भाषा

ENहिગુ
ग्रंथ पाठ

दशविधाहेतुनिरूपण · भाग 4160

[64.5] शीलतः तस्य शिष्यश् च शुद्धदेवलकाव् उभौ ॥ [शिवशेखरतन्त्र]
[त्रिविधस्यापि देवलकत्वस्य रुद्रादिविषयकता]
[64.6] त्रिधा देवलकत्वं तु न विष्णुविषये क्वचित् ।
[64.7] रुद्रकाल्यादिविषयम् एतद् आगमसंमतम् ॥" इति [शिवशेखरतन्त्र]
[64.8] स्मृत्यन्तरे: "शर्वं सूर्यं तथा चन्द्रं दुर्गादी रुद्रदेवताः ।
[64.9] यो ऽर्चयेत् पणपूर्वं सः सद्यः पतति मानवः ॥
[64.10] दुर्गा च भद्रकाली च बुद्धश् च क्षेत्रपालकः ।
[64.11] पञ्चपूजा च इत्य् एते पञ्चदेवलकाः स्मृताः ॥
[64.12] आदित्यम् अम्बिकां विष्णुं गणनाथं महेश्वरम् ।
[64.13] गृहे पूजा च इत्य् एते पञ्चदेवलकाः स्मृताः (?) ॥" इति*{548}*
[64.14] *{549}*विष्णुधर्मोत्तरे: "चण्डिकायाश् च दुर्गाया ज्येष्टाया भैरवस्य च ।
[64.15] रुद्रस्य पूजका ये वै ते वै देवलकाः स्मृताः ॥" इति [विष्णुधर्मोत्तरप् ]
[64.16] विष्णु: "देवार्चनपरो यो ऽपि*{550}* परार्थं वित्तकाङ्क्षया ।
[64.17] चतुर्वेदधरो विप्रः स चण्डालसमो भवेद्* ॥{551}*" इति [विष्णुप् ]
[64.18-19] *{552}*एवम् एभिर् वचनैः शास्त्राननुमतमार्गेण पूजकानां देवतान्तरपूजकानाम् एव च देवलकत्वं सिद्ध्यतीति स्फुटम् अवगम्यते.
[64.20] किञ्च: "वृषो धर्मस् समाख्यतः तस्य यः कुरुते लयम् ।
[64.21] वृषलं तं विदुर् देवा निकृष्टं श्वपचाद् अपि ॥"
!{548}! ध्न्[त्] 275 इन्स्. इति किञ्च हारीत: वैखानसास् ति ये विप्रा हरिपूजनतत्पराः. न ते देवलका प्रोक्ता विष्णुपादाब्जसंश्रयाः इति. स्मृतिरत्नाकरे अत्रि: वैदिकेनैव विधिना दंभलोभविवर्जितः पूजयेद् भक्तितो विष्णुं स हि देवलको न वै इति. zइतिएर्त् अल्स् "हारीत" इन् ध्न्[द्] 65.3-4 उन्द् अल्स् "स्मृत्यर्थसार" इन् ध्न्[द्] 65.5-6.
[देवलकशब्दनिर्वचनम्]
[64.22-65.2] इति वृषलशब्दो यथा वेदशास्त्रोक्तमार्गलयकारके व्युत्पादितः, तथा देवलक्शब्दो ऽपि "दिव् क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्व्" इति धात्वर्थानुसारेण गत्यपरपर्यायमार्गार्थकदिव्धातुघटितस्सन् वेदोक्तमार्गलयप्रापके व्युत्पादयितुं शक्यते इति तत्प्रतीपेषु वेदमार्गप्रतिष्ठापकेषु वैखानसेषु न सर्वात्मना प्रवर्तते. तथा च:
[65.3] हारीतः: "वैखानसास् तु ये विप्रा हरिपूजनतत्पराः ।
[65.4] न ते देवलकाः प्रोक्ता विष्णुपादाब्जसंश्रयात्* ॥{553}*" इति [वृद्धहारीत 8.78]
[वैखानसानं देवलकशब्दवाच्यत्वाभावः]
[65.5] स्मृत्यर्थसारे: अत्रि: "वैदिकेनैव विधिना दम्भलोभविवर्जितः ।
[65.6] पूजयेद् भक्तितो विष्णुं स हि देवलको न वै* ॥{554}*" इति
[65.7-8] *{555}*अन्यथा श्रुत्युक्तमार्गेणालयार्चकानाम् अपि देवलकत्वे तादृशालयार्चनप्रतिपादकानां श्रुतिस्मृतिपुराणादिवचनानां व्यर्थता स्यात्.
[65.9-10] *{556}*ननु - अज्ञानतः कृतम् अपि भगवदाराधनम् अपवर्गप्रदञ् चेत्. विना शास्त्रं अनधिकारिणापि कृतं ततपवर्गप्रदं किं न स्याद् इति चेत्. न. भगवदाज्ञाभङ्गापत्तेः.
[65.11] यथोक्तं भगवता: "यश् शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः ।
[65.12] न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥" इति [म्भ् 6.38.23]
[65.13] "श्रुतिस्मृती ममैवाज्ञा यस् ताम् उल्लङ्घ्य वर्तते ।
[65.14] आज्ञाच्छेदी मम द्रोही मद्भक्तो ऽपि न वैष्णवः* ॥{557}*" इति
[65.15] "मम चापि प्रियं विष्णोर् देवदेवस्य शार्ङ्गिणः ।
[65.16] मानुषो वैदिकाचारं मनसा ऽपि न लङ्घयेत् ॥" इति
[65.17-18] *{558}*अतः अनधिकारिणा कृतं शास्त्रासम्मतम् इति तन्त्रोक्तप्रकारेण कृतम् अपि तत् नापवर्गप्रदम्.*{559}*
[65.19] ननु: "ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैश् च कृतलक्षणैः ।
[65.20] अर्चनीयश् च सेव्यश् च पूजनीयश् च माधवः ।
[65.21] सात्त्वतं विधिम् आस्थाय गीतः सङ्गर्षणेन*{560}* यः ॥"
[तन्त्रानुसारिपूजायाः अपवर्गप्रदत्वाभावः]
[65.22-24] *{561}*इति शूद्रादीनाम् अपि पाञ्चरात्रोक्तमार्गेणार्चने अधिकारे सिद्धे कथं तान्त्रिकोक्तप्रकारेणार्चनं कुर्वतः ब्राह्मणादेः (अनधिकारिणः) तत् अपवर्गप्रदं न भवतीत्य् उच्यत इति चेद् उच्यते.
!{553}! वृद्धहारीत: न ते देवलकाः ज्ञेया हरिपादाब्जसंश्रयात्.

[चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे ऽनधिकारः]
[66.1] "प्रथमं मन्त्रसिद्धान्तं द्वितीयञ् चागमाह्वयम् । [पाद्मस् चर्यापाद 19.112च्द्]
[66.2] तृतीयं तन्त्रसिद्धान्तं तन्त्रान्तरमतः परम्* ॥{562}*" [पाद्मस् चर्यापाद 19.113अब्]
[66.3] इति चतुर्विधेषु सिद्धान्तेषु
[66.4] "एकत्र दीक्षितस् तन्त्रे सिद्धान्ते वा द्विजोत्तम* ।{563}*
[66.5] क्रियां न कुर्याद् अन्यत्र कर्षणादि चतुर्मुख ॥ [पाद्म.स् चर्यापाद 19.131]
[66.6] आचार्यकम् अथार्त्विज्यं पूजाञ् च मधुविद्विषः ।
[66.7] मन्त्रे देवे च सिद्धान्ते तद् एवास्य हि युज्यते* ॥{564}*" [पाद्मस् चर्यापाद 19.132]
[66.8] इति चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे प्रवेशयोग्यताभावस्य प्रतिपादनात्*{565}*.
[66.9] "एकगोत्रसमुत्पन्नं पञ्चगोत्रं पृथक् पृथक् । इत्य् आरभ्य
[66.10] सूत्रं कात्यायनं शाखां याजुषं*{566}* शुक्लम् एव च ॥
[66.11] औपगायनशाण्डिल्यौ भारद्वाजो ऽथ गौतमः ।
[66.12] मौञ्जायनिस् तु पञ्चैते पाञ्चरात्राधिकारिणः* ॥{567}*"
[66.13] इत्य् अधिकारिभेदस्य विधीयमानत्वात्.
[आपस्तम्बादिसूत्रसंस्कृतस्य पाञ्चरात्रोक्तसंस्कारयोग्यताभावः]
[66.14] "चतुर्णाम् अपि वर्णानाम् इतरेषाञ् च तद्भुवाम् ।
[66.15] दीक्षा समैव सर्वेषाम् आचारस् तन्त्रवर्त्मना ॥" [पाद्मस् चर्यापाद 21.55]
[तन्त्रोक्तप्रकारेण दीक्षितानाम् एव तन्त्रोक्तार्चनायाम् अधिकारः]
[66.16-18] इत्यापस्तम्बादिसूत्रैः*{568}* संस्कृतस्य पाञ्चरात्रोक्तमार्गेण निषेकादिसंस्कारयोग्यताभवकथनात्.*{569}* तान्त्रिकोक्तप्रकारेण दीक्षितानाम् एव तन्त्रोक्तार्चनायाम् अधिकारित्व सम्भवात्.
[परधर्मानुष्ठातुः पतितत्वादि]
[66.19] "स्वसूत्रे वर्तमाने तु परसूत्रेण वर्तते ।
[66.20] अप्रमाणम् ऋषिं कृत्वा सो ऽन्धे तमसि मज्जति ॥"
[66.21] "स्वकीयधर्मम् उत्सृज्य परधर्मं य आश्रयेत्* ।{570}*
[66.22] पतितस् स भवेद् आशु सद्य एव न संशयः ॥"
[66.23] "स्वसूत्रस्य परित्यागात् परसूत्रसमाश्रयात् ।
[66.24] सद्यः पतति वै विप्रो न वेदस्य समाश्रये ॥"*{571}*
!{562}! पाद्मस्: तुर्यं तन्त्रान्तरं भवेत्.
[67.1] "शाखां शिखां तथा पुण्ड्रं समयाचारम् एव च ।
[67.2] पूर्वैर् आचरितं कुर्याद् अन्यथा पतितो भवेत् ॥"
[67.3] "यस् स्वशाखां परित्यज्य परशाखासु वर्तते ।
[67.4] शाखारण्डस् स विज्ञेयस् सर्वकर्मबहिष्कृतः* ॥{572}*" [आस् 4.59]
[67.5] "यस् स्वधर्मं परित्यज्य परधर्मं निषेवते ।
[67.6] पाषण्डिनं तम् आहुर् वै निकृष्टं श्वपचाद् अपि ॥" इति.
[67.7] भगवान्: "श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
[67.8] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः* ॥{573}*" इति. [म्भ् 6.25.35]
[67.9] व्यास: "स्वधर्मं यस् समुत्सृज्य परधर्मं समाश्रयेत् ।
[67.10] अनापदि स विद्वद्भिः पतितः परिकीर्तितः ॥"
[67.11-12] *{574}*इत्यादिभिश् च वचनैः परधर्मानुष्ठातुः पतितत्वादिस्मरणाच् च अन्यसूत्रोक्तप्रकारेण तान्त्रिकोक्तेन मार्गेण वा बाह्मणादिभिर्*{575}* अपि अनधिकारिभिः भगवदाराधनं कर्तुं न शक्यते.
[शूद्रस्य पूजायाम् अनधिकारः]
[67.13] तर्हि "ब्राह्मणैः क्षत्रियैर् वैश्यैः" इत्यादि *{576}*भारतवचनस्य का गतिर् इति चेत् - उच्यते.

[67.14] *{577}*माधवाः: मुख्यत्वेन अद्वारकभगवद्यजनाधिकारित्वेन निरूपितैः ब्राह्मणैः पूजनीयः.
[67.15-16] *{578}*इतरैः क्षत्रियैर् वैश्यैश् चार्चनीयः. शूद्रैः स्त्रीभिश् च यथार्हम् इज्यस् सेव्यश् च इति तस्य वचनस्यार्थः.
[67.17] "... शूद्रैः स्त्रीभिस् तथेतरैः ।
[67.18] यथार्हम् इज्यस् सेव्यश् च नित्यं सर्वेश्वरो हरिः ॥"
[67.19-22] इति भारद्वाजवचनात् "अर्घ्यान्तम् अर्चनं प्रोक्तं हविरन्तञ् च पूजनम् ॥" इत्य् अर्चनपूजनयोः भिन्नार्थकत्वप्रतिपादनात्, सर्वैर् एकरीत्या पूजने ऽभिमते एकपदस्यैव पर्याप्तत्वात् इतरयोः पदयोर् वैयर्थ्यापाताच् च. अन्यथा शूद्रस्यापि पूजार्चनादिष्व् अधिकाराङ्गीकारे श्रुतिस्मृतिसूत्रपुराणादिविरोधो भवेत्.
[67.23-25] शूद्रस्यानधिकारप्रतिपादकानि वचनानि चैतानि. श्रुति "तस्माच् छूद्रो यज्ञे ऽनवकॢप्तः. स हि देवता अन्वसृजत तस्माच् छूद्रो बहुपशुर् अयज्ञीयो दैव" इति.
!{572}! आस्: स्वशाखां सम्परित्यज्य परशाखानुसारतः । शाखारण्डस् स विज्ञेयस् सर्वकर्मबहिष्कृतः ॥.
[68.1] स्मृति: "जपस् तपस् तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् ।
[68.2] देवताराधनञ् चैव स्त्रीशूद्रपतितानि षट् ॥" इति
[शूद्रस्यद्विजशुश्रूषैव धर्मः]
[68.3] श्रीभागवते:*{579}* "शुश्रूषणं द्विजगवां देवानाञ् चाप्य् अमायया ।
[68.4] तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस् त्व् इमाः* ॥{580}*" इति [भागवतप् 11.17.19]
[68.5] मनौ: "ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
[68.6] वैश्यस्य तु तपो वार्ता तपश् शूद्रस्य सेवनम् ॥" इति [मनुध्श् 11.235]
[68.7] अन्यत्र*{581}*: "यदि शूद्रस् तपः कुर्याद् वेददृष्टेन वर्त्मना ।
[68.8] इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः ॥" इति.
[68.9-11] किमर्थं शूद्रस्य द्विजशुश्रूषा सर्वदा अभिहितेति चेत् - उच्यते. जन्मान्तरीयकर्मवशात् जननकाले ऽपि तमोगुणैर् अभिभूतस्य तस्य शूद्रस्य तमोनिरसनार्थं द्विजशुश्रूषणं ब्रह्मणा प्रयुक्तम्.*{582}*
[68.12] आश्वमेधिके: "उदिते सवितर् यस्य क्रियायुक्तस्य धीमतः । [म्भ् 14, अप्प्. 4.1690]
[68.13] चतुर्वेदधरस्यापि देहे षड्वृषलाः स्थिताः* ॥{583}* [म्भ् 14, अप्प्. 4.1691]
[68.14] क्षत्रिये सप्त विज्ञेया वैश्ये त्व् अष्टौ प्रकीर्तिताः* ।{584}* [म्भ् 14, अप्प्. 4.1692]
[68.15] नियताः पाण्डवश्रेष्ठ शूद्रे ऽष्टाविंशतिः खलु* ॥{585}*" इत्य् आरभ्य [म्भ् 14, अप्प्. 4.1693]
[68.16] "रागद्वेषौ च मोहश् च पारुष्यञ् च नृशंसता* ।{586}* [म्भ् 14, अप्प्. 4.3340]
[68.17] शाठ्यञ् च दीर्घवैरञ् च अतिमानमनार्जवम्* ॥{587}* [म्भ् 14, अप्प्. 4.3341]
[68.18] अनृतञ् चापवादश् च पैशुन्यम् अतिलोभता* ।{588}* [म्भ् 14, अप्प्. 4.3342]
[68.19] हिंसा स्तेयं मृषावादो वञ्चना रोषलोभते* ॥{589}* [म्भ् 14, अप्प्. 4.3343]
[68.20] अबुद्धता च नास्तिक्यं भयम् आलस्यम् एव च* ।{590}* [म्भ् 14, अप्प्. 4.3344]
[68.21] अशौचञ् चाकृतज्ञत्वं दम्भता स्तम्भ एव च* ॥{591}* [म्भ् 14, अप्प्. 4.3345]
[68.22] निष्कृतेश् चाप्य् अविज्ञानं जनने शूद्रम् आविशन्* ।{592}* [म्भ् 14, अप्प्. 4.3346]
[68.23] दृष्ट्वा पितामहः शूद्रम् अभिभूतन् तु तामसैः ॥ [म्भ् 14, अप्प्. 4.3347]
[68.24] द्विजशुश्रूषणं धर्मं शूद्राणान् तु प्रयुक्तवान् । [म्भ् 14, अप्प्. 4.3348]
[68.25] नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥" इति. [म्भ् 14, अप्प्. 4.3349]
!{579}! ध्न्[त्] 282: शूद्रस्य शुश्रूश: भागवते.
[वैखानसेतरसूत्रिणां भगवदाराधनप्रकारः]
[69.1] अतः तमोगुणाभिभूतस्य शूद्रस्य भगवद्यजनाधिकारो नास्त्य् एव.*{593}*
[69.2-7] नन्व् एषां*{594}* शौनकाद्युक्तप्रकारेण भगवदाराधने ऽधिकारो भवेद् इति चेत्*{595}* - तद् असत्. तत्र अधिकारिविशेषप्रतिपादनाभवात्; सामान्येनोक्तत्वे ऽपि श्रुतिस्मृतिसूत्रपुराणमहाभारतवैखानसपाञ्चरात्रशैवशिल्पज्यौतिषादिषु अधिकारिणां विशिष्य प्रतिपादितत्वात्*{596}* सर्वशाखाप्रत्ययन्यायेन सामान्यविशेषन्यायेन "मत्प्रकरणाधीतं सर्वं मदर्थम्" इति न्यायेन प्रकरणसाम्येन*{597}*, उपास्य देवतैक्यात् गुणोपसंहारन्यायेन च शौनकादिभिर् उक्तार्चनाविधेर् अपि अत्रैव पर्यवसानं युक्तम्.
[69.8-9] *{598}* इतरसूत्रिणाम् कथम् इति चेत् - स्वाश्रमधर्माचरणेनैव भगवदाराधनफलम् सिद्ध्यति. यथोच्यते:
[69.10] स्मृतिषु: "बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् ।
[69.11] तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥" इति
[69.12] श्रीविष्णुपुराणे: "वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
[69.13] विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारकः ॥" [विष्णुप् 2.8.9]

[69.14] तथान्यत्र: "वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम ।
[69.15] तेषु तिष्ठन् नरो विष्णुम् आराधयति नान्यथा* ॥{599}* [विष्णुप् 3.8.19.1-2?]
[69.16] ये यजन्ति पितॄन् देवान् ब्राह्मणांश् च हुताशनम् ।
[69.17] सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते ॥" इति
[69.18] पुराणान्तरे: "अग्निकार्यं जपं स्नानं तपस् स्वाध्यायम् एव च ।
[69.19] तम् एवोद्दिश्य देवेशं कुरु नित्यम् अतन्द्रितः ॥
[69.20] प्रातर् उत्थाय विधिवत् स्नात्वा नित्यं समाहितः ।
[69.21] यजेत् कर्मभिस् तैस् तैः विष्णुं देवादिसंज्ञितम् ॥"
!{593}! ध्न्[त्] 285: नास्यैव
[70.1] शाण्डिल्य:"प्रकृत्तैश् च निवृत्तैश् च स्वर्गदैर् मोक्षदैर् अपि ।
[70.2] आराध्यो भगवान् एव वेदधर्मैस् सनातनैः ॥ [शाण्डिल्यस्मृति.]
[70.3] स एव सर्वथोपास्यो नान्यस् संसारतारकः ।
[70.4] उभाभ्यां ज्ञानकर्मभ्याम् आराध्यो भगवान् हरिः ॥" इति [शाण्डिल्यस्मृति]
[70.5] शान्तिपर्वणि: "स्वयम्भूविहितो*{600}* धर्मो यो यस्य हि*{601}* नरेश्वर । [म्भ् 14, अप्प्. 4.222]
[70.6] स तेन क्षपयेत् पापं सम्यग् आचरितेन हि ॥" इति [म्भ् 14, अप्प्. 4.223]
[70.7] पाद्मे: "धर्मान् निजांश् च शास्त्रोक्तान् वर्णधर्मान् अशेषतः ।
[70.8] पालयन्तीह ये वैश्या न ते यान्ति यमालयम् ॥" इति [पद्मप् ]
[70.9] स्मृत्यन्तरे: "श्रुतिस्मृतिसदाचारविहितं कर्म यस् सदा ।
[70.10] स्वस्वधर्मं प्रयत्नेन श्रेयो ऽर्थीह समाश्रयेत् ॥"
[70.11-12] "नान्यः पन्था विद्यते ऽयनाये" ऽति "ब्राह्मणा विविदशन्ति यज्ञेन दानेन तपसानाशकेन" इति च श्रुतिर् इमम् अर्थं द्रढयन्ति.
[70.13-15] अतः अद्वारकभगवद्यजनाधिकारिभिः श्रीमद्वैखानससूत्रिभिस् साम्यं केषाञ्चिद् अपि नोपपद्यते इति कृतं पल्लवितेन. एतावता "अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वात्" इति प्रथमो हेतुः निरूपितः.
[70.16] इति प्रथमहेतुनिरूपणम्
!{600}! म्भ्: स्वयंभुविहितो.
[71.1] अथ द्वितीयहेतुनिरूपणम्
[71.2] अथास्य वैखानससूत्रस्य सर्वसूत्राणाम् आदित्वं निरूप्यते. तथा हि:
[वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम्]
[71.3] ब्रह्मकैवर्ते: " यथा मुनीनां विखना आदिभूत उदाहृतः ।
[71.4] सूत्राणां तत्प्रणीतन् तु तथा श्रेष्टतमं स्मृतम् ॥"*{602}* इति [ब्रह्मकैवर्तप् ]
[71.5] पुरातन्त्रे भृगु: "वेदानां व्यासनाद् अर्वाक् प्राग्रूपं मिलितन् तु यत् ।
[71.6] तान् तु वैखानसीं शाखाम् इति वेदविदो विदुः ॥"*{603}* इत्य् आरभ्य [पुरातन्त्र]
[71.7] "वैष्णवं सूत्रम् एतद् धि सर्वसिद्धिकरं परम् ।
[71.8] आद्यत्वात् सर्वसूत्राणां वैष्णवत्वाच् च तत् तु वै ॥ [पुरातन्त्र]
[71.9] मयानुवर्तितं तद्वत् काश्यपात्रिमरीचिभिः ॥"*{604}* इति [पुरातन्त्र]
[71.10] स्कान्दे च: "वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् ।
[71.11] पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम्* ॥{605}*
[71.12] उक्तवान् निगमार्थानाम् आचारं प्रविभागशः*{606}* ॥" इति [स्कन्दप् ]
[आदौ चतुरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम्]
[71.13-14] सूत्रार्थपर्यालोचनयापि सर्वसूत्रादित्वम् अस्यावगम्यते. यथा -"मुख्याद् इन्द्रश् चाग्निश् चे" ति भगवन्मुखाद् अग्निसृष्टिः श्रूयते. तथा:
[71.15] आश्वमेधिके - भगवद्वचनम्:
[71.16] "प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनः प्रभुः । [म्भ् 14, अप्प्. 4.2572]

[71.17] सृष्टमात्रो जगत्सर्वम् अत्तुम् ऐच्छत् पुरा खलु* ॥{607}* [म्भ् 14, अप्प्. 4.2573]
[71.18] ततः प्रशमितस् सो ऽयम् उपासीनो मया पुरा* ।{608}* [म्भ् 14, अप्प्. 4.2574]
[71.19] सततोपासनात् सो ऽयम् औपासन इति स्मृतः ॥" इति [म्भ् 14, अप्प्. 4.2575]
[71.20-21] एवं परमपुरुषमुखाज् जातस्यौपासनाग्नेः कुण्डविधानादिकम् अत्रैव सूत्रे प्रतिपादितम्.
[71.22-24] किञ् च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वम् उच्यते "चतुरश्रं वृत्तम् इत्यादिना (सूत्रे). आदौ चतुरश्रस्य सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैर् अवगम्यते. यथा:
!{602}! दिएसेर् वेर्स् इस्त् औछ् zइतिएर्त् अल्स् "ब्रह्मकैवर्तपुराण" इन् ध्न्[द्] 42.9-10.
[72.1] विष्णुपुराणे: "तेजसश् शमनञ् चास्य विश्वकर्मा चकार ह ।
[72.2] भ्रमिमारोप्य सूर्यन् तु तस्य तेजो ऽवशातनम् ॥ [विष्णु.प् ]
[72.3] कृतवान् अष्टमं भागं स व्यशातयद् अव्ययम् ।
[72.4] यत्सूर्याद् वैष्णवं तेजश् शातितं विश्वकर्मणा ॥ [विष्णु.प् ]
[72.5] जाज्ज्वल्यमानम् अपतत् तद्भूमौ मुनिसत्तम ॥"इति [विष्णुप् ]
[72.6] एवं च सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः.
[72.7-8] तद् अनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम्. ततः पूर्वं चतुरश्रत्वम् व. तद् एवास्मिन् सूत्रे प्रतिपादितम्.
[72.9-10] एवं "वानप्रस्थो वैखानशास्त्रसमुदाचारो वैखानस"*{609}* इति वैखानससूत्रम् अनुस्मृत्य तृतीयाश्रमधर्मान् बोधायनः प्रतिपादयति. [बौध्ध्स् 2.6.11.14]
[72.11-17] तथा आग्निवैश्यसूत्रे "अथातस् सूत्रगणनां व्याख्यास्यामः. बोधायनम् आपस्तम्बं सत्याषाठं द्राह्यायणम् आगस्त्यं शाकल्यम् आश्वलायनं शाम्भवीयं कात्यायनम् इति नवानि पूर्वसूत्राणि. वैखानसं शौनकीयं भारद्वाजम् आग्निवैश्यं जैमिनीयं *{610}* वाधूलं माध्यन्दिनं हिरण्यकेशीयं कौषीतकम् इति नवान्य् अपरसूत्राणि. एवम् अष्टादशसूत्राण्य् अष्टादशसूत्रकाराश् च. एतानि चतुर्वेदमूलानि. पूर्वसूत्राणि शारीराणि सामान्यानि भवन्ति. उत्तरसूत्राणि वैखानसादीनि विष्णुसंबन्धीनि दैविकानी" ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ् चोच्यते.
[72.18-19] अस्य सूत्रस्याधिक्यं च "ये वैखानससूत्रेण संस्कृतास् द्विजातय"*{611}* इत्यादिना पूर्वम् एव प्रतिपादितम्.
[72.20-21] अतः सर्वसूत्राणाम् आदिर् इदं सूत्रम् इति सिद्धम्. ततः सर्वसूत्रोत्तमत्वञ् चास्योपपद्यते इति निरूपितो द्वितीयो हेतुः.
[72.22] इति द्वितीयहेतुनितूपणम्.
!{609}! बौध्ध्स्: वानप्रस्थो वैखानसशास्त्रसमुदाचारः.
[तृतीयहेतुनिरूपणम्]
[वैखानससूत्रस्य श्रुतिमार्गानुसारित्वम्]
[73.1-3] अथास्य श्रीवैखानससूत्रस्य सूत्रान्तरापेक्षया वैलक्षण्यापादकं प्रत्यक्षश्रुतिमूलकत्वम् अस्तीति ज्ञापयितुं "सर्वकर्मसु श्रुतिमार्गानुसारित्वाद्" इति तृतीयो हेतुर् निरूप्यते. तथा हि:
[शुद्धाचमनविधेः श्रौतत्वम्]
[73.4-9] शुद्धाचमनविधौ "यत्त्रिर् आचामति तेन ऋचः प्रीणाति" इत्यादि श्रुत्यनुसारेण सूत्रे "ऋग्वेदः प्रीणात्व्" इत्यादिना शुद्धाचमनम् उक्तम्. ननु बोधायनेनापि शुद्धाचमनविधिर् उक्त इति चेत् सत्यम्. "आचमनविधिं व्याख्यास्यामः" इत्य् आरभ्य "गोकर्णबद्धहस्तेन त्रिर् आचमेत्, प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति यद् द्वितीयं तेन यजुर्वेदं यत् तृतीयं तेन सामवेदं प्रीणाती"त्य् आचमनेन ऋग्वेदादीनां प्रीतिर् भवतीत्य् उक्तम्. न तु मन्त्रः.
[73.10-11] श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतम् अर्घ्यप्रदानादिकम् अत्रैव प्रतिपादितम्. "प्रातस् सूर्यश् चेत्यादिनाचम्य आपो हिष्ठादिभिस् तिसृभिः प्रोक्ष्य
[73.12] गायत्र्या ऽपो ऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति" इत्यादि.
[73.13-17] बोधायनेनापि सन्ध्यावन्दनविधिर् उक्तः इति चेत् नैवम्. "अथातस् सन्ध्योपासनविधिं व्याख्यास्यामः. तीरं गत्वाप्रयतो ऽभिषिक्तः प्रयतो वा नाभिषिक्तः*{612}* प्रक्षालिपादपाणिर्*{613}* अप आचम्य सुरभिमत्या अब्लिङ्गाभिर् वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति. अथाप्य् उदाहरन्ति." [बौध्ध्स् 2.4.7.1-3]
[73.18] "आपो ऽवगाहनं स्नानं विहितं सार्ववर्णिकम् ।
[73.19] मन्त्रवत्प्रोक्षणञ् चैव द्विजानाम् अवशिष्यते* ॥{614}*" इति [बौध्ध्स् 2.4.7.3-2]
[73.20-74.3] सर्वकर्मणाञ् चैवारम्भेषु प्राक्सन्ध्योपासनाकालाच् चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति. अथाप्य् उदाहरन्ति. "दर्भेष्व् आसीनो दर्भान् धारयमाणः सोदकपाणिना*{615}* प्रत्यङ्मुखः सावित्रीं सहस्रकृत्वः आवर्तयेत्. प्राणायामशो वा शतकृत्वः. त्रिभिश् च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन. वारुणीभ्यां रात्रिम् उपतिष्ठते." इत्यादिना मार्जनादिकम् उक्तम्. प्रधानभूतम् अर्घ्यप्रदानादिकम् अनुक्तम्. [बौध्ध्स् 2.4.7.4-9]
!{612}! बौध्ध्स्: वानभिषिक्तः.
[श्रुत्युक्तो ब्रह्मयज्ञप्रकारः]
[ब्रह्मवरणपूर्वकसोमवरणम्]
[74.4-9] ब्रह्मयज्ञः. तलवकारोपनिषदि "तस्या वा एष प्रथमः पादः ओं भूस् तत्सवितुर् वरेण्यं ओं भुवः भर्गो देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इति पच्छः, ओं भूर् भुवस् तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इत्य् अर्धचशः, ओं भूर्भुवस्सुवस् तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इति समस्ताञ् च सावित्रीं जप्त्वेति यथोदिष्टः, तथात्र सूत्रे ऽपि उक्तो ऽस्ति.
[74.10-11] आघारादिषु सर्वम् अपि श्रौतवत्. अत्र ब्रह्मवरणानन्तरं सोमवरणम् अप्य् उक्तम् अस्ति. "सोमो ऽस्माकं ब्राह्मणानां राजा - सोमराजानो ब्राह्मणा" इति.
[74.12-13] "विष्णुश् च वै सोमश् च ब्रह्मव् आद्यम् अवदेतां ऽअहं ब्राह्मणानां प्रतिष्ठेऽति विष्णुर् अब्रवीत् ऽअहं प्रतिष्ठेऽति सोमः. तौ प्रजापतिं प्रश्नम् ऐतां सो ऽब्रवीत् प्रजापतिः
[74.14] ऽछन्दांसि विष्णुम् अधिगच्छन्ति, नक्षत्राणि सोमं. ताव् उभौ ब्रह्मण्याव्ऽ; इति सो ऽब्रवीत्.
[74.15-17] पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तौ प्रियौ प्रियवन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन् मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सो ऽहम् इति विष्णुर् अब्रवीत्. तस्माद् विष्णुर् यज्ञो ब्राह्मणानां प्रतिष्ठा इति. विज्ञयते च.
[74.18-22] "ब्राह्मणो वै छन्दांसी"त्य् एतस्मात् ब्राह्मणात् यन् मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहम् इति सो ऽब्रवीत्. तस्मात् ब्राह्मणानां सोमो राजेति तस्माद् विज्ञायते च ब्राह्मणे वा अष्टाविंशो नक्षत्राणां तस्य वचः पुण्यम् इति ताव् उभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या" इति च श्रुतिप्रसिद्धत्वात्.

[74.23-25] एवम् अत्र शान्तिकपौष्टिकादिषु प्रधानकर्मत्वात् नवग्रहमखस्य पञ्चाग्निकुण्डविधानम् उक्तम्. "अथ ग्रहशान्तिं व्याख्यास्यामः. ग्रह्यायत्ता लोकयात्रा तस्माद् आत्मविरुद्धे प्राप्ते ग्रहान् सम्यक् पूजयती" ति.

[ग्रहशान्तेः प्राधान्यम्]
[75.1-8] ग्रहशान्तेः कथं प्राधान्यम् इति चेद् उच्यते. "उद्यन्तम् अस्तंयन्तम् आदित्यम् अभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रम् अश्नुते ऽसाव् आदित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्य् एति य एवं वेद" इति "य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इति "यो ऽसौ तपन्न् उदेति" इत्यादि "विष्णुशक्तेर् अवस्थानं सदादित्ये करोति च" इति "ध्येयस् सदा सवितृमण्डलमध्यवर्ती" त्यादिभिश् च वचनैः यत् प्रतिपादितं सवितृमण्डलमध्यवर्तिनो भगवतो नारायणस्य यजनं तद् एवेदम् इत्य् अभिप्रायेण सूत्रकारैर् अस्य ग्रहयज्ञस्य प्राधान्यम् उक्तम्. तथान्ते "अन्यथा महत्तरो दोषो भवती"त्य् अप्य् उक्तम्.
[75.9] बोधायनश् च: "अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्यामः"
[सवितृहोमः]
[75.10] अश्रद्धधानम् अशुचिम् अजपं त्यक्तमङ्गलम् ।
[75.11] ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् ॥
[75.12] ग्रहाणाम् उग्रचेष्टानां नक्षत्रपथचारिणाम् ।
[75.13] उपहारान् प्रवक्ष्यामि शान्त्यर्थन् तु यथाविधि ॥"
[विष्ण्वाराधनस्य श्रौतत्वम्]
[75.14-16] मासि मास्य् ऋताव् ऋतौ चन्द्रग्रहे सूर्यग्रहे विषुवे ऽयने शुभाशुभे जन्मनक्षत्रे तद्ग्रहाणाम् आतिथ्यं संवत्सराद् अपि प्रयुञ्जानः सर्वान् कामान् अवाप्नोति" इति ग्रहशान्तिकालं निरूप्य.
[75.17] "ग्रहा गावो नरेन्द्राश् च ब्राह्मणाश् च विशेषतः ।
[75.18] पूजिताः पूजयन्त्य् एनं निर्दहन्त्य् अवमानिताः ॥"
[75.19] इत्य् अकरणे प्रत्यवायम् अपि दर्शितवान्.
[75.20-22] तस्माद् एव सूत्रकारैः सूर्यचन्द्रौ विना लोकप्रवृत्त्य् असम्भवात् सूर्यप्रधानत्वाच् च ग्रहाणां सर्वकर्मणाम् आदौ ग्रहपुरस्कारम् उक्त्वा तत्र पञ्चाग्निकुण्डविधानम् उपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः "सभ्ये सवितुर्" इति प्रतिपादितः.
[75.23-24] एवम् - "नारायण परं ब्रह्म" - "ब्रह्मैव भूतानां ज्येष्ठां तेन को ऽर्हति स्पर्धितुम्" - "अग्निर् वै देवानाम् अवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः"
[श्रुतिमूलकत्वे प्रामाण्यातिशयः]
[76.1] इत्यादि श्रुत्यनुसारेण "तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायंप्रातर्होमान्ते ऽर्चयति"
[76.2-3] इति नारायणपरत्वेन सूत्रान्तरेष्व् अनुक्तम् आराधनविधिम् उक्त्वा तत्र "स वा एष पुरुषः पञ्चधा पञ्चात्मा" इत्यादि श्रुत्यनुसारेण पञ्चमूर्तिविधानम् अप्य् उक्तम्.
[76.4-5] आघारादिषु श्रौतवद् एवेति प्रत्यक्षसिद्धम् इति पूर्वम् एवोक्तम्. एवम् अन्यत्रापि द्रष्टव्यम्.
[76.6-7] श्रुतिमार्गानुसारित्वे को विशेष इति चेत् - उच्यते. श्रुतिमूलत्वे हि प्रामाण्यातिशयसम्भवः. यथाह
[76.8] मनु: "वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
[76.9] एतच् चतुष्टयं प्राहुः*{616}* साक्षाद् धर्मस्य लक्षणम् ॥ [मनुध्श् 2.12]
[76.10] सर्वं तु समवेक्ष्यैतद् अखिलं ज्ञानचक्षुषा*{617}* ।
[76.11] श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥" [मनुध्श् 2.8]
[76.12] श्रीभारते: "वेदप्रणिहितो धर्मो ह्य् अधर्मस् तद्विपर्ययः ।
[76.13] वेदो नारायणस् साक्षात् स्वयम्भूर् इति शुश्रुमः ॥" [म्भ् ]
[76.14] प्रचेता: "अमींआंस्या बहिश्शास्त्रा ये चान्ये वेदबर्जितः ।
[76.15] यत्तद्ब्रूयुर् न तत्कुर्याद् वेदाद् धर्मो विधीयते ॥"
[76.16] स्मृत्यन्तरे: "धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । [म्भ् 14 अप्प्. 4.2492]
[76.17] द्वितीयं धर्मशास्त्रान् तु*{618}* तृतीयं लोकसङ्ग्रहः* ॥{619}*" इति [म्भ् 14 अप्प्. 4.2493]
[76.18-20] एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर् निरूपितो भवति. तथा च श्रुतिमार्गानुसारित्वाद् अस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्ध्यति इति निरूपितस् तृतीयो हेतुः.
[76.21] इति तृतीयहेतुनिरूपणम्.
!{616}! मनुध्श्: एतच् चतुर्विधं प्राहुः.
[चतुर्थहेतुनिरूपणम्]
[वैखानससूत्रस्य समन्त्रकसर्वक्रियाप्रतिपादकत्वम्]
[77.1-2] इदानीं तावत् वैखानससूत्रोक्तधर्मानुष्ठानेन अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वं फलभूयस्त्वम् अपि भवतीति ज्ञापयितुं "समन्त्रकसर्वक्रियाप्रतिपादकत्वाद्" इति चतुर्थो हेतु निरूप्यते. तद् यथा:
[77.4-10] अत्र सूत्र*{620}* नित्यानुष्ठानविधौ "इन्द्रो ऽहम् उभाभ्याम्" इत्य् आरभ्य करप्रक्षालनादीनि समन्त्रकत्वेनोक्तानि. ब्रह्मयज्ञे "ऋतञ् च सत्यञ् चे" त्य् आदि विशेषः. पुण्याहे समन्त्रकत्वं स्पष्टम्. सूत्रान्तरेष्व् अनुक्तम् औपासनाग्निकुण्दविधानं प्रतिपादितम्. आघारविधौ समन्त्रकत्वं सिद्धम्. अन्तहोमे तथैव. नान्दीमुखपूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्त्रकत्वं प्रत्यक्षम्. स्थालीपाकादिषु "पूर्ववद्" इत्य् अनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगसौकर्यार्थं संक्षेपेण प्रतिपादनम्.
[अपरक्रियायाम् अपि समन्त्रकत्वम्]
[77.11-15] अपरक्रियायाम् अप्य् अस्ति समन्त्रकत्वम्. तत्र क्वचित् "तूष्णीम्" इत्य् उक्त्वत्वात् समन्त्रकत्वं नास्तीति स्वयम् एवाशङ्क्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत्. तत्र तत्र क्वचित् मन्त्रयोग्यताभावे ऽपि विहितविशये सर्वत्र समन्त्रकत्वम् अस्तीत्य् अवगम्यते. सूत्रान्तरेषु विहितविशयेष्व् अपि समन्त्रकत्वानुक्तेः तेषां समन्त्रकसर्वक्रियात्वं नास्ति. तत्र अपरक्रियायाम् अपि सूत्रान्तरानपेक्षा दृश्यते.
[77.16-19] बोधायनेन अग्निमुखादिषु परिधिपरिस्तरणादिक्षेपणम् तूष्णीम् एवोक्तम्. समन्त्रकत्वेन कर्मणाम् उक्तौ को विशेष इति चेत् - उच्यते. कर्मणां मन्त्रवत्त्वे हि वीर्यवत्तरत्वं कर्माराध्य भगवत्प्रीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वञ् च भवन्तीति स्मृतिपुराणादिष्व् अवगम्यते. यथा

[कर्मणाम् समन्त्रकत्वे वीर्यवत्तरत्वम्]
[77.20-22] छान्दोग्ये: "यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवती"ति. तत्रैवं व्याख्यातम्. "मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्र कम् अस्ति कर्मे"ति.
!{620}! लिएस्: सूत्रे.
[मन्त्रहीनकर्मनिन्दा]
[78.1] आथर्वणे: "ऋग्यजुस्सामाख्या (?) मन्त्रेषु कर्माणि कवयो यान्य् अपश्यन्न् इति"
[78.2] आरण्यपर्वणि: "व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ।
[78.3] क्रियामन्त्रैश् च संयुक्तो ब्राह्मणस् स्यान् न संशयः ॥" [म्भ् 3.81.134]
[78.4] तत्रैव: "गुणाभावे फलं न्यूनं भवत्य् अफलम् एव वा ।
[78.5] अनारम्भे तु न फलं न गुणो दृश्यते ह्य् उतः* ॥{621}*" इति [म्भ् 3.33.48]
[78.6] बृहन्नारदीये: "अमन्त्रतो हविर् यत् तु हूयते जातवेदसे ।
[78.7] अपात्रे दीयते यच् च तद् घोरं भोगसाधनम् ॥ [बृहन्नारदप्.]
[78.8] हुतं हविश् चाशुचिना दत्तं यत्कर्म यत्कृतम् ।
[78.9] तत्सर्वं तव भागार्हम् अधःपातफलप्रद ॥" [बृहन्नारदप्]
[78.10] इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम्.
[78.11] बोधायन: "गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ।
[78.12] कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः* ॥{622}* [बौध्ध्स् 1.5.10.28]
[78.13] मन्त्रतस् सुसमृद्धानि*{623}* कुलान्य् अल्पधनान्य् अपि ।
[78.14] कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः* ॥{624}*" [बौध्ध्स् 1.5.10.29]
[78.15] मनुर् अपि: "कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च ।
[78.16] कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ [मनुध्श् 3.63]
[78.17] शिल्पेन व्यवहारेण शुद्धापत्यैश् च केवलैः*{625}* ।
[78.18] गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया* ॥{626}* [मनुध्श् 3.64]
[78.19] अयाज्ययाजनाच् चैव नास्तिक्येन च कर्मणा*{627}* ।
[78.20] कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः*{628}* ॥ [मनुध्श् 3.65]
[78.21] मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनानि च* ।{629}*
[78.22] कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः* ॥{630}*" [मनुध्श् 3.66]
!{621}! म्भ्: न गुणो दृश्यते ऽच्युत.
[79.1] मन्त्रपूतन् तु यच् छ्राद्धम्" इति सोमोत्पत्तौ स्मर्यते.
[79.2] श्रीगीतायाञ् च: "विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् ।
[79.3] श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥" इत्य् उक्तम्. [भ्गी = म्भ् 6.39.13]
[79.4-5] यथोपासनं फलम् इति च श्रुतिसिद्धं "यथा क्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती"ति.
[79.6-7] अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात् पूर्णत्वं, पूर्णत्वाद् एव सर्वसूत्रोत्तमत्वं चास्य सूत्रस्य सिद्धम् इति निरूपितः चतुर्थो हेतुः.
[79.8] इति चतुर्थहेतुनिरूपणम्.
[पञ्चमहेतुनिरूपणम्; वैखानससूत्रस्य निषेकादिसंस्कारप्रतिपादकत्वम्]
[80.1] अथ पञ्चमहेतुनिरूपणम्.
[80.2-5] अथास्य श्रीवैखानससूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणाम् अपि सर्वोत्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेनानुपपन्नं निषेकादिसंस्कारादिमत्त्वम्*{631}* अस्य सूत्रस्य मुख्यत एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वाद् इति पञ्चमो हेतुर् निरूप्यते. यथा:
[संस्कारेषु निषेकस्य प्रथमत्वम्]
[80.6] "अथ निषेकादिसंस्कारान् व्याख्यास्यामः, ऋतुसङ्गमने"त्य् उपक्रम्य
[80.7] "पाणिग्रहणानी"*{632}*त्य् अन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः.
[निषेकम् अन्तरेण प्रजोत्पत्त्यसंभवः]

[80.8-11] ननु: जातकोपनयनविवाहानान्तरभाविनो*{633}* निषेकस्य कथम् आदित्वं प्रतिपाद्यते? तथा "ब्राह्मणो ऽस्य मुखम् आसीत्"*{634}* "मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा" इत्यादि श्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच् च निषेकस्य किम् अर्थम् आदित्वं प्रतिपाद्यते? जातकस्यादित्वं श्रीभारते चावगम्यते.
[80.12] "जातकर्मादिभिर् यैस् तु*{635}* संस्कारैः संस्कृतश् शुचिः ।
[80.13] वेदाध्ययनसम्पन्नष् षट्सु कर्मस्व् अवस्थितः ॥ [म्ब्.ह् 12.182.2]
[80.14] शौचाचाररतस् सम्यक् भिक्षार्थी च गुरुप्रियः*{636}* ।
[80.15] नित्यव्रतस्*{637}* सत्यपरः स वै ब्राह्मण उच्यते ॥" इति [म्भ् 12.182.3]
[80.16] एवं हरिवंशे: *{638}*"क्व दाराः क्व च संसर्गः*{639}* क्व च भावविपर्ययः ।
[80.17] यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ [हरिव् 35.42]
[80.18] यद्य् अस्ति तपसो वीर्यं युष्माकं विदितात्मनां*{640}* ।
[80.19] सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥" [हरिव् 35.43]
[80.20] इति निषेकं विनापि उत्पत्तिः श्रूयते इति निषेकस्यादित्वं न संभवति इति चेत् -
[80.21-23] तद् असत्. "निषेकविरहे ऽपि उत्पत्तिस् संभवती"त्य् एतन् नोपपद्यते. तपोबलाद् योगबलाच् च भगवतो नारायणस्य ब्रह्मणो महर्षीणां वा मानसप्रजासृष्टौ शक्तिस् सम्भवति. नान्येषाम्. यथा:*{641}*
!{631}! व्ग्ल्. ध्न्[द्] 2.7: निषेकसंस्कारादिमत्वात्.
[81.1] श्रीविष्णुपुराणे: "सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषाम् अभवन् प्रजाः" [विष्णुप् ]
[81.2] तपोविषेशैर् इद्धानां तदात्यन्ततपस्विनाम्* ॥{642}*" [विष्णुप् 1.15.79]
[81.3] "युगे युगे भवन्त्य् एते दक्षाद्या मुनिसत्तमाः ।
[81.4] पुनश् चैव निरुद्ध्यन्ते विद्वांस् तत्र न मुह्यति ॥ [विष्णुप् 1.15.83]
[81.5] कानिष्ठ्यं श्र्यैष्ठ्यम् अप्य् एषां पूर्वं नास्ति द्विजोत्तम* ॥{643}* [विष्णुप् 1.15.84अब्]
[81.6] तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् ॥" इति [विष्णुप् ]
[निषेकेनैव रुद्रस्यापि उत्पत्तिः]
[81.7] रुद्रोत्पत्तिर् अपि निषेकेनेति श्रूयते. शतपथे: "अभूद् वा इदं सर्वं प्रतिष्ठा"
[81.8-10] इत्य् आरभ्य "भूतानाञ् च प्रजापतिस् संवत्सरायादिक्षत*{644}* भूतानां ग्रहपतिर् आसीद् उषा पत्नी"*{645}*त्य् आदिकम् उक्त्वा "भूतानां पतिः संवत्सर उषसि रेतो ऽसिञ्चत् संवत्सरे कुमारो ऽजायत तस्य रुद्रस्य नाम करोती"*{646}*त्य् आदि.
[निषेकक्रियाप्रकारः]
[81.11-13] निषेकक्रियाप्रकारो ऽपि श्रूयते हि. "नग्नं कृत्वोरुम् उपप्रवर्तयति यदा हि नग्न ऊरुर् भवत्य् अथ मिथुनीभवतो ऽथ रेतस् सिच्यते ऽथ प्रजाः प्रजायन्ते" इति, "रेतस एव सिक्तस्य बहुशो रूपाणि विकरोति स वै प्रजायते श्वः श्वो*{647}* भूयान् भवती"ति,
[81.14-18] "रेतो मूत्रं विजहाति योनिं प्रविशद् इन्द्रियं गर्भो जरायुणा वृतः उल्बं जहाति जन्मना"*{648}* इति. मुण्डोपनिषदि - "पुमान् रेतस् सिञ्चति योषितायां बह्व्यः*{649}* प्रजास् सृजमानास् सरूपाः"*{650}* इति. छान्दोग्ये - "योषा वा व गौतमाग्निर्" इत्य् आरभ्य "तस्य उपस्थ एव समिद्. यद् अन्तः करोति ते ऽर्चिषा.*{651}* अभिनन्दा विस्फुलिङ्गास्. तस्मिन्न् अग्नौ*{652}* देवा रेतो जुह्वति. तस्या आहुतेर् गर्भस्*{653}* सम्भवती"*{654}*ति च.
[सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पत्तिः]
[81.19] श्रीविष्णुपुराणे: "प्रजास् सृजेति व्यादिष्टः पूर्वं दक्षस् स्वयम्भुवा ।
[81.20] यथा ससर्ज भूतानि तथा श्रुणु महामते* ॥{655}* [विष्णुप् 1.15.86]
[81.21] मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा ।
[81.22] देवान् ऋषींस् तु गन्धर्वान् असुरान् पन्नगांस् तथा* ॥{656}* [विष्णुप् 1.15.87]
[81.23] यदा ऽस्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
[81.24] ततस् सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः* ॥{657}* [विष्णुप् 1.15.88]
!{642}! विष्णुप् 1.15.79अब्(?): तपोविषेशैः सिद्धानां तदा ऽत्यन्त तपस्विनाम्.
[82.1] मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः ।
[82.2] ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ॥" [विष्णुप् 1.15.79अब्?]
[82.3] भारते: "न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।
[82.4] सङ्कल्पाद् एव चैतेषां गर्भस् समुपपद्यते* ॥{658}* [म्भ् 12.200.35]
[82.5] तत्र त्रेतायुगे काले संस्पर्शाज् जायते प्रजा* ।{659}*
[82.6] न ह्य् अभून् मैथुनो धर्मस् तेषाम् अपि नराधिप*{660}* ॥ [म्ब्.ह् 12.200.36]
[82.7] द्वापरे मैथुनो धर्मः प्रजानाम् अभवन् नृप ।
[82.8] तथा कलियुगे काले*{661}* द्वन्द्वम् आपेदिरे जनाः ॥" इति [म्भ् 12.200.37]

[82.9-10] एवं श्रुतिस्मृतिषु सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पर्*{662}* इति श्रवणात् निषेकेन विना उत्पादनसामर्थ्याभावाच् च निषेकादिमत्वाद् इत्य् उक्तम्.*{663}*
[निषेकशब्दार्थनिर्णयः]
[82.11-13] अत्रापस्तम्बीया एवम् आहुः. "निषेको नाम गर्भाधानम् एव, निषेकगर्भाधानयोः पर्यायत्वात् गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच् च.*{664}* गर्भाधानशब्दस्यार्थे विचार्यमाणे ऽगर्भो ऽस्मिन्न् आधीयतेऽ*{665}* इति व्युत्पत्त्या ऽइन्द्रियं वै गर्भऽ*{666}*
[82.14-15] इति श्रुत्यनुसारेण रेतस्सेचनम् एव गर्भाधानम् इत्य् अवगतेः*{667}* निषेकादित्वम् अस्माकम् अप्य् अस्ती"ति.
[82.16-19] अत्र बौधायनीयः प्रत्यवतिष्ठन्ते. "यद् उक्तं ऽनिषेको नाम गर्भाधानम् निषेकगर्भाधानयोः पर्यायत्वाद्ऽ; इति - तदसत्. निषेकगर्भाधानयोः पृथक्त्वेन प्रतिपादनात् पर्यायत्वं न घटते. यथा - ऽचतुर्थ्यां स्नातायां निशायाम् अलङ्कृत्य शयने ऽभिमन्त्रयते ऽविष्णुर् योनिम्ऽ; इत्य् उपक्रम्य ऽअथैनाम् उपैतिऽ; - ऽत्वां पूषन्न् ...ऽ*{668}* इति.
[82.20-23] एवं निषेक उक्तः. ऽअथ गर्भाधानविधिं व्याख्यास्यामः. पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणान् अन्नेन परिविष्य पुण्याहं*{669}* वाचयित्वा अथ देवयजनप्रभृत्याग्निमुखात् कृत्वा पक्वाज् जुहोति - प्रवेधसे कवये मेध्यायेऽ*{670}*ति. इति गर्भाधानम् उक्तम्. एवं निषेकगर्भाधानयोः पृथक्त्वेन कीर्तनात्*{671}* निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्.
[82.24-25] किञ्च आपस्तम्बसूत्रे*{672}* निषेकपूर्वकत्वेनानुक्तत्वात् चत्वारिंशत् संस्कारपरिगणने अगृहीतत्वाच् च तेषां निषेकाद्यास् संस्कारा न भवन्तीति.*{673}*"
!{658}! म्भ्: अपत्यम् उदपद्यत; दिए लेसर्त् देस् ध्न्[द्] इस्त् अल्स् व्.ल्. अन्गेगेबेन्; ध्न्[त्] 396: गर्भसमुपपद्यते.
[83.1-6] अत्र आपस्तम्बीया ऊचुः. "यद्य् अस्माकं निषेकाद्याः संस्कारा न भवन्तीत्य् उच्यते तर्हि युष्माकम् अपि तथैव, भवत् सूत्रे ऽपि*{674}* >यतो एतद् धुतः प्रहुतः*{675}* आहुतः शूलगवो बलिहरणं प्रत्यवरोहणम् अष्टका पार्वणहोम इती
<*{676}*त्य् आरभ्य विवाहाद्येवोक्तम् - न तु निषेकादित्वेन. किञ्च सूत्रोपक्रमे*{677}* संस्कारगणनायाम् अपि निषेकस् तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः. किञ्च >चतुर्य्यां स्नातायोम्<*{678}* इत्यादिना पृथक्त्वेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात् विशिष्य कालनिरूपणाभावाच् च.*{679}*>
[वैखानसानाम् एव निषेकादिसंस्कारवत्त्वम्]
[83.7] (वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच् च वैखानसानाम् निषेकादित्वम्),
[83.8] आवयोः*{680}* उभयोर् अपि निषेकाद्यास् संस्कारा न भवन्ति इति. अयम् एव सिद्धान्तः.*{681}*
[इतरेषां गर्भधानादिसंस्कारवत्त्वम्]
[83.9] तथा च: "निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः । [याज्ञवल्क्यध्श् 1.10च्द्]
[83.10] गर्भाधानम् ऋतौ पुंससवनं स्पन्दानात् पुरा* ॥{682}*" [याज्ञवल्क्यध्श् 1.11अब्]
[83.11-14] इति याज्ञवल्क्योक्तौ तेषाम् इति शब्देन "मुख्ये सम्भवत्य् अमुख्यकल्पनायोगाद्" इति न्यायेन मुख्यत्वेन श्रीवैखानससूत्रे एव निषेकादित्वस्य विद्यमानत्वात् वैखानसा एव परामृश्यन्ते इति - तेषाम् एव निषेकादित्वम्, इतरेषां निषेकादित्वं न सम्भवति. अपि तु गर्भाधानादित्वम् एव. अयम् एव याज्ञवल्क्याभिप्रायः.*{683}*
[83.15-20] अथोच्येते*{684}*. गर्भाधानलक्षणम् अनुक्तं विशिष्य कालश् चानुक्त इति यद् उक्तम् तत्रोच्यते - सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्रीवैखानससूत्रे "अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुर् अरुचिर् आहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेर् इति गर्भस्य दैवानुबन्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्रे"*{685}* इत्यादिना गर्भाधानलक्षणकालयोर् अपि वैखानससूत्रे प्रतिपादित्वात्:*{686}*
[83.21] "वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।
[83.22] सर्वैः स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा* ॥{687}*"
[83.23] इति भृगुणोक्तत्वात् "अनुक्तम्*{688}* अन्यतो ग्राह्यम्" इति न्यायात् विखनसः*{689}* आचार्यत्वेन
[83.24-25] भारतादिषु प्रतिपादितव्याच् च "अनुक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिर् अपि कर्तुं युक्तम्" इति. एतद् एव युक्ततरम्. तथाहि:*{690}*
[निषेकगर्भाधानयोर् अपर्यायत्वम्]
[84.1-10] आपस्तम्बादीनाम् आचार्येण बोधायनेन स्वशिष्यान् प्रति*{691}* "अथात्र पाकयज्ञानां प्रायश्चित्तिर्" इत्य् आरभ्य "व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं*{692}* भवतीत्य् आचार्या ब्रुवते. तत्राप्य् उदाहरन्ति"*{693}* इति, "चतुर्थीप्रभृत्या षोडशीम् उत्तराम् उत्तराम्*{694}* उपैति. प्रजानिःश्रेयसम् ऋतुगमनम् इत्य् आचार्याः. सर्वाण्य् उपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः. यच् चादौ यच् चर्ताव् इति शालीकिर्"*{695}* इति - "अथास्यातिथयो भवन्ति गुरोस् समानवृत्तिर् वैखानसः स्नातको राजा वा धर्मयुक्तः. तेषाम् अभ्युत्थायासनं पाद्यम् अर्हणम् अर्घ्यं वा प्रजुञ्जीत"*{696}* इति - "एकम् अग्निहोत्रं सायम् उपक्रमं प्रातर् अपवर्गम् आचार्या ब्रुवते तत्रोदाहरन्ति" इति, "वैखानसानां न द्रुह्येत्" इत्यादि सूत्रेषु "आचार्या ब्रुवते" इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम्*{697}* - मन्वादीनां शारीरसंस्कारवक्तृत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात्,
[84.11] "गुरोः समानवृत्तिर् वैखानसः"*{698}* इति बोधायनेनैवोक्तत्वात्, "विखनसाचार्ये"ति.*{699}*
[84.12-13] भारते प्रतिपादित्वाच् च. तथा च सर्वेषां कारणभूतेन विखनसा प्रणीतत्वात् तत्सूत्रोक्तप्रकारेण सर्वैः*{700}* कर्तुं युक्तम् एव. किञ्च अरण्यादिपात्रलक्षणम् अपि तत्रैव प्रतिपादितम्.
[84.14] अन्ये ऽप्य् आहुः. "अस्माकम् अपि निषेकादित्वं*{701}* समानम्" इति. तद् अप्य् असत्.
[84.15] गर्भाधानशब्दस्यार्थे विचार्यमाणे "योनिं प्रविशद् इन्द्रियं गर्भो जरायुणा वृत"*{702}* इति
[84.16-20] प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वम् अवगम्यते. न त्व् इतरस्य केवल रेतसः. तथा - "आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु" इति निषेकक्रियानन्तरभावित्वात् गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवं कर्तुं व्योग्यतासम्भवात् अधृतरेतसः स्रावदोषप्रसङ्गात् श्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाङ् च निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्.*{703}*
[निषेकप्रथमकसंस्कारवतां श्रैष्ठ्यम्]
[84.21] अथ निषेकादित्वे को विशेष इति चेत् - उच्यते*{704}*. निषेकादिक्रियावताम् एव
[84.22] श्रोत्रियत्वं धर्मशास्त्राधिकारित्वं ब्रह्मशरीरित्वञ्*{705}* च बोधायनादिभिर् उक्तम्. यथा:
[84.23] "निषेके गर्भसंस्कारे जातकर्मक्रियासु च ।
[84.24] विधिवत् संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् ॥
[84.25] श्रोत्रिया इति विज्ञेयाः शाखापाराश् च ये द्विजाः ।

[84.26] विधिवत् गृह्यते पाणिम् ऋतौ चीर्णव्रतास् तु ते*{706}* ॥
!{691}! ध्न्[त्] 407 बोधायनः स्तत्त् आपस्तम्बादीनाम् आचार्येण बोधायनेन स्वशिष्यान् प्रति.
[85.1] मन्त्रवत्सम्प्रयोगेन*{707}* ब्राह्मण्यां गर्भम् आदधुः ।
[85.2] निषेकाद्याः श्मशानान्ताः सत्क्रिया ब्राह्मणाश्रिताः ॥" इति
[85.3] याज्ञवल्क्य: "निषेकाद्याः*{708}* श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः । [याज्ञवल्क्यध्श् 1.10च्द्]

[85.4] गर्भाधानम् ऋतौ पुंसस्सवनं स्पन्दनात् पुरा* ॥{709}*" इति [याज्ञवल्क्यध्श् 1.11अब्]
[85.5] मनु: "निषेकादिश्मशानान्ताः मन्त्रैर् यस्योदिताः क्रियाः*{710}* ।
[85.6] तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥" इति [मनुध्श् 2.16]
[85.7-8] अत्र मनुवाक्ये "यस्य - तस्य - कस्यचित्" इत्यादि शब्दानां वैयर्थ्यप्रसङ्गात् "सर्वेषां निषेकादित्वं समानम्" इति वक्तुम् अयुक्तम्.
[85.9] आश्वमेधिके भगवान्: "वैदिकैः कर्मभिः पुण्यैः निषेकादिर् द्विजन्मनाम्* ।{711}*
[85.10] कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ [म्ब्.ह् 14, अप्प्. 4.2513]
[85.11] गार्भैर् होमैर् जातकर्म*{712}*नामचौलोपनायनैः । [म्भ् 14, अप्प्. 4.2514]
[85.12] स्वाध्यायैश् च तपोभिश् च*{713}* विवाहस्नातकव्रतैः ॥ [म्भ् 14, अप्प्. 4.2515]
[85.13] महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ।" इति [म्भ् 14, अप्प्. 4.2516]
[85.14] एवम् अन्यत्रापि द्रष्टव्यम्.
[85.15] बोधायनेन "यतो एतद् धुतम्*{714}*" इत्यादिना सूत्रादौ विवाहपूर्वकत्वेनोक्तम्.
[85.16-21] आपस्तम्बेन "अथ कर्माण्य् आचाराद्यानि गृह्यन्ते*{715}*" इत्य् आरभ्य "उपनयनं व्याख्यास्याम" इति. भारद्वाजसत्याषाढाभ्याम् आश्वलायनेन च "उक्तानि वैतानिकानी"*{716}*त्य् आरभ्य वैश्वदेवपूर्वकत्वेन. द्राह्यायणेन*{717}* "अथातो गृह्यकर्माणि, उदगयनपूर्वपक्ष"*{718}* इत्य् आरभ्य आचारादित्वेन. कात्यायनश् च "अथातो गृह्यस्थालीपाकानां कर्मे"*{719}*त्य् आरभ्य प्रतिपादितवान्. "अथ निषेकादिसंस्कारान् व्याख्यास्याम"*{720}* इत्य् आरभ्य निषेकपूर्वकत्वेन भगवता विखनसैव*{721}* प्रतिपादितम्.
[85.22-24] एवं च निषेकपूर्वकत्वेनोक्तत्वाद्*{722}* अस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्तधर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ् चोपपद्यते इति श्रुतिस्मृतिपुराणादिमुखेन प्रतिपादितम् इति निरूपितः पञ्चमो हेतुः.
[85.25] इति पञ्चमहेतुनिरूपणम्
!{707}! ध्न्[त्] 413: मन्त्रवत्सम्प्रयोगे तौ.
[षष्ठहेतुनिरूपणम्]
[वैखानससूत्रस्याष्टादशसंस्कारप्रतिपादकत्वम्]
[86.1] अथ षष्ठहेतुनिरूपणम्
[86.2-4] अथेदानीं श्रीवैखानससूत्रोक्तधर्मानुष्ठातॄणाम् एव सर्वेभ्यः श्रेष्ठमत्वं सूत्रान्तरेष्व् अनुक्तं श्रुतिसिद्धाष्टादशसंस्कारवत्वं क्रियाबाहुल्यञ् च सम्भवतीति ज्ञापयितुं "अष्टादशसंस्कारप्रतिपादकत्वाद्" इति षष्ठो हेतुर् निरूप्यते. तथा हि:
[86.5-8] "अथ निषेकादिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमन-गर्बाधान-पुंसवन-सीमन्त-विष्णुबलि-जातकर्मोत्थान-नामकरणान्नप्राशन-प्रवासागमन-पिण्डवर्धन-चौलोपनयन-पारायण-व्रतबन्धविसर्गोपाकर्म-समावर्तन-पाणिग्रहणानीत्य् अष्टादश-संस्काराश् शारीराः"*{723}* इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः. एते च
["अष्टादशोक्तम् अवरं येषु कर्मे" ति श्रुत्यर्थविचारः]
[86.9-10] श्रुतिसिद्धाः. यथा मुण्डोपनिषदि - "प्लवा ह्य् एते अदृढा यज्ञरूपा अष्टादशोक्तम् अवरं येषु कर्म. एतच् छ्रेयो ये ऽभिनन्दन्ति मूढा जरामृत्युं ते पुनर् एवापि यन्ति"*{724}* इति.
[86.11] अत्र केचिद् एवम् ऊचुः: "यज्ञस्य र्त्विजष् षोडश सदस्यस्सप्तदशः यजमानो ऽष्टादशः"
[86.12-14] इति श्रुत्यनुसारेण "अष्टादशोक्तम् अवरं येषु कर्मे"*{725}*त्य् अत्र यजमानादय एव विवक्षिता इति. तद् असत्. "अष्टादशोक्तम् अवरं कर्मयेषु" इत्य् उक्तत्वात्. ऋत्विग्यजमानादयो हि यागकर्तारः न तु कर्म. "येषु" इत्य् अस्य पदस्य येषु सूत्रेष्व् इत्य् अर्थः.
[86.15-18] ऽअवरं कर्मऽ; जातकादयः, स्मार्तकर्मत्वात्. आत्मगुणरहिता यागदयः जातकर्मादयश् च. ऽअदृढाः प्लवाःऽ; संसारोत्तारका न भवन्ति. तथा च अत्र अदृढप्लवत्वेन निन्दिता संस्काराः यागादयश् च आत्मगुणरहिता एव विवक्षिताः. तत् सहितानां तेषां मोक्षसाधकत्वम्. यथा:
[आत्मगुणरहितानां संस्काराणां बन्धकत्वम्]
[86.19-21] गौतमधर्मे: "यस्य तु खलु चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः न स ब्रह्मणस् सायुज्यं सालोक्यञ् च गच्छति. यस्य खलु चत्वारिंशत्संस्काराणाम् एकदेशो प्य् अष्टाव् आत्मणाः अथ स ब्रह्मणस् सायुज्यं सालोक्यञ् च गच्छति गच्छती"*{726}*ति.
[अष्टानाम् आत्मगुणानां लक्षणानि]
[86.22-23] ऽअष्टाव् आत्मगुणाःऽ: "दया समस्तभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गल्यम् अकार्पण्यम् अस्पृहे"*{727}* ति. तल्लक्षणानि तु:
[तत्र दयालक्षणं]
[86.24] "अबन्धौ बन्धुवर्गे वा मित्रे द्वेष्टरि वा तथा ।
[86.25] आपन्ने रक्षणं यत् तु दयैषा परिकीर्तिता ॥
!{723}! वैख्स्म्स् 1.1.
[तत्र क्षमालक्षणम्]
[87.1] बाह्ये वा ऽभ्यन्तरे वापि दुःख उत्पादिते परैः ।
[87.2] न प्रकुप्यति नो हन्ति सा क्षमा परिकीर्तिता ॥
[तत्र अनसूयालक्षणम्]
[87.3] सगुणान् गुणि*{728}* नो हन्ति (?) स्तौति मन्दगुणान् अपि ।
[87.4] नान्यदोषेषु रमते सा ऽनसूया प्रकीर्तिता ॥
[तत्र शौचलक्षणम्]

[87.5] अभक्ष्यपरिहारश् च संसर्गश् चाप्य् अनिन्दितैः ।
[87.6] स्वधर्मे च व्यवस्थानं शौचम् एतद् उदाहृतम् ॥
[तत्र अनायासलक्षणम्]
[87.7] शरीरं पीड्यते येन सुशुभेनापि कर्मणा ।
[87.8] अत्यन्तं तन्नकर्तव्यम् अनायासस् स उच्यते ॥
[तत्र मङ्गल्यलक्षणम्]
[87.9] प्रशस्ताचरणं नित्यम् अप्रशस्तविसर्जनम् ।
[87.10] एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥
[तत्र अकार्पण्यलक्षणम्]
[87.11] स्तोकाद् अपि प्रदातव्यम् अदीनेनान्तरात्मना ।
[87.12] अहन्यहनि यत्किञ्चिद् अकार्पण्यं तद् उच्यते ॥
[तत्र अस्पृहालक्षणम्]
[87.13] यथोत्पन्नेषु सन्तोषः कर्तव्यस् स्वागतैर् धनैः ।
[87.14] परार्थान् नाभिभाषेत सा ऽस्पृहा परिकीर्तिता ॥" इति
[87.15] प्रसङ्गाद् इदम् उक्तम्. प्रकृतम् अनुसरामः.
[सात्त्विकराजसतामसपुराणानि]
[87.16-17] अथ अष्टादशस्मृत्युक्तानि अष्टादशपुराणेषूक्तानीति वा मुण्डकश्रुत्यर्थो ऽस्तु इति चेत्. तद् अप्य् असत्. स्मृतिपुराणादिषु अष्टादशकर्मेति विशिष्यानुक्तत्वात्.
[87.18-20] अत्र *{729}* "अष्टादशोक्तम् अवरं कर्म येष्व्"*{730}* इति सामान्येनोक्तत्वात् तत्रोक्तानां योगादीनाम् अप्य् अपवर्गप्रापकत्वाभावात् पुनर् अपि जरामृत्युप्रापकत्वाच् च न स्मृतिपुराणेषूक्तानीति वक्तुं युक्तं किञ् च
[87.21] पाद्मपुराणे: "वैष्णवः*{731}* नारदीयञ् च तथा भागवतं शुभं ।
[87.22] गारुडञ् च तथा पाद्मं वाराहं शुभदर्शने ॥ [पद्म.प् उत्तरभाग 236.19]
!{728}! लिएस्: गुणी.
[सात्विकपुराणश्रैष्ठ्यम्]
[88.1] सात्त्विकानि पुराणानि विज्ञेयानि च षट् पृथक्* ।{732}*
[88.2] ब्रह्माण्डं ब्रह्मकैवर्तं*{733}* मार्कण्डेयं तथैव च ॥ [पद्म.प् उत्तरभाग 236.20]
[88.3] भविष्यद् वामनं ब्राह्मं राजसानि च षड्विधाः*{734}* । [पद्मप् उत्तरभाग 236.21अब्]
[88.4] मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
[88.5] आग्नेयञ् च षड् एतानि तामसानि निबोध मे ॥" इति [पद्मप् उत्तरभाग 236.18]
[88.6] मात्स्ये: "सङ्कीर्णास् तामसाश् चैव राजसास् सात्त्विकास् तथा ।
[88.7] कल्पाश् चतुर्विधाः प्रोक्ताः ब्रह्मणो दिवसाश् च ते ।
[88.8] यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ॥ [मत्स्यप्]
[88.9] तस्य तस्य तु माहात्म्यं तेन रूपेण वर्तते ।
[88.10] सङ्कीर्णेषु सरस्वत्याः पितॄणाञ् च निगद्यते ॥ [मत्स्यप्]
[88.11] अग्नेश् शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।
[88.12] राजसेषु तु माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥ [मत्स्यप्]
[88.13] सात्त्विकेष्व् अथ कल्पेषु माहात्म्यम् अधिकं हरेः ।
[88.14] तेष्व् एव योगसंसिद्धा गमिष्यन्ति परां गतिं ॥" इति [मत्स्यप्]
[88.15] पाद्मे: "वासिष्ठञ् चैव हारीतं व्यासं पाराशरं तथा ॥ [पद्मप् उत्तरभाग 236.23च्द्]
[88.16] भारद्वाजं काश्यपीयं स्मृतिषट्कन्तु सात्त्विकम् ।
[88.17] मानवं यज्ञवल्क्यञ् च आत्रेयं दाक्ष्यम् एव च* ॥{735}* [पद्मप् उत्तरभाग 236.24]
[88.18] कात्यायनं वैष्णवञ् च स्मृतिषट्कन्तु राजसम् ।

[88.19] गौतमं बार्हस्पत्यञ् च सांवर्तञ् च यमस्मृतिः* ॥{736}* [पद्मप् उत्तरभाग 236.25]
[88.20] शाम्भम् औशनसञ् चैव स्मृतिषट्कन्तु तामसम्* ॥{737}*" इति [पद्मप् उत्तरभाग 236.26अब्]
[88.21] तथा: "सात्त्विका मोक्षदा ज्ञेया राजसाः स्वर्गदाः स्मृताः* ।{738}* [पद्मप् उत्तरभाग 236.21च्द्]
[88.22] तथैव तामसा देवि निरयप्राप्तिहेतवः ॥" [पद्मप् उत्तरभाग 236.22अब्]
[88.23-24] इत्यादि वचनसिद्धसात्विकपुराणेषु प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतुत्वस्मरणात्, सामन्येन अष्टादशपुराणोक्तकर्मणां जीर्णप्लवसादृश्यं वक्तुं न शक्यम्.
!{732}! पद्मप्: सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै.
[वैखानसे क्रियाबाहुल्यम्]
[89.1-2] अन्यथा स्वर्गमोक्षनिरयाणाम् एकरूपत्वाङ्गीकारापातात्. अतः श्रीमद्वैखानससूत्रोक्ताष्टादशसंस्कारा एवेत्य् अवगन्तव्यम्. बोधायनसूत्रे संस्कारसङ्ख्या न कृता.
[89.3-5] आपस्तम्बादिनापि पञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनाङ्गीकारात् एते षोडसंस्कारा इति विविच्यानुक्तत्वात् अपरसंस्कारप्रतिपादनाभावाच् च न तत्रोक्ताः गृहीतुं शक्याः.
[89.6-8] श्रीवैखानसे तु क्रियाबाहुल्यम् अप्य् अस्ति. तथा हि. अष्टादशसंस्काराः पाकयज्ञाश् च पृथक्त्वेनोपपदिताः. वर्षवर्धनाद्यास्तु विशेषाः. पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः - पञ्चमहायज्ञानाम् एकत्वम्. अपरश् चाष्टादशव्यतिरिक्त इति.
[89.9] क्रियाबाहुल्येन किम् आधिक्यम् इति चेत् - उच्यते. मुण्डोपनिषदि -
[89.10] "क्रियावान् एष ब्रह्मविदां वरिष्ठः*{739}*" इति "क्रियावन्तः श्रोत्रिया ब्रह्मणिष्ठाः स्वयं जुह्वत
[89.11] एकर्षिं श्रद्धयन्तः. तेषाम् एवैतां ब्रह्मविद्यां वदेत*{740}*" इति च श्रूयते.
[89.12-15] बोधायनः: "तस्माद् यः कश्चन क्रियावान् सताम् अनुमताचारस् स श्रोत्रियस् स एव विज्ञेयस् स एव विज्ञेयः" इति. किञ्च - कर्मभूयस्त्वात् फलभूयस्त्वञ् च "यथोपासनं फलम्" इति न्यायात् सिद्ध्यति. अतः: अष्टादशसंस्काराप्रतिपादकत्वाद् अस्य सूत्रस्य श्रेष्ट्ःअत्वं एतस् सूत्रिणां सर्वोत्कृष्टत्वञ् चोपपद्यत इति निरूपितः षष्ठो हेतुः.
[89.16] इति षष्ठहेतुनिरूपणम्.
!{739}! बेzउग् औf मुण्डकौ 3.1.4: प्राणो ह्य् एष यः सर्वभूतैर् विभाति विजानन् विद्वान् भवते नातिवादी. आत्मक्रीड आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः.
[सप्तमहेतुनिरूपणम्]
[90.1-3] अथ श्रीवैखानससूत्रस्य इतरसूत्रापेक्षाभावात् स्वातन्त्र्यम् अस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्त्वाद् इति सप्तमो हेतुर् निरूप्यते. तथा हि: अत्रसूत्रे अष्टादशसंस्काराः शारीराः प्रसिद्धास् साङ्गाः एव प्रतिपादिताः.
[90.4-8] ननु - अङ्कुरार्पणशताभिषेकाग्निद्वयसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादिप्रतिपादनाभवात् साङ्गक्रियाकलापवत्त्वं नास्तीति चेत् - तद् असत्. इयं शङ्का श्रीवैखानससूत्रस्वरूपानभिज्ञत्वकृता. इदं सूत्रम् एकादशप्रश्नात्मकम्. अत्र न प्रतिपादितानीति उक्तिः, अतिरिक्तत्वेन गृह्यपरिशिष्टसद्भावाज्ञानात्. गृह्यपरिशिष्टसद्भावः कथम् अवगम्यते इति चेत् - उच्यते.
[90.9] "अथाङ्कुरार्पणविधिं व्याख्यास्यामः" इत्य् आरभ्य खण्डद्वयेनाङ्कुरार्पणम् उक्तम्.
[90.10-11] "सायं स्थण्डिले सहस्रं पिष्टेन सोमरूपाणि करोती"त्य् अत्र विशेषेण स्थण्डिलादिप्रतिपादनम्.
[90.12] "शताभिषेकं पूर्वाह्णे पुण्याहं द्विजभोजनम्* ॥{741}*" इत्य् आरभ्य [गृह्यपरिशिष्टस्]
[90.13] "सायं गोमयसंलिप्ते स्थण्डिले प्राग् अनुन्नते ।
[90.14] प्राचीरेखा द्विपञ्चाशत् संख्यया तत्र संलिखेत् ॥ [गृह्यपरिशिष्टस्.]
[90.15] उदीचीश् च तथा रेखा द्वत्रिंशत्संख्यया*{742}* लिखेत्*{743}* ॥" [गृह्यपरिशिष्टस्]
[90.16] इत्यादिना शताभिषेकप्रयोगश् च उक्तः.
[90.17] तथा "धौतवस्त्रधारिणौ स्याताम्" इत्य् आरभ्य [गृह्यपरिशिष्टस्]
[90.18] "दीपाद्यलङ्कृते गेहे व्रीहीन् आस्तीर्य तत्र वै ।
[90.19] चर्माभावे कटं वापि तद् ऊर्ध्वे वस्त्रम् आस्तरेद्*{744}* ॥" इति [गृह्यपरिशिष्टस्]
[90.20] "शेषहोमे ऽन्तहोमान्ते आसीनौ तत्र चर्मणि*{745}* ।
[90.21] विसृजामि व्रतञ् चेति तद्व्रतं चर्म सन्त्यजेत् ॥"*{746}* [गृह्यपरिशिष्टस्]
[90.22] इत्यादिना अग्निद्वयसंसर्गप्रकारश् च प्रतिपादितः.
!{741}! दिएसेर् हल्ब्वेर्स् इस्त् अल्स् "गृह्य" एबेन्fअल्ल्स् zइतिएर्त् इन् त्प्च् 491.4.
[91.1] पुत्रपरिग्रहप्रकारश् च
[91.2] "त्यागविक्रयदानेषु प्रोक्तेष्व् अपि ततस् स्मृतौ* ।{747}*
[91.3] एकं न दद्यान् नो गृह्यात् न स्त्री भर्त्रननुज्ञया ॥"*{748}* इत्यादिना [गृह्यपरिशिष्टस्]
[91.4] ब्रह्ममेधविधिस् तु
[91.5] "संस्कारो ब्रह्मनिष्ठानां सदाचारवताम् अपि ।
[91.6] ब्रह्ममेधो ऽतिफलदो न सर्वेषां द्विजन्मनाम् ॥"*{749}* इत्यादिना [गृह्यपरिशिष्टस्]
[91.7] वृषोत्सर्गविधिस् तु

[91.8] "वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् ।
[91.9] स्नात्वाथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये* ॥{750}*" इत्यादिभिः [गृह्यपरिशिष्टस्]
[91.10] एवं अत्रानुक्तानि सर्वाणि गृह्यपरिशिष्टे प्रोक्तानि इति वेदितव्यम्.
[91.11-15] बोधायनादिभिर् अप्य् एते साङ्गा एव प्रतिपादिता इति चेत् - न. "सति कुड्ये चिक्रकर्मे" ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेत् अङ्गविचारः कर्तव्यः. सन्ध्योपासने अर्घ्यप्रदानादिकम् अनुक्तम्. वानप्रस्थाश्रमस्वीकरणादिकम् अपि न प्रतिपादितम्. वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्य् एव. देवताप्रतिष्ठादिकम् उक्तं लक्षणम् अनुक्तम्.
[91.16-18] आपस्तम्बादिभिः सन्ध्योपासनाङ्कुरप्रतिसरदेवताराधनयज्ञोपवीतधारणादिकम् अप्य् अनुक्तम्. आपस्तम्बादीनाम् अन्योन्यापेक्षा प्रसिद्धा. अन्योन्यापेक्षा नाम अस्वातन्त्र्यम् अङ्गहीनवत्.
[91.19] मनु: "यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ॥ [मनुध्श् 4.159च्द्]
[91.20] सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।
[91.21] एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥" [मनुध्श् 4.160]
[91.22-23] अनेन अनन्तस्थिरफलप्राप्तिर् दर्शिता. अतः सूत्रान्तरनैरपेक्ष्यात् सर्वसूत्रोत्तमत्वं स्वातन्त्र्यञ् च घटत इति निरूपितस् सप्तमो हेतुः.
[91.24] इति सप्तमहेतुनिरूपणम्
!{747}! "गृह्य" इन् त्प्च्: त्यागविक्रियदानेषु युक्तौ स्वपितरौ स्मृतौ.
[अथ अष्टमहेतुनिरूपणम्]
[वैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वम्]
[92.1-3] इदानीं तावत् श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वम् अस्तीति दर्शयितुं मन्वाद्यैः स्वीकृतत्वाद् इति अष्टमो हेतुः निरूप्यते. तथा हि
[92.5] मनु: "अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रमम् ॥"*{751}* इत्य् आरभ्य
[92.6] "पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
[92.7] कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः* ॥{752}*" इति [मनुध्श् 6.21]
[92.8] व्यास: "मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः । [म्भ् 12.236.13च्द्]
[92.9] वर्तयन्ति यथान्यायं वैखानसमते स्थिताः ॥" इति [म्भ् 12.236.14अब्]
[92.10] गौतम: श्रामणकेनाग्निम् आधायाग्राम्यभोजी" इति*{753}*
[92.11] यम: श्रामणकेन विधानेन सायं प्रातर् उपस्पृशेत्. इति
[92.12-13] शङ्खलिखितौ: श्रामणकेनाग्निम् आधाय काले कुरुविन्द - वेणु - श्यामाकनीवारादिभिर् वर्तयेत्.*{754}* इति.
[92.14-16] हारीत: वानप्रस्थो ग्राम्या ओषधी परिवर्जयेत्. त्रेताग्नीनां स्थाने श्रामणकं वाग्निम् आधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो विखना भवति. अनुज्ञायिको ऽनुप्रस्थायिकश्" चेति
[92.17] वसिष्ठ: श्रामणकेनाग्निम् आधायाहिताग्निर् वृक्षमूलिकः. इति*{755}* [वासिष्ठध्श् 9.10]
[92.18] बोधायन: "वानप्रस्थो वैखानसशास्त्रसमुदाचारः" [बौध्ध्स् 12.6.11.14]
[92.19-21] आपस्तम्ब: "एकाग्निर् अनिकेतः स्याद्"*{756}* इति. अस्य धर्मकर्पर्दी "गार्हपत्यादीनां त्रेताग्नीनां स्थाने यस्यैको ऽग्निः औपासन एव - वैखानससूत्रे दृष्टत्वात्, पाणिग्रहणनिमित्वद्वादौपासनस्य.
[92.22-23] जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकारणे. "भारद्वाजपूर्वं यथा वैखानसपूर्वं पञ्चः" मेति*{757}* (?)
!{751}! मनुध्श् 6.1अब् व्.ल्. दिएसेर् हल्ब्वेर्स् इस्त् äह्न्लिछ् अल्स् "मनु" zइतिएर्त् इन् ध्न्[द्] 28.3.
[अखिलशिष्टपरिग्रहस्य प्रामाण्यातिशयहेतुत्वम्]
[93.1-2] अत्रोभयत्र आत्रिव्याख्यानम् - षोडशर्त्विजां मध्ये भारद्वाजसूत्रिणं प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत्" इति.
[93.3] कपिञ्जलसंहितायाम्:
[93.4] "याजनाध्यापनयुतः शिष्यानुग्रहकारकः ।
[93.5] आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः* ॥{758}* [कपिञ्जलस्]
[93.6] आश्रमे वा वने वा ऽपि पुत्रदारसमाहितः ।
[93.7] अष्टाक्षरपरो नित्यं स वैखानस उच्यते* ॥{759}* [कपिञ्जलस्]
[93.8] ग्राम्यधर्माणि सर्वाणि वर्जयेद् वनवासकः*{760}* ।
[93.9] वल्कलाजिनसंवीतः स मौनीत्य् अभिधीयते ॥" इति [कपिञ्जलस्]
[93.10] पाद्मे द्वादशाक्षरप्रकारे
[93.11] "..... पुत्रदारसमन्वितः ।
[93.12] वने वा पत्तने वापि जपेद् वैखानसः शुचिः ॥

[93.13] वियुक्तः पुत्रदाराद्यैः स्वयम् एव वने स्थितः ॥" [पद्मप् ]
[93.14] अन्यैर् अपि एवम् एवोक्तम्.
[93.15-16] अखिलशिष्टपरिग्रहे को विशेष इति चेत् - अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयो ऽस्तीत्य् अवगम्यते.
[93.17] आश्वमेधिके: "धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । [म्भ् 14, अप्प्. 4.2492]
[93.18] द्वितीयं धर्मशास्त्रं हि*{761}* तृतीयं लोकसङ्ग्रहः* ॥{762}*" इति [म्भ् 14, अप्प्. 4.2493]
[93.19] मनु: "विद्वद्भिस् सेवितं सम्यक्*{763}* नित्यम् अद्वेषरागिभिः ।
[93.20] हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥" इति [मनुध्श् 2.1]
[93.21] याज्ञवल्क्य: "चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
[93.22] सा ब्रूते ऽयं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ [याज्ञवल्क्यध्श् 1.9]
[93.23] वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणं ।
[93.24] यस्य प्रमाणं न भवेत् प्रमाणं कस् तस्य कुर्याद् वचनं प्रमाणं ॥
!{758}! एबेन्fअल्ल्स् zइतिएर्त् अल्स् "कपिञ्जलसंहिता" इन् ध्न्[द्] 62.16-17.
[94.1] न यस्य वेदा न च धर्मशास्त्रं
[94.2] न वृद्धवाक्यं च भवेत् प्रमाणम् ।
[94.3] सो ऽधर्मकृद् दुष्टहतो दुरात्मा
[94.4] स्वात्मापि तस्यैव भवेत् प्रमाणम् (?) ॥" [याज्ञवल्क्यध्श् ]
[स्मृतेर् वेदमूलत्वे त्रेधा निर्वाहः]
[94.5-9] स्मृतेर् अपि वेदमूलत्वे त्रेधा निर्वाहः कृतः. नित्यानुमेयश्रुतिमूलत्वम् प्राभाकराः. "तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्त"*{764}* इत्य् उत्सन्नशाखामूलत्वम् आपस्तम्बाद्याः. तत् प्राभाकराधिभिः दूषितं भाष्यकारानभिमतञ् च. प्राभाकरपक्षे ऽपि नित्यानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा. अक्षरश इति यद्य् उच्यते तर्हि कटतपयादीनाम् अपि नित्यानुमेयश्रुतिमूलत्वात् स्मृतित्वं स्यात्.
[94.10-15] आनुपूर्वीविशेषविशिष्टत्वेनेति चेत् नित्यानुमेयत्वं भज्येत् इति. उत्सन्नशाखामूलत्वम् इति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना वा. तत्रतत्रेति चेत् न - पदक्रमादिरूपेणाधीयमानत्वाद् उत्सन्नशाखामूलत्वं न घटते. एकैवोत्सन्नेति चेत् - न. विष्णोर् अंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात् कारवतो व्यासस्य अज्ञाताशासंभवेन एकस्यापि शिष्यस्य तद् अध्यापनसामर्थ्यसम्भवात् तथा वक्तुम् अयुक्तत्वाद् इति. अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम्. तथोक्तम्.
[94.16] "दुर्बोधा वैदिकाश् शब्दाः प्रकीर्णत्वाच् च ये खिलाः ।
[94.17] तद्ज्ञैस् त एव स्षष्टार्थाः*{765}* स्मृतितन्त्रे प्रतिष्ठिताः* ॥{766}*" इति
[94.18-20] अतः श्रुतिस्मृतिपुराणादिभिः प्रामाणत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयो ऽस्तीति "मन्वाद्यैस् स्वीकृतत्वाद्" इति निरूपितो ऽष्टमो हेतुः.
[94.21] इत्य् अष्टमहेतुनिरूपणम्
!{764}! बेzउग् औf आपस्तम्बध्स् 1.4.12.10: ब्राह्मणोक्ता विधयस् तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते ।.
[नवमहेतुनिरूपणम्]
[वैखानससूत्रिणां नारायणैकपरत्वम्]
[95.1-3] अथेदानीम् आपस्तबादिसूत्रान्तरनिष्ठानां सूत्रकाराद् आरभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं वैखानससूत्रिणाम् एव तत् सम्भवतीति दर्शयितुं.
[95.4] "प्रत्यक्षं अनुमानञ् च शास्त्रञ् च विविधागमम् ।
[95.5] त्रयं सुविदितं ज्ञेयं धर्मसिद्धिम् अभीप्सता* ॥{767}*" [मनुध्श् 12.105]
[95.6-7] इति मनुस्मरणानुसारेण प्रत्यक्षादिभिर् अवगमयितुञ् च अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वाद् इति नवमो हेतुर् निरूप्यते.
[95.8] अस्य सूत्रस्य नारायणैकपरत्वे:
[तत्र षड्विधतात्पर्यलिङ्गानि]
[95.9] "उपक्रमोपसंहाराव् अभ्यासो ऽपूर्वता फलम् ।
[95.10] अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥"
[नारायणस्यैव परब्रह्मशब्दवाच्यत्वम्]
[95.11-17] इत्य् उक्तानि षड्विधानि तात्पर्यलिङ्गानि सन्ति. तथा हि आद्यप्रश्ने प्रथमखाण्डे "नारायणपरायण"*{768}* इत्य् उक्तम्. एवं "सदाध्यात्मरतो ध्यानयोगी नारायणपरं ब्रह्म पश्यन् धारणं धारयेद् अक्षरं परं ब्रह्माप्नोति - "नारायणपरं ब्रह्मेति श्रुतिः" इत्य् उपसंहारे सन्न्यासविधौ प्रतिपादितम्. सन्ध्योपासनादि - पुण्याहाघारान्तहोम - नान्दीमुखोपनयन - पाणिग्रहणपर्यन्तेषु अन्तकर्मणि च अतो देवादिवैष्णवा मन्त्राः विनियुक्ताः. एवं आघारप्रकरणे "शरो ऽङ्गारे ऽग्नौ जुहुयाद्" इति सूत्रेण इध्माधानं तैत्तिरीयब्राह्मणवाक्यानुसारेण परब्रह्माग्नौ विहितम्.
!{767}! मनुध्श्: प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता.
[ब्रह्मरुद्रादीनां यज्ञांशभाक्त्वं भगवत्प्रसादलब्धम्]
[95.18-96.5] परब्रह्मशब्दाभिधेयश् च भगवान् नारायण एवेति वेदान्तेषु निर्णीतम्. तथाहि: "सद् एव सोम्येदमग्र आसीत्, एकम् एवाद्वितीयम्" इत्यादिभिः प्रतिपन्नस्य अभिन्ननिमित्तोपादानकारणस्य "यतो वा इमानि भूतानि जायन्ते - तद्ब्रह्मे"त्यादिना जगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ् च प्रतिपाद्यते. तस्य "सत्यं ज्ञानम् अनन्तं ब्रह्मे" त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते. सत्यत्वादिविशिष्टस्य तस्य "आनन्दो ब्रह्म" इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते. एतादृशब्रह्मरूपं वस्तु "नारायणपरं ब्रह्म" "तत्त्वं नारायणः परः" "एको ह वै नारायण आसीत्" "अपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादि वाक्यैः श्रीमन्नारायण एवेति नियम्यते. एवञ् च "अध्यूहन्ते" इति तैत्तिरीयवाक्यशेषस्थब्रह्मशब्दो ऽपि नारायणपर एवेति प्रकृतसूत्रोक्तेध्माधानम् अपि नारायणपरम् एव.
[96.6-9] एवम् आधाने - "ध्यायन् नारायणम् उपोष्य" इति, अग्निहोत्रे - भूमानं विष्णुं ध्यायेत्" इति, दर्शपूर्णमासे - "उदित आदित्ये ध्यायन् नारायणं ऽविष्णोर् नु कम्ऽ; इति जपित्वा" इति, सोमे च - "नारायणपरायणस् तूष्णीम् आस्ते" इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वात् इदं सूत्रं नारायणपरम् एव.

[96.10-14] ननु - अत्र सूत्रे प्रवासागमने आश्वयुज्याञ् च "प्रदक्षिणम् अर्चनं प्रणामो गुहस्य" - "भवं देवम् आवाह्य" इत्य् उक्तत्वात् सर्वत्र नारायणपरत्वम् अस्येति कथं वक्तुं शक्यते इति चेत् - उच्यते. "अङ्गान्य् अन्या देवता" इति अङ्गभूतानां ब्रह्मरुद्रादीनाम् अपि यज्ञांशभाक्त्वं भगवत्प्रसादलब्धम् इति भारतादिनावगम्यते - तथाहि
[96.15] "ततस् ते सुरास् सर्वे ब्रह्मा ते च महर्षयः* ॥{769}* [म्भ् 12.327.48च्द्]
[96.16] वेददृष्टेन विधिना वैष्णवं क्रतुम् आरभन् ।
[96.17] तस्मिन् सत्रे तथा ब्रह्मा स्वयं भागम् अकल्पयत् ।
[96.18] देवा महार्षयश् चैव सर्वे भागान् अकल्पयन्* ॥{770}* [म्भ् 12.327.49]
[96.19] ते कार्तयुगधर्माणो भागाः परमसंस्कृताः ।
[96.20] प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम्* ॥{771}* [म्भ् 12.327.50]
[96.21] श्रीभगवान्: येन यः कल्पितो भागः स तथा समुपागतः* ।{772}*
[96.22] प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्तिलक्षणम् ॥ [म्ब्.ह् 12.327.52]
[96.23] यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
[96.24] कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान्* ॥{773}* [म्भ् 12.327.54]
!{769}! म्भ्: ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः.
[रुद्रीदीनां नारायणाङ्गतया पूजार्हत्वम्]
[97.1] यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ ।
[97.2] स महायज्ञभागार्हो वेदसूत्रे मया कृतः ॥"*{774}* इति [म्भ् 12.327.55]
[97.3] श्रीभागवते: "अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः ।
[97.4] सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्नार्पितं लोकधुरं वहामः ॥"*{775}*
[97.5] एवं च भवादीनाम् अपि नारायणाङ्गत्वेन पूजार्हत्वावगमात्.
[97.6] "अङ्गभावेन देवानाम् अर्चनं न निषिद्ध्यते ।
[97.7] स्वतन्त्रबुद्ध्या कुर्वन् हि ब्राह्मणो नरकं व्रजेत् ॥
[97.8] ब्रह्माणम् इन्द्रम् अग्निं वा हरेर् आवरणं विना ।
[97.9] यस् तु सम्पूजयेद् विप्रः स पाषण्डी भवेद् ध्रुवम् ॥"
[97.10] इत्यादिना अङ्गभावेन तेषाम् अर्चनं कुर्वतो दोषाभावस्मरणाच् च सूत्रे तथोक्तिः.
[97.11] तथा: "अन्यत्र त्वां समारोप्य यद्य् उपासा विधींयते*{776}* ।
[97.12] सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च ॥ [क्ज्.क् ]
[97.13] त्वयि सर्वं समारोप्य यद्य् उपासा विधीयते ।
[97.14] सा वृत्तिः सकला ज्ञेया तव तत्त्वं तवैव हि ॥" [क्ज्क् ]
[97.15-18] इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात् "विष्णोर् नित्यार्चा सर्वदेवार्चा भवती"*{777}*ति मुख्यत्वेन सूत्रेण प्रतिपादितत्वात् प्रच्युतिफलप्रदत्वाभावाच् च तेषाम् अङ्गभावेन पूजनं युज्यते. आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात् नारायणैकपरत्वेन सकृद् अपि स्मरणाभवात् तेषां न नारायणैकपरत्वम्.
[आपस्तम्बादिसूत्राणां नारायणैकपरत्वाभावः]
[97.19-21] ननु बोधायनेनापि "अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यस्यामो द्वादश्याम् एकादश्यां श्रोणायां वा यानि चान्यानि शुभनक्षत्राणि"*{778}* इत्य् आरभ्य "द्वादशनामभिः अमुष्मै स्वाहा अमुष्मै स्वाहा"*{779}* इत्यादिना होमादिकम् उक्ता.
[97.22] "त्वाम् एकम् आद्यं पुरुषं पुरातनं
[97.23] नारायणं विश्वसृजं यजामहे ।
[97.24] त्वम् एव यज्ञो विहितो विघ्नेयः
[97.25] त्वम् आत्मनात्मन् प्रतिगृह्णीष्व हव्यम् ॥" [बौध्गृशेष्स् 2.13.36]
!{774}! म्भ्: यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः.
[आपस्तम्बादीनां नानादेवतापरत्वम्]
[98.1-5] इति नारायणैकपरत्वेन प्रतिपादनात् कथं तेषां नारायणैकपरत्वं नास्तीत्य् उच्यत इति चेत् - सत्यम्. आपस्तम्बादीनाम् आचार्येणानेन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकम् अनुक्तम्. किन्तु. "अथ रुद्रप्रतिष्ठाविधिं*{780}* व्याख्यास्यामः. चतुर्थ्याम् अष्टम्याम् आर्द्रायाम् अपभरण्यां वा*{781}* यानि चान्यानि शुभनक्षत्राणि" इति प्रकृत्य "भवाय देवाय स्वाहे"त्यादिभिः "भवस्य देवस्य पत्न्यै स्वाहे"*{782}*त्यादिभिश् च होमादिकम् उक्त्वा [बौध्गृशेष्स् 2.16.1-2]
[98.6] "त्वाम् एकम् आद्यं पुरुषं पुरातनं
[98.7] रुद्रं शिवं विश्वसृजं यजामहे ।
[98.8] त्वम् एव यज्ञो विहितो विधेयस्

[98.9] त्वम् आत्मनात्मन् प्रतिगृह्णीष्व हव्यं ॥" [बौध्गृशेष्स् 2.16.39]
[98.10] इति शिवप्रतिष्ठा, एवं "अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः"*{783}*
[98.11-15] इत्य् आरभ्य "महादेवम् आवाहयेत् - आयातु भगवान् महादेव"*{784}* इति पृथक्त्वेन रुद्रपूजा च प्रतिपादिता. तथा - अन्यत्र "अथातो ऽर्धमासे ऽर्धमासे ऽष्टम्यां ब्राह्मणाः स्त्रियश् चाहुः" इत्य् आरभ्य "अथ प्रदोषे रुद्रं विरूपाक्षं सपनीकं*{785}* ससुतं सपार्षदम्" इत्यादिभिः रुद्रावाहनम् उक्तम्. एवं "आदित्यम् अम्बिकां विष्णुं गणनाथं महेश्वरम्"*{786}* इति पञ्चपूजा च. अतः बोधायनसूत्रं नारायणैकपरं न भवति.
[98.16-18] अथ आपस्तम्बादयः किं नारायणैकपरः - अत रुद्रपराः आहोस्वित् नानादेवतापराः?. नारायणैकपरा इति चेन् न. जातिकुलाचारादिष्व् आगोत्रप्रथमाद् आरभ्य:
[98.19] "श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस् सौगताः ।
[98.20] माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः ।
[98.21] भ्राता तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यस् सखा
[98.22] मिथ्याचारसमाह्वयस् स्वयम् असौ विप्लाविको वैदिकः ॥"
!{780}! बौध्गृशेष्स्: रुद्रप्रतिष्ठाकल्पं.
[98.23-99.4] इत्य् उक्तरीत्या एतेषां शैवपाशुपतवैष्णवाद्याकरिण विद्यमानत्वात् आपस्तम्बादिसूत्राण्य् अपि नारायणैकपराणि न भवन्ति. भगवतो नारायणस्य समाराधनविधिप्रतिपादनाभावाच् च. नारायणैकपरञ् चेद् आपस्तम्बादिसूत्रं तर्हि तत्सूत्रोक्तधर्मानुष्ठातारः सर्वे ऽपि नारायणैकपरा एव स्युः. न च तथा दृश्यते. पाञ्चरात्राद्युक्तमार्गेण वैष्णवसंपादने "स्वसूत्रे विद्यमाने तु" - "स्वसूत्रस्य परित्यागात्" - "यस् स्वधर्मं परित्यज्य" "विधर्मः परधर्मश् च" - श्रेया स्वधर्मो विगुणः" - इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन्.
[99.5-6] "स्वशास्त्रनिर्णये सत्ये सत्याः स्युर् लोकनिर्णया" इति स्वसूत्रस्य प्रामाण्यबुद्धिश् च तेषाम् अवर्जनीया.
[वैखानसानां अविच्छेदेन नारायणपरत्वम्]
[99.7-9] वैखानसानां सूत्रकाराद् आरभ्य अविच्छिन्नत्वेन श्रीमन्नारायणैकपरत्वेनाराधनादिकं प्रत्यक्षसिद्धम्. तथा च सूत्रम्, "गृहे देवायतने वा भक्त्या भगवन्तं नारायणम् अर्चयेत् तद् विष्णोः परमं पदं गच्छतीति विज्ञायते" इति*{787}*.
[99.10-12] इतरेष्व् आपस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषु केचिच् छैवाः केचिद् पाशुपताः केचिच् छाक्ताः नानादेवतापराश् चेत्येवमाकारेण दृश्यते.
[99.13] "जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः ।
[99.14] नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥"
[99.15-16] इति केषाञ्चित् स्वकृतपूर्वपुण्यविशेषान् नारायणपरत्वसम्भवे ऽपि स्वसूत्रकारम् आरभ्य स्वपर्यन्तम् अविच्छिन्नत्वेन तद् अस्तीति वक्तुं न शक्यते. अतः -
[99.17] "नानाकामहतज्ञाना नानादैवतयाजिनः ।
[99.18] नरा भगवत् ऐकन्त्ये न स्थास्यन्ति कलौ युगे ॥ [वायुप्]
[99.19] आगमाद् अनुमानाच् च प्रत्यक्षाद् उपपत्तितः ।
[99.20] परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ॥" [वायुप्]
[99.21-22] इति वायुपुराणादिवचनाद् आगमादिभिर् निपुणं परीक्ष्य निर्णीत एवार्थः विपश्चिद्भिः अनुष्ठेयः.
[नारायणस्य पारम्यम्]
[99.23-100.10] ननु - किं अर्थं नारायणैकपरत्वेन सूत्रं प्रणीतम् इति चेत् - उच्यते. नारायण*{788}* अखिलजगदेककारणत्वात् परंब्रह्मपरमात्मादिशब्दवाच्यत्वात् अपवर्गादिफलप्रदत्वात् समाभ्यधिकरहितत्वाच् च नारायणैकपरत्वेन प्रणीतम्. अत्र - "नारायणाद् रु*{789}* जायते. नारायणाद् इन्द्रो जायते. नारायणाद् द्वादशादित्याः रुद्रा वसवस् सर्वाणि च भूतानि. नारायणाद् एव समुद्पद्यन्ते. नारायणात् प्रलीयन्ते" इत्याद्याः "नारायणपरं ब्रह्मे"त्य् आरभ्य "अन्तर्बहिश् च तत्सर्वं व्याप्य नारायणः स्थितः" इत्य् आद्याः, "तम् एव विद्वान् अमृत इह भवति. नान्यः पन्था अयनाय विद्यते" "उतामृतत्वस्येशानः" इत्याद्याः, "न तस्य कार्यं करणञ् च विद्यते" "न तत्समश्चाभ्यधिकश् च दृश्यते" "परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्याद्याः, "एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः" इत्याद्याः, "एको ह वै नारायण आसीत्" इत्याद्याः, "यतो वा इमानि भूतानि जायन्ते. येन जातानि जीवन्ति. यत्प्रयन्त्य् अभिसंविशन्ति. तद्विजिज्ञासस्व. तद् ब्रह्मे"ति "पतिं विश्वस्यात्मेश्वरम्" इत्याद्याश् च श्रुतयः प्रमाणम्.
!{787}! बेzउग् औf वैख्स्म्स् 4.12: द्विजातिर् अतन्द्रितो नित्यं गृहे देवायतने वा भक्त्या भगवन्तं नारायणम् अर्चयेत्. तद् विष्णोः परमं पदं गच्छतीति विज्ञायते.
[श्वेताश्वतरादेः रुद्रपारम्यपरत्वाभावः]
[100.11-23] ननु - श्वेताश्वतरे - "एको हि रुद्रो न द्वितीयाय तस्थे - य इमान् लोकान् ईशत ईशनीभिः*{790}* - विश्वाधिको रुद्रो महर्षिः*{791}* - हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु*{792}* - "उमासहायं परमं महेश्वरं त्रियम्बकं नीलकण्ठं प्रशान्तम्. ज्ञात्वा मुनिर् गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्" इत्यादिभिः रुद्रस्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत् - उच्यते. आपाततो रुद्रपरत्वेनावगम्यमाने ऽपि विचार्यमाणे नारायणपरत्वम् एव. एक एव रुद्र इत्य् अनुपपन्नम्. "सहस्राणि सहस्रशो ये रुद्रा" इत्यादि श्रुतिभिः "एकादशरुद्रा" इत्यादिभिश् च अनेकरुद्राणां विद्यमानत्वावगमात् क्रूरस्य रुद्रशब्दवाच्यस्य "बृहत्त्वात् बृंहणत्वाच् च तद्ब्रह्मेति प्रकीर्तितम्" इति ब्रह्मशब्दवाच्यत्वासम्भवात्, "तेषाम् असुराणां तिस्रः पुर आसन्न्" इत्य् आरभ्य, "इदम् असिष्यतीति रुद्रम् अब्रुवन् रुद्रो वै क्रूरस् सो ऽस्यत्विति. सो ऽब्रवीद् वरं वृणै अहम् एव पशूनाम् अधिपतिरसाव् इति तस्माद् रुद्रः पशूनाम् अधिपतिर् इति" "रुद्रो वा अकामयत पशुमान् स्याम् इति - "माता रुद्राणां दुहिता वसूनाम्" इति. पशुपतित्वयाचकत्वात्. "नैव देवो न मर्त्यः. न राजा वरुणो विभुः. नाग्निर्नेन्द्रो न पवमानः.
!{790}! श्वेतु 3.2: एको हि रुद्रो न द्वितीयाय ??थुर् य इमां ल्लोकान् ईशत ईशनीभिः.
[ब्रह्मरुद्रादीनां नारायणसाम्याभावः]

[100.24-101.7] मातृक्कश् च न विद्यते - इत्य् आरभ्य "एतद् रुद्रस्य धनुः. रुद्रस्यत्वेन धनुरार्त्निः. शिर उत्पिपेष. स प्रवर्ग्यो ऽभवत्. तस्माद् यस् सप्रवर्ग्येण यज्ञेन यजते. रुद्रस्य स शिरः प्रतिधाति. नैनं रुद्र आरुको भवति" इत्य् उक्तत्वाच् च रुद्रस्य ब्रह्मशब्दवाच्यत्वं न सम्भवति. रुद्र हर पशुपति नीलग्रीव शितिकण्ठ भव शर्व कपर्दीत्यादीनाम् एकत्वेन श्रुयमाणानाम् एकत्वं न सम्भवति. ईश्वर महेश्वर परममहेश्वर इति परममहेश्वरशब्दश्रवणात्. "शिव एको ध्येयः शिवश्शङ्करः सर्वम् अन्यत्परित्यज्ये" त्यादिना शिवशब्दवाच्याद् अधिकत्वेन शिवतरशिवतमशब्दवाच्यस्य विद्यमानत्वात्. शम्भुशब्दस्य विश्वशम्भुत्वश्रवणात् ईशानस्य जगदीशानत्वश्रवणात् महादेवस्य "तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ् च दैवतम्" इति श्रवणाच् च रुद्रादीनां परंब्रह्मशब्दवाच्यत्वं न सम्भवति.
[101.8-12] ननु - श्वेताश्वतरे - उमासहयविशेषित परममहेश्वरशब्दवाच्यस्य रुद्रत्वसम्भवात् परंब्रह्मशब्दवाच्यत्वं तस्य सम्भवतीति चेत् - न. परममहेश्वरशब्दस्य उमासहायम् इत्य् अत्र रुद्रादिष्व् अनुपपन्नत्वात्. उकारस्त्ववधारणार्थः. उ - मा सहायं लक्ष्मीसहायं परमं महेश्वरम् एव त्रिलोचनत्वादिविशेषणविशिष्ठं लक्ष्मीनरसिंहं ध्यात्वेत्यर्थः. यद्वा. देवमनुष्याद्यपेक्षया परममहेश्वरत्वात्,
[101.13] "सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
[101.14] स संज्ञां याति भगवान् एक एव जनार्दनः ॥"
[101.15-18] इति भगवच्छरीरभूतत्वाच् च रुद्रस्य परममहेश्वरत्वम्. एवं भूतं रुद्रं ध्यात्वा मुनिर् मननशीलस्सन् भूतयोनिं सर्वकारणकारणं सम्स्तरक्षकं तमसः परस्तात् गच्छति. "आदित्यवर्णं तमसः परस्ताद्" इत्यादिभिः तमसः पारवर्तिनं प्रकृतेः परं परमात्मानं नारायणं गच्छति - प्राप्नोति इत्य् अर्थः.
[101.19] किञ्च - अत्र: सनो देवः शुभया स्मृत्या संयुनक्तु. इत्य् अनेन
[101.20] "आरोग्य भास्कराद् इच्छेत् श्रियम् इच्छेद् धूताशनात् ।
[101.21] शङ्करात् ज्ञानम् अन्विच्छेत् मोक्षम् इच्छेज् जनार्दनात् ॥"
[101.22-23] इति ज्ञानप्रदत्वात् शङ्करोपासनम् उच्यते. अतो भगवता नारायणेन साम्यं ब्रह्मरुद्रादीनां नोपपद्यते.
[101.24] भारते: "ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ।
[101.25] ते वै पाषण्डनो ज्ञेयास् सर्वकर्मबहिष्कृताः ॥ [म्ब्.ह् ]

[रुद्रादिसाम्येन नारायणावमन्तॄणाम् अनिष्टम्]
[102.1] यस् तु नारायणं देवं सामान्येनाभिमन्यते ।
[102.2] स याति नरकं घोरं यावच् चन्द्रादिवाकरम् ॥ [म्ब्.ह् ]
[102.3] यो महाद्विष्णुम्*{793}* अन्येन हीनदेवेन दुर्मति ।
[102.4] साधारणं सकृद् ब्रूते सो ऽन्त्यजो नान्त्यजों ऽत्यजः ॥" [म्भ् ]
[102.5] वाराहे: "अन्यदेवसमं ये तु मन्यन्ते मां नराधमाः ।
[102.6] चण्डालतां व्रजन्त्य् आशु जन्मनि नव पञ्च च ॥" इति [वराहप्]
[102.7] श्रीभागवते: "यस् तु नारायणं देवं समत्वेनावमन्यते ।
[102.8] सकृत्तेनावमानेन नरकान्नातिवर्तते ॥ [भागवतप् ]
[102.9] अस्माद् अन्यं परत्वेन चिन्तयानो ह्य् अचेतनः ।
[102.10] स पाषण्डीति विज्ञेयस् सर्वकर्मबहिष्कृतः ॥" इति [भागवतप् ]
[102.11] कौर्मे: "ये ऽन्यं देवं परत्वेन वदन्त्य् अज्ञानमोहिताः ।
[102.12] नारायणाज् जगन्नाथात् ते वै पाषण्डिनः स्मृताः ॥ [कूर्मप् ]
[102.13] यस् तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
[102.14] समत्वेनैव वीक्षेत स पाषण्डी भवेद् द्विजः ॥" इति [कूर्मप् ]
[102.15] भारद्वाज: "अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर् विभूतयः ।
[102.16] तान् वै कुदृष्टयस् सम्यक् परत्वेनाप्य् उपासते ॥" इति
[102.17] वाराहे: अगस्त्यं प्रति रुद्रः:
[102.18] "यो यज्ञैर् इज्यते देवो यस्मात् सर्वम् इदं जगत् ।
[102.19] उत्पन्नं सर्वदा यस्मिन् लीयते*{794}* सचराचरम् ॥ [वराहप्]
[102.20] नारायणः परो देवः सत्त्वरूपी जनार्दनः ।
[102.21] त्रिधात्मानं*{795}* स भगवान् ससर्ज परमेश्वरः ॥ [वराहप्]
[102.22] शुद्धसत्त्वस् स्वयं जज्ञे रजस्सत्त्वादिकं विभुः ।
[102.23] ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ [वराहप्]
[102.24] रजसा तमसा युक्तं सो ऽपि मां ससृजे प्रभुर् ॥" इति [वराहप्]
!{793}! लिएस्: महाविष्णुम्.
[103.1] ननु: "सर्वपापहरञ् चेह पश्चात् संसारनाशनम् ।
[103.2] सुवर्णरौप्यताम्राद्यैः लोहेनापि तथैव च ॥ [वराहप्]
[103.3] तथा रयाङ्गम्*{796}* अष्टाङ्गं सुनाभञ् च सुवृत्तकम् ।
[103.4] ज्वालाचतुष्कसंयुक्तं कृत्वा चैव विधानतः ॥ [वराहप्]
[103.5] अग्नौ प्रताप्य विधिवत् धारयेद् भक्तिसंयुतः ॥" इति [वराहप्]
[103.6] "यज्ञो दानं तपो होमो भोजनं पितृतर्पणम् ।
[103.7] चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् ॥ [वराहप्.]
[103.8] श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने ।
[103.9] चक्राङ्कितं विप्रम् एव पूजयेद् अपरं न तु ॥" [वराहप्]
[103.10-11] इत्यादिवचनैः चक्रादिनानङ्कितस्य*{797}* वैष्णवत्वाभावात् वैखानसानां*{798}* कथं वा वैष्णवत्वम् इति चेत् - उच्यते.
[चक्राद्यनङ्कितानाम् अपि वैखान्सानां वैष्णवत्वम्]
[103.12-13] "यस्य मे श्रियम् अमितां दातुं गर्भ एव करे चक्रं धारयामि स चक्रवर्ती भवति" इति श्रुतेः
[103.14] "वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् ।
[103.15] नारायणः स्वयं गर्भे मुद्रां धारयते निजाम्* ॥{799}*" इति

[103.16] "सुदर्शनम् अभीत्य् उक्त्वा दक्षिणे तु सुदर्शनम् ।
[103.17] रविपाम् इति वामे तु शङ्खञ् च बिभृयात् करे* ॥{800}*"
[वैखानसानां गर्भतो वैष्णवत्वम्]
[103.18] इति भृगुणोक्तत्वाच् च श्रीविष्णुबलिकर्मणा वैखानसानां गर्भवैष्णवत्वादिकं प्रतिपन्नम्.
[103.19] तथा*{801}*: "इन्द्रियेभ्यः परा ह्य् अर्था ह्य् अर्थेभ्यश् च परं मनः ।
[103.20] मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥
[103.21] महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः ।
[103.22] पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः ॥"
[गर्भगतस्य प्रपदनोपपत्तिः]
[103.23] इति श्रुतेः परमैकान्तित्वं परमपुरुषवशीकरणद्वारा गर्भगतस्य प्रपत्तिर् अपि सम्भवति.
[103.24] गर्भगतस्य प्रपत्तिर् अपि गर्भोपनिषदि श्रूयते. "ज्ञानाद् ध्यनाद् अक्षरम् ओङ्कारः चिन्तयति."*{802}*
!{796}! ध्न्[त्] 607: रथाङ्गम्.
[104.1-2] इत्य् उक्त्वा "अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति. पूर्वजातिं स्मरति. कृताकृतञ् च कर्म भवति. शुभाशुभञ् च कर्म विन्दति."*{803}*
[104.3] "नानायोनिसहस्राणि दृष्टा*{804}* चैव ततो मया ।
[104.4] आहारा विविधा भुक्ताः पीताश् च विविधाः स्तनाः ॥ [गर्भ.उ 4.1]
[104.5] जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः ।
[104.6] अहो दुःखो दधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥" इत्युक्त्वा [गर्भौ 4.2]
[104.7] "यदि योन्याः प्रमुच्ये ऽहं तं प्रपद्ये नारायणाम्*{805}* ।
[104.8] अशुभक्षयकर्तारं फलमुक्तिप्रदायकम्* ॥{806}*" इति [गर्भौ 4.6]
[104.9-14] *{807}*पुरुषसूक्तभाष्ये - मुद्गलोपनिषदि - "वामदेवो ऽप्य् आङ्गिरसस् सन् पूर्वपूजां समारात्रिं पत्न्यनसूयागर्भ एव शयानो ब्रह्मैव वेदयाञ् चक्रे स गर्भं पुरो भित्वा ब्रह्मलोकम् उपचक्राम तम् उत्क्रामान्तम् आह मध्ये ऽध्वानम् इन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायो ऽस्मात् किञ्चिद् धादित्या स गर्भस् सर्वो मन्यमानो ऽध्वनः पारम् उपगच्छसी"त्यादि. तथा च गर्भगतस्य प्रपदनविचारश्रवणाद्युपपद्यत एव.
[वैदिकतान्त्रिकभेदेन प्रपत्तेर् द्वैविद्यम्]
[104.15-16] वैदिकतान्त्रिकभेदेन प्रपत्तिर् द्विविधा - प्रणवपूर्वकत्वेन पुरुषाद्यावाहनादिकं वैदिकम्.
[वैदिकप्रपत्तेर् लक्षणम्]
[104.17] श्रुत्यन्तरे: "अकारेणोच्यते विष्णुस् सर्वलोकेश्वरो हरिः ।
[104.18] उद्धृता विष्णुना लक्ष्मीर् उकारेण तथोच्यते ।
[104.19] मकारस् तु तयोर् दास इति प्रणवलक्षणम्* ॥{808}*" इति
[104.20] किञ्च. प्रणवोच्चारणमात्रेण शङ्खचक्रादिधारणम् अपि सम्भवतीति श्रुयते*{809}*.
[104.21-24] कैवल्योपनिषदि - "धृतोर्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा. स्वरेण मन्त्रेण सदा हृदिस्थं परात् परं यन्महतो महान्तम्." इति. सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतये एव स्वाभाविकशेषभूत इति सर्वदानुसन्धानम् एव वैदिकी प्रपत्तिः.
!{803}! बेzउग् औf गर्भौ 3.12: अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति. पूर्वजातीः स्मरति. कृताकृतञ् च कर्म भवति. शुभाशुभञ् च कर्म विन्दति.
[105.1] "स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि ।
[105.2] आत्मदास्यं हरेः स्वाम्यं स्वभावञ् च सदा स्मर ॥"
[105.3] इत्य् एव सूत्रे प्रतिपदितम्.
[105.4] पाञ्चरात्रे तु
[105.5] "त्यक्त्वा त्रयीं तन्त्रम् एव प्रपद्य शरणं स्थिताः ॥" इति [पाद्मस् चर्यापाद 21.56च्द्]
[105.6] "अनन्यसाध्ये स्वाभीष्ठे महाविश्वासपूर्वकम् ।
[105.7] तदेकोपायता याच्ञा प्रपत्तिः शरणागतिः ॥"
[105.8-10] *{810}*इति च उपदिश्यते. तस्याः प्रपत्तेः सकृत्करणात् समन्त्रकत्वाभावात् तच्छेषगत्यनुस्मरणाभावाच् च तां तान्त्रिकप्रपत्तिं विहाय "यद् एव विद्यया करोति तद् एव वीर्यवत्तरं भवती"ति श्रुत्या वैदिकप्रपत्तिम् एवोक्तवान् सूत्रकारः.
[तप्तचक्राद्यङ्कं न द्विजन्मनाम्]
[105.11] स्कान्दे: "विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते ।
[105.12] शङ्खचक्रगदापूर्वैर् अङ्कनं नान्यदेहिनाम् ॥ [स्कन्दप् ]

[105.13] शिवागमादिदीक्षाणां धार्यं तिर्यक् त्रिपुण्ड्रकम् ॥" इति [स्कन्दप् ]
[105.14] विष्णु: "शङ्खचक्राद्यङ्कनञ् च गीतनृत्तादिकं तथा ।
[105.15] एकजातेर् अयं धर्मः न जातु स्याद् द्विजन्मनाम्* ॥{811}*" इति [विष्णुप् ]
[105.16] श्रीभागवते दशमस्कन्धे:
[105.17] "त्रिवक्रायाम् उपश्लोकः पुत्रः कृष्णम् अनुव्रतः ।
[105.18] शिष्यस् साक्षान् नारदस्य ददौ चित्तम् अखण्डितम् ॥
[105.19] तेनोक्तं सात्त्वतं तन्त्रं यत् ज्ञात्वा मोक्षभाग् भवेत् ।
[105.20] यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥" इति [भागवतप् ]
[तान्त्रिकप्रपत्तेर् लक्षणादि]
[105.21] पद्मपुराणे: "वेदज्ञे ब्राह्मणे नित्यं सर्वास् तिष्ठन्ति देवताः ।
[105.22] इति तित्तिरिशाखायां श्रूयते नृपसत्तम ॥ [पद्मप् ]
[105.23] दक्षिणे ऽंसे ब्राह्मणस्य शङ्खचक्रगदाधरः ।
[105.24] हरिस् तिष्ठति वामे तु देवकीसूनुर् आदरात् ॥ [पद्मप् ]
!{810}! ध्न्[त्] 614 स्तत्त् ध्न्[द्] 105.8-10: इति सकृत्कृतत्वात् मन्त्रकत्वाभावात् तच्छेषगत्यनुस्मरणाभावाच्. (यद् एव विद्यया करोति तद् एव वीर्यवत्तरं भवती"ति श्रुत्या तान्त्रिकप्रपत्तिं विहाय वैदिकप्रपत्ति)म् एवोक्तवान्.
[106.1] ततो ब्राह्मणदेहो ऽयं देवतागार उच्यते ।
[106.2] तद्दाहे देवतास् सर्वे पलायन्ते दिशो दश ॥ [पद्मप् ]
[तप्तचक्रङ्कणादिविधीनाम् अधिकारी]
[106.3] अगारदाही स भवेत् तद्दाही ब्राह्मणाधमः ।
[106.4] शङ्खं चक्रं मृदा यस् तु कुर्यात् तप्तायसेन वा ॥ [पद्मप् ]
[106.5] स शूद्रवत्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ।
[106.6] यथा श्मशानजं*{812}* काष्ठम् अनर्हं सर्वकर्मसु ॥ [पद्मप् ]
[106.7] तथा चक्राङ्कितो विप्रस् सर्वकर्मसु गर्हितः ॥" इति. [पद्मप् ]
[106.8] तत्रैव: "मोहाद् वा लोभतो वापि विप्रश् चक्राङ्कितो यदि ।
[106.9] अनर्हस् स हि विज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥ [पद्म.प् ]
[106.10] क्रियास्व् अनर्हताम् एति यथा काष्ठं श्मशानगम् ।
[106.11] तथा चक्रादिना दग्धाः सर्वकर्मस्व् अनर्हताम् ॥ [पद्मप् ]
[106.12] दग्धार्धकायो यत्रास्ति ग्रामे जनपदे ऽपि वा ।
[106.13] श्मशानं तद् धि विज्ञेयं वासानर्हं द्विजन्मनाम् ॥" [पद्मप् ]
[106.14-16] इत्यादिना दूषणम् उक्तम्. एतानि तप्तचक्राङ्कनविधायकानि वचनानि "विष्ण्वागमादितन्त्रेषु दीक्षितानाम्" इत्य् उक्तत्वात् एकजातिविषयत्वेनोक्तत्वात् "नान्यदेहिनाम्" इत्युक्तत्वाच् च तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्य्*{813}* अवगम्यते.
[106.17-19] यद्वा विधिनिषेधवचनानां वैयर्थ्यपरिहाराय "वपाश्रपणीभ्याम्*{814}* अन्वारभते तन्नैवान्वारब्धं नैवानन्वारब्धं"*{815}* "अवघ्रेयम् एव तत् नैव प्राशितं नैवाप्राशितम्" इत्यादि श्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम्.*{816}*. यथा:
[106.20] "सुदर्शनम् अभीत्य् उक्त्वा दक्षिणे तु सुदर्शनम् ।
[106.21] रविपाम् इति वामे च शङ्खञ् च बिभृयात् करे* ॥{817}*" इति
[106.22] महोपनिषदि - ब्रह्मसूक्ते:
[106.23] "दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम् ।
[106.24] सव्ये तु शङ्खं बिभृयाद् इति वेदविदो विदुः* ॥{818}*" इति.
!{812}! ध्न्[त्] 615: श्मशानगं.
[पाञ्चरात्रोक्ततप्तचक्रधारणस्य सर्वाधिकारिकत्वाभावः]
[पाञ्चरात्रादीनां मोहनशास्त्रत्वम्]
[107.1] मोहशास्त्रत्वात् शप्तविषयत्वाच् च पञ्चरात्रे तापविधानं उक्तम् इति केचित् वदन्ति.*{819}*
[107.2] पद्मपुराणे गौतम: "यन् मयि ब्राह्मणाभासाः ऋजौ कैतवम् ईदृशम् ।

[107.3] अनुष्ठितं ततो वेदमार्गभ्रष्ठाश् च पापिनः ॥ [पद्म.प् ]
[107.4] कालमुखे पाञ्चरात्रे*{820}* कालपाले शाम्भवे ऽपि च ।
[107.5] शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः ॥" इति [पद्मप् ]
[107.6] ब्रह्मा: "बौद्धे भागवते तन्त्रे तृतीये पाञ्चरात्रके ।
[107.7] दीक्षिताश् च द्विजा नित्यं भवेयुर् निर्भया हरे ॥ [पद्मप् ]
[107.8] श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे ।
[107.9] त्वद्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः ॥ [पद्म.प् ]
[107.10] शङ्ख्वैखनचक्रगदापूर्ववज्रपाशाङ्कुशादिभिः ।
[107.11] अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमाः ॥" इति [पद्मप् ]
[107.12] स्कान्दे - "सूतसंहितायाम् सरस्वतीं प्रति रुद्रः:
[107.13] "श्रुतिर् बलीयसीत्य् उक्ता प्रमाणानां सुलोचने" इत्य् आरभ्य [स्कन्दप् ]
[107.14] "पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके ।
[107.15] न हि स्वतन्त्रतस् तेन भ्रान्तिमूलानि रूपिणि ॥ [स्कन्दप् ]
[107.16] तथापि यो ऽंशो मार्गेण वैदिकेनाविरुद्ध्यते ।
[107.17] सो ऽंशः प्रमाणम् इत्य् उक्तं केषाञ्चिद् अधिकारिणाम् ॥ [स्कन्दप् ]
[107.18] अत्यन्तस् खलितानान् तु प्राणिणां वेदमार्गतः ।
[107.19] पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ।
[107.20] तान्त्रिकाणां महादेवि न लभ्यो ऽव्यवधानतः ॥" इति प्रतिपादितम्. [स्कन्दप् ]
[107.21] कौर्मे: "पुरा दारुवने पुण्ये मुनयो गृहमेधिनः ॥" [कूर्मप् 16.97अब्]
[107.22] इत्य् आरभ्य मायया गोकल्पनादि शापप्राप्तिपर्यन्तम् उक्त्वा:
[107.23] "का नो वृत्तिर् महादेव शापान्नः त्रातुम् अर्हसि* ।{821}* [कूर्मप् 16.112च्द्]
[107.24] तथा पार्श्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः* ।{822}*
!{819}! ध्न्[त्] 619: मोहशास्त्रत्वाच् छप्तविषयत्वाच् च पञ्चरात्र उक्तम् इति केचित् वदन्ति. यथा.
[पाञ्चरात्रस्य वेदभ्रष्टानुद्दिश्य प्रवृत्तत्वम्]
[108.1] किम् एतेषां भवेत् कार्यं प्राह पुण्यैषिणाम् इति ॥ [कूर्म.प् 16.113]
[108.2] ततस् स भगवान् विष्णुः शरण्यो भक्तवत्सलः ।
[108.3] गोपतिं प्राह विप्रेन्द्रान् आलोक्य प्रणतान् हरिः ॥ [कूर्मप् 16.114]
[108.4] न वेदबाह्ये शास्त्रे च*{823}* पुण्यलेशो ऽपि शङ्कर ।
[108.5] सङ्गच्छते यतो धर्मो वेदाद् एव हि निर्बभौ* ॥{824}* [कूर्मप् 16.115]
[108.6] तथापि भक्तवात्सल्यात् रक्षणीया महेश्वर* ।{825}*
[108.7] आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः* ॥{826}* [कूर्मप् 16.116]
[108.8] तस्माद् वै वेदबाह्यानां रक्षणार्थञ् च पापिनाम्* ।{827}*
[108.9] विमोहनाय शास्त्राणि करिष्यामि वृषध्वज* ॥{828}* [कूर्मप् 16.117]
[108.10] एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा* ।{829}*
[108.11] चकार मोहशास्त्राणि केशवो ऽपि शिवेरितः ॥ [कूर्मप् 16.118]
[108.12] कापालं यामलं वामं*{830}* भैरवं पूर्वपश्चिमम् ।
[108.13] पाञ्चरात्रं पाशुपतं*{831}* तथान्यानि सहस्रशः ॥ [कूर्मप् 16.119]
[108.14] कृत्वा चार्च्य च तद् देवान् *{832}* कुर्वाणास् तत्र चोदितम्* ।{833}*
[108.15] पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः ॥" इत्यादि चोक्तम् [कूर्मप् 16.120]
[108.16] स्कान्दे शङ्करसंहितायाम्

मूल पाठ: Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi) · Edition: (pp. 1-122) the of the Devanāgarī-ed. by R. Parthasarathi Bhattacarya: Śrīvaikhānasagṛhyasūtra (= DHN[D]); 2 vols., Akulamannāḍu, 1967 (reprint Tirupati, 1997/98). · Data entry Ute Hüsken · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc