Dharmasamuccaya · अध्याय 28
॥ इति प्रज्ञावर्गः सप्तविंशः ॥
(28) निर्वाणवर्गः
क्लेशक्षय एव निर्वाणमार्गः
क्लेशक्षयात् परं सौख्यं कथयन्ति मनीषिणः ।
एष निर्वाणगो मार्गः कथितस्तत्त्वदर्शकैः
तत्पदं शाश्वतं जुष्टं कथयन्ति तथागताः ।
यत्र जन्म न मृत्युर्न विद्यते दुःखसम्भवः
विभूतस्याप्रमत्तस्य शान्तस्य वनचारिणः ।
अलोलुपस्य वीरस्य निर्वाणस्य विभूतयः
विषयेष्वप्रमत्तो निर्वाणं नातिचिरं प्राप्नोति
मित्रामित्रप्रहीणस्य भवरागविवर्जिनः ।
विषयेष्वप्रमत्तस्य निर्वाणं नातिदूरतः
शुभकर्त्तृ निर्वाणं प्राप्नोति
शुभकार्येषु सक्तस्य मैत्रीकारुण्यभाविनः ।
संसारभयभीतस्य निर्वाणं नातिदूरतः
कौसीद्यविरहितः त्वरितं निर्वाणं याति
क्लेशक्षयविधिज्ञस्य नैरात्म्यस्यापि तस्य च ।
कौसीद्याच्चैव मुक्तस्य निर्वाणं नातिदूरतः
वश्येन्द्रियस्य शान्तस्य निर्वाणं समीपतरम्
चतुःसत्यविधिज्ञस्य त्रिदोषवधसेविनः ।
वश्येन्द्रियस्य शान्तस्य निर्वाणं नातिदूरतः
सुखदुःखपाशैर्मुक्तो मुनिः पारग उच्यते
सुखदुःखमयैः पाशैर्यस्य चेतो न हन्यते ।
स दोषभयनिर्मुक्तः पारगो मुनिरुच्यते
शुभान्वेषी निर्वाणमधिगच्छति
पुरुषो ऽपायभीरुश्च प्रमादबलवर्जकः ।
शुभकारी शुभान्वेषी निर्वाणमधिगच्छति
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0