भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 5.17

5.17.1

राजपुत्रीमन्दोदरीवृत्तवर्णनम्
व्यास उवाच ॥
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ॥
का सा मंदोदरी नारी कोऽसौ त्यक्तो नृपस्तया

5.17.2

शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ॥
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः

5.17.3

महिष उवाच ॥
सिंहलो नाम देशो ऽस्ति विख्यातः पृथिवीतले ॥
घनपादपसंयुक्तो धनधान्यसमृद्धिमान्

5.17.4

चंद्रसेनाऽभिधस्तत्र राजा धर्मपरायणः ॥
न्यायदंडधरः शांतः प्रजापालनतत्परः

5.17.5

सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः ॥
शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः

5.17.6

तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा ॥
सदाचाराऽतिसुमुखीं पतिभक्तिपरायणा

5.17.7

नाम्ना गुणवती कांता सर्वलक्षणसंयुता ॥
सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम्

5.17.8

पिता चातीव संतुष्टः पुत्रीं प्राप्य मनोरमाम् ॥
मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः

5.17.9

इंदोः कलेव चात्यर्थं ववृधे सा दिनेदिने ॥
दशवर्षा यदा जाता कन्या चातिमनोहरा

5.17.5.17.10

वरार्थं नृपतिश्चिन्तामवाप च दिनेदिने ॥
मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः

5.17.11

तस्य पुत्रोऽतिमेधावी कंबुग्रीवोऽतिविश्रुतः ॥
ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः

5.17.12

सर्वलक्षणसंपन्नः सर्वविद्यार्थपारगः ॥
राज्ञा पृष्टा तदा राज्ञा नाम्ना गुणवती प्रिया

5.17.13

कंबुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् ॥
सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम्

5.17.14

विवाहं ते पिता कर्तुं कंबुग्रीवेण वांछति ॥
तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा

5.17.15

नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे ॥
कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा

5.17.15

स्वातंत्र्येण चरिष्यामि तपस्तीव्रं सदैव हि ॥
पारतंत्र्य परंदुःखं मातः संसारसागरे

5.17.17

स्वातंत्र्या न्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदा ॥
तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम्

5.17.18

विवाहे वर्तमाने तु पावकस्य च सन्निधौ ॥
वक्तव्यं वचनं सम्यक्त्वदधीनाऽस्मि सर्वदा

5.17.19

श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये ॥
पतिचिंत्तानुवर्तित्वं दुःखादुः खतरं स्मृतम्

5.17.5.17.20

कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि ॥
तदा महत्तरं दुःखं सपत्नीसंभवं भवेत्

5.17.21

तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ ॥
संसारे क्व सुखं मातर्नारीणां च विशेषतः

5.17.22

स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि ॥
श्रुतं मया पुरा मातरुत्तानचरणात्मजः

5.17.23

उत्तमः सर्वधर्मज्ञो धुवादवरजो नृपः ॥
पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम्

5.17.24

अपराधं विना कांतां त्यक्तवान्विपिने प्रियाम् ॥
एवंविधानि दुःखानि विद्यमाने तु भर्तरि

5.17.25

कालयोगान्मृते तस्मिन्नारी स्याद् दुःखभाजनम्॥
वैधव्यं परमं दुःखं शोक संतापकारकम्

5.17.26

परोषि(पि?)तपतित्वेऽपि दुःखं स्यादधिकं गृहे ॥
मदनाग्निविदग्धायाः किं सुख पति संगजम्

5.17.27

तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम ॥
एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा

5.17.28

न च वांछति भर्तारं कौमारव्रतधारिणी ॥
व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा

5.17.29

न कांक्षति पतिं कर्तुं बहुदोषविचक्षणा ॥
भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः

5.17.5.17.30

विवाहो न कृतः पुत्र्या ज्ञात्वा भाववि वर्जिताम् ॥
वर्तमाना गृहेष्वेवं पित्रा मात्रा च रक्षिता

5.17.31

यौवनस्यांकुरा जाता नारीणां काम दीपकाः ॥
तथाऽपि सा वयस्याभिः प्रेरिताऽपि पुनः पुनः

5.17.32

चकमे न पतिं कर्तुं ज्ञानार्थपद भाषिणी ॥
एकदोद्यानदेशे सा विहर्तुं बहुपादपे

5.17.33

जगाम सुमुखी प्रेम्णा सैरंध्रीगणसेविता ॥
रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः

5.17.34

पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता ॥
कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा

5.17.35

आजगाम महावीरो वीरसेनोऽतिविश्रुतः ॥
एकाकी रथमारूढः कतिचित्सेवकैर्वृतः

5.17.36

सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः ॥
दृष्टस्तस्या वयस्या तु दूरतः पार्थिवस्तदा

5.17.37

मंदोदर्यै तथा प्रोक्तं समायाति नरः पथि ॥
रथारूढो महाबाहू रूपवान्मदनोऽपरः

5.17.38

मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह ॥
एवं ब्रुवत्यां तत्रासौ कोशलेन्द्रः समागतः

5.17.39

दृष्ट्वा तामसितापांगीं विस्मयं प्राप भूपतिः ॥
उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम्

5.17.5.17.40

केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे ॥
एवं पृष्टा तु सैरंध्री तमुवाच शुचिस्मिता

5.17.41

प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचनम् ॥
कोऽसि त्वं किमिहायातः किं कार्यं वद सांप्रतम्

5.17.42

इति पृष्टस्तु सैरंध्र्या तामु वाच महीपतिः ॥
कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः

5.17.43

तस्य पालयिता चाहं वीरसेनाभिधः प्रिये ॥
वाहिनी पृष्ठतः कामं समायाति चतुर्विधा

5.17.44

मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् ॥
सैरंध्र्युवाच ॥
चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल

5.17.45

उद्याने रंतुकामेयं प्राप्ता कमल लोचना ॥
श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम्

5.17.46

सैरंध्रि चतुराऽसि त्वं राजपुत्रीं प्रबोधय ॥
ककुत्स्थवंशजश्चाहं राजाऽस्मि चारुलोचने

5.17.47

गांधर्वेण विवाहेन पतिं मां कुरु कामिनि ॥
न मे भार्याऽस्ति सुश्रोणि वयसोऽद्भुतयौवनाम्

5.17.48

वांछामि रूपसंपन्नां सुकुलां कामिनीं किल ॥
अथवा ते पिता मह्यं विधिना दातुमर्हति

5.17.49

अनुकूल पतिश्चाहं भविष्यामि न संशयः ॥
महिष उवाच ॥
इत्याऽऽकर्ण्य वचस्तस्य सैरंध्री प्राह तां तदा

5.17.5.17.50

प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा ॥
मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः

5.17.51

रूपवान्बलवान्कांतो वयसा त्वत्समः पुनः ॥
प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा

5.17.52

पिताऽपि ते विशालाक्षि परितप्यति सर्वथा ॥
विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम्

5.17.58

इत्याहाऽस्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः ॥
पुत्रीं प्रबोधयत्वेतां सैरंध्र्यः सेवने रताः

5.17.54

वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः ॥
भर्तुः शुश्रूषणं स्त्रीणां परो धमोंऽब्रवीन्मनुः

5.17.55

भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् ॥
तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम्

5.17.56

मन्दोदर्युवाच ॥
नाऽहं पतिं करिष्यामि चरिष्ये तपमद्भुतम् ॥
निवारय नृपं बाले किं मां पश्यति निस्त्रपः ॥

5.17.57

सैरंध्र्युवाच ॥
दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः ॥
तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुंदरि

5.17.58

अन्यथा व्यसनं नूनमा पतेदिति निश्चयः ॥
इति तस्या वचः श्रुत्वा कन्यो वाचाथ तां सखीम्

5.17.59

यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् ॥
न विवाहं करिष्येऽहं सर्वथा परिचारिके

5.17.5.17.60

महिष उवाच ॥
इति तस्यास्तु निर्बंधं ज्ञात्वा प्राह नृपं पुनः ॥
गच्छ राजन्यथा कामं नेयमिच्छति सत्पतिम्

5.17.61

नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया ॥
कोशलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः

5.17.17

इति श्रीदेवी भागवते महापुराणे पचमस्कंधे सप्तदशोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc