Dharmasamuccaya · अध्याय 13
॥ इति वाग्वर्गो द्वादशः ॥
(13) कर्मवर्गः
शुभाशुभकर्मणां फलभोगः
शुभानामशुभानां च कर्मणां फलनिश्चयः ।
भुज्यते सुकृतं सर्व कर्मबद्धा हि देहिनः
(यदङ्गी)क्रियते कर्म तत्कृद्भिरनुभूयते ।
चित्तमानेन मूढेन तृष्णानगरवासिना
स्वयमेव फलं भुङ्क्ते
सहायैर्बहुभिः सार्ध कुरुते कर्म दुष्कृतम् ।
एकाकी कर्मणस्तस्य फलं भुङ्क्ते भवे भवे
कर्मणामविसंयोगः सर्वैः स्वजनबान्धवैः ।
शुभाशुभं परं लोके गच्छन्तमनुगच्छति
यत्र प्रयान्ति पुण्यानि गन्धस्तत्रानुधावति ।
तथा शुभाशुभं कर्म गच्छन्तमनुगच्छति ।
स्वकर्मफलदायादा प्राणेन कर्मयोजिनः
सुकृतैः सुरलोकं गच्छन्ति
सुकृतैः सुरलोकेषु दुष्कृतैश्च तथाप्यधः ।
यद्दुःखं कर्मफलजं जायते कटुकोदयम्
तस्योपमानमसुरं त्रिषु धातुषु जायते ।
त्रिदोषजं त्रिचित्तोत्थं त्रिषु धातुषु पच्यते
तस्य कर्मविपाकस्य त्रिषु धातुषु लक्ष्यते ।
हेतुप्रत्ययसामग्रीसमुत्थं च प्रमेव तत्
अन्यकृतकर्मणः फलं नान्यो भुङ्क्ते
न ह्यन्येन कृतं पापमन्येन परिपच्यते ।
सुकर्मफलदायादः प्राणिनां सर्व एव हि
पूर्वोक्तानां त्रिविधानां स्वस्य कृत एव विपाको भवति
कर्मणस्त्रिविधस्यास्य न चाप्यन्यस्य पच्यते ।
चत्वारिंशद्विपाकस्य घोरं भवति चेष्टितम्
कर्मफलवर्णनम्
एकः करोति कर्माणि एकश्च फलमश्नुते ।
एकस्तरति दुर्गाणि सहायो जायते ऽपरः
जलापेक्षी जनो यस्तु कुरुते कर्म दुष्कृतम् ।
न जनो जनशतानां भुङ्क्ते हि व्यञ्जनं (क्वचित्)
न ह्यन्येन कृतं कर्म सङ्क्रामत्यपरस्य तत् ।
न मन्ये ऽनादिनिधनमस्मिंल्लोके न चापरैः
दुःखास्वादं सुखोद्भूतं येन दुश्चरितं कृतम् ।
तेन चरति संसारे प्रेरिते कर्मवायुना
कस्य धर्मो वर्धते?
अनपेक्षिततत्त्वस्य व्याकुलीकृतचेतसः ।
वर्धते सकलो (धर्मः) धर्मावृतमनोहरः
के नरकं गच्छन्ति?
मनसा वञ्चिताः सत्त्वा मनसा विप्रमोहिताः ।
गच्छन्ति नरकं पापास्तमस्तमपरायणाः
तमोवृते हि संसारे दुर्लभं बुद्धशासनम् ।
दुःखाद् दुःखतरं यान्ति येभ्यः धर्मो न रोचते
अनादिमति संसारे कर्मजालावृता प्रजा ।
जायते भ्रियते चै(व) स्वकर्मफलहेतुना
जायन्ते नरके देवा नारकेयास्तथाविधाः ।
मनुष्याः प्रेतविषये नरकं वा प्रयान्ति हि
सुकर्मणैव सुखम्
अन्योन्यप्रभवं दृष्टं दुःखं वा यदि वा सुखम् ।
क्लेशधर्मोद्भवे जन्मन्यपरादिकृतं च तत्
असङ्ख्येयकृतं कर्म संसारे प्राणिभिः सदा ।
तत्र शक्यं बुधैर्गन्तुं वर्जयित्वा तथागतैः
नाधर्मस्य फलं साधु विपरीतं न पच्यते ।
हेतोः सदृशता दृष्टा जलस्य विविधस्य वै
सादृश्यस्य हेतुफलं विपरीतं न जातु हि ।
संस्कृतानामरूपाणां हेतुः प्रत्ययसम्भवः
सहेतुकं सर्व कर्मफलम्
नाहेतुकं फलं दृष्टं नरके तु विशेषतः ।
हेतुसङ्घातसंसक्तं नरकेषु विपच्यते
कृतोपरतगाढानां नियतं पापगामिनाम् ।
कर्मणा फलसम्बन्धो नरकेषु विपच्यते
देशानां प्रति कालं तु यत् कर्म (वि)निवर्तते ।
तस्य नेष्टं फलं दृष्टं तत्त्वमार्गविदर्शकैः
उदाहरणप्रदर्शनपूर्वकं फलस्य कर्माधीनत्वमेवेति
दीपाधीना प्रभा यद्वत् कर्माधीनं फलं तथा ।
अन्यो ऽन्यफलसम्भूतः संस्कृतः सर्व एव हि
प्रतीत्यसमुत्पादसमर्थनम्
अन्योन्यहेतुका दृष्टा ह्यन्योन्यवशवर्तिनः ।
सादृश्यस्यानुबन्धेन दृश्यन्ते तत्त्वदर्शकैः
नाहेतुफलसन्धानमीश्वरादिभिरास्थितम् ।
भवन्ति संस्कृता धर्मा देशितास्तत्त्वदर्शिभिः
अनादिमतिसंसारे हेतुप्रत्ययसम्भवे ।
सादृश्यं कर्मणा दृष्टं विपरीतं न कल्प्यते
बुद्धस्य स्वरूपम्
तत्स्थेषु कर्मवशगाः प्राणिनः कर्महेतुजाः ।
स कर्मफलतत्त्वज्ञो (बुद्ध) इत्यभिधीयते
केषां शान्तिः न विद्यते?
मार्गामार्गविरुद्धा ये मूढा बुद्धस्य शासने ।
(न) तेषां विद्यते शान्तिरादित्यस्य तमो यथा
कर्मायत्तं सुखम्
कर्मायत्तं सुखं दृष्टं सुखायत्तं मनस्तथा ।
मनो ऽवबोद्धया(स्ते)धर्मा ये व्युत्पत्तिविचारिणः
सुचरितस्य कर्मणः फलम्
अनित्याः सर्वसंस्कारा जलबुद् बुदसन्निभाः ।
तस्मात् सुचरितं कर्म लोके मर्त्य परत्र च
दृष्टं कर्मफलं लोके दृष्टा एव विचित्रता ।
यः प्रमादपरः पुंसास्तस्यात्मा ध्रुवमप्रियः
कर्मरज्ज्वातिदृढया दुष्प्रमोक्षसुगाढया ।
बद्धा बाला न गच्छन्ति निर्वाणपुरमुत्तमम्
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0