भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 2.4

2.4.1

देवव्रतोत्पतिवर्णनम्
सूत उवाच ॥
प्रतीपेऽथ दिवं याते शंतनुः सत्यविक्रमः ॥
बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः

2.4.2

स कदाचिद्वने घोरे गंगातीरे चरन्नृपः ॥
ददर्श मृगशावाक्षीं सुंदरीं चारुभूषणाम्

2.4.3

दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना ॥
रूपयौवनसंपन्ना साक्षाल्लक्ष्मीरिवापरा

2.4.4

पिबन्मुखांबुजं तस्या न तृप्तिमग्मन्नृपः ॥
हृष्टरोमाऽभवत्तत्र व्याप्तचित्त इवानघ

2.4.5

महाभिषं साऽपि मत्वा प्रेमयुक्ता बभूव ह ॥
किंचिन्मंदस्मितं कृत्वा तस्थावग्रे नृपस्य च

2.4.6

वीक्ष्य तामसितापांगीं राजा प्रीतमना भृशम् ॥
उवाच मधुरं वाक्यं सांत्वयञ्छ्लक्ष्णया गिरा

2.4.7

देवी वा त्वं च वामोरु मानुषी वा वरानने ॥
गंधर्वी वाऽथ यक्षी वा नागकन्याऽप्सराऽपि वा

2.4.8

याऽसि काऽसि वरारोहे भार्या मे भव सुंदरि ॥
प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे

2.4.9

सूत उवाच ॥
राजा तां नाभिजानाति गंगेयमिति निश्चितम् ॥
महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी

2.4.2.4.10

पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् ॥
उवाच नारी राजानं स्मितपूर्वमिदं वचः

2.4.11

स्त्र्युवाच ॥
जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् ॥
का न वांछति चार्वंगी भावित्वात्सदृशं पतिम्

2.4.12

वाग्बंधेन नृपश्रेष्ठ चरिष्यामि पतिं किल ॥
शृणु मे समयं राजन्वृणोमि त्वां नृपोत्तम

2.4.13

यच्च कुर्यामहं कार्यं शुभं वा यदि वाऽशुभम् ॥
न निषेध्या त्वया राजन्न वक्तव्यं तथाऽप्रियम्

2.4.14

यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः ॥
तदा मुक्त्वा गमिष्यामि यथेष्टं देश मारिष

2.4.15

स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि ॥
महाभिषस्य प्रेमार्थं विचिंत्यैव च जाह्नवी

2.4.16

तथेत्युक्ताऽथ सा देवी चकार नृपतिं पतिम् ॥
एवं वृता नृपेणाथ गंगा मानुषरूपिणी

2.4.17

नृपस्य मंदिरं प्राप्ता सुभगा वरवर्णिनी ॥
नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे

2.4.18

साऽपि तं रमयामास भावज्ञा वै वरांगना ॥
न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ

2.4.19

स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा ॥
सा सर्वगुणसंपन्न सोऽपि कामविचक्षणः

2.4.2.4.20

रेमाते मंदिरे दिव्ये रमाना रायणाविव ॥
एवं गच्छति काले सा दधार नृपतेस्तदा

2.4.21

गर्भं गंगा वसुं पुत्रं सुषुवे चारुलोचना ॥
जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके

2.4.22

तृतीयेऽथ चतुर्थेऽथ पंचमे षष्ठ एव च ॥
सप्तमे वा हते पुत्रे राजा चिंतापरोऽभवत्

2.4.23

किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि ॥
सप्त पुत्रा हता नूनमनया पापरूपया

2.4.24

निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा ॥
अष्टमोऽयं सुसंप्राप्तो गर्भो मे मनसीप्सितः

2.4.25

न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् ॥
भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः

2.4.26

संभवेऽपि च दुष्टेयं रक्षयेद्वा न रक्षयेत् ॥
एवं संशयिते कार्ये किं कर्तव्यं मयाऽधुना

2.4.27

वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया ॥
ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः

2.4.28

मुनेर्येन हृता धेनुर्नंदिनी स्त्रीजितेन हि ॥
तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे

2.4.29

दासोऽस्मि तव तन्वंगि प्रार्थयामि शुचिस्मिते ॥
पुत्रमेकं पुषाम्यद्य देहि जीवंतमद्य मे

2.4.2.4.30

हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः ॥
अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः

2.4.31

अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् ॥
वंशो मे रक्षणीयोऽद्य त्वया परमशोभने

2.4.32

अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः ॥
तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम्

2.4.33

इत्युक्ताऽपि गृहीत्वा तं यदा गंतुं समुत्सुका ॥
तदाऽपि कुपितो राजा तामुवाचातिदुःखितः

2.4.34

पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् ॥
काऽसि पापकराणां त्वं पुत्री पापरता सदा

2.4.35

यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह ॥
किं करोमि त्वया पापे वंशांतकरयाऽनया

2.4.36

एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् ॥
गच्छंती वचनं कोपसंयुक्ता तमुवाच ह

2.4.37

पुत्रकामा सुतं त्वेनं पालयामि वने गता ॥
समयो मे गमिष्यामि वचनं ह्यन्यथा कृतम्

2.4.38

गगां मां वै विजानीहि देवकार्यार्थमागताम् ॥
वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना

2.4.39

व्रजंतु मानुषी योनिं स्थितां चिंतातुरास्तु माम् ॥
दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघ

2.4.2.4.40

तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम ॥
देवकार्यार्थसिद्ध्यर्थ जानीहि संभवो मम

2.4.41

सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते ॥
कियंतं कालमेकोऽयं तव पुत्रो भविष्यति

2.4.42

गंगादत्तमिमं पुत्रं गृहाण शंतनो स्वयम् ॥
वसु देवं विदित्वैनं सुखं भुंक्ष्व सुतोद्भवम्

2.4.43

गांगेयोऽयं महाभाग भविष्यति बलाधिकः ॥
अद्य तत्र नयाम्येनं यत्र त्व वै मया वृतः

2.4.44

दास्यामि यौवनप्राप्तं पालयित्वा महीपते ॥
न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत्

2.4.45

इत्युक्ताऽन्तर्दधे गंगा तं गृहीत्वा च बालकम् ॥
राजा चातीव दुःखार्तः संस्थितो निजमंदिरे

2.4.46

भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् ॥
सर्वदा चिंतयन्नास्ते राज्यं कुर्वन्महीपतिः

2.4.47

एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः ॥
निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि

2.4.48

गंगातीरमनुप्राप्तः स राजा शंतनुस्तदा ॥
नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः ॥

2.4.49

तत्रापश्यत्कुमारं तं मुंचंतं विशिखान्बहून् ॥
आकृष्य च महाचापं क्रीडंतं सरितस्तटे

2.4.2.4.50

तं वीक्ष्य विस्मितो राजा न स्म जानाति किंचन ॥
नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा

2.4.51

दृष्ट्वाऽप्यमानुषं कर्म बाणेषु लघुहस्तताम् ॥
विद्यां वाऽप्रतिमां रूपं तस्य वै स्मरसन्निभम्

2.4.52

पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ ॥
नोवाच किंचिद्वीरोऽसौ मुंचञ्छिलीमुखानथ

2.4.53

अंतर्धानं गतः सोऽथ राजा चिंतातुरोऽभवत् ॥
कोऽयं मम सुतो बालः किं करोमि व्रजामि कम्

2.4.54

गंगां तुष्टाव भूपालः स्थितस्तत्र समाहितः ॥
दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा

2.4.55

दृष्ट्वा तां चारुसर्वांगीं बभाषे नृपतिः स्वयम् ॥
कोऽयं गंगे गतो बालो मम त्वं दर्शयाधुना

2.4.56

गंगोवाच ॥ पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः ॥
ददामि तव हस्ते तु गांगेयोऽयं महातपाः

2.4.57

कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रतः ॥
पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम्

2.4.58

वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव॥
सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः

2.4.59

यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव ॥
गृहाण गच्छ राजेंद्र सुखी भव नराधिप

2.4.2.4.60

इत्युक्वांऽतर्दधे गंगा दत्त्वा पुत्रं नृपाय वै ॥
नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः

2.4.61

समालिंग्य सुतं राजा समाघ्राय च मस्तकम् ॥
समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे

2.4.62

गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् ॥
दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम्

2.4.63

समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् ॥
यौवराज्येऽथ गांगेयं स्थापयामास पार्थिवः

2.4.64

कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् ॥
सुखमास स धर्मात्मा न सस्मार च जाह्नवीम्

2.4.65

सूत उवाच ॥
एतद्वः कथितं सर्वं कारणं वसुशापजम् ॥
गांगेयस्य तथोत्पत्तिं जाह्नव्याः संभवं तथा

2.4.66

गंगावतरणं पुण्यं वसूनां संभवं तथा ॥
यः शृणोति नरः पापान्मुच्यते नात्र संशयः

2.4.67

पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमः ॥
यथाश्रुतं व्यासात्पुराणं वेदसंमितम्

2.4.68

श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् ॥
द्वैपायनमुखोद्भूतं पंच लक्षणसंयुतम्

2.4.69

शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा ॥
इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमः

2.4.4

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc