भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 16

16.1

॥ इति पापवर्गः पञ्चदशः ॥
(16) नरकवर्गः
अष्टौ नरकाग्नयः
कृत्वा दुष्कृतकर्माणि सत्त्वा विषमजीविनः ।
या गतिः प्रेत्य गच्छन्ती तानपायान् (हि मे) शृणु

16.2

सञ्जीवं कामसूत्रं च सम्पातं द्वौ च रौरवौ ।
तमोपरं महाचित्रपतनं च प्रतापनम्

16.3

इत्येते नरका अष्टावाख्याता दुरतिक्रमाः ।
रौद्रकर्माभिसङ्कीर्णाः प्रत्येकं क्षोभदा (मताः)

16.4

नरकाग्नीनां भयानकत्वम्
चतुःस्कन्धाश्चतुर्द्वारा विभक्ता भागशो मिताः ।
अयः प्राकारपर्यन्ता अयसा प्रतिदुःखिताः

16.5

तप्तायोमयसं भूमिर्ज्वलन्ती तेजसोद्गता ।
अनेकयोजनशतं दहति स्वचिंषा(भृशम्)

16.6

कन्दर्पदमना घोरा अर्चिष्मन्तो दुरासदाः ।
रोमहर्षणरूपास्ते ऽप्याहुर्दुःखा भयानकाः

16.7

नरके पतिता भृशं तप्यन्ते
एते पतन्ति नरके ऊर्ध्वपादा अवाङ्मुखाः ।
ऋषीणामतिवक्तारः संयतानां तपस्विनाम्

16.8

ते पुनस्तत्र पच्यन्ते तप्ताम्भसि कृता इव ।
क्रन्दमाना दिवारात्रौ, नगा वातेरिता इव

16.9

प्रणदन्ति महानादं तीव्रदुःखैः प्रतापिताः ।
सर्वा दिशश्च धावन्ति नारकैः पुरुषैर्द्रुताः

16.10

कुदृष्ट्या मोहयित्वार्थे मोहपाशावृतो जनः ।
प्राप्नोति नरकं घोरं कारणोदधिसंवृतः

16.11

कुदृष्ट्या दग्धसर्वस्वो मनुष्यः पुरुषाधमः ।
तथा बद्धो ऽस्ति नरके मानिनां घोरकारणम्

16.12

ये मिथ्यावशमापन्नाः पुरुषा मन्दमेधसः ।
ते सर्वे नरकं यान्ति चित्तैर्हि परिवञ्चिताः

16.13

कुकृतफलम्
यस्त्वया दुष्कृतं पूर्व कृतं चित्तानुवर्तिना ।
तस्य भुङ्क्तफलं मूढ विपाकोत्तम (माप्स्यसि)

16.14

हार्याणि परिचित्तानि, संसेव्याः परयोषितः ।
ह्रस्वा (हि) जन्तवो नित्यं स्वचित्तपरिवञ्चिताः

16.15

तस्य कर्मविपाकस्य वश एव त्वमागतः ।
किं क्रन्दसि स्वयं कृत्वा कुकर्म पुरुषाधम!

16.16

ये नराः कुकृतं कृत्वा पञ्चत्वं यान्त्यमेधसः ।
येषां तु निष्फलं जन्म बीजमुप्तं यथोषरे

16.17

अल्पमाधुर्यसंयुक्तान् कामान् कटुविपाकिनः ।
सेवते यस्त्वसौ मूढः स याति तमसो तमः

16.18

किं कृतं मूढ भवता पुत्रदारसुखार्थिना ।
दहस्ये नरके चैकः स्वकर्मफलवञ्चितः

16.19

केषां दुष्करं जीवनम्?
यः पुत्रदारवशगः सेवते दुष्करं नरः ।
स याति नरकत्वं (च) पापं तदनुभूयते

16.20

न दारा न सुता नार्थ न मित्राणि कथञ्चन ।
मृत्युकाले समुत्पन्ने रक्षन्ति समुपस्थिताः

16.21

येषां सांक्लेशिकं चित्तं तृष्णया परिवञ्चितम् ।
सहायता कुतस्तेषां कस्मात् (त्वं) परितप्यसे?

16.22

हृतो ऽसि पूर्वविषयैस्तृष्णया परिवञ्चितः ।
किं क्रन्दसि स्वयं कृत्वा कुकृतं मूढचेतनः

16.23

न तथाग्निर्न शस्त्राणि न विषं नारयः स्थिताः ।
बाधते पुरुषं लोके यथा दुष्कृत्यमात्मजम्

16.24

पक्षिणां नीडवासवत् भवचक्रम्
दिग्भागे हि यथा गत्वा संश्रयन्ते वनस्पतीन् ।
विहगाः कालमुत्थाय तथा प्राणिसमागमः

16.25

नाशयित्वा परं द्रव्यं कृत्वा लोकव्यतिक्रमं ।
किं करोत्यशुभं कर्म मोहेन परिवञ्चितः

16.26

येन याति परां शान्तिं येन यात्यसुरालयम् ।
तत्र हेतुः परं मोहस्तमसामपि यत् तमः

16.27

कुटुम्बाय कृतं पापं नरके पातयति
पुत्रदारमयैः पाशैश्चानीता नरकालयम् ।
यदर्थ क्रियते पापं युष्माभिश्चित्तवञ्चितैः

16.28

मित्राणि पुत्राः (पितरौ किं) बन्धुजनबान्धवाः ।
येषामर्थे कृतं पापं भवद्भिर्मन्दबुद्धिभिः

16.29

नूनमात्मा न ते कान्तो बभूव नरभूमिषु ।
येन त्वया कृतं पापं पुत्रार्थेन नराधमः

16.30

येन पूर्वकृतं पापं पश्चान्न परितप्यते ।
स याति नरकं घोरं पुत्रकारणवञ्चितः

16.31

पापकर्मफलम्
किं करिष्यन्ति पुत्रास्ते किं दाराः किं च बान्धवाः ।
दहस्यनादिनरके वह्निः कर्म दुनोत्यसौ

16.32

स्वयं कृत्वाशुभं कर्मासुखोदयमनिन्दितः ।
तप्यसे ऽपि वृथाधानः पश्चान्मोहेन वञ्चिकः

16.33

रागद्वेषानुगाः पापं मोहेन परिवञ्चिताः ।
अघं प्रयान्ति ते सर्वे पुत्रदारसुखार्थिनः

16.34

अन्तर्गतेन च पुनर्बहिःस्थेन च वह्निना ।
दह्यमानो(हि)दुःखेन नरके पापकर्मणा

16.35

वशं प्राप्ताः स्वचित्तस्य सर्व एव विडम्बिताः ।
किं क्रन्दसि वृथा नादे वह्निना परितापितः

16.36

पापानुगफलं दृष्टम्
अथ पापानि कर्माणि कृतवानसि मन्यसे ।
दुर्मते तत्र मा क्रन्द किं वृथा परिदेवसे

16.37

पापेषु रक्ष्यते मूढः कारणाशुचि रक्ष्यते ।
पापानुगफलं दृष्टं हेतुप्रत्ययसम्भवम्

16.38

कस्मान्न सेवितो धर्मः पापञ्च नहि वर्जितम् ।
पापाद् बहिश्च पुरुषो नरकं नैव पश्यति

16.39

यो न विन्दन्ति मूढात्मा फलं पापस्य कर्त्तृकम् ।
सो ऽवश्यं लभते दोषान् कथं भोक्ष्यसि दुर्मते

16.40

पापेन वञ्चित पूर्वं पापेन परिदह्यते ।
न करिष्यसि पापानि त्वदुःखेनैव यास्यसि

16.41

कृतवानसि पापानि शुभानि न कथञ्चन ।
पापेन दह्यते तस्मादशुभे न मनः कृथाः

16.42

किं दुःखादपि दुःखम्?
नास्ति दुःखादतो दुःखं यः पापमनुसेवते ।
तस्मात् पापं न सेवेत यदि दुःखं न वाञ्छसि

16.43

कुटुम्बिजनानां स्पष्टोक्तिः
तस्यान्तर्हृदये बिम्बं किन्तु शान्तिर्न विद्यते ।
कारुण्यास्पदभूताः स्मो नास्माकं करुणाहृदि

16.44

यथा कृतं भवद्भिश्च पापं मोहावृतैर्बहु ।
तद् वः प्रधावते गाढं न च ये तत्र हेतवः

16.45

शीलं न रक्षितं मूढ पापं च बहु सञ्चितम् ।
सम्भूतस्य च पापस्य फलमेतदुपस्थितम्

16.46

न वयं कारणं तत्र यूयमेव हि कारणम् ।
यः पापं कुरुते कर्म स हेतुस्तस्य कर्मणः

16.47

भवद्भिर्यत् कृतं पापं तृष्णाशापविडम्बितैः ।
तद् वो प्रपद्यते घोरं किमस्मान् परिभाषत

16.48

नाकृतं पच्यते पापं न पापं स्यादहेतुकम् ।
येन यद्धि कृतं पापं तस्य तत् परिपच्यते

16.49

पापी नरकं याति
तद् भवन्तः क्रियाहीना मद्यपानेन वञ्चिताः ।
पतिता नरके तीव्रे किं वृथा परितप्यथ

16.50

ते यूयं कामपरमाः घोरं नरकमागताः ।
कारणेष्वपि तीव्रेषु किं तथा परितप्यथ

16.51

यदा कृतानि पापानि भवद्भिः काममोहितैः ।
तदा कस्मान्न निकृष्टं किमद्य परितप्यथ

16.52

हेतुभूतो हि नरको मृषावादस्य देशितः ।
हेतुर्वै सेवितं पूर्व निष्फलं परिदेवथ

16.53

नार्थेन लभते सत्यं न कृच्छ्रेणोपपद्यते ।
तस्मात् सत्यं परित्यज्य मृषावादेषु रज्यसे

16.54

पूर्वेषु पापमहितं भवता मूढचेतसा ।
कृतं भवद्भिः कुकृतं (दुष्कृत्यं) परिपच्यते

16.55

पापक्षयाद् विनिर्मुक्तो नरकं नोपलभ्यते ।
नाक्रन्दमानाः पुरुषाः विमुच्यन्ते कथञ्चन

16.56

पापकर्तृ फलं स्वयमेव भुङ्क्ते
किं क्रन्दथ वृथा मूढा वञ्चिताः स्वेन कर्मणा ।
मुञ्चिता वञ्चिता बाला वृथा क्रन्दन्त्यबुद्धयः

16.57

अहितैर्हितरूपैस्त्वं मित्ररूपैश्च शत्रुभिः ।
विप्रलब्धो ऽसि भो मर्त्य! गच्छन्नसि महत् तमः

16.58

नान्यः शत्रुर्यथा कर्म दुष्कृतं तव पापकम् ।
कर्मणा त्रिविधेनाथ नीयसे यमसाधनम्

16.59

कस्मादसि ततो मूढ, वञ्चितः पुत्रसंज्ञकैः ।
न दानादिषु बुद्धिस्तैः कृता (ते) मोहवञ्चिता

16.60

अस्मांल्लोकात्परं लोकं शत्रुपृष्ठोरगो यथा ।
शत्रूणां प्रथमः शत्रुः सर्वपापनिदर्शकः

16.61

विषाग्निशस्त्रप्रतिम! स्वयं हि दुष्कृतं कृतम् ।
त्वया कृतानि कर्माणि त्वमेवमनुभोक्ष्यसे

16.62

यस्य शान्तं सदा चित्तं विषयैर्यो न हन्यते ।
न ह्यवस्थामिमां यान्ति तथात्वमनुपश्यसि

16.63

नरकस्य ध्वनिं श्रुत्वा कथं क्रन्दसि दुर्मते! ।
किं पुनर्यत्र वह्निस्त्वां धक्ष्यति शुष्ककाष्ठवत्

16.64

न दग्धा वह्निना ये च दग्धास्ते कुकृतैः स्वकैः ।
वह्निस्तु शाम्यते क्वापि दुष्कृताग्निर्न शाम्यति

16.65

नाग्निर्निर्याति लोकान्तं नाग्निस्पृष्टो नरो (मृतः) ।
कुकृताग्निमयं पापं यद् धक्ष्यति हि तत्त्वतः

16.66

कुकृताग्निविदग्धा ये ते दग्धा नरके नराः ।
पापाग्निवर्जिता ये तु न तेषां नरकोदयः ।
यद्यात्मनः प्रियो नित्यं विभेषि नरकाद् यदि

16.67

विवर्जय स्वपापानि ततो दुःखं न यास्यसि ।
यान्ति पापमये नित्यं(नरा) मोहवशानुगाः

16.68

प्राप्नोषि नरकं घोरं किमश्रूणि विमुञ्चसि? ।
दुःखं दुःखविपाकं च दुःखान्तगमनं तथा

16.69

सुकृतं नादिमध्यान्तशोभनं परिपच्यते ।
नात्र लोके त्वयापापं यत्कृतं सुकृतं (मुहुः)

16.70

तस्य तीव्रविपाकस्य फलमद्योपभोक्ष्यसे ।
हेतुप्रत्ययसादृश्यं विपरीतं न कल्प्यते

16.71

हेतुः कृतो यथा पूर्व तथा फलमवाप्स्यसि ।
यथा तव तथान्येषां प्राणरक्षा प्रयत्नतः

16.72

कस्मात् प्राणातिपातास्ते कृताः पापानुवर्तिना ।
प्राणत्यागेन पुरुषैर्यद् धनं समुपार्जितम्

16.73

कर्मोदयकृतं तत्ते यत्त्वया समुपार्जितम् ।
सर्वेषां दयिता दाराः प्राणेभ्यो ऽपि गरीयसः

16.74

तत्त्वया रागरक्तेन कस्मादपकृतावनात् ।
बुद्धेर्व्यामोहजनकं धर्माणां दूषणं परम्

16.75

धर्मपानं त्वया कार्य कर्मानुपरिवर्जितम् ।
जिह्वाविषसमुत्थं यत् सर्वाप्रत्ययकारकम्

16.76

मृषावादं त्वया पापं कर्मानुपरिवर्जितम् ।
एवं पञ्चविधेयेषु यस्मात् त्वमनुरक्तवान्

16.77

तस्मात् संमुक्ष्य मा रोदि किं वृथा परिदेवसे ।
विषयं पापका धर्मा यस्मान्नु परिवञ्चितः

16.78

तस्मात् प्राप्नोषि नरकं ज्वालामालाकुलं महत् ।
एतत् तृष्णाग्निना सर्व प्रदीप्तं भुवनत्रयम्

16.79

धर्माचरणे सावहितेन भवितव्यम्
दृष्ट्वा नाचरितो धर्मः किमद्य परितप्यसे ।
(श्रुत्वा) ते मधुरं चित्तं काममन्दिरकं वचः

16.80

उदीरिते महापापे तस्मै तत्फलमागतम् ।
स कृत्वा पापकं कर्म नियता पापवेदना

16.81

करुणं विकलं दीनं किमद्य परितप्यसे ।
कर्मक्षयेण नरकात् मुच्यन्ते पापकारिणः

16.82

विक्रोशमग्ना बहुशो न मुच्यन्ते कथञ्चन ।
अनिष्टं पापकं कर्म कृत्वा रोगवशे स्थिताः

16.83

अज्ञानिनो ऽशुभमाचरन्ति
परिदेवति यो मूढो वृथा स परिदेवति ।
अनागतफलज्ञो यः प्रत्युत्पन्नशुभे रतः

16.84

क्रोशते नरके नासौ यथा त्वमनुतप्यसे ।
मया कृतानि कर्माणि फलदानि ममैव हि

16.85

रोगेण शत्रुणा दग्धः पश्चान्नरकमागतः ।
प्रमादभूमिरशुभा रागदग्धस्य देहिनः

16.86

तेन पाशेन बद्धो ऽहं गतो ऽवस्थामिमां भृशम् ।
दुराचाररतानां तु नृणामस्य फलं कटु

16.87

अज्ञानबाधितो ऽस्मीति स्वकृतं भुज्यते मया ।
निर्दयानां सुघोराणां पापानां वशमागतः

16.88

मुक्तिः कथं स्यात्?
मुक्तिरस्मात् कथं स्याद्वै दुःखसंसारसागरात् ।
दुःखाद् दुःखतरं कर्म मयेदं परिपच्यते

16.89

सुखावाप्तिं न पश्यामि क्षेमं वा नरकस्य मे ।
जीवलोकादहं भ्रष्टो अबुद्ध इव मार्गतः

16.90

जीवो ऽयं विवशो भूत्वा विकृतैः परिवारितः ।
ज्वालामालाकुलं सर्वमन्तरिक्षं निरन्तरम्

16.91

दिशश्च त्रिदिशश्चैव पृथि(वी) च निरन्तरा ।
कृपणो ऽज्ञानगो दुःखी निवासं नोपलक्षये

16.92

क्षुरधारावितप्तस्य नृपस्यास्यातिभीषणम् ।
कान्तारे बाह्यमानस्य निः सहायस्य सर्वतः ।
त्रातारं नावगच्छामि यो ऽस्माद् दुःखात् प्रमोचयेत्

16.93

निःशक्तिरवशो दुःखी वह्निना परितापितः ।
नीये ऽहं विवशः क्वापि बाहुबन्धनयन्त्रितः

16.94

न वार्था नापि मित्राणि न पुत्रा न च योषितः ।
त्रायन्ते व्यसनादस्मात् कृतघ्ना बत ते मम

16.95

अधर्मचारिणो न क्वापि शरणम्
निरानन्दस्य न सुखं दुःखं (गृह्णामि सर्वशः) ।
मृत्युपाशेन बद्धस्य शरणं नोपलक्ष्यते

16.96

संक्रुद्धा इव ते, क्रूरा भविष्यन्ति समन्ततः ।
निरानन्दा दिशः सर्वा व्यालैश्च परिवारिता

16.97

नरकं पातकस्यैव पतेयं धृतिभावतः ।
यच्च यच्चेहं पश्यामि जङ्गमं स्थावरं तथा ।
तत् सर्व व्याकुलं चैव वह्निना परिदीपितम्

16.98

नाधिगच्छामि शरणं निःसहायो ऽस्मि सर्वतः ।
घोरे तमसि मज्जासि सागरे च हृतप्लवः

16.99

गगनं नैव पश्यामि नक्षत्रग्रहतारकम् ।
विपरीतमिदं सर्व तमसा परिवारितम्

16.100

पञ्चेन्द्रियाणि सर्वाणि विरतानि हि सर्वतः ।
क्रकचैस्तु तदा सर्व शरीरं परिपाटयते

16.101

नाधिगच्छामि शरणं कामं बन्धो भविष्यति ।
वर्धन्ते दुःखनिकरा सर्वतः परिवारतः

16.102

मुहुर्मुहुश्च वर्धन्ते वेदनाञ्चितदेहजाः ।
दुःखैश्च (परिवर्धन्ते) निस्सहायं च सर्वतः

16.103

समीक्ष्य कर्मजं नित्यं ध्येयो हेतुः पुनः पुनः ।
कथयन्ति सुखं वृद्धाः स्वकर्मफलजैर्दृढम्

16.104

यत् पूर्व करणीयं ते तत्पश्चात् परिचिन्त्यसे ।
मोहेन वञ्चितः पूर्वं किमद्य परितप्यसे ।
किं पुनः पापकर्त्तुर्यः कटुकं परिपच्यते

16.105

अनेकदुःखहेतूत्थं तव दुःखं भविष्यति ।
त्राणं नैव (च) यत्रास्ति विना कर्मपरिक्षयात्

16.106

एवं सत्यस्य नाशेन यमदूतैरनेकशः ।
नीयते नरकं घोरं कर्मपाशवशङ्गतः

16.107

चतुष्कोणश्चतुर्द्वारो विभक्तो भागशो मितः ।
पच्यते यत्र विवशा नारकेया ह्यनेकशः

16.108

भेदप्रायेण बहुशो यत्त्वया कथितं बहु ।
कल्मषं भूतधर्माणां तस्यैतत् फलमागतम्

16.109

पैशुन्यसेविनो नरकं यान्ति
भस्मीभवन्ति ते नित्यं मित्रस्वजनबान्धवैः ।
एषामभिमतं दुष्टं पैशुन्यं सद्विगर्हितम्

16.110

तस्मान्न चरितो धर्मः पैशुन्यं च न वर्जितम् ।
पैशुन्यं सफलं भुक्त्वा किमद्य परितप्यसे

16.111

जिह्वाधनविनिर्मुक्तं तीक्ष्णं विषममुच्छ्रितम् ।
पारुष्यमिति सन्दृष्टमहो! तत्फलमीदृशम्

16.112

सत्त्वं पारुष्यपरमं घोरं नरकमागतम् ।
जिह्वायातं तवाकृत्यै किमद्य परिदेवसे

16.113

सहस्त्रगुणपर्यन्तः स्वतो हृदयसम्भवः ।
क्षुत्पिपासामयो वह्निः समादहति मारुतम्

16.114

परुषवाचो नरकस्य चान्तरम्
यदन्तरं हिमाग्न्योर्हि मेरुसर्षपयोश्च यत् ।
तदन्तरं जिह्वयोक्त्या नरके ज्वलनस्य च

16.115

नरकप्रभवो वह्निर्न क्वाप्यन्यत्र प्राप्यते ।
क्षुत्पिपासामयो वह्निर्देवेष्वप्युपलभ्यते

16.116

यो ह्यतः कारणात्तीक्ष्णो वह्निर्भवति नारकः ।
न तथा स प्रभवति यथा वह्निस्तदुद्भवः

16.117

पूर्वोत्तरा बद्धपदं निरर्थकमसङ्गतम् ।
विस्त्रब्ध यत्त्वया प्रोक्तं तस्यैतत्फलमागतम्

16.118

परेषां सम्पदं दृष्ट्वा मम स्यादिति चिन्तितम् ।
तमो ऽभिख्यासमुत्थस्य विषस्य फलमागतम्

16.119

व्यापारानलदग्धो ऽसि मानुष्यं पुरुषाधम! ।
दहनाद् दहनं प्राप्तो तप्यसे च विकत्थ्यसे

16.120

व्यापारपरमोहे तु नरकायोपपत्तये ।
रज्ज्वैतयैव बद्धो ऽसि पुरुषः परिक्रन्दसे

16.121

व्यापादेनाकृष्टो ऽसि घोरं नरकमागतः ।
कर्मक्षयाद् भवेन्मोक्षो नरकाच्च विमोक्ष्यसे

16.122

अधर्मकथनं दहत्येव
अधर्मो धर्मरूपेण साधुरूपेण पापकम् ।
यत् त्वया कथितं पूर्व तत् त्वां दहति नानलः

16.123

कथं तत्त्वविनष्टानां धर्माधर्मनिच्छताम् ।
देशितं विवरं पापं नियतं पापगामिकम्

16.124

(यस्)त्वया वर्जितो धर्मः साधवश्चापि निन्दिताः ।
यत्त्वयोपार्जितं कृष्टं तत्त्वयाद्य विपच्यते

16.125

तृष्णाविषययुक्तेन मोहवेगेन सर्वदा ।
यतः सधर्मविनयैः किं तथा परिदेवसे

16.126

स भवेत् पापकृन्नित्यं मोहपाशवशङ्गतः ।
कि तप्यसे रोदिषि च कर्म कृत्वा सुदारुणम्

16.127

हेतुप्रत्ययमूढस्य धर्माधर्मेषु सर्वदा ।
प्राप्तो ऽसि नरकं घोरं नारकाग्रं सुदारुणम्

16.128

कामवशानुगा नरकं यान्ति
कामैः क्रमति संयुक्तैर्यन्न भवति चेष्टितम् ।
सुकृतं कर्मविरसं फलमेतदुपस्थितम्

16.129

क्षपयित्वा प्रमादेन सुखासक्तेन चेतसा ।
सुकृत नरकं यान्ति देवाः कामवशानुगाः

16.130

आर्यापवादका नरकं यान्ति
आर्यापवादका ये च ये च कर्मफलद्विषः ।
ते मृत्वा नरकं यान्ति ये च मिथ्याविनीतकाः

16.131

धर्मवञ्चका एव नरकगामिनः
जननीगृहपापीया ये चान्ये धर्मवञ्चकाः ।
तेषामिष्टकरा लोके नरकस्य च गामिनः

16.132

पापरता दुःखमनुभवन्ति
ये चान्ये सुखसंसक्ता नित्यं पापरता नराः ।
दुःखाद् दुःखं तु ते यान्ति चित्तेन परिवञ्चिताः

16.133

अवद्यकार्याणि नरके पातयन्ति
तस्मादवद्यकार्ये न मतिं (कुर्यात् कथञ्चन) ।
हीनान्यवद्यकार्याणि नरके पातयन्ति च

16.134

अतः कुशलकर्माणि कर्त्तव्यानि
(कर्माणि) कुर्यात् कुशलानि नित्यं परार्थबद्धेन मनोरथेन ।
(हितः सदैवं नरकस्य रोधी) । सेव्यो ऽपवर्गो दशधर्म एषः

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc