Dharmasamuccaya · अध्याय 25
॥ इति क्षान्तिवर्गश्चतुर्विंशः ॥
(25) वीर्यवर्गः
देशक्रियायुक्तानि कार्याणि सिद्धयन्ति
देशकालोपपन्नस्य क्रियातिथ्योचितस्य च ।
न्यायेनारभ्यमाणस्य वीर्यस्य सकलं फलम्
न्यायदेशक्रियाहीना अधर्मेण विवर्जिताः ।
सीदन्ति कार्यनिकरा वीर्येण परिवर्जिताः
आरब्धवीर्या मोक्षं प्राप्नुवन्ति
ध्यानेनारब्धवीर्येण मोक्षं गच्छन्ति पण्डिताः ।
भवक्षिप्त इवाकारो देवलोके प्रयान्ति च
यान्यारब्धानि कार्याणि वीर्यवद् बलिना नृणा ।
तानि तानि प्रसिद्धानि विपुलानि भवन्ति च
ये ऽर्था लोकोत्तरे सिद्धा ये च लोकेषु सम्मताः ।
ते वीर्येण प्रसाध्यन्ते वीर्यहीना न जातु वै
मन्दवीर्य चिरोत्साहं सद्धर्मेण विवर्जितम् ।
नरो विशति लोकं (च) शशाङ्कमिव कल्मषम्
वीर्यवत्ता परमां गतिं प्रददाति
आर्याष्टाङ्गेन मार्गेण न ज्ञानपरिपालितः ।
वीर्यवत्तामहोत्साहो प्रयाति परमां गतिम्
बोधिः वीर्येणावाप्यते
वीर्यणावाप्यते बोधिः स्ववीर्येण तथा मही ।
अर्हत्त्वं वीर्यवद्भिश्च तस्मान्नाग्निसमा गतिः
उत्तमस्थानप्राप्त्यर्थ वीर्यारम्भे मतिः कार्या
तस्माद् देवान् गुणान् मत्वा वीर्यवान् नियतेन्द्रियः ।
वीर्यारम्भे मतिं कुर्यार्न्नास्ति वीर्यसमर्थनम्
वीर्यार्थी स्मृतिमान् यश्च नरो ज्ञानपरायणः ।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0