भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 20

20.1

॥ इति क्षुधावर्ग एकोनविंशः ॥
(20) कौसीद्यवर्गः
कौसीद्येन ज्ञानहानिः
कौसीद्यमतिमाया च दम्भः पारुष्यमेव च ।
नियातभूमयो दृष्टा ज्ञानस्य च विवर्जनम्

20.2

संश्लेषश्चाप्यसाधूनां साधूनां वर्जनं तथा ।
नाशस्य हेतवः शक्ता मिथ्यादर्शनमेव च

20.3

अदेशकालसंरंभो वाच्यावाच्यमजानतः ।
अनर्थभूमयो ह्येता विस्रम्भश्चापि तन्मयः

20.4

अनर्थभूमयः
येन तेन च सम्प्रीतिः यत्र तत्र च भोजनम् ।
लाघवं जनयत्यन्ते ऽप्रशंसा चात्मनस्तथा

20.5

धैर्यनाशः स्मृतिभ्रंशो विरोधः पार्थिवेन च ।
अक्रान्तमृत्यवो ह्येते क्रूरता मनसि स्थिता

20.6

अकर्माफलतत्त्वज्ञो धर्माधर्मवहिष्कृतः ।
पुरुषः साधुनिर्मुक्तः प्रपातगमनाशयः

20.7

कौसीद्यमतिनिद्रा च रसना गृह्यते तथा ।
पुंद्वेषयोनयः प्रोक्ताः पारुष्यवचनं तथा

20.8

लोभो ऽपमानस्य कारणम्
अतिलोभो ऽपमानश्च अतिमानश्च चापलम् ।
धर्मवर्ज्या कामसेवा मोहस्य परिदीपिकाः

20.9

दोषाणां मूलं कौसीद्यम्
त्रयाणामिह दोषाणां कौसीद्यं मूलमुच्यते ।
वीर्यारम्भेण दुष्यन्ते दोषा मनसि सम्भवाः

20.10

वीर्यारम्भेण हि फलं ह्यवश्यमुपभुज्यते ।
न्यायेनारब्धतत्त्वस्य कर्मणो दृश्यते फलम्

20.11

कर्मणस्त्रिविधस्यास्य फलं त्रिविधमुच्यते ।
त्रिराशिनियतं तच्च त्रिशूलं त्रिभवानुगम्

20.12

कौसीद्यसेविनो दुर्गतिः
पापसेवी प्रचण्डो यः कौसीद्यमपि सेवते ।
धर्मविद्वेषकः क्रूरो ऽनुत्पथानुपधावति

20.13

यस्य तस्य च सन्तुष्टो यस्य तस्य प्रकुप्यति ।
यत्र तत्र च संसक्तो स मूढ इति कथ्यते

20.14

कौसीद्यं (यत्) स्वमनसः प्रमादविषमूर्च्छितम् ।
प्रपातं तं च संरब्धमविसंवादकं परम्

20.15

वीर्यारम्भे महापापकौसीद्यमलवर्जिताः ।
विमुक्तेरुपभोक्तारस्ते जनाः सुखभागिनः

20.16

कौसीद्यं सर्वधर्माणामजरामरकारकम् ।
तेन दोषेण महता नरा दुःखस्य भागिनः

20.17

सहायश्च सुखावेशी तस्मात् तत् परिवर्जयेत् ।
तेन विद्धो हि पुरुषः स्वधिस्तुत्यः समन्ततः

20.18

कुसीदस्याल्पभागस्य मोहापहृतचेतसः ।
कुत्सितः स्वजनैः सर्वैर्न गतिर्विद्यते शिवा

20.19

कौसीद्यरतः पापीभवति
कौसीद्यपापसंसर्गीस्त्यानमिद्धं तथैव च ।
मोक्षद्वारविघाताय भवन्त्येते महाभयाः

20.20

दुःखस्यैतानि हर्म्याणि
आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता ।
दुःखस्यैतानि हर्म्याणि तेभ्यो रक्षेन्नु पण्डितः

20.21

कौसीद्येनाभिभूता ये निरारम्भा गतित्विषः ।
सोच्छ्वासमरणं तेषां जीवितं चापि निष्फलम्

20.22

जीवमाना न जीवन्ति कौसीद्योपहता नराः ।
मृत्योरत्यधिकं ह्येतत् कौसीद्यमिति मन्यते

20.23

आरब्धवीर्या एव भवसागरं तरन्ति
कौसीद्यपङ्कमग्ना ये मग्नास्ते दुःखसंस्तरे ।
आरब्धवीर्या ये पुंसस्ते तीर्णा भवसागरात्

20.24

कौसीद्यान्मन्दवीर्यो यः सदा पापरतश्च यः ।
स जीवमानो ऽपि मृतो मृतस्तु नरकाय सः

20.25

मानवानां निर्धनत्वे कौसीद्यं कारणम्
निर्धनाः पशुभिस्तुल्यास्ते नरा दुःखभागिनः ।
परपिण्डाशिनो दीनाः कौसीद्यं तत्र कारणम्

20.26

प्रायशस्तु कुसीदानां परदारोपजीविनाम् ।
रताभिलाषो ऽत्यधिको मैथुने च सदा रतिः

20.27

ते तत्त्वकारिका रिक्ताः केवलाहारतत्पराः ।
मृत्युकाले समुत्पन्ने दह्यन्ते स्वेन चेतसा

20.28

शीतोष्णं च सहन्त्येते क्षुत्पिपासे तथैव च ।
गात्रान्ता च क्रिया कार्या यात्रा धर्माय सर्वदा

20.29

अतः कौसीद्ये न मतिः कार्या
न कौसीद्ये मतिं कुर्यात् कुशीले शीलकामुकः ।
संसारे सीदति नित्यं न च दुःखात् प्रमुच्यते

20.30

कुदीदान्वितः लोकवञ्चितो भवति
परिभूय सतां मध्ये कुसीदाल्लोकवञ्चितः ।
वञ्चितश्च भवत्यन्ते शर्मणो वा विमुच्यते

20.31

धर्मेण विमुक्तिर्भवति
वीर्यवान् स्मृतिसंलब्ध एकान्तनिरतः सदा ।
विमुक्तपापकैधर्मैर्मोक्षं प्राप्नोति यत्नतः

20.32

कुकर्मेषु मतिः न कार्या
एवंविधा दुःखपरम्परा हि, सत्त्वः कुकर्मेषु (मतिं) न कुर्यात् ।
लोके त्रिदोषानलसम्प्रदीप्ते, कुर्यात् परां शान्तिकृपा मृते न

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc