Dharmasamuccaya · अध्याय 14
॥ इति कर्मवर्गस्त्रयोदशः ॥
(14) संयोजनवर्गः
ज्ञानेन निर्वाणाधिगमः
ज्ञानशस्त्रे(ण)तां छित्वा निर्मुक्ता विगतज्वरा ।
प्रयान्ति निर्वृत्तिं धन्या यत्र ज्ञान्येव विद्यते
सदृशं हि फलं हेतोः कथयन्ति मनीषिणः ।
हेतोरसदृशं नैव फलं पचति देहिनाम्
हेतुप्रत्ययसम्बद्धजन्मप्रत्ययसङ्गताः ।
यथा बद्धा हि संसारे प्रमुच्यन्ते (न)देहिनः
परमशान्तेरूपायः
तां विश्लिष्य सुसम्बद्धां गाढां दुर्विषेहां पराम् ।
गच्छन्ति परमां शान्ति यत्र दुःखं न विद्यते
कर्मणा नियतं जन्तुः कर्मणा परिपच्यते ।
सूपगं (ननु) संसारे सुखं नैवोपलभ्यते
दुःखे दुःखाभिषक्तानां जन्तूनां मूढचेतसाम् ।
सन्मार्गदेशिको नास्ति यो ऽस्माद् दुःखात् प्रमोचयेत्
ये न धर्मपरा नित्यं ये न सत्यपराः सदा ।
ये च योनिरता नित्यं तेषां दुःखं न हीयते
धर्म इह परत्र च सुखावहः
मातृवत् पितृवच्चैव (मित्रवद्) बन्धुवत् सदा ।
धर्मो वै देशितो बुद्धैरिह लोके परत्र च
त्रिगत्यवस्थिताः सत्त्वास्त्रिदोषवशमागताः ।
त्रिधातुगतिका नित्यं त्रिलोक्यां पतिताः (जनाः)
त्रिकर्मोपान्तवशगाः स्त्रीपानादिपराश्च ये ।
न भवान्मुक्तिगतिकाः स्युर्भूमौ विचरन्ति ते
केषां दुःखं न विद्यते?
त्रिरत्ने (न) प्रमाद्यन्ति त्रिबोधिवशगाश्च ये ।
त्रिदृष्टिवर्जका ये तु तेषां दुःखं न विद्यते
त्रिकालस्थितिसंलग्ना विज्वरास्तत्त्वदर्शिनः ।
त्रिभागकृतिसन्तुष्टा वीतशोका निवृत्तिगाः
त्रिराशिसमवेता ये त्रिकर्मप्रविचारिणः ।
न ते वत्स्यन्ति संसारे वीतदोषा गतज्वराः
मार्गामार्गविधिज्ञा ये भावाभावविचिन्तकाः ।
मैत्रीभावविविक्ता ये ते यान्ति परमां गतिम्
नरः कान् भजेत्?
अनाविलेन(मनसा) विप्रसन्नेन (चेतसा) ।
सर्वदा धर्मवशगान् धीरान् विप्रान् भजेन्नरः
सत्यमेव प्रपन्ना ये स्मृत्या (हित्वा) मनोमलम् ।
भावाभिलाषाद् विरता मुक्ता निःसंशयं हि ते
नित्यं दुःखसुखैर्बद्धा विप्रलब्धा ह्यनेकशः ।
नरा निधनतां यान्ति प्राणिनो मोहवञ्चिताः
कैर्दुर्गुणैः स्वर्गो न लभ्यते?
नाह्रीक्यमनपत्राप्यं कौसीद्यं पापमित्रता ।
नैतानि नाकबीजानि तेभ्यो रज्येन्न पण्डितः
आह्रीक्यमनपत्राप्यं नित्यं पापानुचारिणः ।
नरः प्रपातात् पतति स पश्चात् प्रतिबुध्यते
क्रोधेर्ष्यादिभयग्रस्ताः स्वर्ग न गच्छन्ति
क्रोधेर्ष्यास्त्यानमिद्धं हि त्वश्रद्धं यन्मनस्तथा ।
मोहशोकभयग्रस्ता न स्वर्ग प्रभवन्ति ते
अमृतं मद्यपानं च मिथ्यादृष्टिश्च लुब्धता ।
कारणानि करणस्य व्यापादक्रूरकर्मता
कुदृष्टेः कुफलम्
अदर्शनं परं श्रेयो न कुदृष्टिः कथञ्चन ।
कुदर्शनेन संमूढाः प्रयान्ति नरकं नराः
अहेतुं हेतुमापश्यन्त्य (नित्यं) नित्यवन्नराः ।
प्रयान्ति नरकं तीव्रं मिथ्यावादेन वञ्चिताः
कष्टेन तेजसा तेषां मिथ्यादर्शनतत्पराः ।
प्रज्ञाभिमानिनो भूता मोहयन्त्यपरान् जनान्
मोहान्धकारगहने पतन्त्येव महार्णवे ।
लोके प्रकृतिदुःखे ऽस्मिन् हेतुभूता हि ते जनाः
शराणां तापनं क्षेपं कथयन्ति मनीषिणः ।
चित्तता या तुदत्यन्ते सर्वतः क्लेशपर्वतः
क्लेशनागाद् विमोक्षो यो यस्य ज्ञानपुरः सरः ।
प्राप्यते वीतकै रूपैः पुरुषैस्तत्त्वदर्शिभिः
अन्यो ऽन्यमतिभिः सर्वा लोको ऽयं विप्रलोभितः ।
न याति परमां शान्तिं यत्र मिथ्या न कथ्यते
नरकहेतवः
औद्धत्यपापसंसर्गः कौसीद्यं लुब्धता तथा ।
हेतवो नरकस्यैते शीलस्य हि विवर्जनम्
मद्यपानं सदा हिंसा परदाराभिदर्शनम् ।
लोभः कूरा मतिश्चैव हेतवो नरकस्य ते
नाशहेतवः
पैशुन्यं पापसंसर्गो मिथ्यादृष्टिरसंयमः ।
चापल्यं मनसश्चैव नाशयन्ति नरं सदा
अविद्यया सह पारुष्यैः मिथ्यावागभिमानिता ।
न सुखाय भवन्त्येते अस्मिंल्लोके न चापरे
के परिवर्जनीयाः?
यद्यसौ भ्रमति प्रायो लोकेस्मिन् किन्न चापरे ।
यद्यसम्भ्रामिते लोके ये च दुःखे निमज्जति
तच्चेष्टितमविद्यायाः कथयन्ति तथागताः ।
मिथ्यामानो ऽतिमानी च सर्वथा (परिवर्ज्यताम्) ।
परिवर्ज्याः सदा ह्येते दुःखवृक्षस्य हेतवः
ज्ञानिनः परमोदारा नित्यं क्लेशवधे रताः ।
छित्वा (तद्) बन्धनं सर्व गच्छन्ति पदमच्युतम् ।
आदिमध्यान्तकल्याणमस्मिंल्लोके न चापरे
दोषसेवनैः नाशो भवति
दोषाणां सेवनं दृष्टमविद्यासम्प्रवर्तकम् ।
वर्जनीयाः सदा क्लेशाः सेव्यं ज्ञानमनुत्तमम्
ज्ञानेन मुक्तिर्भवति
ज्ञानेन मुक्तिर्भवति न च क्लेशैरिहोच्यते ।
ज्ञानाग्निना हि दहयन्ते क्लेशकाष्ठा न शेषतः
काममयज्ञानं क्लेशजनकम्
क्लेशैः किमर्थ संरुद्धा जालिनी विष(यै) रता ।
पुनः काममयं ज्ञानं चक्षुःपटलबाधकम्
रागनिन्दा
निर्वाणयति सम्बुद्धवाक्यभैषज्यभोजनैः ।
सद्धर्मसेनापतिना रागसेना विगर्हिताः
शुभा वाणी प्रयोक्तव्या
उदीरिता शुभा वाणी निश्चेतव्या प्रयत्नतः ।
चत्वारो हि विपर्यासा बुद्बुदवच्चकासते ।
लोकधर्मास्तथा चाष्टौ नाशयन्त्यखिलं जगत्
ज्ञानप्लवः सन्तरणसमर्थः
जालिनीप्रभवा नद्यो वितर्कशतदुस्तराः ।
ज्ञानप्लवं समारुह्य तरन्ति मुनयः शिवाः
केषां मुक्तिर्न विद्यते?
मूढा ये भूतमनसो नराः कामस्य सेविनः ।
सदा च पञ्चभिः स्थानैर्मुक्तिस्तेषां न विद्यते
अयोनिशोमनस्कारैर्यो वह्निः समुदीर्यते ।
स योनिशोमनस्कारवर्षणैः प्रतिकल्पते
अविद्यासंभवम् अन्धत्वं कथं दूरीभवेत्?
अन्धत्वं चिरकालोत्थमविद्यासम्भवं नृणाम् ।
तदल्पकाले जातेन प्रदीपेन न पश्यति
ज्ञानलोकेन त्रयो दोषाः विनश्यन्ति
रागमूढा विपच्यन्ते नरके मन्दमेधसः ।
ज्ञानिनस्तु न नश्यन्ति निर्वाणगमना यथा ।
त्रयो दो(षा) विनश्यन्ति ज्ञानलोकेन देहिनाम्
तस्मादशेषविज्ञानशीलक्षान्तिरतो भवेत् ।
अमूढानां प्रणश्यन्ति त्रयो दोषाः शरीरिणाम्
ज्ञानानलेन मन्दश्च क्लेशेन्धन महात्त्विषः ।
व्याधिनिर्मग्नतनवः शय्यावेष्टनगोचराः
यत्र याति परं वेदं मनोमोहमयं फलम् ।
यानि दुःखान्यनेकान्यनेका भुज्यते गतिः
पञ्चकैः प्राणिभिनित्यमेतन्मोहस्य चेष्टितम् ।
त्रयो वा निर्जिता दोषा यैरिदं दह्यते जगत्
ज्ञानयोगेन सुखं भवति
तमग्निं ज्ञानयोगेन निर्वाप्य सुखितो भवेत् ।
तस्माज्ज्ञानाग्निना नित्यं निर्दहेत् क्लेशपर्वतम् ।
क्लेशपर्वतदग्धस्य सुखं पदमवस्थितम्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0