भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 2.5

2.5.1

देवव्रतप्रतिज्ञावर्णनम्
ऋषय ऊचुः
वसूनां सम्भवः सूत कथितः शापकारणात् ।
गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे

2.5.2

माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती ।
कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा

2.5.3

तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता ।
राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत

2.5.4

सूत उवाच
शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा ।
वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून्

2.5.5

चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः ।
रममाणः सुखं प्राप कुमारेण यथा हरः

2.5.6

एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् ।
स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम्

2.5.7

महीपतिरनिर्देश्यमाजिघ्रद्‌गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा

2.5.8

न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न ।
चम्पकस्य न मालत्या न केतक्या मनोहरः

2.5.9

न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः ।
कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः

2.5.10

इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् ।
मोहितो गन्धलोभेन शन्तनुः पवनानुगः

2.5.11

स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् ।
शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम्

2.5.12

दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः ।
अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः

2.5.13

तदद्‌भुतं रूपमतीव सुन्दरं
तथैव गन्धोऽखिललोकसम्मतः ।
वयश्च तादृङ् नवयौवनं शुभं
दृष्ट्वैव राजा किल विस्मितोऽभवत्

2.5.14

केयं कुतो वा समुपागताधुना
देवाङ्गना वा किमु मानुषी वा ।
गन्धर्वपुत्री किल नागकन्या
जाने कथं गन्धवतीं नु कामिनीम्

2.5.15

सञ्चिन्त्य चैवं मनसा नृपोऽसौ
न निश्चयं प्राप यदा ततः स्वयम् ।
गङ्गां स्मरन्कामवशं गतोऽथ
पप्रच्छ कान्तां तटसंस्थितां च

2.5.16

कासि प्रिये कस्य सुतासि कस्मा-
दिह स्थिता त्वं विजने वरोरु ।
एकाकिनी किं वद चारुनेत्रे
विवाहिता वा न विवाहितासि

2.5.17

सञ्जातकामोऽहमरालनेत्रे
त्वां वीक्ष्य कान्तां च मनोरमां च ।
ब्रूहि प्रिये यासि चिकीर्षसि त्वं
किं चेति सर्वं मम विस्तरेण

2.5.18

इत्येवमुक्ता सुदती नृपेण
प्रोवाच तं सस्मितमम्बुजेक्षणा ।
दाशस्य पुत्रीं त्वमवेहि राजन्
कन्यां पितुः शासनसंस्थितां च

2.5.19

तरीमिमां धर्मनिमित्तमेव
संवाहयामीह जले नृपेन्द्र ।
पिता गृहे मेऽद्य गतोऽस्ति कामं
सत्यं ब्रवीम्यर्थपते तवाग्रे

2.5.20

इत्येवमुक्त्वा विरराम बाला
कामातुरस्तां नृपतिर्बभाषे ।
कुरुप्रवीरं कुरु मां पतिं त्वं
वृथा न गच्छेन्ननु यौवनं ते

2.5.21

न चास्ति पत्‍नी मम वै द्वितीया
त्वं धर्मपत्‍नी भव मे मृगाक्षि ।
दासोऽस्मि तेऽहं वशगः सदैव
मनोभवस्तापयति प्रिये माम्

2.5.22

गता प्रिया मां परिहृत्य कान्ता
नान्या वृताहं विधुरोऽस्मि कान्ते ।
त्वां वीक्ष्य सर्वावयवातिरम्यां
मनो हि जातं विवशं मदीयम्

2.5.23

श्रुत्वामृतास्वादरसं नृपस्य
वचोऽतिरम्यं खलु दाशकन्या ।
उवाच तं सात्त्विकभावयुक्ता
कृत्वातिधैर्यं नृपतिं सुगन्धा

2.5.24

यदात्थ राजन् मयि तत्तथैव
मन्येऽहमेतत्तु यथा वचस्ते ।
नास्मि स्वतन्त्रा त्वमवेहि कामं
दाता पिता मेऽर्थय तं त्वमाशु

2.5.25

न स्वैरिणीहास्म्यपि दाशपुत्री
पितुर्वशेऽहं सततं चरामि ।
स चेद्ददाति प्रथितः पिता मे
गृहाण पाणिं वशगास्मि तेऽहम्

2.5.26

मनोभवस्त्वां नृप किं दुनोति
यथा पुनर्मां नवयौवनां च ।
दुनोति तत्रापि हि रक्षणीया
धृतिः कुलाचारपरम्परासु

2.5.27

सूत उवाच
इत्याकर्ण्य वचस्तस्या नृपति काममोहितः ।
गतो दाशपतेर्गेहं तस्या याचनहेतवे

2.5.28

दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः ।
प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत

2.5.29

दाश उवाच
दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे ।
आज्ञां देहि महाराज यदर्थमिह चागमः

2.5.30

राजोवाच
धर्मपत्‍नीं करिष्यामि सुतामेतां तवानघ ।
त्वया चेद्दीयते मह्यं सत्यमेतद्‌ब्रवीमि ते

2.5.31

दाश उवाच
कन्यारत्‍नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप ।
दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन

2.5.32

तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः ।
सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै

2.5.33

सूत उवाच
श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् ।
गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा

2.5.34

कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः ।
न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः

2.5.35

चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा ।
गत्वापृच्छन्महीपालं तदसन्तोषकारणम्

2.5.36

दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव ।
का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम

2.5.37

किं तेन जातेन सुतेन राजन्
दुःखं न जानाति न नाशयेद्यः ।
ऋणं ग्रहीतुं समुपागतोऽसौ
प्राग्जन्मजं नात्र विचारणास्ति

2.5.38

विमुच्य राज्यं रघुनन्दनोऽपि
ताताज्ञया दाशरथिस्तु रामः ।
वनं गतो लक्ष्मणजानकीभ्यां
सहैव शैलं किल चित्रकूटम्

2.5.39

सुतो हरिश्चन्द्रनृपस्य राजन्
यो रोहितश्चेति प्रसिद्धनामा ।
क्रीतोऽथ पित्रा विपणोद्यतश्च
दासार्पितो विप्रगृहे तु नूनम्

2.5.40

तथाजिगर्तस्य सुतो वरिष्ठो
नाम्ना शुनःशेप इति प्रसिद्धः ।
क्रीतस्तु पित्राप्यथ यूपबद्धः
सम्मोचितो गाधिसुतेन पश्चात्

2.5.41

पित्राज्ञया जामदग्न्येन पूर्वं
छिन्नं शिरो मातुरिति प्रसिद्धम् ।
अकार्यमप्याचरितं च तेन
गुरोरनुज्ञा च गरीयसी कृता

2.5.42

इदं शरीरं तव भूपते न
क्षमोऽस्मि नूनं वद किं करोम्यहम् ।
न शोचनीयं मयि वर्तमाने-
ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः

2.5.43

प्रब्रूहि राजंस्तव कास्ति चिन्ता
निवारयाम्यद्य धनुर्गृहीत्वा ।
देहेन मे चेच्चरितार्थता वा
भवत्वमोघा भवतश्चिकीर्षा

2.5.44

धिक् तं सुतं यः पितुरीप्सितार्थं
क्षमोऽपि सन्न प्रतिपादयेद्यः ।
जातेन किं तेन सुतेन कामं
पितुर्न चिन्तां हि समुद्धरेद्यः

2.5.45

सूत उवाच
निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः ।
लज्जमानस्तु मनसा तमाह त्वरितं सुतम्

2.5.46

राजोवाच
चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः ।
शूरोऽतिबलवान्मानी संग्रामेष्वपराङ्‌मुखः

2.5.47

एकापत्यस्य मे तात वृथेदं जीवितं किल ।
मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः

2.5.48

एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् ।
नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम्

2.5.49

सूत उवाच
तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत ।
न मां वदति भूपालो लज्जयाद्य परिप्लुतः

2.5.50

वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् ।
सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः

2.5.51

तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् ।
शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत्

2.5.52

सहितस्तैर्जगामाशु दाशस्य सदनं तदा ।
प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः

2.5.53

गाङ्गेय उवाच
पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् ।
माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप

2.5.54

दाश उवाच
त्वं गृहाण महाभाग पत्‍नीं कुरु नृपात्मज ।
पुत्रोऽस्या न भवेद्‌राजा वर्तमाने त्वयीति वै

2.5.55

गाङ्गेय उवाच
मातेयं मम दाशेयी राज्यं नैव करोम्यहम् ।
पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः

2.5.56

दाश उवाच
सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् ।
सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः

2.5.57

गाङ्गेय उवाच
न दारसंग्रहं नूनं करिष्यामि हि सर्वथा ।
सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम्

2.5.58

सूत उवाच
एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः ।
ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम्

2.5.59

अनेन विधिना तेन वृता सत्यवती प्रिया ।
न जानाति परं जन्म व्यासस्य नृपसत्तमः

2.5.5

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc