भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 5.19

5.19.1

देवीसान्त्वनम्
व्यास उवाच
अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः ।
महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम्

5.19.2

देवा ऊचुः
ब्रह्मा सृजत्यवति विष्णुरिदं महेशः
शक्त्या तवैव हरते ननु चान्तकाले ॥
ईशा न तेऽपि च भवन्ति तया विहीना-
स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री

5.19.3

कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं
श्रद्धा धृतिश्च वसुधा कमलाजपा च ।
पुष्टिः कलाथ विजया गिरिजा जया त्वं
तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च

5.19.4

विद्या क्षमा जगति कान्तिरपीह मेधा
सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् ।
आभिर्विना तव तु शक्तिभिराशु कर्तुं
को वा क्षमः सकललोकनिवासभूमे

5.19.5

त्वं धारणा ननु न चेदसि कूर्मनागौ
धर्तुं क्षमौ कथमिलामपि तौ भवेताम् ।
पृथ्वी न चेत्त्वमसि वा गगने कथं स्था-
स्यत्येतदम्ब निखिलं बहुभारयुक्तम्

5.19.6

ये वा स्तुवन्ति मनुजा अमरान्विमूढा
मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् ।
शुभ्रांशुवह्नियमवायुगणेशमुख्यान्
किं त्वामृते जननि ते प्रभवन्ति कार्ये

5.19.7

ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे
वह्नौ सुरान्समधिकृत्य हविः समृद्धम् ।
स्वाहा न चेत्त्वमसि ते कथमापुरद्धा
त्वामेव किं न हि यजन्ति ततो हि मूढाः

5.19.8

भोगप्रदासि भवतीह चराचराणां
स्वांशैर्ददासि खलु जीवनमेव नित्यम् ।
स्वीयान्सुराञ्जननि पोषयसीह यद्व-
त्तद्वत्परानपि च पालयसीति हेतोः

5.19.9

मातः स्वयंविरचितान्विपिने विनोदा-
द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् ।
नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि-
त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान्

5.19.10

यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती-
न्देवाङ्गनासुरतकेलिमतीन्विदित्वा ।
देहान्तरेऽपि करुणारसमाददाना
तत्ते चरित्रमिदमीप्सितपूरणाय

5.19.11

चित्रं त्वमी यदसुभी रहिता न सन्ति
त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः ।
येषां कृते जननि देहनिबन्धनं ते
क्रीडारसस्तव न चान्यतरोऽत्र हेतुः

5.19.12

प्राप्ते कलावहह दुष्टतरे च काले
न त्वां भजन्ति मनुजा ननु वञ्चितास्ते ।
धूर्तैः पुराणचतुरैर्हरिशङ्कराणां
सेवापराश्च विहितास्तव निर्मितानाम्

5.19.13

ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च
ये वै भजन्ति भुवि भावयुता विभग्नान् ।
धृत्वा करे सुविमलं खलु दीपकं ते
कूपे पतन्ति मनुजा विजलेऽतिघोरे

5.19.14

विद्या त्वमेव सुखदासुखदाप्यविद्या
मातस्त्वमेव जननार्तिहरा नराणाम् ।
मोक्षार्थिभिस्तु कलिता किल मन्दधीभि-
र्नाराधिता जननि भोगपरैस्तथाज्ञैः

5.19.15

ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं
पादाम्बुजं तव भजन्ति सुरास्तथान्ये ।
तद्वै न येऽल्पमतयो मनसा भजन्ति
भ्रान्ताः पतन्ति सततं भवसागरे ते

5.19.16

चण्डि त्वदङ्‌घ्रिजलजोत्थरजःप्रसादै-
र्ब्रह्मा करोति सकलं भुवनं भवादौ ।
शौरिश्च पाति खलु संहरते हरस्तु
त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ

5.19.17

वाग्देवता त्वमसि देवि सुरासुराणां
वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः ।
त्वं चेन्मुखे वससि नैव यदैव तेषां
यस्माद्‌भवन्ति मनुजा न हि तद्विहीनाः

5.19.18

शप्तो हरिस्तु भृगुणा कुपितेन कामं
मीनो बभूव कमठः खलु सूकरस्तु ।
पश्चान्नृसिंह इति यश्छलकृद्धरायां
तान्सेवतां जननि मृत्युभयं न किं स्यात्

5.19.19

शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं
शापेन तेन च भृगोर्विपिने गतस्य ।
तं ये नरा भुवि भजन्ति कपालिनं तु
तेषां सुखं कथमिहापि परत्र मातः

5.19.20

योऽभूद्‌ गजाननगणाधिपतिर्महेशा-
त्तं ये भजन्ति मनुजा वितथप्रपन्नाः ।
जानन्ति ते न सकलार्थफलप्रदात्रीं
त्वां देवि विश्वजननीं सुखसेवनीयाम्

5.19.21

चित्रं त्वयारिजनतापि दयार्द्रभावा-
द्धत्वा रणे शितशरैर्गमिता द्युलोकम् ।
नोचेत्स्वकर्मनिचिते निरये नितान्तं
दुःखातिदुःखगतिमापदमापतेत्सा

5.19.22

ब्रह्मा हरश्च हरिरप्युत गर्वभावा-
ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् ।
केऽन्ये भवन्ति मनुजा विदितुं समर्थाः
सम्मोहितास्तव गुणैरमितप्रभावैः

5.19.23

क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं
पादाम्बुजं न हि भजन्ति विमूढचित्ताः ।
सूर्याग्निसेवनपराः परमार्थतत्त्वं
ज्ञातं न तैः श्रुतिशतैरपि वेदसारम्

5.19.24

मन्ये गुणास्तव भुवि प्रथितप्रभावाः
कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् ।
लोकान्स्वबुद्धिरचितैर्विविधागमैश्च
विष्ण्वीशभास्करगणेशपरान्विधाय

5.19.25

कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या-
न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः ।
तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं
तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च

5.19.26

तुर्ये युगे भवति चातिबलं गुणस्य
तुर्यस्य तेन मथितान्यसदागमानि ।
त्वां गोपयन्ति निपुणाः कवयः कलौ वै
त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति

5.19.27

ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां
विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः ।
ते नाप्नुवन्ति जननीजठरे तु दुःखं
धन्यास्त एव मनुजास्त्वयि ये विलीनाः

5.19.28

चिच्छक्तिरस्ति परमात्मनि येन सोऽपि
व्यक्तो जगत्सु विदितो भवकृत्यकर्ता ।
कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन्
कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या

5.19.29

तत्त्वानि चिद्विरहितानि जगद्विधातुं
किं वा क्षमाणि जगदम्ब यतो जडानि ।
किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति
देवि त्वया विरहितानि फलं प्रदातुम्

5.19.30

देवा मखेष्वपि हुतं मुनिभिः स्वभागं
गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् ।
स्वाहा न चेत्त्वमसि तत्र निमित्तभूता
तस्मात्त्वमेव ननु पालयसीव विश्वम्

5.19.31

सर्वं त्वयेदमखिलं विहितं भवादौ
त्वं पासि वै हरिहरप्रमुखान्दिगीशान् ।
कालेऽत्सि विश्वमपि ते चरितं भवाद्यं
जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः

5.19.32

हत्वासुरं महिषरूपधरं महोग्रं
मातस्त्वया सुरगणः किल रक्षितोऽयम् ।
कां ते स्तुतिं जननि मन्दधियो विदामो
वेदा गतिं तव यथार्थतया न जग्मुः

5.19.33

कार्यं कृतं जगति नो यदसौ दुरात्मा
वैरी हतो भुवनकण्टकदुर्विभाव्यः ।
कीर्तिः कृता ननु जगत्सु कृपा विधेया-
प्यस्मांश्च पाहि जननि प्रथितप्रभावे

5.19.34

व्यास उवाच
एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा ।
अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः

5.19.35

यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् ।
स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम्

5.19.36

देवा ऊचुः
सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् ।
यदयं निहतः शत्रुरस्माकं महिषासुरः

5.19.37

स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् ।
तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम्

5.19.38

अपराधसहस्राणि मातैव सहते सदा ।
इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः

5.19.39

द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् ।
नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि

5.19.40

तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति ।
पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु

5.19.41

प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः ।
मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः

5.19.42

सुखे वाप्यथवा दुःखे त्वं नः शरणमद्‌भुतम् ।
पाहि नः सततं देवि सर्वैस्तव वरायुधैः

5.19.43

अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः ।
व्यास उवाच
एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत ।
विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम्

5.19.19

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे देवीसान्त्वनं नामैकोनविंशोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc