भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 5.18

5.18.1

महिषासुरवधः
महिष उवाच ॥
तस्यास्तु भगिनी कन्या नाम्ना चेंदुमती शुभा ॥
विवाह योग्या संजाता सुरू पाऽवरजा यदा

5.18.2

तस्या विवाहः संवृत्तः सूजाताश्च स्वयंवरः ॥
राजानो बहुदेशीयाः संगतास्तत्र मंडपे

5.18.3

तया वृतो नृपः कश्चिद्बलवान्रूपसंयुतः ॥
कुलशीलसमायुक्तः सर्वलक्षणसंयुतः

5.18.4

तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा ॥
चकमे दैवयोगात्तु शठं चातुर्यभूषितम्

5.18.5

पितरं प्राह तन्वंगी विवाहं कुरु मे पितः ॥
इच्छा मेऽद्य समुद्भूता दृष्ट्वा भद्राधिपं त्विह

5.18.6

चंद्रसेनोऽपि तच्छुत्वा पुत्र्या यद्भाषितं रहः ॥
प्रहसन्नेव मनसा तत्कार्ये तत्परोऽभवत्

5.18.7

तमाहूय नृप गेहे विवाहविधिना ददौ ॥
कन्यां मंदोदरीं तस्मै पारिबर्हं तथा बहु

5.18.8

चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् ॥
जगाम स्वगृहं तुष्टो राजाऽपि सहितः स्त्रिया

5.18.9

रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् ॥
कदाचिद्दासपत्न्या स रममाणो रहः किल

5.18.5.18.10

सैरंध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा ॥
उपलंभं ददौ तस्मै स्मितपूर्वं रुषाऽन्विता

5.18.11

कदाचिदपि सामान्यां रहो रूपवतीं नृपः ॥
क्रीडयंल्लालयन्दृष्टः खेदं प्राप तदैव सा

5.18.12

न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे ॥
किं कृतं तु मया मोहाद्वंचिताऽहं नृपेण ह

5.18.13

किं करोम्यद्य संताप निर्लज्जे निर्घृणे शठे ॥
का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम्

5.18.14

अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु ॥
पतिसंभोगजं सर्वं संतोषोऽद्य मया कृतः

5.18.15

अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम ॥
देहत्यागः क्रियते चेद्धत्याऽतीव दुरत्यया

5.18.16

पितृगेहं व्रजाम्याशु तत्राऽपि न सुखं भवेत् ॥
हास्ययोग्या सखीनां तु भवेयं नात्र संशयः

5.18.17

तस्मादत्रैव संवासो वैराग्ययुतया मया ॥
कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः

5.18.18

महिष उवाच ॥
इति संचिंत्य सा नारी दुःखशोक परायणा ॥
स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः

5.18.19

तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् ॥
अन्यं कापुरुषं मंदं कामार्ता संश्रयिष्यसि

5.18.5.18.20

वचनं कुरु मे तथ्यं नारीणां परमं हितम् ॥
अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः

5.18.21

देव्युवाच ॥
मदात्मन्गच्छ पातालं युद्धं वा कुरु सांप्रतम् ॥
हत्वा त्वामसुरान्सर्वान्यमिष्यामि यथासुखम्

5.18.22

यदा यदा हि साधूनां दुःखं भवति दानव ॥
तदा तेषां च रक्षार्थं देहं संधारया म्यहम्

5.18.23

अरूपायाश्च मे रूपमजन्मायाश्च जन्म च ॥
सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम्

5.18.24

सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरै किल ॥
त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला

5.18.25

तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् ॥
सवर्था त्वां हनिष्यामि सत्यमेतद्ब्रवीम्यहम

5.18.26

व्यास उवाच ॥
इत्युक्तः स तया देव्या धनुरादाय दानवः ॥
युद्धकामः स्थितस्तत्र संग्रामांगणभूमिषु

5.18.27

मुमोच तरसा बाणान्कर्णाऽऽकृष्टाञ्छिलाशितान् ॥
देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तै रयोमुखैः

5.18.28

तयोः परस्परं युद्धं संबभूव भयप्रदम् ॥
देवानां दानवानां च परस्परजयैषिणाम्

5.18.29

मध्ये दुर्धर आगत्य मुमोच शिलीमुखान् ॥
देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान्

5.18.5.18.30

ततो भगवती क्रुद्धा तं जघान शितैः शरैः ॥
दुर्धरस्तु पपातोर्व्यां गतासुगिरिशृंगवत्

5.18.31

तं तया निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् ॥
आगत्य सप्तभिर्बाणैर्जघान पर मेश्वरिम्

5.18.32

अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् ॥
त्रिशूलेन त्रिनेत्रं तु जघान जगदंबिका

5.18.33

अन्धकस्त्वाज गामाशु हतं दृष्ट्वा त्रिलोचनम् ॥
गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके

5.18.34

सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् ॥
चखाद तरसा मांसमंधकस्य रुषाऽन्वितः

5.18.35

तान्रणे निहतान्वीक्ष्य दानवो विस्मयं गतः ॥
चिक्षेप तरसा बाणानतितीक्ष्णाञ्छि लाशितान्

5.18.36

द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः ॥
गदया ताडयामास दैत्यं वक्षसि चांबिका

5.18.37

स गदाभिहतो मूर्छामवापामरबाधकः ॥
विषह्य पीडां पापात्मा पुनरागत्य सत्वरः

5.18.38

जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः ॥
सिंहोऽपि नखघातेन तं ददार महासुरम्

5.18.39

विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह ॥
नखैर्विदारयामास देवीसिंहं मदोत्कटम्

5.18.5.18.40

तं च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः ॥
शरैरवाकिरत्तीक्ष्णैः शरैराशीविषैरिव

5.18.41

त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः ॥
शैल शृंगं करे कृत्वा चिक्षेप चंडिकां प्रति

5.18.42

आगच्छंतं गिरेः शृंगं देवी बाणैः शिलाशितैः ॥
चकार तिलशः खण्डाञ्जहास जगदंबिका

5.18.43

उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः ॥
नखैर्विदारयामास महिषं गजरूपिणम्

5.18.44

विहाय गजरूपं च बभूवाष्टापदी तथा ॥
हंतुकामो हरिकोपाद्दारुणो बलवत्तरः

5.18.45

तं वीक्ष्य शरभं देवी खड्गेन सा रुषाऽन्विता ॥
उत्तमांगे जघानाशु सोऽपि तां प्राहरत्तदा

5.18.46

तयोः परस्परं युद्धं बभूवाति भयप्रदम् ॥
माहिषं रूपमास्थाय शृंगाभ्यां प्राहरत्तदा

5.18.47

पुच्छप्रभ्रमणेनाशु शृंगघातैर्महासुरः ॥
ताडयामास तन्वंगी घोररूपो भयानकः

5.18.48

पुच्छेन पर्वताञ्छृंगे गृहीत्वा भ्रामयन्बलात् ॥
प्रेषयामास पापात्मा प्रहसन्परया मुदा

5.18.49

तामुवाच बलोन्मत्तस्तिष्ठ देवि रणांगणे ॥
अद्याहं त्वां हनिष्यामि रूप यौवनभूषिताम्

5.18.5.18.50

मूर्खाऽसि मदमत्ताऽद्य यन्मया सह संगरम् ॥
करोषि मोहिताऽतीव मृषा बलवती खरा

5.18.51

हत्वा त्वां निहनिष्यामि देवान्कपटपं डितान् ॥
ये नारीं पुरतः कृत्वा जेतुमिच्छंति मां शठाः

5.18.52

देव्युवाच ॥
मा गर्वं कुरु मंदात्मंस्तिष्ठ तिष्ठ रणांगणे ॥
करिष्यामि निरातंकान्हत्वा त्वां सुरसत्तमान्

5.18.53

पीत्वाऽद्य माधवीमिष्टां शातयामि रणेऽधम ॥
देवानां दुःखदं पापं मुनीनां भय कारकम्

5.18.54

व्यास उवाच ॥
इत्युक्त्वा चषकं हैमं गृहीत्वा सुरया युतम् ॥
पपौ पुनः पुनः क्रोधाद्धंतुकामा महासुरम्

5.18.55

पीत्वा द्राक्षासवं मिष्टं शलूमादाय सत्वरा ॥
दुद्राव दानवं देवी हर्षयन्देवतागणान्

5.18.56

देवास्तां तुष्टुवुः प्रेम्णा चक्रुः कुसुम वर्षणम् ॥
जयजीवेति ते प्रोचुर्दुंदुभीनां च निःस्वनैः

5.18.57

ऋषयः सिद्धगंधर्वाः पिशाचोरगचारणाः ॥
किन्नराः प्रेक्ष्य संग्रामं मुदिता गगने स्थिताः

5.18.98

सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः ॥
मायामयाञ्जघानाजौ देवी कपटपंडितः

5.18.59

चंडिकाऽपि च तं पापं त्रिशूलेन बलादधृदि ॥
ताडयामास तीक्ष्णेन क्रोधादरुणलोचना

5.18.5.18.60

ताडितोऽसौ पपातोर्व्यां मूर्छांमाप मुहूर्तकम् ॥
पुनरुत्थाय चामुंडां पद्भ्यां वेगादताडयत्

5.18.61

विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः॥
रुराव दारुणं शब्दं देवानां भयकारकम्

5.18.62

ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् ॥
करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम्

5.18.63

पश्य चक्रं मदांधाद्य तव कंठनिकृंतनम् ॥
क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना

5.18.64

इत्युक्त्वा दारुणं चक्रं मुमोच जगदंबिका ॥
शिरश्छिन्नं रथांगेन दानवस्य तदा रणे

5.18.65

सुस्राव रुधिरं चोष्णं कंठनालाद्गिरेर्यथा ॥
गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम्

5.18.66

कबंधस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ ॥
जयशब्दश्च देवानां बभूव सुखवर्धनः

5.18.67

सिंहस्त्वतिबलास्तत्र पलायनपरानथ ॥
दानवान्भक्षयामास क्षुधार्तं इव संगरे

5.18.68

मृते च महिषे क्रूरे दानवा भयपीडिताः ॥
मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप

5.18.69

आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते ॥
मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ

5.18.5.18.70

चंडिकाऽपि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता ॥
देवास्तत्राऽऽययुः शीघ्रं स्तोतुकामाः सुखप्रदाम्

5.18.18

इति श्रीदेवीभागवते पञ्चमस्कंधे महिषाऽसुरवधो नामाऽष्टादशोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc