भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 21

21.1

॥ इति कौसीद्यवर्गो विंशः ॥
चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम् ।
नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश ॥
॥ इति द्वितीयम् उदानम् ॥
अथ तृतीयम् उदानम्
(करुणादानशीलानि क्षान्तिर्वीर्यमथापि च ।
ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश ॥ )
(21) करुणावर्गः
करुणा मातेव हितकारिणी भवति
कृपा सर्वेषु भूतेषु मातेव हितकारिणी ।
यां समाश्रित्य पुरुषाः प्रयान्ति सुखमुत्तमम्

21.2

दयान्वेषीह पुरुषः सर्वसत्त्वहिते रतः ।
पूजनीयः सतां याति प्रेत्य स्वर्गे च मोदते

21.3

दयावन्तः सदावर्त सर्वभूतहिते रतम् ।
तमेवं पुरुषं नित्यं प्रणमन्ति दिवौकसः

21.4

करुणान्वितो देवलोकं गच्छति
प्रयाति देवलोकं च शीलवान् करुणान्वितः ।
कृपान्वितः स पुरुषो चन्द्रमा इव शोभते

21.5

सुखार्थिना करुणा सेवितव्या
आश्रयन्ति च भूतानि गतशोका गतव्यथा ।
तस्माद् दयाप्रयत्नेन सेवितव्या सुखार्थिना

21.6

कारुण्येन यशवृद्धिर्भवति
यस्य वाक् कायचित्ते (च) कारुण्येन विभूषिते ।
तस्य मित्रमया लोका भवन्ति यशसा वृताः

21.7

कारुण्यार्द्रस्य विदुषो निर्वाणं याति
कारुण्यार्द्रस्य विदुषो नित्यं मृद्विन्द्रियस्य च ।
सम्यग्दृष्टिप्रयत्नस्य निर्वाणं नाति दूरतः

21.8

कारुण्यविभूषिता मनुष्यलोकं देववद् भूषयन्ति
मनुष्यलोके ते देवा ये कारुण्येन विभूषिताः ।
कारुण्येन दरिद्रा ये ते दरिद्राः सतां मताः

21.9

मृद्वाशया मर्त्याः साधवः
मृद्वाशया हि ये मर्त्याः साधुवत् काञ्चनोपमाः ।
कारुण्यमक्षयं येषां सदा मनसि वर्तते

21.10

के धर्मपरायणा भवन्ति?
ते च सत्त्वाः सदोद्युक्ता नित्यं धर्मपरायणाः ।
येषां कारुण्यदीपेन हृदयं सम्प्रकाशितम्

21.11

न रात्रौ न दिवा तेषां धर्मो हि विनिवर्तते ।
येषां सर्वास्ववस्थासु करुणाभिरतं मतम्

21.12

कारुण्यं शीतलं चित्तम्
कारुण्यशीतलं चित्तं सर्वसत्त्वहिते रतम् ।
भुक्त्वा सौख्यं निरुपमं पश्चाद् गच्छति निर्वृतिम्

21.13

कारुण्यमविनाशि धनम्
कारुण्यं मुनिभिः शस्तं कारुण्यं निर्मलं सरः ।
कारुण्यं दोषनिर्घाति कारुण्यं धनमव्ययम्

21.14

गुणानां भूषणं चाग्रं सर्वदोषविघातकम् ।
कारुण्यार्द्रा हि परमं प्रयान्ति धनमच्युतम्

21.15

कारुण्यं (वै) धनं यस्मान्माधुर्यपयसा युतम् ।
न दाहः क्रोधजस्तस्य हृदये सम्प्रवर्तते

21.16

कारुण्यनावमारुह्य जना भवसागरं तरन्ति
कारुण्यनावमारुह्य प्रीतिर्धैर्यपरायणः ।
त्रिदोषोर्मिमहावेगे भ्राम्यते भवसागरे

21.17

करुणायाः परिभाषा
गुणानामद्वयं श्रेष्ठं विना चित्तेन भूषणम् ।
साधूनां दयितं नित्यं कारुण्यमिति कथ्यते

21.18

मार्दवं यस्य हृदये विलीनमिव काञ्चनम् ।
स जनो हि तु कल्पान्ते दुःखादाशु विमुच्यते

21.19

दयालोः श्रेयांसि रोहन्ति
यस्य पात्रीकृतं चित्तं मार्दवेण समन्ततः ।
श्रेयांसि तस्य रोहन्ति केदार इव शालयः

21.20

चेतोगृहे निधानं तदव्ययं (सर्व)देहिनः ।
निर्वासयति दारिद्रयं नृणामध्याशयं महत्

21.21

तीक्ष्णेन्द्रियस्याशान्तस्य निध्यानस्य विचारिणः ।
विषयेषु प्रमत्तस्य दुःखं नैव प्रधावति

21.22

मैत्रेण चेतसा नित्यमनुकम्पादया पराः ।
ते हेतुफलतत्त्वज्ञा दुःखपाशाद् विनिर्गताः

21.23

न सङ्कल्पे मनो येषां रमते दोषवर्जितम् ।
ते दोषभयनिर्मुक्ताः पदं गच्छन्त्यनुत्तरम्

21.24

क्षान्तिक्रियासमायुक्ते मित्रवानकुतोभयः ।
प्रियो भवति लोके ऽस्मिन् पश्चाद् देवेषु मोदते

21.25

दयारत्नं सदा सेव्यम्
मातृवत् पितृवच्चैव सर्वलोकस्य ते जनाः ।
दयारत्नं सदा येषां मनसि स्थितमुत्तमम्

21.26

कृपैव सुखस्य मूलमस्ति
सुखस्य च परं मूलं कृपैव परिकीर्तिता ।
(हृदि) यस्य कृपा नास्ति स दुःखी परिकीर्त्यते

21.27

मैत्री एव सुखावहा
एकसत्योत्तरं ब्रह्म एकस्यानुत्तरं शिवम् ।
एकविद्या परं माता मैत्री चैका सुखावहा

21.28

अहिंसका एव धन्याः
अहिंसकाः सदा धन्याः सद्दृष्टिः परमा शुभा ।
एतद् ऋजु सदा सत्यं पापानां चापि वर्जनम्

21.29

करुणाया माहात्म्यम्
कर्त्तव्यः पुरुषैस्तस्मात् कृपासंवेगमानसैः ।
दानशीलक्षमामैत्रीज्ञानाभ्यासश्च निर्मलः

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc