Dharmasamuccaya · अध्याय 1
भिक्षुणा अवलोकितसिंहेन समुद्भावितः
धर्मसमुच्चयः
प्रथमम् उदानम्
(जितधर्मकायवर्गाः परिवर्तो ह्यनित्यता ।
अप्रमादः कामतृष्णे स्त्री च मद्येन ते दश ॥ ) ॥
(1) जितवर्गः
मङ्गलाचरणम्
॥ ओम् नमो बुद्धाय ॥
प्रहीणसर्वास्रव निर्मलश्रीर्यः क्लेशजम्बालनिमग्नलोकम् ।
कृपागुणेनोदहरत्समेन प्रणम्यते ऽस्मै त्रिभवोत्तमाय
ग्रन्थकारप्रतिज्ञा
सद्धर्म स्मृत्युपस्थानसूत्रवैपुल्यसागरात् ।
गाथाः समुद्धरिष्यामि लोकलोचनतत्पराः
मोक्षस्यायतनानि षट्
अप्रमादस्तथा श्रद्धा वीर्यारम्भस्तथा धृतिः ।
ज्ञानाभ्यासः संताश्लेषो मोक्षस्यायतनानि षट्
नव शान्तिसम्प्राप्तिहेतवः
दानं शीलं दमः क्षान्तिर्मैत्रीभूतेष्वहिंसता ।
करुणामुदितोपेक्षा शान्तिसम्प्राप्तिहेतवः
नरकस्याग्रहेतवः
चापल्यं पापसंश्लेषः क्रूरता वितथं वचः ।
मिथ्यादृष्टिः प्रमादश्च नरकस्याग्रहेतवः
प्रेतेषु षट् उद्भवकारणानि
मात्सर्यमीर्ष्या कटुवाक्यता हि प्रमादसेवा विरतिः शुभाच्च ।
तत्त्वेष्वभिद्रोहरतं मनश्च प्रेतेषु पन्थान इहोद्भवन्ति
तिर्यग्योनौ उद्भवसाधनानि
अज्ञानसेवा जड (ता) च बुद्धेः सद्धर्मनाशः प्रियमैथुनत्वम् ।
आहारशक्तिः प्रबला च निद्रा तिर्यग्गतौ च प्रवदन्ति हेतुम्
कर्मफलम्
अशुभं त्रिविधं कृत्वा कायवाङ्मनसां महत् ।
उत्तरोत्तरसम्बद्धं कर्मणा सम्प्रदृश्यते
बालानामपि सम्बद्धमुत्तरोत्तरमेव तत् ।
शुभञ्च त्रिविधं कृत्वा साधवो यान्ति निर्वृतिम्
तस्मात् कर्मफलं मत्वा प्रमादस्य च वर्जनम् ।
श्रेयसे क्रियते बुद्धेरेतत् सुखमनुत्तमम्
दानशीलवतो नित्यं सर्वसत्त्वानुकम्पिनः ।
सिद्धयन्ति सर्वशस्तुल्यास्तस्माच्छीलपरो भवेत्
कस्य कार्यसिद्धिः भवति?
मैत्रीकरुणायुक्तस्य गताकांक्षस्य देहिनः ।
परानुग्रहयुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता
सन्तुष्टस्याप्रमत्तस्य सर्वसत्त्वहितैषिणः ।
रागद्वेषविमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता
मित्रामित्रप्रहीणस्य समचित्तस्य देहिनः ।
अपायगतिभिन्नस्य कार्यसिद्धिर्ध्रुवं स्थिता
एवं च तस्य धीरस्य धर्मदानरतस्य च ।
मात्सर्येर्ष्याप्रमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता
संवरस्थस्य शान्तस्य गुरुपूजारतस्य च ।
कार्याकार्यविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता
अशठस्यातिदक्षस्य प्रियवाक्यस्य नित्यशः ।
ध्यानाध्ययनशक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता
देशकालविधिज्ञस्य साध्यासाध्यं विजानतः ।
शक्योपायविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता
क्रोधादिविजयसाधनमुखेन धर्मतास्वरूपनिरूपणम्
अक्रोधेन हतः क्रोधः क्षमया क्रूरता जिता ।
धर्मेण निर्जितो ऽधर्मः प्रभया विजितं तमः
सत्यादेः प्रशंसा
मृषावाक्यं सत्यहतं पैशुन्यं च समाधिना ।
पारूष्यं मार्दव जितं अबद्धं बन्धना जितम्
प्राणातिपातो मैत्र्या च स्तेयं दानैः सदा जितम् ।
अयोनिशोमनस्कारो योनिजेन सदा जितः
अविद्या विद्यया जिता दिवसेन तथा क्षपा ।
शुक्लपक्षेण च कृष्णपक्षो (हि) सर्वशो जितः
मिथ्याकामेष्वविजितो बुद्धया तत्त्वविचारया ।
आर्याष्टाङ्गेन मार्गेण योनिजेन सदा जितः
वैशारद्यैश्चतुर्भिश्च कदर्य जितमेव तत् ।
विस्मृतिश्च हता स्मृत्या क्षणेनात्मानमेव च
अरण्यवासनियतैर्जिता रागवशा नराः ।
मेरुणा पर्वता जिता (वृक्षेण) वनमालिका
समुद्रेण जिता सर्वे तीर्था (हि) जलसम्भवाः ।
आदित्यतेजोविजिता सर्वे च ग्रहतारकाः
नित्या जिता अनित्येन दारिद्रयं दानसम्पदा ।
शाठ्यं न मार्दव जितं सत्येनानृतिको हतः
भूतेन निर्जितो ऽभूतो वह्निना तरुसम्पदः ।
पिपासा विजिता तोयैर्जिघित्सा भोजनैस्तथा
वीर्यप्रशंसा
सिंहेन विजिताः सर्वे मृगाः सत्त्वाधिकाश्च ये ।
सन्तापेन महेच्छा च जिता नित्यं प्रकीर्त्यते
दया प्रशस्यते नित्यमदया नैव शस्यते ।
वीर्येण निर्जितं सर्व कौसीद्यं मोहवर्धनम्
तत्त्वदर्शिपुरुषप्रशंसा ज्ञानाधिकैः सदा दान्तैः पुरुषैस्तत्त्वद(र्शि)भिः ।
विजिताः क्रूरकर्माणो मिथ्यावादाधिका नराः
बुद्धेन निर्जिताः सर्वे तीर्थ्याः कुटिलवादिनः ।
असुरा विजिता देवैर्धर्मतेयं व्यवस्थिता
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0