भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 22

22.1

॥ इति करुणावर्ग एकविंशः ॥
(22) दानवर्गः
शुद्धाशुद्धदानपरिभाषा
गुणद्वादशसंयुक्तं मलैर्द्वादशभिर्विना ।
दानं भवति शुद्धं तद् विपरीतं सकल्मषम्

22.2

दानरहिता एव पुरुषाधमाः
देवानामथ (वा) नृणां धनस्य बलमुत्तमम् ।
दानेन रहिता पादे पतन्ति पुरुषाधमाः

22.3

लोभमात्सर्यमलिनाः पुत्रदारवशानुगाः ।
मनुजा निधनं यान्ति केवलाहारकांक्षिणः

22.4

लोभग्रन्थिविमोक्षाय याञ्चावृक्षक्षयाय च ।
तमोनिचयनाशाय प्रदानमिह दीयते

22.5

दाता परलोकं गच्छति
अघतां चरते दानं दातापि तदनन्तरम् ।
मार्गसन्दर्शवद् दानं परलोकं समृच्छति

22.6

दानाम्भसि नराः स्नात्वा शीलोर्मिपरिभाविते ।
ज्ञानविस्तीर्ण(विमलं) पारं दुःखस्य यान्ति वै

22.7

दोषनाशकाः त्रयो दीपाः
पुरुषेण त्रयो दीपाः प्रज्वाल्या हितमिच्छता ।
दानं शीलं तथा ज्ञानमेते दोषविनाशकाः

22.8

तृष्णाविवर्णा दुर्गन्धिवितर्कोर्मिझषाकुले ।
दुःखार्णवे प्लुता ह्येते ज्ञानशीलेषु रक्षिताः

22.9

क्लेशस्य भेषजं दानं, शीलं, ज्ञानम्
क्लेशव्याधिनिहन्तारस्त्रयो वै भेषजाः स्मृताः ।
दानं शीलं तथा ज्ञानमेते नित्यं सुखावहाः

22.10

प्रमादविषमं (चित्तं) संकल्पकुटिलं लघु ।
वध्यते बन्धनैरेतैस्त्रिभिर्ज्ञानादिभिर्नृणाम्

22.11

दोषाग्निभिः (सदा) प्लुष्टो यैरिदं दह्यते तदा ।
दानादिज्ञानयोगेन हत्वा गच्छति निर्वृतिम्

22.12

न दानज्ञान शीलेषु येषां सम्मिश्रिता मतिः ।
ते नित्यदुःखिताः सत्त्वाः सुखं तेषां न विद्यते

22.13

दातारो मात्सर्यमलवर्जिता भवन्ति
अदानव्रीडितसुखाश्चित्तदोषेण वञ्चिताः ।
भवन्ति विबुधाः हित्वा तस्माद् दानपरो भवेत्

22.14

दानोत्कर्षक्रमैर्युक्ताः मात्सर्यमलवर्जिताः ।
भवन्ति हृष्टमनसो देवाः क्रीडापरायणाः

22.15

क्षुत्पिपासामयो वह्निर्य प्रधानं प्रधावति ।
मात्सर्य वै फलं सर्व तदुक्तं तत्त्वबुद्धिभिः

22.16

दानप्रशंसा
यो ददाति सुखं तस्य नीयते जायते सुखम् ।
सुखं भवति दानाद्धि तस्माद् दानं प्रशस्यते

22.17

लोकालोककरं दानं गच्छन्तमनुगच्छति ।
गतं च मन्त्रदानेन युज्यते भद्रवत्सलैः

22.18

अविसंवादकं स्थानमेतदुक्तं तथागतैः ।
अविसंवादकत्वाच्च नित्यं दानपरो भवेत्

22.19

दानी भवार्णवं तरति
मात्सर्यारिं विनिर्जित्य कृत्वा चित्तं शुभान्वितम् ।
ये प्रयच्छन्ति दानानि ते तरन्ति भवार्णवम्

22.20

क्षयैस्तु त्रिविधैर्दानं त्रिषुकारं त्रिधार्जितम् ।
तस्य क्षतान्वितस्यैवं फलं दृष्टं त्रिचक्षुषा

22.21

कः मार्गः सुखावहः?
दानमादौ सदा देयं शीलं लभ्यं प्रयत्नतः ।
तृष्णा ज्ञानेन हन्तव्या मार्ग एष सुखावहः

22.22

अनित्या पापिका तृष्णा लोकस्याहितकारिका ।
न शक्यं तद्विना श्रेयः प्राप्तुं पदमनुत्तमम्

22.23

अदानस्य परिणामः
अदाने न मनः कार्य नित्यं दानरतो भवेत् ।
अदानात् क्षुत्पिपासाभ्यां दह्यते प्रेतभूमिषु

22.24

दानेन शीलरक्षा सदा कार्या
राजा भवति दानेन चक्रवर्ती सुधार्मिकः ।
दानभूमिं समाश्रित्य शीलं रक्षन्ति पण्डिताः

22.25

शीलवानपि कालज्ञो ऽज्ञानाद् (वै) परिमुच्यते ।
दुःखनैर्याणिको मार्गः शस्तो ऽयं मुनिपुंगवैः

22.26

तं विदित्वा महावीरो नित्यं दानरतो भवेत् ।
अदा(ना)दपि देवेषु देवा हि न सुखा मताः

22.27

दानी यत्र कुत्रापि वसन् सुखी भवति
आजन्मविपिने मर्त्या भवन्ति सुखभागिनः ।
दानस्य तत्फलं सर्वचेतनाभावितस्य हि

22.28

तिर्यक्ष्वपि समुत्पन्ना भवन्ति सुखभागिनः ।
तत्सर्व दानजं सौख्यं कथयन्ति मनीषिणः

22.29

यत् प्रेताः प्रेतभवने भवत्याकारभोजिनः ।
स्वयं कृतस्य दानस्य फलं भवति तादृशम्

22.30

दानविरहितस्य दुर्दशा भवति
(न)दद्यात् क्षुत्पिपासे च दह्यन्ते येन देहिनः ।
सर्वदा न तपस्ताभ्यां फलं भवति शीतलम्

22.31

प्रमादी मृत्युसमये दाहं प्राप्नोति
पूर्व प्रमादचारी यो न दानादिषु वर्तते ।
स पश्चान्मृत्युसमये दह्यते स्वेन चेतसा

22.32

दानस्य फलम्
प्रियो भवति दानेन चेतसामपि तुष्यति ।
पश्चाद् भवति स श्रीमान् दानस्य फलमीदृशम्

22.33

यत्र दानादि चित्तस्यास्त्युपभोगाय सर्वदा ।
तत्र निर्धनतैषा वा दयया परिरक्षितम्

22.34

यद् भुज्यते सदा चित्तं गुरुभ्यश्चापि दीयते ।
यद् वनं शोभनं दृष्टं विपरीतं यथा तृणम्

22.35

दुर्बलानां सदार्तानां सत्त्वानां चक्षुरन्वितम् ।
दानं निःकल्पसंयन्त्रमस्मिंल्लोके परत्र च

22.36

मनुष्यभूमौ दानस्य फलम्
मनुष्यभूमौ दानानि दत्त्वा यान्ति शुभां गतिम् ।
न देवा दानपतयः फलभूमिरसौ मता

22.37

कर्ममाहात्म्यम्
कर्मभूमिर्मनुष्याणां फलभूमिः सुरालयः ।
कर्मायत्तं फलं सर्व न फलं स्यादहेतुकम्

22.38

को मृतैः समः?
ध्यानाध्ययननिर्मुक्तो दानशीलविवर्जितः ।
सुवर्णकंकणैर्युक्तो जीवन्नपि मृतैः समः

22.39

स जीवति हि लोके ऽस्मिन् यो धर्ममनुवर्तते ।
धर्ममूढः सदा मूढो जीवन्नपि मृतैः समः

22.40

अज्ञानी तु बालिश एव
मनुष्यचर्मणा छन्नस्तिर्यग् भवति बालिशः ।
यस्य ज्ञानप्रदीपेन हृदयं नावभासितम्

22.41

भवत्येतावता पुरुषः यः शीलमनुवर्तते ।
शीलभ्रष्टः पुमान् सर्वश्चाभिस्तुत्यो ऽपराक्रमः

22.42

दानहीनः प्रेतविग्रहवान्
दानहीनः प्रमादी (च) पापचारी चलेन्द्रियः ।
नासौ मर्त्य इति ज्ञेयः प्रेतो विग्रहवानयम्

22.43

ज्ञानेन हीनो मृत एव
ज्ञानशीलविनिर्मुक्तो दानरत्नविवर्जितः ।
जीवमानो ऽपि पुरुषो मृत इत्यभिधीयते

22.44

को देवः?
दानशीलतपोध्यानाद् वीर्यस्मृतिसमाधिमान् ।
पुरुषः पुरुषैरेजे देवैरपि स वन्द्यते

22.45

गुणवांस्तु नरो वन्द्यः निर्गुणः पशुभिः समः ।
गुणागुणविधिज्ञो यः स देव इति कथ्यते

22.46

केषां सफलं जीवनम्?
सुजीवितं भवेत्तस्य यस्य त्यागे स्थितं मनः ।
नहि त्यागविनिर्मुक्तं जीवितं जीवनं मतम्

22.47

दानं नित्यं सुखावहम्
पञ्चगत्युपपन्नानां सत्त्वानां स्वेन कर्मणा ।
मातृवत् पितृवद् दृष्टं दानं नित्यं सुखावहम्

22.48

दानरता भवसङ्कटान्मुच्यन्ते
एतां भूमिमवस्थाप्य सत्त्वो दानरतो भवेत् ।
दानशीलरता नित्यं मुच्यन्ते भवसङ्कटात्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc