मस्य प्रवरत्वम् येन धर्मेण मनुजास्तरन्ति भवसागरम् ।
सद्धर्मप्रबरः प्रोक्तो न धर्मो लौकिको हि सः
क्षेत्राणीमानि चत्वारि विद्यन्ते यस्य देहिनः ।
तस्येदं सफलं जन्म कथितं मार्गदेशकैः
सकलेन्द्रियतां प्राप्य लब्ध्वा बुद्धस्य शासनम् ।
यो न धर्मरतो मर्त्यः स पश्चादनुतप्यते
यमसायुज्यम् व्यासक्तमनसां नित्यं नित्यं कामगवेषिणाम् ।
पुत्रदारप्रसक्तानामन्तको ऽभ्येति देहिनाम्
चित्तस्य वशीकरणम् सङ्कल्पदोषमनसं तैस्तैर्दोषैः समाकुलम् ।
चित्तं नयत्युपायेन चित्तबद्धा हि देहिनः
दुर्दमस्यातिचण्डस्य सिद्धिप्रेप्सोर्विशेषतः ।
न चित्तस्य वशं गच्छेत् शत्रुभूतं हि तन्नृणाम्
सश्रुतेन सुदिष्टेन भावितेनाप्यनेकशः ।
धर्मेण शाम्यते चित्तं जालिनेव यथा हयः
सद्धर्मश्रवणफलम् सद्धर्मश्रवणं कृत्वा पापाद् विरमते पुमान् ।
श्रेयसे प्रतिपत्तिं च नित्यमेवोपपद्यते
सद्धर्मश्रवणं कृत्वा मनः प्रहलादमृच्छति ।
कुशलं चास्य सुमहत् सन्धाने सम्प्रतीक्षते
श्रुत्वा भवति धर्मात्मा श्रुत्वा पापं न कुर्वते ।
श्रुत्वा कर्मफलं ज्ञात्वा निर्वाणमधिगच्छति
श्रुत्वा वेदयते धर्म श्रुत्वा बुद्धः प्रसीदति ।
श्रुत्वा धर्मं विमोक्षाय यतते पण्डितो नरः
धर्मलक्षणतत्त्वज्ञः श्रुत्वा भवति मानवः ।
तस्माच्छ्रुत्वा प्रयत्नेन बुद्धिः कार्या प्रयत्नतः
श्रुत्वा संसारविमुखां कथां सुगतदेशिताम् ।
प्रहाय तृष्णां विविधां प्रयाति पदमव्ययम्
चतुर्विधां प्रत्ययितां धर्माणां चोदमव्ययौ ।
श्रुत्वा तां ज्ञायते सर्वा पुमान् श्रद्धाविभावितः
स्कन्धायतनधातूनां यदेतल्लक्षणद्वयम् ।
श्रुत्वा तज्ज्ञायते सर्व तस्मात् धर्मपरो भवेत्
प्रबला ये त्रयो दोषाः सर्वसंसारबन्धनाः ।
ते प्रणश्यन्त्यशेषेण सद्धर्मश्रवणेन वै
प्रवृत्तेर्लक्षणं कृत्स्नं निवृत्तेश्चाप्यशेषतः ।
श्रुतिमांस्तत् प्रजानाति तस्माच्छ्रुतमनुत्तमम्
मृत्युकालोपपन्नस्य वेदनार्तस्य देहिनः ।
न व्यथा श्रुतमालम्ब्य स्वल्पापि हृदि जायते
सम्यग्ज्ञानेन ये दग्धाः क्लेशवृक्षाः समन्ततः ।
न तेषामुद्भवो भूयः कदाचिदुपलभ्यते
अप्रमादविदग्धं हि श्रुतं सर्व सुखोदयम् ।
श्रेयसश्व श्रुतं मूलं तस्माच्छ्रुतपरो भवेत्
सद्धर्मश्रवणं श्रुत्वा वृद्धांश्चोपास्य पण्डितः ।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम्
धर्मेण वर्तते श्रुत्वा दुःखान्मुच्येत वै यथा ।
श्रुत्वा भवति मैत्र्यात्मा तस्माच्छ्रेयः परं श्रुतम्
कायवाङ्मनसां बुद्धिः श्रुत्वा भवति देहिनाम् ।
तस्मात् सद्बुद्धिकामो यस्तेन श्रोतव्यमादरात्
श्रुत्वा भावं समाश्रित्य दृढवीर्यपराक्रमम् ।
तरन्ति पुरुषास्तूर्ण त्रिभव विपुलं महत्
श्रुत्वा यः पुरुषः सर्वैर्धनवानभिजायते ।
अश्रुतार्थधनैर्युक्तं दरिद्रं प्राहुस्तं बुधाः
सद्धर्मनाशफलम्
सद्धर्मधननष्टस्य गुरुणा वर्जितस्य च ।
विफलं जीवितं चेष्टं पापैरुपहतस्य च
प्रमादादीनामनिष्टफलसाधनत्वम्
प्रमादिनः कुसीदस्थ पापमित्रस्य देहिनः ।
जीवितं निष्फलं दृष्टं बीजमुप्तं यथोसरे
शास्त्रप्रामाण्यम्
श्रुतदृष्टिविनिर्मुक्तमर्थमाहुर्विचक्षणाः ।
न चक्षुर्भ्यां विनिर्मुक्तमर्थमित्यभिधीयते
धर्मसेवनाग्रहः यो हि धर्म परित्यज्य अधर्ममनुतिष्ठति ।
स भैषज्यं परित्यज्य व्याधिमेवोपसेवते
सेवतां सेवतां पुंसां धर्मो भवत्यनेकशः ।
वर्षाणां समवायेन यथोद्यानं प्रवर्धते
इह वज्रासने भूमिर्न संसारे ऽन्यथा भवेत् ।
बोधिचित्तसमुत्थानं बोधिप्राप्तिस्तथोत्तमा
धर्मचारी प्रशान्तात्मा कायोत्थायी समाहितः ।
अवश्यं शुभभागीस्यात् स प्रमादेन वञ्चितः
ज्ञानसेवनाग्रहः तस्माज्ज्ञानगुणान्मत्वा ज्ञानं सेवेत पण्डितः ।
नह्यज्ञानेन संयुक्तं पुमान् कश्चित् प्रतिभवेत्
धर्मानुसारिणी श्रद्धा धर्मानुसारिणी श्रद्धा यथा याति सुखावहा ।
सातिदुर्गतिसन्यक्ता व्यसनेषु महद् बलम्
प्रदीपकल्पा तमसि व्याधितानामिवौषधम् ।
अर्थानां नेत्र भूता सा दरिद्राणां महद्बलम्
भवाद्यैर्ह्रियमाणानां पूर्वभूता सुखावहा ।
प्रमादमदमत्तानां सा प्रमादविघातिका
शान्तपदप्राप्तेः फलम् स हि यत्तत्पदं शान्तं निर्वाणमुनिभिर्वृतम् ।
तत् प्रापयत्यखेदेन सम्यग्ज्ञानपुरःसरम्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0