भाषा

ENहिગુ
ग्रंथ पाठ

Dharmasamuccaya · अध्याय 15

15.1

॥ इति संयोजनवर्गश्चतुर्दशः ॥
(15) पापवर्गः
पापफलस्य अज्ञाता परितापं लभते
क्रियमाणस्य पापस्य विज्ञेयं कटुकं फलम् ।
यो न जानाति मूढात्मा पश्चात् स परितप्यते

15.2

(फलं च) लभते पुरुषः सर्वपापस्य कर्मणः ।
तस्मात् पापं न सेवेत यदीच्छेत् सुखमात्मनः

15.3

अल्पादपि महाघोरात् नरकात् पापचेतसः ।
मुक्त्यर्थ (तानि) पापानि भूयो मोहवशं गताः

15.4

न विश्वसेद्धि पापस्या(ल्पतां) नरकगामिकाम् ।
अल्पेन वह्निना शैले दहयन्ते सर्वतो द्रुमाः

15.5

नास्ति पापसमो शत्रुः
पापेन नरकं याति पापेन परिदह्यते ।
पापेन नैति निर्वाणं नास्ति पापसमो रिपुः

15.6

पापाचारो हि पुरुषो न क्वचित् सुखमेधते ।
(पापं) तस्मान्न सेवेत यदीच्छेत् सुखमात्मनः

15.7

साधुकारं च साधूनां पापमार्गस्य दुष्करम् ।
कुर्वन्तः पापकान् सत्त्वा मोदन्ते(लघुचेतसः)

15.8

विपाककटुकः पश्चात् परितापो ऽल्पचेतसः ।
कुतो ऽपचितगात्रस्य कर्मणो दृश्यते फलम्

15.9

तस्मात् पापं न कुर्वीत कष्टा पापस्य वेदना ।
पापं पापविपाकं च पापिनां पच्यते ध्रुवम्

15.10

न हि पापं न पापस्य तस्मात् पापं विवर्जयेत् ।
परिवर्जितपापस्य न पापाद् भयमस्ति हि

15.11

स्वकृतं बाधते पापं परीक्ष्यं नैव भुज्यते ।
कल्याणस्य फलं साधु कष्टं पापस्य पच्यते

15.12

कृत्वा तु पुरुषः पापं कल्याणं नानुसेवते ।
न शस्त्राग्निप्रपातेभ्यो दुःखं स्यात् तादृशं नृणाम्

15.13

यथा निषेवितं मिथ्यापापं पापेषु कल्प्यते ।
विनिवर्जितपापस्य नित्यं च शुभचेतसः

15.14

शान्तस्य भिक्षोर्निर्वाणं नातिदूरम्
(देहिनो) शान्तवक्त्रस्य निर्वाणं नातिदूरतः ।
तीव्रात् तीव्रतरं यान्ति नराः कुकृतकारिणः

15.15

सुखात् सुखतरं यान्ति नराः सुकृतकारिणः ।
न हि तीव्रस्य पापस्य सुखं फलमवाप्यते

15.16

सुखस्य वा फल तीव्रं विपरीतं न पच्यते ।
अनादिमति संसारे सुकृतानां फलं सुखम्

15.17

कर्मणां सुकृतानां च तथा दुःखफलं स्मृतम् ।
पापं पापानुगं दृष्टं शुभस्य च शुभं तथा

15.18

पापी नरकेषुपपद्यते
पापाचारः शुभद्वेषी नरकेषूपपद्यते ।
परिवर्जितपापस्य नित्यं च शुभचेतसः

15.19

हस्तावलम्बि निर्वाणमदृष्टं तदनाविलम् ।
आदिमध्यान्तकल्याणा धर्मा नित्यं सुखोदयाः

15.20

तस्मात् पापं विवर्जयेत्
आदिमध्यान्तकटुकं फलं पापस्य कर्मणः ।
तस्मात् पापं सदा वर्ज्यमालम्ब्यञ्च शुभं सदा

15.21

परिवर्जितपापस्य नित्यं सुखमवस्थितम् ।
अनादिमति संसारे दग्धाः पापैः पुनर्नराः ।
खेदं कस्मान्न गच्छन्ति बाला मोहवशानुगाः

15.22

आपातमधुरं पापं परिणामे ऽग्निसन्निभम् ।
पापकारी तु पुरुषः सर्वलोके विगर्हितः ।
शुभकारी सदा शान्तस्तस्मात् पापं विवर्जयेत्

15.23

धीरैस्तत्त्वनिदर्शकैः पापविवर्जनम्
अनिष्टमहितं दृष्टं विपाके कटुवेदनम् ।
पापं पापविपाकं च तस्माद् धीमान् विवर्जयेत्

15.24

अस्ति पापं ध्रुवं पापे पापमस्ति न पातकम् ।
पापाचेष्टा क्षयापेक्षा कृपा चित्तसुगामिता

15.25

पापं पापाश्रितं नित्यं धर्मो धर्माश्रितस्तथा ।
उन्नयत्युक्तमेतद्धि धीरैस्तत्त्वनिदर्शकैः

15.26

पापविरहिताः परमं सुखं प्राप्नुवन्ति
अचेतना ध्रुवं बाला येषां दुश्चरितं प्रियम् ।
विनिवर्जितपापास्तु गच्छन्ति परमां गतिम्

15.27

अतीव वञ्चनाघोरा नियता पापगामिनी ।
मानुष्यं दुर्लभं प्राप्य यस्य पापं प्रियं बहु

15.28

शुभाशुभफलयोः परिणामभेदः
पापाद् विरज्यते यस्तु शुभे वातीव रज्यते ।
स सुखात् सुखमाप्नोति निवृत्तिं वा प्रयाति हि

15.29

नरो भवति धन्यो ऽयं यः शुभान्युपसेवते ।
स त्वधन्यतमो लोके यः पापमुपसेवते

15.30

आदिमध्यान्तनिधनं सद्भिरेव विगर्हितम् ।
पापं पापानुगं दृष्टं नरकायोपकल्प्यते

15.31

शुभकर्मा सुखमाप्नोति देवलोकं च गच्छति
अतीव शोभते लोके शुभकर्मा जितेन्द्रियः ।
कायस्य भेदात् सततं देवलोके स जायते

15.32

पापस्य परिणामः सुदारुणः
दुष्कृतस्यानुबद्धं हि दुष्कृतं फलमुच्यते
सुकृतस्य तथा दृष्टं फलं सुखविपाकजम् ।
बीजस्याशुविभीतस्य परिणामः सुदारुणः

15.33

निमित्तं सदृशं दृष्टं फलं पापस्य कर्मणः ।
पापेनाकृष्यते जन्तुः दुर्गतौ बडिशैरिव

15.34

बडिशैर्मुच्यते मीनः पापं पापान्न मुच्यते ।
दिन पीडापि पापस्य सर्वथा दुःखकारिका

15.35

अमेध्यस्य यथा गन्धः प्रतिकूलो हि देहिनाम् ।
शुभस्य वासना रम्या विप्रणष्टस्य दुर्गतौ

15.36

विलेषु वासनं यद्वत् पुष्पे नष्टे प्रदृश्यते ।
चलत्ययं पापकारी नित्यं कामवशानुगः

15.37

के शुभचारिणः?
आलस्यानृतिको नित्यं नासौ कल्याणमर्हति ।
अनन्ता रजनी तेषां (येषां) पापे स्थितं मनः

15.38

प्रभातं रजनी तेषां येषां पापे स्थिरा मतिः ।
अनीर्ष्यकाः सकल्याणाः पुरुषाः शुभचारिणः

15.39

अल्पपापी सुखमाप्नुते
ये न पापात्मनो भूतास्ते नित्यं कोटचारिणः ।
अल्पभारा यथा नावा प्लवते न निमज्जति

15.40

पापीमित्रेण दुःखं भवति
तथाल्पपापपुरुषः प्लवते न निमज्जति ।
न पापमित्रसंसर्गात् पुरुषः सुखवान् भवेत्

15.41

पापमित्रं समासाद्य सर्वानलपरो भवेत् ।
कर्मारम्भ विधिज्ञो यो नित्यं सूक्ष्मार्थ (दर्शकः)

15.42

नासौ लिम्पति पापेन पङ्केन गगनं यथा ।
अश्रुतं पुरुषः शृण्वन् श्रुतञ्चापि भवेद् दृढम्

15.43

पण्डितलक्षणम्
पापं च वर्जयेद् धीमान् प्रेत्य देवेषु जायते ।
गुणदोषपरिज्ञानम्मेतत् पण्डितलक्षणम्

15.44

मूढलक्षणम्
गुणदोषापरिज्ञानमेतन्मूढस्य लक्षणम् ।
गुणेषु गुणसञ्चारो दोषेषु च तथैव च

15.45

मूढामूढयोर्लक्षणम्
सदोषगुणतत्त्वज्ञो नित्यं भवति शोकभाक् ।
पापकर्त्ता (तु) पुरुषः शत्रुवच्चात्मनः स्थितः

15.46

शुभकर्त्ता तथा पुंसो मित्रवत् प्रतिपद्यते ।
तमोनिरयभूमिष्वमृतो ऽयं प्रतिपद्यते

15.47

यस्य पापरता बुद्धिर्नित्यं विषयतत्परा ।
विषयारामचपला नित्यं रागानुचारिणी

15.48

यस्य बुद्धिर्न धर्मेषु नरस्य दुःखभागिनः ।
हेतुतश्च महादुःखान्तहेतोर्वह्निसंयुतात्

15.49

क्षीणपापा वयं सर्वे भूयो लोकमिहागताः ।
सुकृतस्य फलं साधु ह्यनेकगुणमण्डितम्

15.50

दुष्कृतस्य फलं दुःखं विसंवादकमिष्यते ।
ते वयं सुखदुःखाभ्यां भूयाम भवसङ्कटे

15.51

कर्मवायुसमुद्भ्रान्ताः समुद्रस्य यथोर्मयः ।
कृतं पापेष्वमनसः पापैः रक्षन्ति ये जनाः

15.52

ते तस्य हेतोर्नरकं प्रयान्त्यशुभचारिणः ।
तस्मात्तु नरकान्मुक्ताः ते गच्छन्ति त्रिविष्टपम्

15.53

ते हि दुःखं (न)संस्मृत्य पुनः कामवशानुगाः ।
खरीभूतमिदं चित्तं दोलादोलैः सुखासुखैः

15.54

वियोगो ऽयं परीघातो न च दुःखैर्न विद्यते ।
अपारदारसंयुक्त इन्द्रियैः परिवञ्चितः

15.55

तृष्णापाशवशगः संसारे भ्रमति
जनो भ्रमति संसारे तृष्णापाशवशानुगः ।
नरकात् प्रेतभुवनं तिर्यग्योनिषु प्रेततः

15.56

तिर्यग्भ्यो नाकभुवनं नाकाद् भूयो नृजातिषु ।
एककर्मपरिभ्रान्तो जगद् भ्रमति चक्रवत्

15.57

सर्व दुःखम्
न च खेदवशं यान्ति(ह्यभ्यास) वशमागताः ।
रक्षन्ति नाकभुवनं विरज्यन्ते तथा सुखैः

15.58

सुखात् सुखपरिभ्रान्ता भ्रमन्ति भ्रमचारिणः ।
दुःखं पद्मसहस्राणि पद्मकोटिशतानि च

15.59

(तानि) दुःखानि भुङ्क्तानि न च क्लिश्यन्ति बालिशाः ।
न सुखं विद्यते लोके सर्वदुःखैः परिप्लुतम्

15.60

दुःखस्य हेतुः भवति
उद्वेगं नैव गच्छन्ति प्राणिनो मोहपीडिताः ।
दुःखेन खिद्यते बालो दुःखहेतौ च वर्तते

15.61

हेतौ शतफलं दृष्टं बीजं प्रति यथा फलैः ।
सुखदुःखकशाबद्धाः प्राणिनस्त्रिभवानुगाः

15.62

न यान्ति परमं क्षेमं सर्वदुःखविवर्जितम् ।
स्मर्यते (हि) यदा दुःखं तदा विध्यति देहिनम्

15.63

विस्मृते च पुनर्दुःखे चरन्ति विगतज्वराः ।
नारकं तु सदा दुःखं स्मृतं भवति देहिभिः

15.64

तदा कृष्णमिदं सौख्यमनुमानेन तिष्ठति ।
तदेव विदितं मत्वा जगत् सर्व समन्वितम्

15.65

श्रेयसि क्रियतां बुद्धिर्दोषेभ्यो विनिवार्यते ।
क्षणाधिकारचपलं जीवितं वेति वर्तते

15.66

क्षीयन्ते चापि कर्माणि तस्माच्छ्रेयःपरो भवेत् ।
चित्तवेगं मनः सर्व जीवितं वेति वर्तते

15.67

अनागताद् दुःखात् ज्ञानी न बिभेति
तस्मान्न जीविकाहेतौ पापं कुर्याद्विचक्षणः ।
अनागतस्य दुःखस्य न विभेति महाजनः

15.68

येना(स्य) पच्यते पापं मोहपापवशङ्गतम् ।
मोहितः पापकैर्धमैरशुभैः शुक्लवर्जितैः

15.69

मूढः पापवशाद् नरकं गच्छति
नीयते नरकं मूढो यत्र पापं विपच्यते ।
यस्य पापाद् भयं नास्ति स पापं कुरुते बहु

15.70

स पापानन्तसन्दग्धः पश्चान्नरकमाप्नुते ।
(अपि) सूक्ष्माग्निकणिका यथा दाहाय कल्पते

15.71

पापविरहिताः सुखमिच्छन्ति
अन्यैरपि तथा पापैर्नरकं यान्त्यबुद्धयः ।
अपापभीरुता तस्मात् कर्तव्या सुखमिच्छता

15.72

हिंसा मिथ्यावचो ऽब्रह्मचर्य भूयः सुखोदयम् ।
आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता

15.73

विषाग्निसदृशं पापम्
विषाग्निसदृशा हयेते तेभ्यो रक्षेत् प्रयत्नतः ।
दुःखं हि मारधर्मो ऽयं सुखं धर्मसमन्ततः

15.74

सुखदुःखयोर्लक्षणम्
लक्षणं(सुख) दुःखानां विदुस्तत्त्वविदो जनाः ।
सत्यं दानं तथा क्षान्तिः सदा चापापमित्रता ।
मैत्री सदाभिभूतेषु प्रस्थानं त्रिदिवस्य (हि)

मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc