भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 17

17.1

॥ इति नरकवर्गः षोडशः ॥
(17) प्रेतवर्गः
अदानस्य कुतः सुखम्?
अदान्तस्य कुतः शान्तिरनुप्तस्य कुतः फलम्? ।
अदीपिका प्रभा नास्ति अदानस्य कुतः सुखम्

17.2

हृच्छान्तिर्हि तथा नास्ति नयनार्थस्य देहिनः ।
दानेन विरहात् तद्वत् सुखं प्रेतैर्न लभ्यते

17.3

कुकर्मी प्रेतलोकं गच्छति
यं प्रेत्य प्रेतलोकस्य त्रिलोके च यथाधमाः ।
भ्रमेण परमोद्विग्नास्तन्मात्सर्यकृतं फलम्

17.4

न दात्रा लभ्यते किञ्चित् कृतनाशो न विद्यते ।
स्वकर्मफलभोक्तारः प्राणिनः कर्मभोगिनः

17.5

तव यत्कुकृतं दग्धाः प्रेत्यलोकेष्ववस्थिताः ।
क्षुत्पिपासामयेनेह वह्निना परिदीपिताः

17.6

कदा तु विषयो ऽस्माकं भविष्यति सुखोदयः ।
परिदाहात् कदा चास्मात् परिमोक्षो भविष्यति

17.7

मार्गामार्गविहीनो दुःखित एव जीवति
मार्गामार्गविविक्तो ऽहं न ज्ञातं कर्मणः फलम् ।
क्षुत्पिपासामयो वह्निरज्ञातः प्रकटोदयः

17.8

क्लेशान्धकारवदना निराशास्त्यक्तजीविकाः ।
त्वक्स्नायुजालबद्धाः स्म जीवामो बत दुःखिताः

17.9

न त्राता सर्वतो ऽस्माकं हन्त कृच्छ्रगता वयम् ।
उत्पन्नेषु मनुष्येषु खण्डिताः स्वेन कर्मणा

17.10

कस्मान्न चरितो धर्मो रत्नदीपेषु सञ्चितः ।
यः करोति शुभं नित्यमशुभं न च सर्वदा

17.11

समदृष्टिपथेनैति स्वर्गसोपानमाश्रितः ।
येषामर्थे कृतं पापं क्लेशयन् मानसं बहु

17.12

अनेन ते गताः सर्वे भवानां त्रासने स्थितः ।
बद्धो ऽसि बन्धनैस्तीव्रैर्यमदत्तैरधिष्ठितः

17.13

पापरज्ज्वाकृष्यमाणः स्वकृतं भुनक्ति
प्राप्तो ऽसि तमसो घोरं यमलोकं दुरासदम् ।
इहोपभोक्ष्यसे कर्म यत्त्वया कुकृतं कृतम्

17.14

स्वकृतं भुज्यते बाल! परेषां नैव भुज्यते ।
आकृष्यमाण एषो ऽत्र पापरज्ज्वा सुघोरया

17.15

अनलः प्रेतलोकस्य क्षुत्पिपासामयो महान्
नाग्निशस्त्रविषाणां हि निपातस्तादृशः कटुः

17.16

क्षुत्पिपासामयाग्नेश्च निपातो यादृशः (कटुः) ।
न क्षणो नापि हि लवो न मुहूर्तो न शर्वरी

17.17

दुःखान्विता वयम्
यत्र सौख्यं भवेन्मृत्युर्नित्यं दुःखावृता वयम् ।
दुःखाद् दुःखतरं प्राप्तो दुःखहेतुर्निषेवितः

17.18

दुःखात् कदाचिन्मोक्षः स्याद् भविष्यति सुखोदयः ।
नोत्सवे दृश्यते तोयं तडागेषु च शुष्यति

17.19

कर्मफलस्वरूपनिरूपणम्
सरितो नाशमायासुः कथं धावामहे चयम् ।
ते वयं शुष्कसलिलाः सशैलवनकाननाः

17.20

परिधावामहे भूमौ नित्यं सलिलकांक्षिणः ।
ते वयं दग्धतनवः क्षुत्पिपासाहता नराः

17.21

शरणं नाधिगच्छामः कष्टं व्यसनमागताः ।
वज्रदंष्ट्रैर्महातीक्ष्णैः काकोलूकैश्च सम्मतः

17.22

अभिद्रुतो न पश्यामि शरणं सौख्यदायकम् ।
प्रतिबिम्बमिदं तस्य कर्मणः समुपस्थितम्

17.23

कृतं कर्म यथास्माभिस्तथेदं फलमागतम् ।
कर्मवायुरगा बद्धाः कर्मसूत्रेण पाचिताः

17.24

कर्मक्षयादृते न मुक्तिः
पलायनं न पश्याम ऋते कर्मक्षयादिति ।
यस्य पापान्यनिष्टानि वह्निवत् तानि पश्यति

17.25

कीदृशं प्रेतभवनम्?
स नैति प्रेतभवनं क्षुत्पिपासानलावृतम् ।
मुहुर्मुहुः प्रवर्धन्ते वेदना नरकोद्भवाः

17.26

ज्वालामालाकुलस्यैव शैलस्य सदृशा वयम् ।
ज्वलितः शाम्यते शैलः सलिलेनैव सर्वथा

17.27

स समुद्रोपमो वह्निरम्माकं नैव शाम्यति ।
कस्मिन् क्षणे समुद्भूतस्तृष्णावायुसहायवान्

17.28

कर्माग्निर्निर्दहत्यस्मान् परिवार्यसमन्ततः ।
ते वयं पापकर्माणः शुक्लधर्मविवर्जिताः

17.29

प्रेतलोकमिमं प्राप्ताः स्वर्गस्य फलमोहिताः ।
क्षुत्पिपासामयो वह्निर्द्वितीयश्चाग्निसम्भवः

17.30

कुकर्मणैव मुद्गराशिमया जनाः प्रेतभवनं गच्छन्ति
मुद्गराशिमया(दाराः) न पुत्राः न च बान्धवाः ।
वञ्चितो ऽस्मि स्वचित्तेन कर्मणा परिवञ्चिता

17.31

प्राप्तो ऽस्मि प्रेतभवनं मित्रज्ञातिनिराकृतः ।
न दाराः नापि मित्राणि न पुत्राः नापि बान्धवाः

17.32

कुकृतफलनिरूपणम्
त्रायते कर्मपाशेन नीयमानं बलीयसा ।
नान्यस्त्राता यथा कर्म त्रिविधं भुज्यते मया

17.33

दानं शीलं श्रुतं चापि त्रिविधं परिकीर्तितम् ।
मोहजालवृतेनेह यन्मया कुकृतं कृतम्

17.34

शुभकर्मणैव प्रेतलोकात् मुक्तिर्भवति
कर्मणो हेतुभूतस्य यत्कृतं फलमागतम् ।
यदि मुच्यामहे पापात् प्रेतलोकाद् दुरासदात्

17.35

अशुभानि कुकर्माणि विवर्जयेत्
न भूयः पापकं कर्म करिष्यामि कथञ्चन ।
उष्णान्युष्णविपाकानि महापीडाकराणि च ।
कुकर्माण्यशुभानीह तस्मात्तानि विवर्जयेत्

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc