Dharmasamuccaya · अध्याय 11
॥ इति मद्यजुगुप्सावर्गो दशमः ॥
अथ द्वितीयम् उदानम्
(चित्तञ्च वाक् तथा कर्म संयोजनन्तु पापकम् ।
नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश ॥ )
(11) चित्तवर्गः
चित्तं राजवत् प्रवर्तते
अगाधं विषमं तीव्रं सर्वसत्त्वगतं महत् ।
चित्तं सर्वस्य जगतो राजवत् सम्प्रवर्तते
चित्तधारिणस्तज्ज्ञाः परमां गतिं प्राप्नुवन्ति
अदृश्यं सम्प्रति भयं कर्म नारकचञ्चलाः ।
ये चित्तधारिणस्तज्ज्ञास्ते गताः परमां गतिम्
एतन्नयति व्युत्थानमेतन्नयति दुर्गतिम् ।
तदेवाद्यन्तममलं निर्वाणमधिगच्छति
मनः पूर्वमङ्गमा धर्मा मनः श्रेष्ठा मनोमयाः ।
मनसा सुप्रसन्नेन भाषते वा करोति वा
चित्तवशगस्य चित्तमनुधावति
यो न चित्तस्य वशगश्चित्तं तस्यान्तगं सदा ।
स निर्णाशयति क्लेशान् तमः सूर्योदयो यथा
चित्तदग्धाः नाशं यान्ति
चित्तं शत्रुः परं शत्रुर्न शत्रुरपरः स्मृतः ।
चित्तदग्धाः सदा सत्त्वाः कालदग्धा यथा जडाः
यश्चित्तवशमापन्नो बालो मूढो ऽजितेन्द्रियः ।
तेन दुःखे समो नास्ति निर्वाणं तस्य दूरतः
चित्तवशगः नरः नरकमधिगच्छति
आवर्ज्यः शत्रुरपरो न चित्तानि (निगूहते) ।
एष बध्नाति पुरुषो नृपतेर्यमशासने
विषयेषु रता नित्यं न स धर्मः कथञ्चन ।
सद्धर्मपथसम्मूढो नरकं नयते महत्
दुर्दमानां परं चित्तमनीनामग्निरुत्तमः ।
दुर्दान्तं शीघ्रगन्तृ च नरकं नयते ध्रुवम्
ये चित्तस्य वशं याता यातास्ते नरकं पुरा ।
यैस्तु तद् वार्यते शीघ्रं न ते दुःखानुगामिनः
चित्तानुरूपं सुखं दुःखञ्च भवति
यथा यथा (नृणां) चित्तं परिणामस्तथा तथा ।
कल्पानां शुभकर्त्तुश्च पापकर्त्तुश्च पापकम्
चित्तायत्तं भवेत् कर्म कर्मायत्तं मनो भवेत् ।
चित्तकर्म समुत्थाय संसारः परिकीर्तितः
दुष्टेन चेतसा कर्म यः करोति पुमानिह ।
पच्यते नरके तेन जालिन्या स विडम्बितः
चित्तकर्म एवं संसारः
चित्ताधीनं भवेत् पापं संसारः परिकीर्तितः ।
चित्तप्रत्ययजं ह्येतत् हेतुप्रत्ययसम्भवम्
चित्तेन वञ्चिताः सत्त्वा पापस्य वशमागताः ।
गच्छन्ति नरकं पापात् कारणाग्रमहाभया(त्)
न भवेत् चित्तवशगो ऽपि तु धर्मवशो भवेत्
न गच्छेत् चित्तवशतां गच्छेद् धर्मवशे सदा ।
धर्मचारी सुखी नित्यं पापचारी न शर्मभाक्
चित्तायत्तं सर्व फलम्
चित्तायत्ता क्रिया सर्वा चित्तायत्तं फलं स्मृतम् ।
विचित्तं हि फलं चित्तं तथा फलमधिस्मृतम्
चित्तेन चिन्तितं सर्व लोकश्चित्तभवानुगः ।
न हि तद् विद्यते स्थानं यन्न चित्तवशानुगम्
शुभस्य निर्वाणसाधनत्वम्
मोक्ष बन्धनयोर्मूलं हेतुभूतं परं मतम् ।
शुभेन मुच्यते जन्तुरशुभेनाशु बध्यते
चित्तवशगाः कदापि निर्वाणं नाधिगच्छन्ति
जालिन्या मोहिताः सत्त्वाश्चित्तस्य वशमागताः ।
निर्वाणं नापि गच्छन्ति जात्यन्धा इव सत्पथम्
पञ्चेन्द्रियाणि जितवान् पापं भुङ्क्ते न कर्हिचित् ।
एकचित्तं तथा कर्म कुरुते विविधे भवे
पञ्चरङ्गोज्ज्वलं चित्तं यथा दृश्यं प्रशस्यते ।
पञ्चेन्द्रियविचित्रं हि तथा कर्म भवे भवेत्
चित्तकर्त्तानेकधा भवति
चित्तकर्ता हि पुरुषो दृश्यैर्भवति नैकधा ।
चित्तं चित्तकरं शून्यं सर्वथा नैव दृश्यते
चित्तं शोभनमशोभनं च कर्म करोति
शोभनाशोभनं चित्रं यथा भित्तिः कृतिस्तथा ।
शोभनाशोभनं कर्म तथा चित्तं करोति हि
चित्तानुगं कर्म
दिवारात्रौ यथा चित्तं स्थितं भवति चित्रगम् ।
दिवारात्रौ तथा कर्म भवे समनुवर्तते
अकृत्वा सुकृतं कर्म चित्तवृत्त्यनुगा नराः ।
पतन्ति विवशाः पापे चित्तारिपरिवञ्चिताः
कर्मचित्तकरो ह्येष यत्र यत्र नियुज्यते ।
चरचित्तेन महता तच्चित्तं च करोत्ययम्
परिणामविशेषेण यत्र यत्र नियोक्ष्यते ।
प्रेष्यन्ते तत्र चित्तेन त्रिधा तु गतिचारिणः
चित्तस्य दमनं सुखावहम्
चित्ताधिनानि वर्तन्ते सर्वकर्माणि देहिनाम् ।
तस्माच्चित्तं सदा दान्तं नयते पदमच्युतम्
दुर्विषह्यस्य लघुना यत्र यत्र निपातिनः ।
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्
येन चित्तं सदा दान्तं तेन दोषाः सदा जिताः ।
जितदोषस्य धीरस्य दुःखं नैव प्रपद्यते
चित्तस्य लघुचेष्टितमेव दुःखम्
यच्च स्वकं भवेद् दुःखं यच्च दुःखं परत्र च ।
तत् सर्वमविषह्यस्य चित्तस्य लघुचेष्टितम्
चित्तमेव सर्वेषां प्रभुः
ससुरासुरनागानां पिशाचोरगरक्षसाम् ।
प्रभुरेकः परं चित्तं राजा(हि)त्रिभवस्य तत्
चित्तभ्रान्तदुःखमश्नुते
चित्तं नयति देवेषु चित्तञ्च नरभूमिषु ।
चित्तं नयत्यपाये(षु) चित्तं भ्रामयति प्रजाः
चित्ताद् भ्रान्तस्य नष्टस्य विषयैर्मोहितस्य च ।
तृष्णया दह्यमानस्य स्थितं दुःखमनुत्तमम्
चित्तस्य दमनात् सुखानुभूतिर्भवति
एकचारि सदामूढं दुर्विषह्यं महाबलम् ।
सम्प्रदारि सदादृश्यं चपलं शीघ्रगामिनम्
एवं विधं हि ये चित्तं दमयन्ति मनीषिणः ।
ते मारबन्धनातीताः पारं प्राप्ताः सुखोदयम्
चपलं चित्तं नरकायोपकल्प्यते
सङ्कल्पकुटिलं तीव्रमगाधं चपलं हि तत् ।
चित्तं तमःश्रितं शुभ्रं नरकायोपकल्प्यते
दोषनिर्मुक्तो ऽच्युतं पदं प्राप्नोति
तदेवं दोषनिर्मुक्तं नेन्द्रियार्थवशानुगम् ।
अलिप्तं पापकैर्धर्मैर्नयते पदमच्युतम्
शुद्धं चित्तं शुद्धे कर्मणि प्रवर्तते
हेतुप्रत्ययजं चित्तं योगवाहि परं च तत् ।
परिणामवशाच्छीघ्रं तथा तत् सम्प्रवर्तते
चित्तानधीनत्वे कर्म चञ्चलं भवति
एकं करोति कर्माणि विविधानि चलं च तत् ।
एकानेकं चरं सूक्ष्मं क्षणादूर्ध्व न तिष्ठति
संसारस्य मायोपमत्वप्रतिपादनम्
दुर्विज्ञेयः सदा तस्य निःशरीरस्य सर्वदा ।
को ऽसौ नयति लोकान्तमथ केन च गच्छति
गतश्च तिष्ठति कुत्र शरीरकर्मकारकम् ।
दृश्यानि तस्य कर्माणि सञ्चयो न च दृश्यते
दमनं दुष्करं तस्य यस्य भूतिर्न विद्यते ।
सर्वसत्त्वगतं घोरं लघुकारि च चाक्षुषम्
पापात् पापतरं दृष्टं मायोपममिदं भवेत् ।
पुण्यात् पुण्यतरं दृष्टं सम्यग्मार्गसमाश्रितम्
मायोपमत्वसमर्थनम्
न गतिर्ज्ञायते तस्य गमनं नैव दृश्यते ।
नीयते च क्षतं सर्व जात्युत्तरसमानि च
शस्त्रेण छिद्यते नेदं ज्वलनेन च दहयते ।
छिद्यते दह्यते चैव जनः सर्वमचक्षुषा
दृढं यत् कर्मरज्ज्वादि नरं बध्नाति दुःखितम् ।
जात्यन्तरसहस्त्राणि नयते न च दृश्यते
दान्तमेव चित्तं सुखावहम्
मुहूर्तेन शुभं भूतं मुहूर्तेनाशुभं च तत् ।
शुभाशुभाभ्यां रचितं(चित्तं) दान्तं सुखावहम्
षड् भिर्द्वारैः प्रसूतेषु विषयेष्वतिलोलुपम् ।
चित्तं नयति लोकान्तं व्यसनं न च बुध्यते
विप्रसन्नचित्तस्य श्रेयस्करत्वे ऽनुत्तमं सुखं भवति
विप्रसन्नं यथा तोयं विप्रसन्नं यथा नभः ।
विप्रसन्नं तथा चित्तं नीयते सुखमुत्तमम्
जनाः सातिशया (दृष्टा) वितर्कविषयोद्भवात् ।
पौरवाश्चित्तराज्ञस्ते भवन्ति सहचारिणः
चञ्चलं मनः संसारे गतिं कारयति
धावति यत्र च मनस्तत्र धावन्त्यज्ञानिनः ।
परस्परबलान्नी (ता) भ्रमन्ति त्रिभवार्ण(व)म्
विशेषचित्तेनोत्तमा गतिर्भवति
चित्तवैशद्य भावानां विशेषः कर्मणास्तथा ।
न कर्मगुणहीनस्य विशेष उपलभ्यते
सुसमाहितचित्तस्य प्रशंसा
सुसमाहितचित्तः स नित्यं धर्मानुदर्शकः ।
न दोषवशमायाति यथा दिव्यस्तमोनुदः
गृहस्थस्य सम्यग्दृष्टित्वे निर्वाणप्राप्तिर्भवति
सम्यग्दृष्टेश्चाधिमात्रा यस्य चेतसि वर्तते ।
गृहस्थो ऽपि स मे ज्ञेयो मुक्तः संसारबन्धनात्
विज्ञा देवलोकं गच्छन्ति
कल्याणनिर्मलं यच्च ततो दोषेण बाध्यते ।
विज्ञो (न) मलमाप्नोति देवलोके स जायते
विनीतचित्ताः सुखगामिनो भवन्ति
विषयद्वारचपलं नदीकुटिलगामिनम् ।
यैर्विनीतमिदं चित्तं ते सुराः शुभभागिनः
अधर्ममार्गः कल्याणाय न भवति
अधर्मपथमाश्रित्य जनाः पापवशानुगाः ।
चिरं भ्रमन्ति संसारे चित्तेन परिखेदिताः
चित्तं क्षणे क्षणे परिवर्तते
क्षणे क्षणे चित्तमिदं नैकशः परिवर्तते ।
लघुस्वभावचपलं मायागन्धर्वसन्निभम्
चञ्चलचित्तो बद्धो भवति
तस्य बन्धनमेवेष्टं ज्ञानविज्ञानसम्मतम् ।
दूरवृत्तिर्महावेगः परिधावत्यनेकधा
धृत्या चित्तधारिणः सुखमश्नुते
ह्रियमाणं सदा चित्तमिन्द्रियार्थे दुरासदम् ।
सन्धारयति यो धृत्या स धीरः पारगामिकः
धृतिमज्ञानमोहं च विषयोत्तानमानसम् ।
सन्धारयति यो धीमान् स लोके पण्डितो नरः
शुभचित्तं कामावरोधकं भवति
यो यथा कुरुते चित्तं तथा कामान् स पश्यति ।
शुभेन कामशमनं नाशुभेन प्रवर्धनम्
अप्रशान्तमतिर्दुःखमाप्नोति
शान्तचित्तंमनाः कामानस्यतीह विषास्त्रवत् ।
अप्रशान्तमतिः सर्पमणिवत् तान् स पश्यति
चित्तवशगो न शुभां गतिमाप्नोति
इन्द्रियाणीन्द्रियार्थाश्च चित्ताधीना भवन्त्यमी ।
चित्त संश्लेषयोगेन परिणामः प्रवर्तते
धीरप्रशंसा
तस्यैव व्यवधानेन धीरश्च प्रतिबुध्यते ।
रूपसामान्यतो दृष्टं परिणामः कथं पृथक्
चित्तस्वरूपनिरूपणम्
यथा रूपं तथा सर्व विषयाश्चित्तहेतवः ।
चित्तं दान्तं सदा शान्तं दोषमिश्रविगर्हितम्
एकमेकं यथा शालि गन्धरूपे पृथग्विधे ।
संश्लेषो याति नानात्वं तथाचित्तं प्रवर्तते
क्रियां हि तत्र कुरुते यत्र (चित्तं) प्रधावति ।
चित्तसंवाहनं तद्वाक्यं लोको ऽयं सम्प्रवर्तते
विषयाद् भ्रान्तमनसश्(चा)तिवेगो महाबलः ।
चित्तं(शान्त)करं दान्तं शिवं भवति देहिनाम्
दान्तेन चेतसा तत्त्वदर्शनं भवति
तेनादान्तेन शीघ्रेण सर्वपापविहारिणा ।
भ्राम्यते त्रिभवः सर्वः न च तत्त्वं स पश्यति
समीरणरणोद्भ्रान्तो लोकः संसारे भ्रमति
समीरणरणोद्भ्रान्तो यथा भ्रमति सागरः ।
चित्तेश्वरसमायुक्तो लोको ऽयं भ्राम्यते सदा
चित्तं शुभं सुखमेधीत
शुभोपनीतं चित्तं(हि) शुभेष्वेवापनीयते ।
तथा शुभानुचरितमश्नुते तेषु धावति
योगवाहिचित्तं प्रत्ययं लभते
योगवाहि नृणां चित्तं वाय्वम्बुसममेव च ।
प्रत्ययश्च यथा लभ्यस्तथा तत् परिधावति
चित्तं प्रधावति परिवर्तते च
शीघ्रं प्रधावते चित्तं शीघ्रञ्च परिवर्तते ।
शीघ्रं नयति देवेश (भुवने) दायभूमिषु
चित्तस्य कर्त्तृत्वम्
कर्त्तृत्वं सर्वधर्माणां भर्त्तृत्वं सर्वकर्मणाम् ।
नेतृत्वं सर्वकर्माणां चित्तत्वमिति लक्ष्यते
चित्तं न विश्वसेत्
न विश्वसेद्धि चित्तस्य नित्यं छिद्रप्रहारिणः ।
दुर्लभस्यापि वश्यस्य चपलस्य विशेषतः
चित्तगतिवर्णनम्
मुहूर्तेन शुभं याति मुहूर्तेन तथाशुभम् ।
भवत्यव्याकृतं शीघ्रं गतिरस्य न विद्यते
नायतिर्ज्ञायते तस्य गमनं नैव विद्यते ।
अभूतः सम्भवस्तस्य भूत्वा च प्रतिगच्छति
रूपरहितं चित्तम्
नाकारो विद्यते तस्य सञ्चयो ऽपि न विद्यते ।
ग्रहणं तस्य नैवास्ति निःशरीरस्य सर्वतः
प्रत्ययसाधनवर्णनम्
हेतुप्रत्ययसामग्रया प्राप्तः सञ्जायते पुनः ।
मणिसोमप्रत्ययो (हि) प्रत्ययो ज्ञायते ऽनलः
चित्तमिन्द्रियरूपादीन् प्रति धावति
तथैवेन्द्रियरूपादीन् प्रतिविज्ञानसम्भवः ।
नैकस्य ज्ञायते चित्तं समवाय्यनुलक्ष्यते
चित्तं दुर्निवार्यम्
तदेवं विषयं मत्वा दुर्निवार्य च सर्वतः ।
सद्धर्ममतिरास्थेया न कामेषु कथञ्चन
चित्तमति चपलम्
चण्डातिचपलं तीव्रमविषह्यं महावलम् ।
चित्तं करोति कर्माणि यन्न पश्यन्ति बालिशाः
दुःखप्रवर्तकं चित्तम्
सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे ।
भवेत् प्रवर्तकं दुःखं येन धावति बालिशः
चित्तदोषो महादोष एव
वातादयो न दोषाः स्युर्दोषा रागादयो मताः ।
वातादिभिरपायेषु मानवो नोपपद्यते
चित्तदोषो महादोषो नित्यं(पाप) विदर्शकः ।
तस्मात्तेषां समाश्रेयो न वातादिगमादिह
रागानुगं चित्तं दुष्टं भवति
वातादयः प्रणश्यन्ति देहनाशाच्छरीरिणाम् ।
(रागादयो) न तस्य स्युर्जन्मान्तरशतैरपि
तस्माद् रागस्य वशगं न विधेयं कदाचन ।
आभ्यन्तिकं परं श्रेयः प्राप्यते रागसङ्क्रमात्
मन एव चिकित्सको भवति
यश्चित्तवैद्यः स भिषग् न शरीरभिषग् भृशम् ।
मनश्चिकित्सको ज्ञेयो न तथा लौकिको मतः
स्वचित्तकर्मणा दग्धो नरके पतति
कर्मचिन्त्यं समं चिन्त्यं न चित्तेन प्रपद्यते ।
स्वचित्तकर्मणा दग्धो नरकानुपधावति
ध्यानादेव चित्तं शुद्धं भवति
यच्छ्रेयः समचित्तस्य न तत् (क्वाप्युप)पद्यते ।
संरक्ष्यं हृदयं मूढः प्रयातमनुधावति
चित्तवशगो दुःखमाप्नोति
ध्यानाद् ध्येयेन कूटेन यः पुमान् वनमाश्रितः ।
तं मुक्त्वा चित्तकः सो ऽयं संप्रहृष्यति बालिशः
ये बालाश्चित्तपाशेन चित्तकर्मविचारिणः ।
नीयन्ते ह्यवशा घोरं नरकं कर्ममोहिता
चित्तवैविध्यनिरूपणम्
सुचित्तमपि यच्चितं न तच्चित्तं सतां मतम् ।
कर्मचित्तं महाचित्तं त्रिधातुगतचित्रितम्
सत्त्वा चित्रैरुपायैर्हि भ्रमन्ति गतिपञ्चके ।
तत् सर्व कर्मसाचिव्यं चित्रकर्तृ विचित्रितम्
चित्तवशगो बद्धो भवति
चित्तचित्रकरेणेदं कर्मजातं विचित्रितम् ।
येन सर्वमिदं बद्धं जगद् भ्रमति मोहितम्
वर्षातपरजोधूमैश्चित्तं नश्यति भूभुजैः ।
कल्पकोटिसहस्त्रेण चित्रं चित्तं विनश्यति
नाशं प्रयाति बसुधा सागरश्चापि शुष्यति ।
चित्तेनापि कृतं चित्रं तस्यानुभवने स्थिते
प्रमत्ते चित्ते नानागतिर्भवति
नानागतिसमावृत्ता नानाकर्मसमानुगाः ।
नानाचित्तवशाः सत्त्वा भ्रमन्ति गतिपञ्चके
बालिशा (नां)नृणां चित्तं विषयं(प्रति)धावति ।
न चिनोत्यशुभं कर्म येन धावति दुर्गतिम्
चञ्चलं चित्तं सदा विषमं भवति
तस्माच्चित्तं सदा रक्ष्यं चञ्चलं विषमं खरम् ।
नित्यं विषयसंसक्तं तृष्णाविषसमावृत्तम्
विषयानुरक्तं चित्तं व्यसने पातयति
धावते विषयं चैतद् व्यसनं नावबुध्यते ।
पश्चात्तु व्यसने प्राप्ते फलं विन्दति कर्मणः
समाहितचित्तः सुखमश्नुते
अपायभीरुता तस्य तस्य चित्तं समाहितम् ।
समाहितेन चित्तेन सुखात् सुखमवाप्नुते
निर्जितचित्तः सुखमाप्नोति
विषमं चपलं तीव्रमविषह्यं महाबलम् ।
यैश्चित्तं निर्जितं धीरैस्ते लोके सुखिनो मताः
मूल पाठ: Dharmasamuccaya · Edition: Vijayasankar Caube: Dharmasamuccaya. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0