भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 23

23.1

॥ इति दानवर्गो द्वाविंशः ॥
(23) शीलवर्गः
शीलं सूर्य इव शोभते
धनानामुत्तमं शीलं सूर्यो ज्योतिष्मतामिव ।
विहाय गच्छति धनं शीलं स्थितमिवाग्रतः

23.2

शीलेन त्रिदशान् याति ध्यानगोचरमेव वा ।
नास्ति शीलसमं ज्योतिरस्मिंल्लोके परत्र च

23.3

अल्पेन हेतुना स्वर्ग प्राप्नोति स्वर्गकामिकः ।
तस्माद् दुश्चरितं हित्वा नित्यं सुचरितो भवेत्

23.4

चेतनाभावितं दानं शीलं च परिरक्षितम् ।
नीयते देवसन्दत्तं पञ्चकामगुणान्वितम्

23.5

सुरक्षितेन शीलेनैव सुखं प्राप्तुं शक्यते
न माता न पिता नार्था दयिता नापि बान्धवाः ।
न सुखा (स्ते) तथा दृष्टा यथा शीलं सुरक्षितम्

23.6

शीलवान् पुरुषो सुखमवाप्नुते
शीलं त्राणमिहामुत्र शीलं गतिरिहोत्तमम् ।
शीलवान् पुरुषो नित्यं सुखात् सुखमवाप्नुते

23.7

दानशीलसमाचारा ये नरा शुभचारिणः ।
ते यान्ति देवसदनं रचिताः स्वेन कर्मणा

23.8

निधानमव्ययं शीलं शीलसौख्यमतर्कितम् ।
शीलाधिका हि पुरुषा नित्यं सुखविहारिणः

23.9

शीलं रक्षतु मेधावी यथा यानं सुखत्रयम् ।
प्रशंसावृत्तलाभं च प्रेत्य स्वर्गे च मोदते

23.10

शीलवान् निर्वाणं प्राप्नोति
शीलवान् यो हि पुरुषः शीलमेवाति सेवते ।
ससुखो निर्वृत्तिं याति यत्र मृत्युर्न विद्यते

23.11

अनादिमति संसारे तृष्णामोहादिभिर्वृते ।
ज्योतिर्भूत सदाशीलं तस्माच्छीलमनाविलम्

23.12

शीलं धनमसंहार्य राजचौरोदकादिभिः ।
तस्माच्छीलं सदा सेव्यं दौःशील्यं च विगर्हितम्

23.13

शीलाभिरतपुरुषः निर्वाणं ह्यन्तिके स्थितम् ।
शीलवान् पुरुषो धन्यः शीलवांश्चापि सेव्यते

23.14

रविवद् भ्राजते शीलं दौःशील्यं चैव गर्हितम् ।
निर्मलं वीतकान्तारं निर्ज्वरं वीतकाङ्क्षि च

23.15

शीलप्रशस्तसम्बुद्धैर्निर्वाणपुरगामिकम् ।
आयुर्याति ध्रुवं धीमान् नित्यं शीलेनं वृंहितम्

23.16

शीलरहिताः पशुभिः समाः
न बिभेन्मृत्युकाले च शीलेन परिरक्षितः ।
शीलमाद्यन्तकल्याणं सर्वसौख्यप्रवर्तकम् ।
शीलवान् पुरुषो धन्यो दौःशील्याभिरतः पशुः

23.17

तीरं नैव समायान्ति पुरुषाः शीलवर्जिताः ।
कार्याकार्य न विन्दन्ति तस्माच्छीलं समाचरेत्

23.18

शीलवस्त्रेण ये छन्नास्ते छन्नाः पुरुषा मताः ।
शीलेन वर्जिता ये तु नग्नास्ते पशुभिः समाः

23.19

शीलवान् पुरुषः स्वर्ग गच्छति
शीलवान् पुरुषः स्वगमुद्यानमिव गच्छति ।
बन्धुवन्मन्यते तत्र शीलवान् (सु) प्रमागतः

23.20

शुचिशीलसमाचाराः शुभधर्मसमन्विताः ।
देवलोकोपगास्तेषु जनाः सुकृतकारिणः

23.21

शीलेन परिबृंहिता गुणा वर्धन्ते
यो न प्रार्थयते कामान् शीलवान् पुरुषः सदा ।
गुणास्तस्य प्रवर्धन्ते शीलेन परिबृंहिताः

23.22

शीलं स्वर्गस्य सोपानम्
महार्घमुत्तमं शीलमस्मिंल्लोके परत्र च ।
तस्मात् प्रहाय त्रैगुण्यं शीलमेव सदा चरेत्

23.23

देवेभ्यो रोचते तद्धि त्राणं शीलं शुभान्वितम् ।
भावितं परमं धन्यं परलोकोपगामिकम्

23.24

शीलवान् यदि जानीयात् फलं शीलस्य यादृशम्

23.25

शस्त्रं सुतीक्ष्णमादाय वाणं छिन्द्यादिहात्मनः ।
अस्त्रोपमस्य निन्द्यस्य अभिसौख्यसमन्वितम्

23.26

शीलस्य फलं सुगतेन प्रदर्शितम्
फलं शीलस्य विमलं सुगतेन प्रदर्शितम् ।
आदौ शस्तं तथा मध्ये निधने शस्तमेव तत्

23.27

फलं शीलस्य विपुलं सुखात् सुखमुत्तमम् ।
शीलचर्या परं सौख्यं धनचर्या न तादृशी

23.28

नरा धनेन हीयन्ते शीलेन न कथञ्चन ।
शोचते पुरुषस्तेन पृथक् वा तद्विराजते

23.29

शुभं तस्मान्मुनिवरैः प्रशस्तं सार्वगामिकम् ।
उद्यानमिव गच्छन्ति पुरुषाः शुभचारिणः ।
देवलोकसमं तेषां सौख्यानामाकरं (परम्)

23.30

स्वर्गगमनार्थ शीलं समाचरेत्
सुशीलितस्य शीलस्य भक्षितस्याप्यनेकशः ।
फलं विपच्यते स्वर्गस्तस्माच्छीलं समाचरेत्

23.31

शीलं स्वर्गस्य सोपानमाकरं सुखनिर्वृते ।
शीलवर्जी हि पुरुषो न क्वचित् सुखमेधते

23.32

शीलवान् असंख्यानि सौख्यानि लभते
शीलाम्भसा प्रसन्नेन विप्रकीर्णेन सर्वदा ।
स्नात्वा गच्छन्ति पुरुषा देवलोके च निर्वृते ।
यद्दिव्यमाल्याभरणैर्दिव्यैः सौख्यैः समन्विताः

23.33

रमते देवभवने तत् सर्व शुभहेतुकम् ।
असंख्यानि च सौख्यानि वर्धमानानि सर्वदा

23.34

लभते पुरुषः सर्व यः शीलमनुवर्तते ।
शुभचारी सदा सत्यः पूज्यते सो ऽपराजितः

23.35

अनेकसौख्यदायकं शीलमाचरणीयम्
शुभेन शोभते मर्त्यः पूज्यते राजभिः सदा ।
शुभेन शोभते मर्त्यस्तस्माच्छीलं समाचरेत्

23.36

अनेकसौख्यजनकं सर्वमाश्वासकारकम् ।
शीलं सुचरितं कार्य दुष्कृतं च विवर्जयेत्

23.37

ये दानशीलकर्त्तारः स्वर्गतद्गतमानसाः ।
तेषां सकल्मषं शीलं विषमिश्रं यथौदनम्

23.38

नानाविधस्य शीलस्य रक्षितस्याप्यनेकशः ।
शुभकार्यविपाकाय देवेषु परिपच्यते

23.39

शीलाम्भसा प्रसन्नेषु सङ्कीर्णेषु च सर्वदा ।
स्नात्वा गच्छन्ति मनुजा देवांश्चात्यन्तिकं सुखम्

23.40

दानशीलाः सदा दान्ताः सर्वभूतहिते रताः ।
ज्ञानयुक्ता मैत्रचिता गतास्ते देवसम्मितिम्

23.41

हतदोषाः क्रियावन्तः शीलरत्नेन भूषिताः ।
सर्वसत्त्वदयावन्तः सुरलोकेषु ते बुधाः

23.42

विशुद्धकाञ्चनप्रख्या निर्ध्मातमलकल्मषाः ।
सम्यक् कर्म सुसंलग्ना देवलोकेषु ते बुधाः

23.43

सर्वसत्त्वदयावन्तः सर्वसत्त्वहितैषिणः ।
सर्वपापविरक्ता ये तेषां वासः सुरालये

23.44

अहन्यहनि ये शीलं रक्षन्ति सुपरीक्षकाः ।
अहन्यहनि तेषां हि सुखं भवति नैकशः

23.45

शीलवाजिनमारूढा देवभवनं प्रयान्ति
शीलवाजिनमारूढाः पुरुषास्तत्त्वचिन्तकाः ।
प्रयान्ति देवभवनं क्रीडायुक्तमनेकशः

23.46

या क्रीडा देवभवने यच्च सौख्यमनुत्तमम् ।
तत् समग्रस्य शीलस्य फलमुक्तं तथागतैः

23.47

देवसुखं शीलजमेव
यद्दिव्यमाल्याभरणा दिव्याम्बरविभूषिताः ।
क्रीडन्ति विबुधाः सर्वे तत्सर्व शुभहेतुकम्

23.48

पद्मोत्पलवने रम्ये वनोपवनभूषिते ।
स्वर्गे रमन्ति ये देवास्तत् सर्व शुभजं फलम्

23.49

यदाकाश इवातस्थुर्दिव्यरत्नविभूषिताः ।
विराजन्ते ऽमला देवास्तच्छीलस्य महत् फलम्

23.50

यत्काननेषु रम्येषु चित्रेषु पुष्पितेषु च ।
रमन्ति गिरिपृष्ठेषु सुरास्तच्छीलजं फलम्

23.51

स्वगृहं हि यथा मर्त्याः प्रविशन्ति गतव्यथाः ।
तथा शीलसमाचाराः प्रयान्ति त्रिदिवं नराः

23.52

एतत् सुजीवितं श्रेष्ठं यच्छीलपरिरक्षणम् ।
मरणानां परं मृत्युः यच्छीलपरिवर्जनम्

23.53

शीलमनुपमं कार्यम्
एतान् गुणान् सदा मत्वा प्रियत्वमपि चात्मनः ।
शीलं सुरक्षितं कार्य दौःशील्यं च विवर्जयेत्

23.54

शीलचारी सदा दान्तः क्षमावांश्च सुदर्शनः ।
सोपानमिव चारूढं प्रयात्यानन्दसन्निधिम्

23.55

शीलेन प्लवभूतेन संसारोत्तरणम्
फलं शीलस्य तु सुखं देवलोकेषु पच्यते ।
शीलेन प्लवभूतेन संसारादुत्तरन्ति च

23.56

शीलाम्भसा विशुद्धा ये स्वायत्ता धीरचेतसः ।
जाम्बूनदमयैः पुष्पैस्ते ऽत्रार्चन्ति दिवौकसः

23.57

ये नवादातमनसो नित्यं शीलेन भूषिताः ।
ते यान्ति देवसदनं यत्र सौख्यमनन्तकम्

23.58

सौख्यात् सौख्यतरं यान्ति नराः सुकृतकारिणः ।
क्रीडन्ति देवसदने शीलेन परिबृंहिताः

23.59

शीलसोपानमारूढाः सुगतिं प्रयान्ति
शीलसोपानमारुह्य ज्ञानेन परिबृंहिताः ।
नराः प्रयान्ति सुगतिं ज्ञानेन च परायणा

23.60

सुप्रसन्नेन मनसाशीलं यदभिरक्षितम् ।
तस्य शीलस्य शीतस्व सुखमेतदुपस्थितम्

23.61

शीलस्य परिणामो सुखदायकः
सुरक्षितस्य शीलस्य भावितस्याप्यनेकशः ।
परिणामे सुखीभूत्वा निर्वाणं चाधिगच्छति

23.62

शीलं रक्षत्युपायेन शीलं नयति सङ्गतिम् ।
तस्माच्छीलं सदा रक्ष्यं परिणामो ऽस्य शीतलः

23.63

मृत्युकाले समुत्पन्ने शीलवानकुतोभयः ।
न मे दुर्गतिना त्राणं शीलं हि त्राणमुत्तमम्

23.64

कुत्सितशीलस्य कुत्सितः परिणामः
काचाभ्रपटलं यस्य शीलं भवति कुत्सितम् ।
स कुत्सितेन शीलेन कुत्सितो जायते नरः

23.65

शीलविरहितः मूढो भवति स्वर्गमपि न याति
शीलमूलेन लब्ध्वेदं सुखं स्वर्गेषु देहिभिः ।
तृष्णाक्षयो न भवति स पश्चात् परितप्यते

23.66

तस्माच्छीलवता नित्यं शीलमेव विशिष्यते ।
निःशीलः पुरुषो मूढो न स्वर्गमधिरोहति

23.67

पञ्चकामोपमं दिव्यं यदिदं भुज्यते सुखम् ।
तच्छीलस्य विशुद्धस्य प्राप्यते हि फलं महत्

23.68

यत्तेजः काञ्चनस्यास्य मेरुपर्वतशालिनः ।
तच्छीलतेजसस्तेजः कलां नार्हति षोडशीम्

23.69

दीप्यमानैः सदा शीलैः निर्धातुकनकत्विषा ।
संयुक्तास्त्रिदिवं यान्ति पण्डिता स्वेन कर्मणा

23.70

त्रिविधशीलस्य त्रिविधं फलम्
हीनमध्यविशिष्टस्य शीलस्य त्रिविधस्य वै ।
फलं हि त्रिविधं दृष्टं हीनमध्योत्तमं तथा

23.71

प्रमादरहितं शीलमप्रमादोपबृंहितम् ।
नित्यं तत् सुखदं दृष्टं धर्मतेयं व्यवस्थिता

23.72

शीलप्रभया सूर्यसहस्त्रस्यादि पराभवः
शीलोद्भवा या विमला प्रभा भवति देहिनाम् ।
न सा सूर्यसहस्त्रस्य संयुक्तस्य भविष्यति

23.73

शीलं सप्तविधं रम्यं यो रक्षति नरोत्तमः ।
स कामं भुञ्जति फलं सुगतेन च देशितम्

23.74

शीलचर्या विना स्वर्ग न यान्ति
शीलचर्या समाश्रित्य सम्यग्दर्शनतत्परः ।
मर्त्यलोकाद् दिवं यान्ति न कष्टं तपचारिणः

23.75

यच्छीलं शीलसंस्पर्श परिणामे ऽपि शीतलम् ।
निषेवते सदामूढः स पश्चात् परितप्यते

23.76

सप्तविधेन शीलेन देवसान्निध्यं प्राप्यते
शीलं सप्तविधं धन्यमविसंवादकं पदम् ।
शीलेन रक्षितः पुरुषो देवानामन्तिकं गतः

23.77

शीलेन शोभनं फलं मिलति
यथा पक्षैर्दृढैः पक्षी स्वेदच्छत्रं निहन्ति (वै) ।
तथा नरो दृढः शीलैर्देवलोकाय कल्प्यते

23.78

श्रुतिमात्रं च (तच्छीलं) रम्याद् रम्यतरं च तत् ।
लभते पुरुषः कर्ता फलं शीलस्य शोभनम्

23.79

दानशीलतपोरत्नं हृदयैश्च समाश्रितम् ।
देवता वा मनुष्यो वा लभते परमं पदम्

23.80

अन्तर्बहिश्च निःसाराः पुरुषा धर्मवर्जिताः ।
संसारात् फलकाङ्क्षिभ्यः सद्धर्मो न (च) रोचते

23.81

अन्तर्बहिश्च ये सारास्ते नरा वस्तुतो दृढाः ।
ये धर्मचारिणः शान्ताः परसत्त्वहितैषिणः

23.82

अनुत्तरः शीलवतां सुगन्धः
न केतकी चम्पकपुष्पगन्धा, तमालके नागरुचश्च गन्धः ।
प्रयान्ति गन्धा हिं यथा सुरेण, अनुत्तरः शीलवतां सुगन्धः

23.83

दौःशील्यं सदा वर्ज्यम्
तस्माच्छीलं सदा कार्य दानज्ञानतपोधनैः ।
दौःशील्यं च सदा वर्ज्यविषशस्त्रानलोपनम्

23.84

शीलेन एव सुखमवाप्नुते
एवं सुरक्षितं शीलं नरान् नयति सङ्गतिम् ।
न हि शीलादृते कश्चित् पदं सुखमवाप्नुते

23.85

देवगुणसदृशं शीलं सदाचरेत्
तस्माद् देवगुणं मत्वा शीलमेव सदाचरेत् ।
न शीलसदृशं किञ्चिदन्यत् त्राणमिहास्ति वै

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc