भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 24

24.1

॥ इति शीलवर्गस्त्रयोविंशः ॥
(24) क्षान्तिवर्गः
क्षमाभूषणेनैव भूषितो भवति पुमान्
क्षान्त्या विभूषितः जीव भूषितो नेतरैर्धनैः ।
धनं विना समायाति क्षान्तिं नैव कथञ्चन

24.2

क्षमावान् पुरुषः सर्वप्रियो भवति देहिनाम् ।
पूज्यते दैवतैर्नित्यं तस्मात् क्षान्तिः परन्तप !

24.3

क्षमावान् पुरुषः सर्वत्र पूज्यते
क्षमावान् पुरुषः सर्वैः क्रोधदोषैर्विवर्जितः ।
यशसा पूज्यते नित्यमिह लोके परत्र च

24.4

क्षान्तिधनं सर्वोत्तमम्
क्षान्तिर्धनं धनं शीलप्रज्ञावर्धनमेव च ।
धनान्यन्यानि शस्तानि न हितस्य कथञ्चन

24.5

सद्भिः क्षमावानेव पूज्यते
पूज्यते सततं सद्भिर्यशसा चैव पूज्यते ।
क्षमावान् पुरुषः सर्वस्तमात् क्षान्तिपरो भवेत्

24.6

क्रोधविषस्य क्षमैव भेषजम्
क्षान्तिः क्रोधविषस्यास्य भेषजं परमं मतम् ।
क्षान्त्याविनाशितः क्रोधो ऽनर्थायोपजायते

24.7

ज्ञानशीलाभिभूतानां बालिशानां विशेषतः ।
प्रतीपकार्य कुरुते क्षान्तिर्मार्गनिदर्शिका

24.8

क्षमावन्त एव लोके धनिनः
स धर्मधनहीनानां भ्रमतां गतिपञ्चके ।
येषां क्षान्तिमयं द्रव्यं ते लोके धनिनः स्मृताः

24.9

तमोनिचयकान्तारे दृढक्रोधेन दुस्तरे ।
क्षान्त्या यथा स्मृताः सद्भिस्तरन्ति खुल मानवाः

24.10

सद्धर्मपाठनष्टानां देशिका क्षान्तिरुत्तमा ।
अपायभयभीतानां न भयं क्षान्तिरुच्यते

24.11

नृणां क्षान्तिः सुखावहा
सुखावहा सदा नृणां दुःखस्य च विघातिका ।
क्षेमसम्प्रापिका नित्यं विश्वासगुणकारिका

24.12

शुभास्ति नायिका धन्या ह्यशुभेभ्यो विवर्जिता ।
मोक्षसंदेशिका पुंसां संसारभयनाशिका

24.13

क्षान्तिः नरकाग्निविनाशिका स्वर्गसोपानभूता च
स्वर्गसोपानभूता सा नरकाग्निविनाशिका ।
त्रायते प्रेतलोकात्सा तिर्यग्योनौ तथैव च

24.14

क्षान्तिः सन्मार्गामृतदीपिका
सा गुणौधैः सदा पूर्णा शिवा भवति देहिनाम् ।
सा प्रशस्ते सुखे प्राप्ते क्षान्तिः कार्या प्रयत्नतः ।
सर्वलोकस्य मातेव सन्मार्गामृतदीपिका

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc