भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 18

18.1

॥ इति प्रेतवर्गः सप्तदशः ॥
(18) तिर्यग्वर्गः
परद्रोहं कदापि न कुर्यात्
भक्षणं भवदन्योन्यवधबन्धावरोधनम् ।
तिर्यग्योनिं समासाद्य तस्माद् द्रोहं विवर्जयेत्

18.2

मोहोपहतचित्ताश्च शीलदानविवर्जिताः ।
तिर्यग्योनौ व जायन्ते बालास्तृष्णाविडम्बिताः

18.3

गम्यागम्यं न विन्दन्ति भक्ष्याभक्ष्यं तथैव च ।
कार्याकार्यबहिर्भूता धर्माधर्मतिरस्कृताः

18.4

पञ्चेन्द्रियजरामूढास्तृष्णापाशवशानुगाः ।
क्रोधेर्ष्यामतिसंग्रस्तास्तिर्यग्योन्युपगा नराः

18.5

पर्येष्ट्युपहता मर्त्याः प्रमादोपहताः सुराः ।
क्षुत्तर्षव्यसनाः प्रेताः कारणात्ते च नारकाः

18.6

के तिर्यग्योनिपरायणाः?
परस्परबधात्युक्तास्तिर्यग्योनिपरायणाः
एवं बहुविधैस्तैस्तैर्व्यसनैराकुलं जगत्

18.7

मात्सर्योपहतो दुष्कृत न कुर्यात्
न कुर्याद दुष्कृतं कर्म मात्सर्योपहतः परम् ।
मात्सर्योपहता यान्ति प्रेतास्तिर्यक्षु जन्तवः

18.8

केषां सफलं जन्म?
तेषां हि सफलं जन्म तेषां बुद्धिरवञ्चिता ।
ते च पूज्याः सदा सद्भिर्येषां धर्मे सदा मतिः

18.9

ज्ञानरथावरूढैर्मुक्तिर्भवति
एवं त्रिदोषाकृतकर्मसारं जगद् भ्रमत्येव दुरावगाधम् ।
करोति यस्तस्य च शुद्धसत्त्वो ऽवमाननां ज्ञानरथावरूढः

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc