भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 19

19.1

॥ इति तिर्यग्वर्गो ऽष्टादशः ॥
(19) क्षधावर्गः
क्षुधापीडिता नरा अशुभं कुर्वन्ति
संसारे प्रायशो दुःखं त्रैधातुकक्षुधामयम् ।
येनेमे पीडिताः सत्त्वाः कुर्वन्त्यशुभमात्मनः

19.2

स्वदेहे युक्तितो वह्निर्बुभुक्षेत्यधीयते ।
शेषो दहति लोकान् वै कल्पानल इव द्रुमान्

19.3

लोकोत्तरमिमं वह्निं गच्छन्तमनुगच्छति ।
नात्मनिर्वाणसन्दृष्टं कल्पान्तरशतैरपि

19.4

नानलस्य हि तद्वीर्य क्षुधाया यादृशं बलम् ।
त्रैधातुकमिदं कृत्स्नमाहारं प्रति वर्तते

19.5

मोहयेद् विविधा चिन्ता लोके मनुजसम्भवाः ।
ताः सर्वा भोजनार्थाय भवन्ति त्रिभवार्णवे

19.6

दुःखमनिर्वचनीयम्
अन्तराभवसंस्थस्य कृष्यमाणस्य कर्मभिः ।
दीर्घागमस्य यद् दुःखं न तद् वर्णयितुं क्षमम्

19.7

अविद्येन्धनमग्नस्य दह्यमानस्य चोष्मणा ।
गर्भस्थस्य हि यद् दुःख न तद् वर्णयितुं क्षमम्

19.8

आहाररसगृद्धस्य नित्यं तद्गतचेतसः ।
यद् दुःखं परगृद्धस्य न च वर्णयितुं क्षमम्

19.9

दृढा विदग्धमनसः कामे वा तप्तचेतसः ।
यद् भवत्यधिकं दुःखं न तद् वर्णयितुं क्षमम्

19.10

अप्रियैः सह संसर्गो विषयास्तस्य नित्यशः ।
प्रणष्टे हृदि यद् दुःखं न तद् वर्णयितुं क्षमम्

19.11

तृष्णाविषविदग्धस्य नित्यं पर्येषणात्मकम् ।
आमृत्यु यद् भवे दुःखं न तद् वर्णयितुं क्षमम्

19.12

अव्युच्छिन्नं बहुविधं यद् दुःखं पापमित्रजम् ।
अपायजनकं यस्य न तद् वर्णयितुं क्षमम्

19.13

व्यसनं पुत्रदाराणां यद् दृष्ट्(वा) हृदि जायते ।
नरकाणां महामार्गो न तद् वर्णयितुं क्षमम्

19.14

क्षुत्पिपासाविदग्धस्य दीप्यमानस्य वह्निना ।
यद् दुःखं नष्टमनसो न तद् वर्णयितुं क्षमम्

19.15

अजस्त्रं परिभूतस्य मित्रज्ञातिसुहृज्जनैः ।
यद् भवेच्छोकजं दुःखं न तद् वर्णयितुं क्षमम्

19.16

दारप्रलम्बनगतं दुश्चलं प्रियचेतसः ।
यद् दुःखं जीर्णकायस्य न तद् वर्णयितुं क्षमम्

19.17

मृत्युना ह्रियमाणस्य तस्मांल्लोकात्मनो रसात् ।
यद् दुःखं जायते वृत्तौ न तद् वर्णयितुं क्षमम्

19.18

दानैरशुभनाशः
यत् कुर्वन्त्यशुभं बाला यच्च गच्छति दुर्गतिम् ।
तदाहरति दानेन कथयन्ति मनीषिणः

19.19

अतः सुकृतेषु मनः कार्यम्
प्रतिदुष्कृतकर्माणि वर्जनीयानि सर्वदा ।
सुकृतेषु मनः कार्य दानशीलविभूषितम्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc