Dharmasamuccaya · अध्याय 12
॥ इति चित्तवर्ग एकादशः ॥
(12) वाग्वर्गः
निर्वाणाभिलाषुकः पारुष्यं वर्जयेत्
पारुष्यं वर्जयेत् धीमान् सम्यग्वाग् भीरतो भवेत् ।
माधुर्याभिरतो जर्न्तुनिर्वाणस्यान्तिके स्थितः
वाचं पश्यन् सदाभाषेन्मलिनां च विवर्जयेत् ।
वाङ्मनेनाभिभूता ये ते यान्ति नरकं नराः
एकधर्मव्यतीतस्य मृषावादस्य देहिनः ।
प्रतीर्णप्रतिलोकस्य नाकार्य पापमस्तिह
मृषावाग् न प्रयोक्तव्या
मृषावाचं न भाषेत सर्वा प्रत्ययकारिकाम् ।
यथा बध्यति संसारे सुगतिं नैव पश्यति
साधुप्रत्ययतेनीहा सर्वविद्वेषकारिका ।
कान्तारः सर्वाधर्माणां मृषावाच प्रवर्तते
जातमात्रस्य मर्त्यस्य कठारी जायते मुखे ।
पश्चात् छिनत्त्यात्मानं वाचा दुर्भाषितं वदन्
सर्वा कार्यपताका सा सर्वपापप्रसूतिका ।
तमसां योनिरेका सा यां वाचं भाषते मृषा
सत्येन हीनाः पुरुषाः सर्वसाधुविवर्जिताः ।
तृणवद् यान्ति लोके ऽस्मिन् प्रत्यपायेषु दुःखिताः
न वदेदनृतं धीरः कष्टा ह्यनृतवादिता ।
पूतिगन्ध्यसुखी चापि पश्चात्तापेन तप्यते
सत्यमहिमा
सत्यं च न विवर्जेत तस्य धर्मो न विद्यते ।
विनिवर्तितधर्मस्य स्थितं दुःखमनेकजम्
सत्यं सर्वधर्माणां प्रदीपभूतम्
प्रदीपः सर्वधर्माणां साधूनां रत्नवत् प्रियम् ।
स्वर्गस्य च परं वर्त्म सत्यमुक्तं गतज्वरैः
सत्यं न हि दिवं याति मोक्षस्यासत्यवादिनः ।
सत्यहीना हि पुरुषाः पशुतुल्याः प्रकीर्तिताः
जघन्यानां जघान्यास्ते येषां न विद्यते ।
सत्यं धर्मस्य सोपानं ज्योतिषामाकरो महान्
पन्थाश्च मोक्षधर्माणां धनानां धनमुत्तमम् ।
पापकैश्च (परि)त्राणां सत्यमुक्तं मनीषिभिः
सत्यभूषितं वाग् भूषणस्यापि भूषणम्
ज्योतिषां परमं ज्योतिश्चक्षुश्चक्षुष्मतामपि ।
द्रविणेन विना सत्यं भूषणस्यापि भूषणम्
निधानमतुलं सत्यमहार्य (सर्वसाधकम्) ।
गच्छन्ति (सत्या यिणः) पुरुषाः परमां गतिम्
न तथा भासते राजा नानालङ्कारभूषितः ।
सत्येन भूषितो धीमान् शोभते देववद् यथा
न माता न पिता चाथ मित्राणि न च बान्धवाः ।
त्राणमेवं यथा श्रुत्वा तस्मात् सत्यपरो भवेत्
अनृतनिन्दा
वह्नीनां परमो वह्निर्विषाणां परमं विषम् ।
दुर्गतीनां च सोपानमनृतं परिकीर्तितम्
विषाग्नितुल्यसंस्पर्श वर्तयेदनृतं पुमान् ।
अनृतेन हि यो देव दग्धैत्यभिधीयते
सत्यासत्ययोः परस्परविरोधित्वम्
तस्मात् सर्वाभिसारेण (न वदेद) नृतं पुमान् ।
सर्व भयादिकं कष्टमनृतं कीर्तितं बुधैः
वह्नीनां परमो वह्निर्निर्दहेदपि सागरम् ।
किं पुनर्यो मृषावादी काष्ठलोष्ठसमाकृतिः
सत्यं त्यक्त्वा मृषावादं यो नरः प्रतिपद्यते ।
रत्नं त्यक्त्वा स पापात्मा पाषाणं प्रतिपद्यते
यस्यात्मा न भवेत् द्विष्टो यस्य वा नरकं प्रियम् ।
मृषावादं स्वदेहाग्निम् अबुद्धिः स निषेवते
सदेदं सत्यवचनं भूषणं सर्वदेहिनाम् ।
सत्यं त्यक्त्वा मृषावादे कस्माद् यान्ति कुबुद्धयः
सत्यं गुणानामग्र्यं वै दोषाणामनृतं स्मृतम् ।
गुणांस्त्यक्त्वा कथं मूढो दोषेषु परिधावति
बीजं सर्वस्य दुःखस्य मृषावादः प्रकीर्तितः ।
तथा सत्यं सुखस्यैव तस्मान्नानृतको भवेत्
सत्यवादी हि पुरुषः प्रियः सर्वस्य देहिनः ।
चक्षुर्दोषैमृषावादी तस्मान्नानृतको भवेत्
देवकल्पाः सदा कृष्टाः पुरुषाः सत्यवादिनः ।
नारकेयास्तथा मूढा जना ह्यनृतचेतसः
कल्याणानां परं सत्यं दोषाणामनृतं तथा ।
दोषवर्जी गुणद्वेषी पुरुषः पुरुषोत्तमः
सुखोदयं सुखोदर्कं सुखेन परिपच्यते ।
सुखेन लभते सत्यं(सत्यं) निर्वाणगामिकम्
दुःखोदयं कटुफलं दुःखेन सह पच्यते ।
अनृतं सर्वदुःखान्तं कः पुमान् न विवर्जयेत्
नान्यदेशागतं सत्यं नान्यस्मात् प्रार्थ्यते हि तत् ।
सर्वतीर्थोत्तमं सत्यं न तीर्थसलिलावृतम्
दीपानां च परो दीपः सत्यं बुद्धेन देशितम् ।
औषधानां परं तच्च सदा दुःखनिषूदनम्
अमृतञ्च विषञ्चैव जिह्वापाशे स्थितं नृणाम् ।
अमृतं सत्यमित्युक्तं विषं तूक्तं मृषावचः
यस्यानृतमभिप्रेतं तस्य सत्यं ध्रुवं स्थितम् ।
विषन्तु यस्याभिमतं तस्येष्टं स्यान्मृषावचः
विषेण निश्चितं नाशो मृषावादेन निश्चितः ।
मृतवत् स पुमानस्ति यो मिथ्यात्वभिभाषते
नात्मनो हि हितं पथ्यं (पर)स्य न कथञ्चन ।
पश्चात्तु परदुःखाय तत् कथं सेव्यते नृभिः
देशे देशे मया दृष्टं जन्ममृत्युसहस्रकम् ।
परः सहस्त्रं जनयेन्नाशयेदनृतं वचः
अभिजातस निष्कर्षो द्विजातीनां च भूषणम् ।
दर्शनं मोक्षमार्गस्य सत्यमित्यभिधीयते
तृष्णानदी हयमाराणां सतां सत्येन कर्मणाम् ।
पूर्ववत् सत्यमित्युक्तं परं सुगतदेशिकम्
अनादिनिधने लोके तृष्णापारङ्गता (नराः) ।
नास्त्यत्राणं यथा सत्यमिति धर्मविदो विदुः
अभिध्यापाशो न सेवनीयः
सत्यवध्या सदा क्लेशा वज्रवध्या यथा नगाः ।
हता(स्ते) पुरुषा (ज्ञेया ये ऽ) भिध्या परिवञ्चिताः
परचित्तसमेनेदं रूपाद्यैः परिवञ्च्यते ।
अभिध्यामानसं पाशं सेवितं न विचक्षणैः
दह्यते ऽविकृत आत्मा तैलदीप्तिरिवानलः ।
अभिध्यादग्धमनसः कारणं नोपलभ्यते
व्यापादः सत्त्वान् मोहयत्येव
यस्मात् तत् सर्वदा वर्ज्यं कटुकाशाविषोदयम् ।
व्यापादमोहिताः सत्त्वा नित्यं तद्गतमानसाः
न शान्तिमधिगच्छन्ति सर्पा इव बिलेशयाः ।
अथ कूरस्वभावा ये व्यापादपरमा नराः
न तेषां विद्यते सौख्यमादित्येन यथा तमः ।
न धर्मे नार्थनिकरो न धर्मा न च बान्धवाः
रक्षन्ति पुरुषान् सर्वान् व्यापादाहतचेतसः ।
तमसामाकरो ह्येष व्यापाद इह कथ्यते
व्यापादयति जनकं व्यापादः परिकीर्तितः ।
अव्यापादः परं श्रेयो न व्यापादः कथञ्चन
अव्यापादपरा ये तु ते यान्ति पदमच्युतम् ।
नियतातथवादी यो ऽधर्मवादी न धार्मिकः
स चौरः सर्वलोकस्य न चौरः प्राकृतः स्मृतः ।
धर्मवादी नरो यस्तु चरते धर्ममेव यः
स याति शाश्वतं स्थानं यत्र गत्वा न शोच्यते ।
मिथ्यावचोहत (पुमान्) लौकिकः सम्प्रकीर्त्यते
लोकोत्तरैः कल्पशतैः कदाचित् कथ्यते न वा ।
तस्मात् लोकोत्तरं वाक्यं लौकिकं न कथञ्चन
संसारबन्धनं दृष्टं लौकिकं विषवद् वचः ।
तृष्णारतः सदा पुण्यान्मुच्यतेति सुनिश्चितम्
लोकोत्तरो (नरो) धन्यो विद्वद्भिः समुदाहृतः ।
हितं तत्त्वं च यो मूढो न गृह्णाति गुरोर्वचः
सत्यवादी सदा देवताभिः पुरस्कृतः
स पश्चाद् व्यसने प्राप्ते तप्यते स्वेन चेतसा ।
सत्यवादी सदा दान्तो देवताभिः पुरस्कृतः
प्रियो भवति लोकस्य पश्चाद् देवेषु मोदति ।
प्रियो भवति लोकस्य पश्चाद् स्वान्तेन(वर्धते) ।
दर्शनीयं मुखं चास्य देवलोकेषु जायते
अभूतवादी पुरुषः सर्वसत्त्वोपपातकः ।
तमोनिचयसङ्काशो जीवन्नपि मृतः समः
कथं न जिह्वा पतिता वाक्यसंस्तुतिकत्तृका ।
मृषा वदति यो वाचं सद्भूतगुणनाशिकाम्
मुखे सन्निहितो ब्यालो मुखे सन्निहितो ऽफलः ।
(मुखे)सञ्ज्वलितो वह्निर्यो वाचा भाषते मृषा
जिह्वा सङ्ग्रथितैः पाशैः नरकस्याग्रहेतुकैः ।
छेत्ता च धर्महेतूनां मृषावादः प्रवर्तते
न तस्य माता न पिता बुद्धो नापि सम्वरः ।
यः पापबुद्धिः पतितो मृषावादं प्रभाषतेः
अकस्माल्लघुतां याति षड्भिश्च परिवर्तते ।
मुच्यते देवताभिश्च यो वाचं भाषते मृषा
असङ्गृहीतवाक्यस्याविचार्य क्रोधनस्य च ।
चपलस्याल्पभाग्यस्य स्थितं दुःखमनन्तकम्
परस्य दुःखं दृष्ट्वापि सत्त्वः सत्त्वोपपातकः ।
परव्यसनवत् तज्ज्ञः पुमान् नरकगामिकः
ये यथावादिनो मर्त्त्या न च तत्कारिणः सदा
सत्यमेव स्वर्गस्य निर्वाणस्य च सोपानम्
सत्यं स्वर्गस्य सोपानं निर्वाणद्वारमेव तत् ।
तस्मात् सत्यपरो नित्यं नित्यं धर्मगतिः स्मृतिः
अनृतं न वदेत्
अशोकमजरं स्थानं प्रयाति पुरुषोत्तमः ।
वर्जयेदनृतं धीमान् निन्दितं तत्त्वदर्शिभिः
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0