भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 2.3

2.3.1

प्रतीपसकाशाच्छन्तनुजन्मादिवर्णनम्
उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः ॥
सत्यवत्यास्तथा सूत विस्तरेण त्वयाऽनघ

2.3.2

तथाऽप्येकस्तु संदेहश्चित्तेऽस्माकं सुसंस्थितः ॥
न निवर्तति धर्मज्ञ कथितेन त्वयाऽनघ

2.3.3

माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा ॥
सा कथं नृपतिं प्राप्ता शंतुनुं धर्मवित्तमम्

2.3.4

निषादपुत्रीं स कथं वृतवान्नृपतिः स्वयम् ॥
धर्मिष्ठः पौरवो राजा कुलहीनामसंवृत्ताम्

2.3.5

शंतनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना ॥
भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः

2.3.6

त्वया प्रोक्तं पुरा सूत राजा चित्रांगदः कृतः ॥
सत्यवत्याः सुतो वीरो भीष्मेणामित तेजसा

2.3.7

चित्रांगदे हते वीरे कृतस्तदनुजस्तथा ॥
विचित्रवीर्यनामाऽसौ सत्यवत्याः सुतो नृपः

2.3.8

ज्येष्ठे भीष्मे स्थिते पूर्वे धमिष्ठं रूपवत्यपि ॥
कृतवान्स कथं राज्यं स्थापितस्तेन जानता

2.3.9

मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता ॥
वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम्

2.3.2.3.10

कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी ॥
न कृतस्तु कथं तेन वीरेण दारसंग्रहः

2.3.11

अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा ॥
ज्येष्ठेन भ्रातृभार्यायां पुत्रानुत्पादिताविति

2.3.12

पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः ॥
सेवनं परदाराणां भ्रातुश्चैव विशेषतः

2.3.13

जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः ॥
शिष्टाचारः कथं सूत वेदानुमितिकारक

2.3.14

व्यास शिष्योऽसि मेधाविन्संदेहं छेत्तुमर्हसि ॥
श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः

2.3.15

सूत उवाच ॥
इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः ॥
सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः

2.3.16

अश्वमेधसहस्रेण वाजपेयशतेन च ॥
तोषयामास देवेंद्रं स्वर्गं प्राप महामतिः ।

2.3.17

एकदा ब्रह्मसदनं गतो राजा महाभिषः ॥
सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम्

2.3.18

गंगा महानदी तत्र संस्थिता सेवितुं विभुम् ॥
तस्या वासः समुद्धूतं मारुतेन तरस्विना

2.3.19

अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः ॥
राजा महाभिषस्तां तु निःशंकः समपश्यत

2.3.2.3.20

साऽपि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी ॥
दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ

2.3.21

ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषाऽन्वितः ॥
मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम्

2.3.22

पुण्येन महताऽऽविष्टस्त्वमवाप्स्यसि सर्वथा ॥
गंगां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे

2.3.23

विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोंऽतिकात् ॥
स नृपश्चिंतयित्वाऽथ भूलोके धर्मतत्परान्

2.3.24

प्रतीपं चिंतयामास पितरं पुरुवंशजम् ॥
एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः

2.3.25

वसिष्ठस्याऽऽश्रमं प्राप्ता रममाणा यदृच्छया ॥
पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः

2.3.26

द्यौर्नामा तस्य भार्याऽथ नंदिनीं गां ददर्श ह ॥
दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा

2.3.27

द्यौस्तामाह वसिष्ठस्य गौरियं शृणु सुंदरि ॥
दुग्धमस्याः पिबेद्यस्तु नारी वा पुरषोऽथ वा

2.3.28

अयुतायुर्भवेन्यूनं सदैवाऽगतयौवनः ॥
तच्छ्रुत्वा सुंदरी प्राह मृत्युलोकेऽस्ति मे सखी

2.3.29

उशीनरस्य राजर्षेः पुत्री परमशोभना ॥
तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम्

2.3.2.3.30

आनयस्वाऽऽश्रमश्रेष्ठं नंदिनीं कामदां शुभाम् ॥
यावदस्याः पयः पीत्वा सखी मम सदैव हि

2.3.31

मानुषेषु भवेदेका जरारोगविवर्जिता ॥
तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नंदिनीम्

2.3.32

अवमन्य मुनिं दांतं पृथ्वाद्यैः सहितोऽनघः ॥
हृतायामथ नंदिन्यां वसिष्ठस्तु महातपाः

2.3.33

आजगामाऽऽश्रमपदं फलान्यादाय सत्वरः ॥
नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः

2.3.34

मृगयामास तेजस्वी गह्वरेषु वनेष्वपि ॥
नासादिता यदा धेनुश्चुकोपातिशयं मुनिः

2.3.35

वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् ॥
वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै

2.3.36

तस्मात्सर्वे जनिष्यंति मानुषेषु न संशयः ॥
एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम्

2.3.37

श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते ॥
शप्ताः स्म इति जानंत ऋषिं तमुपचक्रमुः

2.3.38

प्रसादयंतस्तमृषिं वसव शरणं गताः ॥
मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरः स्थितान्

2.3.39

अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ ॥
येनेयं विहृता धेनुर्नंदिनी मम वत्सला

2.3.2.3.40

तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति ॥
ते शप्ताः पथि गच्छतीं गंगां दृष्ट्वा सरिद्वराम्

2.3.41

ऊचुस्तां प्रणताः सर्वे शप्तां चिंतातुरां नदीम् ॥
भविष्यामो वयं देवि कथं देवाः सुधाशनाः

2.3.42

मानुषाणां च जठरं चिंतेयं महती हि नः ॥
तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे

2.3.43

शंतनुर्नाम राजर्षिस्तस्य भार्या भवानघे ॥
जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे

2.3.44

एवं शापविनिर्मोक्षो भविता नात्र संशयः ॥
तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः

2.3.45

गंगाऽपि निर्गता देवी चिंत्यमाना पुनः पुनः ॥
महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा

2.3.46

शंतनुर्नाम राजर्षिर्धर्मात्मा सत्यसंगरः ॥
प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः

2.3.47

तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी ॥
दक्षिणं शालसंकाशमूरुं भेजे शुभानना

2.3.48

अंके स्थितां स्त्रियं चाह मापृष्ट्वा किं वरानने ॥
ममोरावास्थिताऽसि त्वं किमर्थं दक्षिणे शुभे

2.3.49

सा तमाह वरारोहा यदर्थं राजसत्तम ॥
स्थिताऽस्म्यंके कुरुश्रेष्ठ कामयानां भजस्व माम्

2.3.2.3.50

तामवोचदथो राजा रूपयौवनशालिनीम् ॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम्

2.3.51

स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि ॥
अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते

2.3.52

स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते ॥
भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः

2.3.53

तथेत्युक्ता गता सा वै कामिनी दिव्य दर्शना ॥
राजा चापि गृहं प्राप्तश्चिंतयंस्तां स्त्रियं पुनः

2.3.54

ततः कालेन कियता जाते पुत्रे वयस्विनि ॥
वनं जिगमिषू राजा पुत्रं वृत्तांतमूचिवान्

2.3.55

वृत्तांतं कथयित्वा तु पुनरूचे निजं सुतम् ॥
यदि प्रयाति सा बाला त्वां वने चारुहासिनी

2.3.56

कामयाना वरारोहा ता भजेथा मनोरमाम् ॥
न प्रष्टव्या त्वया काऽसि मन्नियोगान्नराधिप

2.3.57

धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल ॥
सूत उवाच ॥
एवं संदिश्य तं पुत्रं भूपतिः प्रीतमानसः

2.3.58

दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह ॥
तत्रापि च तपस्तप्त्वा समाराध्य परांबिकाम्

2.3.59

जगाम स्वर्गं राजाऽसौ देहं त्यक्त्वा स्वतेजसा ॥
राज्यं प्राप महातेजाः शंतनुः सार्वभौमिकम्

2.3.2.3.60

प्रजां वै पालयामास धर्मदंडो महीपतिः

2.3.3

इति श्रीदेवीभागवते महापुराणे द्वितीयस्कंधे तृतीयोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc