भाषा

ENहिગુ
ग्रंथ पाठ

दशविधाहेतुनिरूपण · भाग 2140

[31.13] इत्य् उक्तो भगवान् देवः शास्त्रं श्रुतिपथागतम् ॥
[31.14] सहस्रकोटिभिः श्लोकैस् सङ्ख्यातं बहुविस्तरम् ।
[31.15] सूत्रमूलम् अनाद्यन्तं कल्पे कल्पे समाश्रितम् ॥
[31.16] उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च ।
[31.17] मूलं सर्वागमानाञ् च पुराणानां तथैव च ॥
[31.18] स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभिनाम् ।
[31.19] वेदाश् च विखनश्शास्त्रं प्रमाणम् इति चेरयन् ॥
[31.20] यथा वैखानसं पूर्वे ऽहन् सामभवतीति*{299}* च ।
[31.21] ये नखा भुवि सञ्जातास् ते वै वैखानसा इति ॥
[31.22] श्रुत्युक्तं तद् इदं शास्त्रं वैखानसमहार्णवम् ।
[31.23] इत्य् उक्त्वा भगवान् आद्यस् तत्रैवान्तरधीयत ॥
[31.24] ततः परं चतुर्वक्त्रो जटाकाषायदण्डभृत् ।
[31.25] नैमिशारण्यम् आसाद्य द्विजसङ्घनिषेवितम्*{300}* ॥
!{296}! ध्न्[त्] 162: (इद्धम्).
[32.1] तपस् तप्त्वा चिरं कालं ध्यायंस् तेजस् तु वैष्णवम् ।
[32.2] पश्चाद् अपश्यद् विष्णूक्तम् आगमं विस्तरात् तदा ॥
[32.3] सश्रौतञ् च सगृह्यञ्*{301}* च वेदमन्त्रैर् अभिष्टुतम् ।
[32.4] संक्षिप्य सारम् आदाय शाणोल्लिखितरत्नवत् ॥
[32.5] धाता विखनसो नाम*{302}* मरीच्यादिसुतान् मुनीन् ।
[32.6] अबोधयद् इदं शास्त्रं सार्धकोटिप्रमाणतः*{303}* ॥
[32.7] कल्पे कल्पे पुरा विष्णुर् उद्भूतः पूर्ववत् सदा ।
[32.8] तस्माद् वैदिकम् आचारं यः कर्तुं भुवि वाञ्छति ॥
[32.9] तस्येदं शास्त्रम् इत्य् उक्तं नेतरेषाभितीरितम् ॥"
[वैखानससूत्रस्य तत्सूत्रिणां च माहात्म्यम्]
[32.10] पुरातन्त्रे सप्तचत्वारिंशे ऽध्याये:
[32.11] ऋषय ऊचुः: "वैखानसस्य सूत्रस्य किं माहात्म्यं महामुने ।
[32.12] विहाय सर्वसूत्राणि यत् त्वया चानुवर्तितम् ॥ [पुरातन्त्र.]
[32.13] तत्सूत्रिणाञ् च माहात्म्यं श्रोतुम् इच्छामहे वयम् ।
[32.14] समूर्तस्यास्य यज्ञस्य ये योग्याः इति कीर्तिताः ॥ [पुरातन्त्र.]
[32.15] भृगुः: युष्माभिः परिपृष्टं यत् सम्यग् वक्ष्यामि सुव्रताः ।
[32.16] श्रुण्वन्तु मुनयस् सर्वे सूत्रमाहात्म्यम् उत्तमम् ॥ [पुरातन्त्र]
[32.17] सुप्तोत्थितश् चिरं ब्रह्मा स्रष्टुकामः पुराभवत् ।
[32.18] सस्मार वेदान् अखिलान् न सृष्टिस् सम्प्रवर्तते ॥ [पुरातन्त्र.]
[32.19] चिरं सुप्तस्य वै धातुस् तमसाक्रान्तचेतसः ।
[32.20] विस्मृता निखिला वेदा हृदये तस्य संस्थिताः ॥ [पुरातन्त्र.]
[32.21] चिन्तातुरस् तदा ब्रह्मा नालङ्कर्तुं किम् अप्य् अभूत् ।
[32.22] ततश् चिन्तान् तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः ॥ [पुरातन्त्र.]
[32.23] हृद्पद्ममध्ये पुरुषं परमेण समाधिना ।
[32.24] अर्चयामास वै विष्णुम् ऋग्यजुस्सामरूपिणम् ॥ [पुरातन्त्र.]
!{301}! ध्न्[त्] 164: ससूत्रं.

[दक्षादिनवब्रह्मसृष्टिः]
[33.1] तुष्टाव च तदा ब्रह्मा हरिप्रवणमानासः ।
[33.2] ननाम च तदा विष्णुं शङ्खचक्रगदाधरम् ॥ [पुरातन्त्र.]
[33.3] ब्रुवतो भगवद्ध्यानात् विनष्टतमसो विधेः ।
[33.4] सत्त्वोद्रिक्तस्य तस्याशु नैर्मल्यं हृदये ऽभवत् ॥ [पुरातन्त्र]
[33.5] ततस् तु भगवान् ब्रह्मा छन्दोमूलम् अवाप्तवान् ।
[33.6] तस्य दक्षिणतो वक्त्रात् तुष्टाव जगतः पतिम् ॥ [पुरातन्त्र]
[33.7] सस्मार विविधान् वेदान् साङ्गान् उपनिषद्गणान् ।
[33.8] पुराणन्यायमीमांसा धर्मशास्त्राणि सर्वशः ॥ [पुरातन्त्र.]
[33.9] अन्तर्हितानां खननाद् वेदानान् तु विशेषतः ।
[33.10] स विभुः प्रोच्यते सर्वैर् विखना ब्रह्मवादिभिः ॥ [पुरातन्त्र.]
[33.11] वैखानसश् च भगवान् प्रोच्यते स पितामहः*{304}* ।
[33.12] ततस् ससर्ज भगवान् विश्वयोनिः पितामहः ॥ [पुरातन्त्र]
[33.13] जगत् सर्वम् अशेषेण वेददृष्टेन वर्त्मना ।
[33.14] प्राणाच् च चक्षुषस् तद्वद् अभिमानाच् च कर्मणः*{305}* ॥ [पुरातन्त्र]
[33.15] हृदयाच् छिरसश् श्रोत्राद् उदानाद् व्यानतस् ततः ।
[33.16] समानाच् च तथापानाद् ऋष्टिश्रेष्ठानिमान् दश* ॥{306}* [पुरातन्त्र]
[33.17] दक्षं मरीचिनं नीललोहितं भृगुम् एव च ।
[33.18] तथाङ्गिरसम् अत्रिञ् च पुलस्त्यं पुलहं तथा* ॥{307}* [पुरातन्त्र]
[33.19] वसिष्ठञ् च क्रतुञ् चैव क्रमाद् असृजद् अब्जभूः ।
[33.20] नव ब्रह्माण एवैते विना स्युर् नीललोहितम्* ॥{308}* [पुरातन्त्र]
[33.21] वेदानां व्यसनाद् अर्वाक् प्राग्रूपं मिलितन् तु यत् ।
[33.22] तान् तु वैखानसीं शाखां आदावध्यापयन् मुनीन्* ॥{309}* [पुरातन्त्र]
[33.23] (नाम्ना विखनसं प्राहुर् यञ् च वैखानसं तथा* ॥{310}* [पुरातन्त्र]
[33.24] भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः ।
!{304}! वोन् अन्तर्हितानां बिस् पितामहः औछ् zइतिएर्त् अल्स् "आनन्दसंहिता" इन् ध्न्[द्] 8.4-6.
[34.1] तथा वसिष्ठो दक्षश् च नव ब्रह्माण ईरिताः* ॥{311}* [पुरातन्त्र]
[34.2] नव ब्रह्माण एवैते विना स्युर् नीललोहितम्* ॥{312}* [पुरातन्त्र]
[दक्षादीनां नवानां विखनश् शिश्यत्वम्]
[34.3] एते विखनसश् शिष्याः श्रुतिस्मृतिविधानतः ।
[34.4] तच्छिष्यास् तु महात्मनो मुनयस् तत्त्वदर्शिनः ॥ [पुरातन्त्र.]
[34.5] वेदानुगानि शास्त्राणि चक्रुर् लोकहितैषिणः ।
[34.6] केचित् सूत्रणि वै चक्रुः गृह्यश्रौतात्मिकानि तु ॥ [पुरातन्त्र]
[34.7] धर्मशास्त्राणि केचित् तु पुराणानि च केचन ।
[34.8] इतिहासांस् तथा कल्पान् प्रोचुरन्ये महार्षयः ॥ [पुरातन्त्र.]
[वैकानसशाखानिष्पत्तिप्रकारः]
[34.9] तान् तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
[34.10] पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम्*{313}* ॥ [पुरातन्त्र.]
[34.11] तान् तु वैखानसीं शाखां व्यासस् तु भगवान् मुनिः ।
[34.12] चक्रे ऋगादिभेदैस् तु व्यसित्वा तु पृथक् पृथक् ॥ [पुरातन्त्र]

[34.13] औद्गात्रं सामभिर् यागे ब्राह्मम् आथर्वणेन च ।
[34.14] हौत्रम् ऋग्भिर् यजुर् मन्त्रैर् आध्वर्यवम् अकारयत् ॥ [पुरातन्त्र.]
[34.15] आम्नायस्य विधिर् ब्राह्मः पञ्चकाण्डात्मिका तु सा ।
[34.16] सा च वैखानसी शाखा तैत्तिरीया च कीर्तिता ॥ [पुरातन्त्र]
[34.17] आदिकाले तु भगवान् ब्रह्मा तु विखाना मुनिः ।
[34.18] यजुश् शाखानुसारेण चक्रे सूत्रं महत्तरम् ॥ [पुरातन्त्र]
[34.19] वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् ।
[34.20] यस्मिन्न् एव तु सम्प्रोक्तं सूत्रे विखनसा परम् ॥ [पुरातन्त्र]
[34.21] वनस्थानान् तु सर्वेषां विधिश् श्रामणकाभिधः* ।{314}*
[34.22] वानप्रस्थास् ततस् सर्वे ये द्विजाश् चान्यसूत्रिणः ।
[34.23] तत्सूत्रविध्यनुष्ठानात् स्मृता वैखानसास् तु ते* ॥{315}* [पुरातन्त्र]
[34.24] यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुर् अव्ययः ।
!{311}! दिएसेर् वेर्स् इस्त् äह्न्लिछ् अल्स् "महाभारत" इन् ध्न्[द्] 20.2-3.
[35.1] यष्टव्यो गीयते यस्मात् सर्वसूत्रोत्तमन् तु तत् ॥ [पुरातन्त्र]
[35.2] वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।
[35.3] सर्वैस् स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा*{316}* ॥ [पुरातन्त्र]
[वैखानससूत्रस्य सूत्रान्तरानपेक्षत्वम्]
[35.4] स्वसूत्रस्य परित्यागाद् अन्यसूत्रस्य संश्रयात् ।
[35.5] सद्यः पतति वै विप्रो न वेदस्य समाश्रये* ॥{317}* [पुरातन्त्र]
[35.6] एतद् वैखानसं सूत्रम् अन्यशास्त्रानपेक्षितम् ॥ [पुरातन्त्र]
[35.7] एतद् वैखानसं सूत्रं सर्ववेदार्थसङ्ग्रहम् ।
[35.8] वैष्णवं सर्वविप्राणां सामान्यम् अभिधीयते ॥ [पुरातन्त्र]
[35.9] वैखानसस्य सूत्रस्य चाग्नेः श्रामणकस्य च ।
[35.10] नारायणस्य देवस्य माहात्म्यं नावबुद्ध्यते ॥ [पुरातन्त्र]
[35.11] यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ।
[35.12] तथा सूत्रेषु सर्वेषु सूत्रम् एतद् प्रशस्यते ॥ [पुरातन्त्र]
[35.13] अग्निर् वैखानसं शास्त्रं विष्णुर् वेदाश् च शाश्वताः ।
[35.14] गायत्री वैष्णवा विप्रास् सप्तैते ऽतिपवित्रकाः ॥ [पुरातन्त्र]
[35.15] यदधीतेषु वेदेषु साङ्गेषु लभते फलम् ।
[35.16] तत्फलं लभते सद्यः सूत्रम् एतत् पठन् द्विजः ॥ [पुरातन्त्र]
[35.17] अग्नीषोमादयो देवा ये यज्ञांशहविर् भुजः ।
[35.18] ......
[35.19] *{318}*शारीराण्य् अन्यसूत्राणि तथा स्वर्गफलानि च ।
[35.20] वैष्णवं सूत्रम् एत्तु*{319}* सर्वसिद्धिकरं परम् ॥ [पुरातन्त्र]
[35.21] आद्यत्वात् सर्वसूत्राणां वैष्णवत्वाच् च तत् तु वै ।
[35.22] मयानुवर्तितं तद्वत्कश्यपात्रिमरीचिभिः* ॥{320}* [पुरातन्त्र]
[35.23] गृहे पुरुषपूजाया विधानम् ऋषिसत्तमाः ।
!{316}! दिएसेर् वेर्स् इस्त् अल्स् "पुरातन्त्र" औछ् इन् ध्न्[द्] 83.21-22 zइतिएर्त्; अल्स् "आनन्दसंहिता" (आस् 4.49) इन् ध्न्[द्] 14.11-12.
[36.1] उक्तं सङ्केपतः*{321}* सूत्रेनोक्तम् आलयपूजनम् ॥ [पुरातन्त्र]
[36.2] प्रोक्तं विखनसा सूत्रे ऋषीणां ब्रह्मवादिनाम् ।

[36.3] तेषान् तु हविर् आदत्ते विष्णुस् साक्षात् सनातनः ॥ [पुरातन्त्र]
[36.4] शतक्रतूनां यजतो यत्फलं परिकीर्तितम् ।
[आलये पञ्चमूर्त्यर्चनस्य श्रैष्ठ्यम्]
[36.5] आलये पञ्चमूर्तीनाम् अर्चनन् त्व् अधिकं भवेत् ॥ [पुरातन्त्र]
[36.6] आलायार्चा गृहार्चेति चोभयं श्रुतिचोदितम् ।
[36.7] तेनादौ सकलं नोक्तं ग्रन्थविस्तरभीरुणा ॥ [पुरातन्त्र]
[36.8] उक्तशेषम् अनुक्तञ् च विस्तरेण मयोच्यते ।
[36.9] विष्णुञ् च पुरुषं सत्यम्*{322}* अच्युतञ् चानिरुद्धकम् ॥ [पुरातन्त्र]
[36.10] "एष पुरुषः पञ्चधा पञ्चात्मे" त्य् आह च श्रुतिः ।
[36.11] अस्माभिर् अपि तत्सूत्र- मतगामिभिर् एव तु ॥ [पुरातन्त्र]
[36.12] पञ्चमूर्तिविधानेन शास्त्रम् एतद् उदाहृतम् ।
[36.13] तस्माद् अत्र मयोक्तस्य होमस्याग्न्यालयस्य च ॥ [पुरातन्त्र]
[36.14] पुण्याहवास्तुसामान्य- होमादीनाञ् च कर्मणाम् ।
[36.15] ये ऽन्ये च मन्त्रास् ते ग्राह्यास् सूत्रे विखनसा स्मृताः ॥ [पुरातन्त्र.]
[36.16] आलयार्चविधिस् सो ऽयं वैदिकस् सर्वसिद्धिदः ।
[36.17] सर्वलोकहितार्थाय प्रोक्तो ऽस्माभिर् विशेषतः ॥ [पुरातन्त्र.]
[वैखानसानम् गर्भवैष्णवत्वम्]
[36.18] आलयार्चणकर्मेदं वैदिकं भगवत्प्रियं ।
[36.19] अनुष्ठेयं द्विजश्रेष्ठैः तद्वैखानससूत्रिभिः ॥ [पुरातन्त्र.]
[36.20] ये वैखानससूत्रेण संस्कृतास् तु द्विजातयः ।
[36.21] ते विष्णुसदृशा ज्ञेयाः सर्वेषाम् उत्तमोत्तमाः ॥ [पुरातन्त्र.]
[36.22] वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् ।
[36.23] नारायणः स्वयं गर्भे मुद्रां धारयते निजाम्* ॥{323}* [पुरातन्त्र]
[वैखानसपूजायः भगवत्प्रीतिकरत्वम्]
[36.24] विप्रा वैखानसाख्या ये ते स्मृता भगवत्प्रियाः ।
!{321}! लिएस्: सङ्क्षेपतः.
[37.1] एकान्तिनस् सुसत्त्वस्था देहान्तं नान्ययाजिनः* ॥{324}* [पुरातन्त्र]
[37.2] विष्णोः प्रियतमा लोके चत्वारः परिकीर्तिताः ।
[37.3] अश्वत्थः कपिला गावस् तुलसी विखनास् तथा*{325}* ॥ [पुरातन्त्र.]
[37.4] द्विजेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु च वैष्णवाः ।
[37.5] वैष्णवेषु द्विजाः श्रेष्ठा ये वैखानससूत्रिणः ॥ [पुरातन्त्र.]
[37.6] वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ।
[37.7] गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते* ॥{326}* [पुरातन्त्र]
[37.8] तस्माद् वैखानसा विप्रा वैष्णवा मुनिसत्तमाः ।
[37.9] आलयार्चनयोग्याश् च योग्या नान्ये द्विजातयः ।
[37.10] पुरा तु पृष्टवान् ब्रह्मा देवदेवं जनार्दनम् ॥ [पुरातन्त्र]
[37.11] "कथं केन प्रकारेण पूजनीयो ऽसि कैर् अपि ।"
[37.12] इत्य् एवं भगवान् पृष्टः प्राह वै चतुराननम् ॥ [पुरातन्त्र]
[37.13] "आलये त्य् अर्चनं स्यात् तु परिवारान्वितस्य मे ।
[37.14] वैखानसविधानेन वैदिकेन विशेषतः ॥ [पुरातन्त्र]

[37.15] वैखानसैस् तु विप्रेन्द्रैर् अर्चनंबिस् हिएर् नोछ् तेलुगु वेर्ग्लेइछेन् मम तुष्टिदम् ।
[37.16] अमूर्तञ् च समूर्तञ् च द्विधा वैदिकम् उच्यते ॥ [पुरातन्त्र]
[37.17] अमूर्तं गार्हपत्याद्यं समूर्तं बेरपूजनम् ।
[37.18] यथा कर्मण एकस्य कल्पिताः पञ्च वह्नयः ॥ [पुरातन्त्र]
[37.19] तथा चैकविमानस्य पञ्चबेराणि कल्पयेत् ।
[37.20] ग्रामादाव् आलये तस्माद् देवदेवो जनार्दनः ॥ [पुरातन्त्र]
[37.21] अनेन विधिना पूज्यो विप्रैर् वैखानसैस् तथा ।
[37.22] पूजा वैखानसैर् विप्रैर् आलये स्याद् विशेषतः ॥ [पुरातन्त्र]
[37.23] सर्वसम्पत्करञ् चैव सर्वाशुभविनाशनम् ।
[37.24] तद्ग्रामवासिनां तद्वद् ऐहिकामुष्मिकप्रदम्* ॥{327}* [पुरातन्त्र]
!{324}! दिएसेर् हल्ब्वेर्स् इस्त् औछ् zइतिएर्त् इन् ध्न्[द्] 43.1, 48.19, 118.13.
[अवैखानसपूजने दोषः, तत्प्रायश्चित्तञ् च]
[38.1] वर्षदं पुष्टिदं श्रेष्ठं राजराष्ट्राभिवृद्धिदम् ।
[38.2] कर्षणादिप्रतिष्ठार्चाप्रायश्चित्तावसानकम् ।
[38.3] अनुष्ठेयो विधिस् सो ऽयं विप्रैर् वैखानसैस् ततः ॥ [पुरातन्त्र]
[38.4] अवैखानससूत्रैस् तु विप्रैर् आराधनं हरेः ।
[38.5] वालये सर्वलोकानां विनाशाय भविष्यति ॥ [पुरातन्त्र]
[38.6] अज्ञानाद् अर्थलोभाद् वा भयाद् वा ऽप्य् आलयार्चनम् ।
[38.7] यद्य् अवैखानसैर् विप्रैर् क्रियते*{328}* सर्वनाशनम् ॥ [पुरातन्त्र]
[38.8] यद्य् अवैखानसो विप्र आलयार्चनम् आचरेत् ।
[38.9] षण्मासात् पतनं याति नरकञ् चैव गच्छति ॥ [पुरातन्त्र]
[38.10] अपि साङ्गचतुर्वेदी यद्य् अवैखानसो द्विजः ।
[38.11] आलये त्व् अर्चनं कुर्यात् सद्यः पतति देवलः ॥ [पुरातन्त्र]
[38.12] अवैखानसविप्रो यः पूजयेद् आलये हरिम् ।
[38.13] स वै देवलको नाम सर्वकर्मबहिष्कृतः* ॥{329}* [पुरातन्त्र]
[38.14] आलापं दर्शनञ् चैव स्पर्शनञ् च विशेषतः ।
[38.15] श्राद्धादौ वरणञ् चैव तस्य विप्रस्य वर्जयेत् ॥ [पुरातन्त्र]
[38.16] अवैखानससूत्रेण*{330}* स्पृष्टे बिम्बे प्रमादतः ।
[38.17] स्नापयेत् कलशैर् देवं प्रोक्षयेत् पञ्चगव्यकैः ॥ [पुरातन्त्र]
[38.18] एवम् एव तथा कुर्याद् विप्रैर् अन्यैः प्रपूजिते ।
[38.19] कलशैस् स्नापयित्वा तु ध्रुवोक्तां शुद्धिम् आचरेत् ॥ [पुरातन्त्र]
[38.20] त्र्यहन् तु पूजिते तद्वद् वास्तुहोमं समाप्य च* ।{331}*
[38.21] पर्यग्निपञ्चगव्याभ्यां महाशान्तिञ् च कारयेत्* ॥{332}* [पुरातन्त्र]
[38.22] अर्चने*{333}* तु महाविष्णोस् सप्ताहन् तु विशेषतः ।
[38.23] महाशान्तिं यजित्वा तु शुद्धिं पूर्ववद् आचरेत् ॥ [पुरातन्त्र]
[38.24] द्वादशाहं समारभ्य मासान्तन् तु विशेषतः ।
!{328}! ध्न्[त्] 175: आलये स्तत्त् क्रियते.
[39.1] अवैखानसपूजायां तन्त्रसङ्कर*{334}* एव च ॥ [पुरातन्त्र]
[अवैखानसपूजने भगवत्सान्निध्यविरहः]
[39.2] मासत्रयं च षण्मासम् अन्यविप्रैस् तु पूजने ।

[39.3] न तत्र बिम्बे सान्निध्यं देवदेवस्य शार्ङ्गिणः ॥ [पुरातन्त्र]
[39.4] तस्मात् तद् दोषशान्त्यर्थं महाशान्तेर् अनन्तरम् ।
[39.5] अधिवासत्रयं कृत्वा*{335}* प्रतिष्ठां पुनर् आचरेत् ॥ [पुरातन्त्र]
[39.6] संवत्सरे तु देवस्य विप्रैर् वैखानसेतरैः ।
[39.7] पूजाभिचारिकी प्रोक्ता*{336}* तत्र सर्वं विनश्यति ॥ [पुरातन्त्र]
[39.8] तस्मात् तत्कर्षणाद्यञ् च निष्कृत्यन्तालयार्चनम् ।
[तान्त्रिकार्चायाम् अपि तन्त्रदीक्षितानाम् एवाधिकारः]
[39.9] कारयेद् विधिवद्विद्वान् तद्वैखानससूत्रिभिः ।
[39.10] तान्त्रिकार्चाविधौ चापि तान्त्रिकैर् एव दीक्षितैः ॥ [पुरातन्त्र.]
[39.11] पूजनीयो हरिः सम्यक् विप्रैः नान्यैः कदाचन ।
[39.12] अन्येन विधिना मन्त्रैर् अन्यैर् अन्यार्चकेन वा ॥ [पुरातन्त्र]
[39.13] आलये त्वर्चनं स्याच् चेन् महादोषो भवेद् ध्रुवम्*{337}* ।
[39.14] तस्मात् तु वैदिके त्व् अस्मिन्न् आलयार्चाविधौ द्विजाः ॥ [पुरातन्त्र.]
[39.15] प्रतिष्ठादिषु सङ्ग्राह्याः प्रोक्ता वैखानसा द्विजाः* ।{338}*
[39.16] ब्रह्मापि भगवान् देवो हरिर् नारायणः स्मृतः ॥ [पुरातन्त्र]
[39.17] नाविष्णुर् जायते विष्णुर् नाविष्णुर् विष्णुम् अर्चयेत्*{339}* ।
[39.18] सुप्रीतेनार्चकेनैव यद् उक्तं देवसन्निधौ ॥ [पुरातन्त्र.]
[39.19] तद्देवेनैव सम्प्रोक्तं तथैव च भविष्यति ।
[39.20] अर्चकं तोषयेद् विष्णुं यस् तोषयितुम् इच्छति ॥ [पुरातन्त्र]
[39.21] तुष्टे ऽर्चके जगन्नाथस् तुष्ठ एव न संशयः ॥ [पुरातन्त्र]
[39.22] स्वप्ने स्वरूपं भक्ताय प्रत्यक्षयति माधवः* ।{340}*
[39.23] प्रवक्ति भगवान् विष्णुः सुखदुःखद्वयं नृणाम् ॥" इति [पुरातन्त्र]
[अर्चकमहिमा]
[39.24] स्कान्दे:
[39.25] "वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् ।
!{334}! ध्न्[त्] 176: तन्त्रसङ्करं.
[40.1] पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम्* ॥{341}* [स्कन्दप् ]
[40.2] उक्तवान् निगमार्थानाम् आचारं प्रविभागशः ॥"*{342}* इति [स्कन्दप् ]
[एकस्य यजुर्वेदस्य व्यासकतृकं विभजनम्]
[40.3] ब्रह्मकैवर्तवचनानि पूर्वम् एवोक्तानि.
[40.4-5] ननु ऋग्यजुस्सामाथर्वाण इति वेदानां लोके प्रसिद्धेः सर्वशाखामूलभूतो यजुर्वेद इति पूर्वोक्तं कथम् उपपद्यते इति चेद् उच्यते.
[40.6] श्रीविष्णुपुराणे
[40.7] "वेदद्रुमस्य मैत्रेय शाखाभेदास् सहस्रशः*{343}* ।
[40.8] न शक्या विस्तराद् वक्तुं*{344}* सङ्क्षेपेण शृणुष्व तम् ॥ [विष्णु.प् 3.3.4]
[40.9] द्वापरे द्वापरे विष्णुर् व्यासरूपी महामुने ॥ [विष्णु.प् ]
[40.10] वेदम् एकं सुबहुधा करोति जगतां हितः*{345}* ॥ [विष्णु.प् 3.3.5]
[40.11] वीर्यं तेजो बलञ् चाल्पं मनुष्याणाम् अवेक्ष्य च ।
[40.12] हिताय सर्वभूतानां वेदभेदं करोति सः ॥ [विष्णु.प् 3.3.6]
[40.13] इत्य् आरभ्य
[40.14] "एक आसीद् यजुर्वेदस् तं चतुर्धा ह्य् अकल्पयत् ।

[40.15] चातुर्होत्रम् अभूद् यस्मिंस्*{346}* तेन यज्ञम् अथाकरोत् ॥ [विष्णु.प् 3.4.11]
[40.16] आर्ध्वर्यवं यजुर्भिस् तु ऋग्भिर् हौत्रं तथा मुनिः*{347}* ।
[40.17] औद्गात्रं सामभिश् चक्रे*{348}* ब्रह्मत्वञ् चाप्य् अथर्वभिः ॥ [विष्णु.प् 3.4.12]
[40.18] ततस् स ऋच उद्धृत्य ऋग्वेदं कृतवान् मुनिः ।
[40.19] यजुर्भिश् च यजुर्वेदं*{349}* सामवेदञ् च सामाभिः ॥ [विष्णु.प् 3.4.13]
[40.20] राज्ञान्त्वथर्ववेदेन*{350}* सर्वकर्माणि स प्रभुः ।
[40.21] कारयामास मैत्रेय ब्रह्मत्वञ् च यथास्थिति ॥। [विष्णुप् 3.4.14]
[40.22] सो ऽयम् एको महान् वेदतरुस् तेन पृथक्कृतः*{351}* ।
[40.23] चतुर्धा च ततो जातं वेदपादपकाननम् ॥" [विष्णुप् 3.4.15]
[40.24-25] इत्य् अन्तेन स्पष्टं प्रतिपादितत्वात् यजुर्वेद एक एव प्रथमासीतित्य् अवगम्यते.
!{341}! दिएसेर् वेर्स् इस्त् äह्न्लिछ् अल्स् "स्कन्दपुराण" zइतिएर्त् इन् ध्न्[द्] 71.10-11; अल्स् "पुरातन्त्र" इन् ध्न्[द्] 34.9-10.
[यजुर्वेदस्य वैखानसशाखात्वप्रसिद्धिः]
[41.1-3] स च यजुर्वेदः: "बहुशृङ्गश् चतुस् सानुः पृथुलो वेदपर्वतः" इत्य् आरभ्योक्तरीत्या वेदव्यासरुपिणा भगवता यदा व्यस्तः, ततः पूर्वम् एकरूपेणावस्थितस्य तस्य वेदपर्वतस्य वैखानसशाखात्वप्रसिद्धिर् आसीद् इति पूर्वम् एव प्रतिपादितम्.
[41.4] वैखानसानां श्रैष्ठ्यम्
[वैखानसानां श्रेष्ठ्यं पञ्चकालपरायणत्वञ् च]
[41.5-6] *{352}*प्रसङ्गात् वैखानसशाखामूलकत्वेन*{353}* प्रणीतसूत्रानुष्ठातॄणां श्रेष्ठत्वम् अच्छिद्रपञ्चकालपरायणत्वादिकञ् च प्रतिपाद्यते.
[41.7] यथा सामब्रह्मणे:
[41.8] "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्"*{354}* इति [छान्दोग्यब्र् 2.23.1]
[वैखानसानां भगवत्प्रियतमत्वम्]
[41.9] वाराहे:
[41.10] "अश्वत्थः कपिला गावस् तुलसी विखनास् तथा* ।{355}*
[41.11] चत्वारो मत्प्रिया राजंस् तेषां वैखानसो वरः* ॥{356}*" इति [वराहप्]
[वैखानसदर्शनफलम्]
[41.12] वृद्धयाज्ञवल्क्ये:
[41.13] "वैखानसो वैदिकेषु ब्रह्मनिर्दिष्टम् आचरेत् ।
[41.14] तं ब्राह्मणन् तु दृष्ट्वैव सर्वं पापं व्यपोहति ॥ [वृद्धयाज्ञवल्क्य.]
[41.15] वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ।
[41.16] गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते* ॥{357}*" इति [वृद्धयाज्ञवल्क्य]
[विष्णुभक्तेषु वैखानसस्य श्रैष्ठ्यम्]
[41.17] शान्तिपर्वणि:
[41.18] *{358}*मन्त्रिणाञ् च सहस्रेभ्यो ब्रह्मचारी विशिष्यते ।
[41.19] ब्रह्मचारिसहस्रेभ्यो नित्ययाजी विशिष्यते ॥ [म्भ् ]
[41.20] नित्ययाजिसहस्रेभ्यस् सोमयाजी विशिष्यते ।
[41.21] सोमयाजिसहस्रेभ्यो वेदवेदान्तपारगः ॥ [म्भ् ]
[41.22] वेदान्तगसहस्रेभ्यो विष्णुभक्तो विशिष्यते ।
[41.23] विष्णुभक्तसहस्रेभ्यो विप्रो वैखानसो वरः ॥" इति [म्भ् ]
!{352}! ध्न्[त्] 180 इन्स्. वैखानसानां श्रैष्ठ्यं अच्छिद्रपञ्चकालपरायणत्वञ् च.
[पुष्करतीर्थमाहात्म्यम्]
[वैखानसानाम् एकान्तित्वम्]
[42.1] ब्रह्मकैवर्ते: "निम्नगानां यथा गङ्गा देवानां भगवान् हरिः ।

[42.2] वर्णानां ब्राह्मणं श्रेष्ठः आश्रमाणां यतिर् यथा ॥ [ब्रह्मकैवर्त.प् ]
[42.3] श्रुतीनाम् आदिभूतानां श्रुतिर् एकायनी यथा ।
[42.4] तस्यां निषद्याथ यस्यां निषण्णो भगवान् हरिः ॥ [ब्रह्मकैवर्तप् ]
[42.5] व्यूहानाम् आदिभूतस् तु वासुदेवो यथा परः ।
[42.6] त्रिमूर्तीनां यथा विष्णुः शिवानान् तु सदाशिवः ॥ [ब्रह्मकैवर्त.प् ]
[42.7] धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः ।
[42.8] विप्राणां वेदविदुषां यथा वैखानसो वरः ॥ [ब्रह्मकैवर्त.प् ]
[42.9] यथा मुनीनां विखना आदिभूत उदाहृतः* ।{359}*
[42.10] सूत्राणां तत्प्रणीतन् तु यथा श्रेष्ठतमं स्मृतम् ॥ [ब्रह्मकैवर्त.प् ]
[42.11] तथैव पुष्करो राजंस् तीर्थानाम् उत्तमोत्तमः ॥"*{360}* [ब्रह्मकैवर्तप् ]
[42.12] कौर्मे:
[42.13] "मच्चित्ता मद्गतप्राणा मयि सङ्गतमानसाः ।
[42.14] अनन्यशरणा राजंस् तस्माद् वैखानसा वराः* ॥{361}*" [कूर्मप् ]
[वैखानसाधिष्ठतदेशे विष्णुसान्निध्यम्]
[42.15] पुराणान्तरे:
[42.16] "यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः ।
[42.17] यत्र बिल्वाः पलाशाश् च तत्र सन्निहितो हरिः* ॥{362}*"
[42.18] बृहन्नारदीये:
[42.19] "जगत्पवित्रास् ते नित्यं विष्णुम् अभ्यर्चयन्ति ये ।
[42.20] दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ॥" [बृहन्नारदप्]
[42.21] हारीते:
[42.22] तस्मात् ते शुद्धसत्त्वस्थाश् शुद्धा वैखानसाः स्मृताः* ।{363}*
[42.23] यान् लोकान् प्राप्नुवन्त्य् एते तान् शृणुष्व समाहितः ॥"
[42.24] पाञ्चरात्रे पौष्करे:
[42.25] "विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* ॥{364}* [पौष्करस् 36.260च्द्]
[42.26] एकान्तिनस् सुसत्त्वस्था देहान्तं नान्ययाजिनः ।
!{359}! दिएसे zएइले fएह्ल्त् इम् zइतत् इन् ध्न्[द्] 26.19-27.2.
[43.1] कर्तव्यम् इति देवेशं संयजन्ते फलं विना* ॥{365}* [पौष्करस् 36.261]
[43.2] प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज ॥" इति*{366}* [पौष्करस् 36.262अब्]
[43.3] गौतमीये:
[43.4] "वैखानसविधानज्ञस् तत्त्वात्मार्थव्यवस्थितः ।
[43.5] सूक्ष्मात् सूक्ष्मम् अवाप्नोति परं ब्रह्माणम् अव्ययम् ॥" इति
[पुष्करे वैखानसाश्रमः]
[43.6] आरण्यपर्वणि: रमेशः:*{367}*
[43.7] "ध्यातञ् च सैन्धवारण्यं मुनिबृन्दनिषेवितम्*{368}* । [म्भ् 3.87.12च्द्]
[43.8] पितामहसरः पुण्यं पुष्करं नाम भारत ॥ [म्भ् 3.87.12एf]
[43.9] वैखानसानां सिद्धानाम् ऋषीणाम् आश्रमं प्रियम्* ॥{369}*" इति [म्भ् 3.87.13]
[43.10] अन्यत्र:
[43.11] "सैन्धवारण्यम् आसाद्य कुल्यां तां लोकदर्शनाम्*{370}* ।
[43.12] पुष्करेषु महाराज सर्वेषु च जलं स्पृशन् ॥" इत्य् आरभ्य [म्भ् 3.125.12]

[43.13] "एतच् चन्द्रसरो नित्यम् अर्पयन्त्य् ऋषयस् तथा* ।{371}*
[43.14] वैखानसप्रभृतयो वालखिल्यास् तथैव च ॥" इति [म्भ् 3.125.14]
[वैखानसानाम् पूजनीयत्वम्]
[43.15] अन्यत्र: गालवः:
[43.16] "सर्वान् लोकान् प्रपश्यामि*{372}* प्रसादात् तव सुव्रत ।
[43.17] वैखानसानां जपताम् एष शब्दो महात्मनाम् ॥" इति [म्भ् 3.114.15]
[43.18] गारुडे:
[43.19] "कौषीतकीनां होतॄणां ग्रामत्रयम् अकल्पयत् ।
[43.20] अकल्पयच् च त्रीन् ग्रामान् वैखानसमहात्मनाम् ॥" इति [गरुडप् ]
[43.21] परमेश्वरे त्रयोदशाध्याये पवित्रविनियोगावसरे:*{373}*
[43.22] "पूजयेद् आप्तपूर्वांश् च यतिपूर्वांस् तपस्विनः* ॥{374}* [पारमेश्वरस् 12.437च्द्]
[43.23] पञ्चवैखानसांश् चैव विप्रादींश् चतुरस् तथा ।
[43.24] पञ्चयोगरताद्यांस् तु तथान्यान् वैष्णवान् द्विजान्* ॥{375}* [पारमेश्वरस् 12.438]
[43.25] एकायनीयशाखोक्तिश्रोतॄणां प्रथमं ततः* ॥{376}*" इति [पारमेश्वरस् 12.439अब्]
!{365}! पौष्करस्: कर्तव्यत्वेन ये विष्णुं संयजन्ति फलं विना; देर् एर्स्ते हल्ब्वेर्स् इस्त् औछ् अल्स् "पौष्करसंहिता" zइतिएर्त् इन् ध्न्[द्] 48.18, äह्न्लिछ् अल्स् "पुरातन्त्र" इन् ध्न्[द्] 37.1; देर् गन्zए वेर्स् अल्स् "पौष्करसंहिता" इन् ध्न्[द्] 24.7-8, 42.26-43.1 उन्द् 118.13-14.
[44.1] नारदीये: "सात्त्विके तु सदाधिक्यं पूजनं मम नारद ।
[44.2] विद्धि वैखानसे दत्तं दानं ब्रह्मविदस् तथा ॥"*{377}* [नारदप्]
[वैखानसानाम् श्रीरामकृता पूजा]
[44.3] वासिष्ठरामायणे: "कृताभिषेकस् सन्तुष्टस् सामात्यस् ससुहृज्जनः ।
[44.5] पूजयामास धर्मात्मा रामो वैखानसान् मुनीन् ॥" इति [वासिष्ठरामायण]
[44.6] वैखानसानाम् पञ्चकालपरायणत्वम्
[पञ्चकालपरायणस्य लक्षणम्]
[44.7] शाण्डिल्यस्मृतौ: "ये पावयन्ति धरणीं चरणैः पाञ्चकालिकाः ।
[44.8] दर्शनात् स्पर्शनात् तेषां कृतार्थास् सर्वजन्तवः ॥ [शाण्डिल्यस्मृति.]
[44.9] इज्यामध्ये तथा होमे योगे च जपकर्मणि ।
[44.10] आगतं पञ्चकालज्ञं सम्पूज्यैर् वाचयेत् परम् ॥ [शाण्डिल्यस्मृति.]
[44.11] ये तोषयन्त्य् अविरतं पञ्चकालपरायणान् ।
[44.12] सकामास् तत्फलं यान्ति निष्कामाः परमं पदम् ॥ [शाण्डिल्यस्मृति]
[44.13] सदाहिताग्नयो ये च शान्ताश् शूद्रान्नवर्जितः ।
[44.14] माम् अर्चयन्ति मद्भक्तास् तेभ्यो दत्तम् इहाक्षयम् ॥ [शाण्डिल्यस्मृति.]
[44.15] द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित् ।
[44.16] अच्छिद्रपञ्चकालज्ञस् स विप्रस् तारयिष्यति* ॥{378}*" [शाण्डिल्यस्मृति]
[वैखानसानाम् द्वादशाक्षरतत्त्वज्ञत्वम्]
[44.17] यथा:
[44.18] द्वादशाक्षरतत्त्वज्ञ इति. द्वादशाक्षरतत्त्वानि.
[44.19] "चिज्जीवः प्रकृतिर् बुद्धिर् मनस् सत्त्वादयो गुणाः ।
[44.20] व्योमाग्निमरुतश् चापो वर्णानां तत्त्वम् ईरितम्* ॥{379}*" इत्य् उक्तानि. [पाद्मस् चर्यापाद 24.19]
[वैखानसानाम् चतुर्व्यूहविभागज्ञत्वम्]
[44.21] चतुर्व्यूहविभागवित् इति
[वैखानसपाञ्चरात्रयोः व्यूहचतुष्टये संज्ञावैषम्यम्]

[44.22] "पुरुषञ् च ततस् सत्यम् अच्युतञ् च युधिष्ठिर । [म्भ् 14, अप्प्. 4.1659]
[44.23] अनिरुद्धञ् च मां प्राहुर् वैखानसविदो जनाः* ॥{380}* [म्भ् 14, अप्प्. 4.1660]
[44.24] अन्ये त्व् एवं विजानन्ति मां राजन् पाञ्चरात्रिकाः । [म्भ् 14, अप्प्. 4.1661]
[44.25] वासुदेवञ् च राजेन्द्र सङ्कर्षणम् अथापि वा* ॥{381}* [म्भ् 14, अप्प्. 4.1662]
!{377}! व्ग्ल्. जयाख्यस् 22.81: सात्वताय शतांशोनं दशांशोनं तु नारद । विद्धि वैखानसे दत्तं दानं प्रतिसरावधौ.
[45.1] प्रद्युम्नञ् चानिरुद्धञ् च*{382}* चतुर्मूर्तिं प्रचक्षते । [म्भ् 14, अप्प्. 4.1663]
[45.2] एताश् चान्याश् च राजेन्द्र संज्ञाभेदेन मूर्तयः* ॥{383}* [म्भ् 14, अप्प्. 4.1664]
[45.3] विद्धि मे ऽर्चान्तराण्य् एव माम् एवञ् चार्चयेद् बुधः ॥"*{384}* [म्भ् 14, अप्प्. 4.1665]
[45.4] इत्याद्य् उक्तानां चतुर्णां व्यूहानां विभागावित्.
[वासुदेवस्य दैविकमानुषभेदेन द्वैविध्यम्]
[45.5] एवं वैखानसे दैविकमानुषभेदेन वासुदेवो द्विविधः प्रतिपाद्यते. यथा -
[45.6-8] खिले: "अथोर्ध्वं वासुदेवस्य मानुषस्य विधिं परं". इत्य् आरभ्य "मानुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम्" इत्यादिना रुक्मिणीप्रद्युम्नानिरुद्धसाम्बब्रह्मगरुडादियुतं मानुषवासुदेवं निर्वर्ण्य पुनः:
[45.9] "दैविकं वासुदेवं तं प्रवक्ष्याम्य् आनुपूर्व्यशः ।
[45.10] सोमच्छन्दविमानं वा बृहद्वृत्तम् अथापि वा ॥
[45.11] चतुर्भुजधरं देवं शङ्खचक्रधरं परम् ।
[45.12] अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥
[45.13] किरीटादिसमस्तैश् च भूषणैर् अपि भूषितम् ।
[45.14] रक्ताम्बरधरं देवं दशातालेन मानतः ॥
[45.15] उभे देव्याव् उभे पार्श्वे पूर्ववत् कारयेद् बुधः ।
[45.16] बलभद्रादिपूर्वोक्तं सायुधं वा निरायुधम् ॥
[45.17] तत्तद् देवीबिस् हिएर् त्नोछ् तेलुगु वेर्ग्लेइछेन्समायुक्तं विना वा सम्यग् आचरेत् ।
[45.18] रेवती रोहिणी चैव रमाचेन्दुकरीति च ॥
[45.19] रक्तं नीलं तथा श्यामं पीतवर्णं समाचरेत् ।
[45.20] किरीटमकुटाद्युक्तास्*{385}* सर्वाभरणभूषिताः ॥
[45.21] एवं पुष्पधरं कुर्याद् एकञ् चैव प्रसारितम् ।
[45.22] देव्या युक्तं विना वापि द्विमार्गं सम्यग् आचरेत् ॥"
[45.23-24] इत्य् आरभ्य "एवं दैविकमार्गन् तु स्थापनारम्भम् आचरेद्" इत्यादिना दैविकः वासुदेवः*{386}* प्रदर्शितः.
!{382}! स्.अ. म्भ् 16.4.43च्.
[वैखानसेतरसूत्रिणां पञ्चकालपरायणत्वाभवाः]
[46.1-5] इत्थं वासुदेवादीनां दैविकमानुषभेदेन द्वैविध्यस्य, "पुरुषं परमपुरुषं परमात्मानं परं ब्रह्माणम्" इत्यादिना प्रतिपादितानां चतुर्णां पुरुषादीनां मूर्तिविभागस्य च श्रीवैखानसशास्त्रे प्रतिपादनात्, एतस् सर्वविभागज्ञ एव चतुर्व्यूहविभागविद् इत्य् अनेनोच्यते. आच्छिद्रपञ्चकालज्ञ इति:*{387}*
[46.6] "प्रातःकाले ऽभिगमनम् उपादानं ततः परम् ।
[46.7] मध्याह्न इज्यां कुर्वीत स्वाध्यायञ् चापराह्णके ।
[46.8] योगं सायाह्नकाले तु पञ्चकाला उदाहृताः ॥" [व ]
[46.9] इति वासाधिकारे प्रतिपादितपञ्चकालपरायणम् अधिकृत्य प्रकृत्तानि*{388}* -
[46.10-14] "ये पावयन्ति धरणीं" "इज्यामध्ये तथाहोमे" "ये तोषयन्त्य् अविरतं" इति वचनानि, सामन्येन पञ्चकालपरायणस्य दर्शनस्पर्शनादिभिस् सर्वेषां पावनतां कृतार्थतां, इज्यायोगादिसमयेषु चागतस्य तस्य पूजनान्तरं शेषकर्माचरणञ् च प्रतिपादयन्ति, एतादृशः पञ्चकालपरायणः कीदृशा इत्य् आकङ्क्षायां "द्वादशाक्षरतत्त्वज्ञ" इत्यादिना "अच्छिद्रपञ्चकालज्ञ" इत्य् अन्तेन तल्लक्षणम् उच्यते.
[46.15-17] ईदृशाच्छिद्रपञ्चकालपरायणा वैखानसा एव. वैखानसशास्त्र एव पञ्चकालविभागस्य प्रतिपादितत्वात्. स्वस्वसूत्रे ऽनुक्तत्वाद् आपस्तम्बीयादयस् तु न. पञ्चकालप्रतिपादनरहितसूत्रान्तरनिष्ठानां:*{389}*
[46.18] "ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थाव् अनुचिन्तयन्* ।{390}*" इत्य् आरभ्य
[46.19] "द्वितीये च तथा भागे वेदाभ्यासो विधीयते ॥
[46.20] तृतीये च तथा भागे पोष्यवर्गार्थचिन्तनम् ।
[46.21] भागे चतुर्थे कुर्वीत स्नानम् अम्भस्य् अकृत्रिमे ॥

[46.22] पञ्चमे तु तथा भागे संविभागो यथार्हतः ।
[46.23] इतिहासपुराणाभ्यां षष्टं सप्तमम् अभ्यसेत् ।
[46.24] अष्टमे लोकयात्राञ् च विचार्य च गृही ततः ॥"
!{387}! ध्न्[त्] 188-189 स्तत्त् ध्न्[द्] 46.1-5: इत्थं वासुदेवादीनां व्यूहभूताणां दैविकमानुषभेदेन व्यूहचतुर्मूर्तिप्रतिपादनात् "पुरुषं परमपुरुषं परमात्मानं परं ब्रह्माणम्" इत्यादिना चतुर्णां पुरुषादीनां मूर्तिविभागस्य च श्रीवैखानसशास्त्रे प्रतिपादितत्वात्. "अच्छिद्रपञ्चकालज्ञः".
[47.1-2] इत्य् अन्तेन दक्षादिस्मृत्यन्तरेषु ब्राह्मणजातेः सामान्येन तत्तत्कालेषु कर्तव्यत्वेन प्रतिपादितकर्माचरण एव यथायोग्यं योग्यतासम्भवात्.*{391}*
[47.3] अन्यथा
[47.4] "विधर्मः परधर्मश् च आभास उप वा च्छलः*{392}* ।
[47.5] अधर्मशाखाः पञ्चेमा धर्मज्ञो ऽधर्मवत्त्यजेत् ॥
[47.6] धर्मबाधो विधर्मस् स्यात् परधर्मो ऽन्यचोदितः ।
[47.7] उपधर्मस् तु पाषण्डो दम्भोवांशसुर्भिश्छलः (?)*{393}* ।
[47.8] यस् त्व् इच्छया कृतं पुम्भिर् आभासो ह्य् आश्रमाद् बहिः ॥".
[47.9] इति भागवतवचनोक्तपरधर्माश्रयणदोषप्रसङ्गः*{394}*.
[47.10] "श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
[47.11] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः* ॥{395}*" [म्भ् 6.25.35]
[47.12] इति भगवद्वचनविरोधश् च.*{396}*
[सूत्रान्तरनुष्ठानां पाञ्चरात्रानुयायिनाञ् च देवलकत्वम्]
[47.13-19] किञ्च तत्सूत्रेषु द्वादशाक्षरतत्त्वादिप्रतिपादनम् अपि नास्ति. एवं "सति कुड्ये चित्रकर्मे"ति न्यायेन यज्ञोपवीतधारणसन्ध्योपासनभगवदाराधनादिविधिप्रतिपादनरहितसूत्रान्तरनिष्ठानां, तथा श्रीमन्नारायणस्य समानत्वेन रुद्रादिदेवतान्तराराधनविधिप्रतिपादकसूत्रनिष्ठानाञ् च चतुर्व्यूहविभागज्ञानासम्भवात् भगवदाराधनस्वरूपज्ञानाभावेन पञ्चकालपरायणत्वादिगन्धलेशो ऽपि न सम्भवति. सूत्रान्तरोक्तमार्गेण वा पञ्चरात्रोक्तमार्गेण वा भगवदाराधनं कुर्वतो ऽनधिकारिणो देवलकत्वं प्रतिपाद्यते.*{397}*
[पाञ्चरात्रे दुर्गादिदेवतान्तरार्चनप्रतिपादनम्]
[47.20] तथा हि - पञ्चरात्रे विष्वक्सेनसंहितायां नारदं प्रति विष्वक्सेनोक्तिः:
[47.21] "इदन् तु तव वक्ष्यामि गुह्याद् गुह्यतमं मुने ।
[47.22] यो ऽसौ नारयणस्*{398}* साक्षात् स हि विघ्नेश उच्यते* ॥{399}* [विष्वक्सेनस् 10.114]
[47.23] यो वै विघ्नेश इत्य् उक्तस् स वै नारायणः स्मृतः ॥ [विष्वक्सेन.स् 10.115अब्]
[47.24] नैव भेदं विजानन्ति मुनयस् तत्त्वदर्शिनः* ॥{400}*" इत्य् आरभ्य [विष्वक्सेनस् 10.116अब्]
!{391}! ध्न्[त्] 191 स्तत्त् ध्न्[द्] 47.1-2: इत्य् पञ्चकालप्रतिपादनरहित सूत्रान्तरनिष्ठानां ब्राह्मणजाति सामान्यत्वेन दक्षादिस्मृत्यन्तरेषु यथायोग्यं कालान्तरेषु प्रतिपादितकर्माचरण योग्यतासंभवात्.
[48.1] "कुर्यात् पाशाङ्कुशौ वापि शङ्खचक्राव् अथापि वा* ।{401}*
[48.2] आखुं वापि खगेन्द्रं वा तस्य वाहनम् आचरेत्* ॥{402}* [विष्वक्सेनस् ]
[48.3] नारायणाशकत्वाच् चाव्यावृत्तत्वान् महामुने* ।{403}*
[48.4] वीशस् तद्वाहनं प्रोक्तं आखुं वापि समाचरेत् ॥ [विष्वक्सेन.स् ]
[48.5] तस्माच् छ्रियञ् च दुर्गाञ् च वाणीं विघ्नेशम् एव च ।
[48.6] स्वतन्त्रेणार्चयेद् धीमान् सर्वकार्यार्थसिद्धये ॥" इत्यादि च दृश्यते. [विष्वक्सेनस् ]
[48.7-10] देवतान्तराणां अङ्गभावेनार्चनं न निषिद्ध्यते. "स्वतन्त्रबुद्ध्या कुर्वन् वै ब्राह्मणो नरकं व्रजेत्" इत्यादि वचनैः अङ्गत्वेन विना स्वातन्त्र्येणाङ्गिव्यतिरिक्तदेवतान्तराराधनं निषिद्ध्यते. तथाविधनिषिद्धदेवतान्तरार्चनप्रतिपादकशास्त्रनिष्ठस्य पञ्चकालपरायणत्वं न सम्भवति.*{404}*
[परमैकान्तिनाम् एव पञ्चकालपरायणत्वम्]
[48.11] "यैर् इष्टः पञ्चकालज्ञैर् हरिर् एकान्तिभिर् नरैः ।
[48.12] नूनं तत्र मतो देवो यथा तैर् वागुदीरितः ॥" इत्य् उक्तरीत्या
[वैखानसव्यतिरिक्तानां परमैकान्तित्वाभावः]
[48.13-15] परमैकान्तित्वासम्भवे तद्(पञ्चकालपरायणत्वा)सम्भवात्. परमैकान्तित्वञ् च भगवदेकपरत्वम् एव. तच् च स्वातन्त्र्येणान्यदेवतायाजिनां वैखानसव्यतिरिक्तानां हि न सम्भवति.*{405}*
[48.16-17] अत्र "यैर् इष्टः पञ्चकालज्ञैर्" इत्य् अनेन पञ्चकालव्यतिरिक्तकालान्तरप्रतिपादकशास्त्रनिष्ठानां*{406}* व्यवृत्तिः. "एकान्तिभिर् नरैर्" इत्य् अनेन
[48.18] "विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* ॥{407}* [पौष्करस् 36.260च्द्]
[48.19] एकान्तिनस् सुसत्त्वस्था देहान्तं नान्ययाजिनः* ॥{408}* [पौष्करस् 36.261अब्]
[48.20-23] इत्यादि पौष्करसंहितावचनानुसारेण*{409}* स्वातन्त्र्येण दुर्गादिदेवतान्तरार्चनप्रतिपादकपाञ्चरात्रशास्त्रनिष्ठानां*{410}* व्यावृत्तिः. "नूनम् अत्र मतो देव" इत्य् अनेन - "यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः ।

[48.24] यत्र बिल्वाः पलाशाश् च तत्र सन्निहितो हरिः* ॥{411}*"
[48.25-26] इत्य् अस्यार्थो ज्ञाप्यते इति "यैर् इष्ट" इति कृत्स्नम् अपि वचनं वैखानसपरम् इत्य् एवावगम्यते.*{412}*
!{401}! ध्न्[त्] 193: चक्रशङ्खाव्; व्ग्ल्. विष्वक्सेनस् 11.294: एवं चक्रादिसंप्रोक्तम् अपरं चाधुना शृणु । दक्षिणे परशुं न्यस्य ह्य् अधः पाशाङ्कुशं न्यसेत्.
[पाञ्चरात्रिणाम् अपि पञ्चकालपरायणत्वम् इत्य् आक्षेपः परिहारश् च]
[49.1] ननु:
[49.2] ब्रह्मा: "पञ्चकालविधिज्ञानप्राशस्त्यं भगवन्न् इह* ।{413}*
[49.3] कथितं पञ्च के काला विधयश् चापि पञ्च के* ॥{414}* [पाद्मस् चर्यापाद 13.1]
[49.4] मह्यं जिज्ञासमानाय कथयस्व यथातथम् ।
[49.5] न चेद् रहस्यम् अत्यन्तं यद् अहं पृष्टवान् इह* ॥{415}* [पाद्मस् चर्यापाद 13.2]
[49.6] श्रीभगवान्:
[पाञ्चरात्रोक्तम् अभिगमनम्]
[49.7] आद्यं कर्माभिगमनम् उपादानं ततः*{416}* परम् ।
[49.8] इज्या तपश् च स्वाध्यायस् तथा योगः प्रकीर्तितः* ॥{417}* [पाद्मस् चर्यापाद 13.3]
[49.9] पञ्चैते विधयस् तेषां कालाः पञ्चैव ते क्रमात् ।
[49.10] कल्याणाचरणान्तं यत् कर्मजातं चतुर्मुख ॥ [पाद्म.स् चर्यापाद 13.4]
[49.11] उत्थानादिक्रमाद् एतद् अभियानम् उदीरितम् ।
[49.12] ब्राह्मे मुहूर्ते बुद्ध्येत ध्यायन् नारायणं परम् ॥ [पाद्म.स् चर्यापाद 13.5]
[49.13] उत्थायासीत शयने कीर्तयन् नाम वैष्णवम् ।
[49.14] क्रमेण सृष्ट्वा तत्त्वानि देहम् उत्पाद्य तत्त्ववित् ॥ [पाद्म.स् चर्यापाद 13.6]
[49.15] स्वस्य*{418}* देहे षडङ्गानि मन्त्रम् उच्चार्य मानसम् ॥" [पाद्मस् चर्यापाद 13.7]
[49.16] इत्यादिना अभिगमनम् उपक्रम्य
[49.17] "अञ्जनालेपनैस् स्रग्भिः वासोभिर् भूषणैस् तथा ॥ [पाद्म.स् चर्यापाद 13.29अब्]
[49.18] अलक्तकरसाद्यैश् च ताम्बूलैर् मुखशोधनैः*{419}* ।
[49.19] उपेतो मङ्गलैर् अन्यैर् नयेद् अभिगमक्रियाम् ॥" [पाद्मस् चर्यापाद 13.30]
[49.20] इत्य् अभिगमनम् उक्ता
[पाञ्चरात्रोक्तम् उपादानम्]
[49.21] "उपादद्यात् ततः पूजा- साधनानि यथातथम्*{420}* ।
[49.22] पुष्पाणि फलमूलानि विविधान्य् ओषधीर् अपि ॥ [पाद्म.स् चर्यापाद 13.31]
[49.23] दध्यादि च हविर्योग्यं तण्डुलादि गुडादि च*{421}* ।
[49.24] स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च ॥ [पाद्म.स् चर्यापाद 13.32]
!{413}! पाद्मस्: पञ्चकालविधिज्ञानं प्रशस्तं भगवन्न् इह.
[50.1] दर्भान् पर्णानि समिधो यथाशक्ति यथावसु ।
[50.2] आहृत्य याज्ञियान् दैवान् पूजास्थाने निवेशयेत्* ॥{422}* [पाद्मस् चर्यापाद 13.33]
[50.3] नीत्वोपादानसमयम् इत्थं तद् अनुपूजयेत् ।"
[50.4] इत्य् उपादानम् उक्तम्.
[पाञ्चरात्रोक्ता इज्या]
[50.5] "प्राप्ते मध्याह्नसमये स्नानं कुर्याद् यथाविधि ॥" [पाद्मस् चर्यापाद 13.34]
[50.6] इत्य् आरभ्य
[50.7] "उत्तीर्य कर्म निखिलं मध्याह्नसमयोचितम् । [पाद्मस् चर्यापाद 13.41च्द्]
[50.8] कृत्वा यजेत देवेशं होमान्तं कमलासन ॥ [पाद्म.स् चर्यापाद 13.42अब्]

[50.9] इज्यायास् समयस् तस्याः कथितः कमलासन ॥" [पाद्मस् चर्यापाद 13.66अब्]
[50.10] इति भगवद्यजनम् उक्त्वा
[पाञ्चरात्रोक्तः स्वाध्यायः]
[50.11] "मन्दिरे वा हरेर् नद्यास् तीरे वामरभूमिषु*{423}* ॥ [पाद्म.स् चर्यापाद 13.66च्द्]
[50.12] विविक्ते विपिने वापि पर्वते वा गृहे ऽपि वा ।
[50.13] ऋचो यजूंषि सामानि विद्यमानान्य् अनेकधा* ॥{424}* [पाद्मस् चर्यापाद 13.67]
[50.14] शाखाभेदैर् मूलशाखाम् एकायनसमाह्वयाम्*{425}* ।
[50.15] त्रयीमयीम् अधीयीत सुखासीनस् समाहितः ॥" [पाद्मस् चर्यापाद 13.68]
[50.16] स्वाध्यायम् उक्त्वा
[पाञ्चरात्रोक्तः योगः]
[50.17] "ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् ॥ [पाद्मस् चर्यापाद 13.72च्द्]
[50.18] जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ।
[50.19] अर्चयित्वा यथान्याय्यं यथापूर्वम् अशेषतः ॥ [पाद्मस् चर्यापाद 13.73]
[50.20] भुक्त्वान्नं विश्य शयने*{426}* समुत्थाय महानिशि ।
[50.21] आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् ॥ [पाद्मस् चर्यापाद 13.74]
[50.22] योगासने समासीनो युञ्जीतात्मानम् आत्मना*{427}* ।
[50.23] यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ॥ [पाद्म.स् चर्यापाद 13.75]
[50.24] सहारक्रमम्*{428}* आश्रित्य तत्त्वान्य् आत्मनि संहरेत् ।
[50.25] आत्मानञ् चापि हृत्पद्मे परमात्मनि निष्ठिते ॥ [पाद्म.स् चर्यापाद 13.76]
!{422}! पाद्मस्: आहृत्य याज्ञिकार्यैर् वा.
[51.1] संहरेद् इत्थतो*{429}* योगात् स्वापं क्लेशापहं व्रजेत् ।
[51.2] इत्य् एष कथितो ब्रह्मन् योगः कालश् च पञ्चमः ॥ [पाद्म.स् चर्यापाद 13.77]
[51.3] पञ्चैते समयाः पञ्चविधयस्*{430}* तेषु दर्शिताः ।
[51.4] इत्थम् एतेषु कालेषु दर्शितैः कर्मभिर् नरः ॥ [पाद्मस् चर्यापाद 13.78]
[51.5] आराधनं भगवतः कुर्वन् नैवावसीदति ।
[51.6] वर्षेषु द्वादशसु*{431}* एवम् अनुतिष्ठन् समाहितः ॥ [पाद्म.स् चर्यापाद 13.79]
[51.7] क्रियाकलापम् अखिलं याति सायुज्यसम्पदम् ।
[51.8] षट्सु वर्षेषु सारूप्यं सामीप्यं त्रिषु निश्चितम्* ॥{432}* [पाद्मस् चर्यापाद 13.80]
[51.9] सालोक्यं फलम् एकस्मिन् वत्सरे नात्र संशयः ॥" [पाद्मस् चर्यापाद 13.81अब्]
[51.10-11] इति पाद्मे चर्यापादे त्रयोदशे ऽध्याये अविच्छिन्नतया पञ्चकालानां*{433}* प्रतिपादितत्वात् तेषाम् अप्य् अच्छिद्रपञ्चकालपरायणत्वं सम्भवतीति चेत्*{434}* - तद् असत्.
[पाञ्चरात्रिणाम् अनियतपरिमितच्छिद्रद्रपञ्चकालपरायणत्वम्]
[51.12] तत्रैव:
[51.13] "पूत्यूषम्*{435}* अर्धरात्रञ् च प्रातर् मध्यं*{436}*दिनानि च ।
[51.14] पञ्चकाला इमे प्रोक्तास् ततः कालचतुष्टये ॥
[51.15] एतेषु हीनाः प्रत्यूषं*{437}* (?) विज्ञेयाश् चतुरानन ॥"
[51.16-20] इत्य् अभिगमनादीनाम् एकरूपेण विना न्यूनातिरिक्तकालत्वेनोक्तत्वात् "कालं मध्यन्दिनच्छिद्र*{438}*पञ्चकालपरायणैर्" इत्य् आगमसिद्धान्ते "सान्तरालम् अनुष्ठानं पञ्चकालोदितं तथा" इति तन्त्रसिद्धान्ते च छिद्रपञ्चकालपरत्वस्योक्तत्वात्*{439}*, कालचतुष्टयप्रतिपादनेन नियतपञ्चकालपरायणत्वाभावात्, द्वादशवर्षम् आरभ्य एकवर्षपर्यन्तं परिमितपञ्चकालपरत्वस्योक्तत्वात्*{440}* द्वादशवर्षाद् ऊर्ध्वं पञ्चकालपरत्वाभावाच् च.*{441}*
[51.21] तथा, मार्कण्डेये
[51.22] "महानिशा तु विज्ञेया रात्रेर् मध्यं द्वितीययोः*{442}* ।
[51.23] तस्यां स्नानं न कुर्वीत सम्यग् आचमनं तथा ॥" [मर्कण्डेयप्]
!{429}! पाद्मस्: उत्थितो; सो औछ् ध्न्[त्] 199.

[52.1] इत्य् आचमनस्य महानिशायां निषेधात्.*{443}*
[52.2] "यामद्वयं शयानस् तु ब्रह्मभूयाय कल्पते ॥"
[52.3-4] इति धर्मशास्त्रोक्तनिद्राकाले योगस्यायुक्तत्वाच् च. योगकालस्यार्धरात्रिकत्वे स्वाध्यायकालाद् व्यवहितत्वेन छिद्रपाञ्चकालिकत्वापाताच् च.*{444}*
[52.5-6] कालचतुष्त्वास्यैवोक्तत्वेन अभिगमनादिष्व् एकस्य लोपसम्भवेन अनियतपञ्चकालपरस्य पञ्चकालपरायणशब्दाभिलापासम्भवाच् च.*{445}*
[52.7] तथा:
[52.8] "क्लिश्यन्तीह सुषुप्तानाम् इन्द्रियाणि द्रवन्ति च ।
[52.9] अङ्गानि समतां यान्ति उत्तमान्य् अधमैस् सह* ॥{446}*"
[52.10] इति धर्मशास्त्रेषु प्रातर् आरभ्य सायङ्कालपर्यन्तम् एव कर्माचरणकालत्वेन प्रतिपादनात्.
[52.11] तथा:*{447}*
[52.12] "अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।
[52.13] स्रवत्य् एव दिवारात्रं प्रातस् स्नानं विशोधनम् ॥
[52.14] अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन ।
[52.15] स्नात्वाधिकारी भवति दैवे पित्र्ये च कर्मणि ॥"
[52.16-20] इति स्मृतेः स्नानात् पूर्वं तत्त्वसृष्टेर् अयुक्तत्वाच् च. प्रेतप्रायस्य संहृततत्त्वस्य स्वापयोग्यतासम्भवाच् च. तस्मात् "अब्भक्षो वायुभक्ष" इत्यादिशब्दवदवधारणगर्भस्य पाञ्चकालिकशब्दस्य अनियतपरिमितपाञ्चकालिकेषु पाञ्चरात्रिकेषु प्रयोगासंभवाद् अनियतपरिमितछिद्रपाञ्चकालिकाः पाञ्चरात्रिणो न नियताछिद्रपञ्चकालपरायणवैखानसतुल्या भवितुम् अहन्तीति*{448}* सिद्धम्.*{449}*
[देवतापूजकसामानस्य देवलकत्वम् इत्य् आक्षेपपरिहारः]
[52.21] ननु:
[52.22] "यो देवं पूजयेद् विप्रो वित्तार्थी वत्सरत्रयम् ।
[52.23] स वै देवलको नाम हव्यकव्यबहिष्कृतः* ॥{450}*"
[52.24-53.2] इति देवतापूजकस्य देवलकत्वं सम्भवतीति चेत् - तद् असत्. सामान्यतः देवताराधनं ये कुर्वन्ति ते देवलका इति वा? उत श्रुतिस्मृतीतिहासपुराणादिषु मुख्याधिकारित्वेन प्रतिपादिता अपीति वा?. सामान्यतः देवताराधनं ये कुर्वन्ति ते इति चेत् - तर्हि गृहदेवतापूजकानाम् अपि देवलकत्वप्रसङ्गः. किञ्च:*{451}*
!{443}! ध्न्[त्] 201 ओम्. आचमनस्य महानिशायां निषेधात्.
[वैखानसानाम् देवलकत्वाभावः]
[53.3] "ब्रह्मचारी गृहस्थश् च विप्रो वैखानसस् तथा* ।{452}*
[53.4] कुर्वन्ति*{453}* निजकर्माणि विष्णुम् एव यजन्ति ते ॥"
[53.5-11] इति सन्ध्योपासनादीनां भगवदाराधनरूपत्वोक्त्या*{454}* तेषाञ् च त्यागस् सम्भवति. अतस् सामान्यतः इति*{455}* वक्तुम् अयुक्तम्. श्रुतिस्मृतिपुराणादिषु*{456}* मुख्याधिकारित्वेन प्रतिपादिता देवलकाः*{457}* इति चेत् - तद् असत्. "ऽअग्निर् वै देवानाम् अवमो विष्णुः परमस् तदन्तरेण सर्वा अन्या देवताऽ; इति ब्राह्मणम्. तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्रातर् होमान्ते ऽर्चयति" इति वैखानससूत्रे*{458}*, "प्रवः पान्तम् अन्धसो धियायते महेशूराय विष्णवे चार्चत"*{459}* इति ऋग्ब्राह्मणम् अनुसृत्य*{460}* विष्णुप्रधानतया "स वा एष पुरुषः पञ्चधा पञ्चात्मा" इत्यादिश्रुत्युक्तविष्ण्वादिपञ्चमूर्तीनाम्*{461}* आराधनस्य प्रतिपादितत्वात्*{462}*.
[53.12-13] आश्वमेधिके "कथं त्वम् अर्चनीयो ऽसी"*{463}*त्यादेः, वृद्धमनौ "वेदान्तवेदिभिर्"*{464}* इत्यादेश् चोक्तत्वात्.
[53.14-15] एवम् एव पाञ्चरात्रशैवशिल्पज्यौतिषादिषु उत्कृष्टमुख्याधिकारिप्रतिपादकानां वचनानां वैयर्थ्यप्रसङ्गात् तन्मूलभूतश्रुतिस्मृतिपुराणादीनाम् अप्रामाण्यप्रसङ्गो दुष्परिहरः.*{465}*
[वैखानसानाम् भगवद्द्रव्योपभोगादौ दोषाभावः]
[53.16-17] एवं च प्रमाणभूतेषु श्रुतिस्मृतिपुराणादिषु प्रतिपादितानाम् आचारादीनां त्यागः प्रसज्येत्, निष्फलत्वात्. ननु परद्रव्योणालयार्चनं*{466}* कुर्वतां देवलकत्वम् इति चेत् न.*{467}*
[53.18-19] श्रुतिस्मृतिपुराणादिषु तत्तच्छास्त्रेषु च आलयार्चकानां*{468}* मुख्याधिकारित्वेन तद्द्रव्योपभोगार्हत्वेन च प्रतिपादनात्.*{469}*
[53.20] यथा - मरीचिप्रोक्तायाम् आनन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपाद्य:
[53.21] "तथा त्वदनुजीवित्वे त्वद्द्रव्यानुभवे सति ।
[53.22] यद् भवेद् दोष उत्पन्न इति चिन्ताकुलो ऽस्म्य् अहम्* ॥{470}*" [आस् 4.77]
[53.23] इति भगवद्द्रव्योपजीवनदोषभीरोः विखनसः*{471}* भगवन्तं प्रति प्रश्ने -
[53.24] "अथोवाच हृषीकेशो भीरुं तं मुनिसत्तमं* ।{472}* [आस् 4.78अब्]
[53.25] वैखानसानां तद् दोषो नास्ति मत्कृतकर्मणाम्* ॥{473}* [आस् 4.83अब्]
!{452}! दिएसेर् हल्ब्वेर्स् इस्त् äह्न्लिछ् इन् ध्न्[द्] 21.2 zइतिएर्त्.
[54.1] मद्द्रव्यं हव्यकव्यार्थे दानाभ्यागतपूजने । [आस् 4.84च्द्]
[54.2] मुख्यम् एवास्तु भवतां सदा मत्कर्म कुर्वताम् ॥ [आ.स् 4.85अब्]
[वैखानसानाम् भगवद्विग्रहविक्रये ऽपि दोषाभावः]
[54.3] किम् एभिर् बहुभिर् वाक्यैर् अन्यत् ते कथयाम्य् अहम्* ॥{474}* [आस् 4.85च्द्]

[54.4] मद्द्रव्यक्षेत्रबिम्बानाम् आलयानां तथापदि* ।{475}*
[54.5] विक्रीणनादिकार्येषु नास्ति दोषो मदाज्ञया* ॥{476}* [आस् 4.87]
[54.6] तस्माद् भवान् अभिमतस् सर्वं कर्म सदा कुरु ॥ [आस् ]
[54.7] मदीयधनभोगेन मत्क्रियालोपतस् तव ।
[54.8] मच्छरीरतया सत्यम् अपचारो न विद्यते* ॥{477}*" [आस् 4.86]
[54.9] इति भगवद्वचनोदाहरणेन भगवद्द्रव्योपभोगादिषु दोषाभावः प्रतिपादितः.*{478}*
[54.10-14] अत्र "अहं भक्तपराधीनो ह्य् अस्वतन्त्र इव द्विज" इत्यादिवचनानुसारेणार्चकपराधीनतां दर्शयितुं, भगवत्प्रीतिविषयीकृतानां वैखानसानां तद्द्रव्योपभोगादिषु दोषगन्धो नास्तीति प्रतिपादनावसरे "मद्द्रव्यं क्षेत्रबिम्बादी"त्यादिना कैमुतिकन्यायम् अभिप्रेत्य भगवद्विग्रहविक्रये कृते ऽपि दोषो नास्तीत्य् उच्यते. तावता न तद् अभिप्रेतम्.*{479}*
[54.15-16] नन्व् एवम् अपि देवद्रव्योपभोगदोषस् सामान्यतः मुख्यामुख्याधिकारिषु सर्वेष्व् आपद्यते एव इति चेत् न.*{480}*
[मांसभक्षने नरकपतनम्]
[54.17] "ये भक्षयन्ति मांसानि सत्त्वानां*{481}* जीवितैषिणाम् ।
[54.18] भक्ष्यन्ते ते ऽपि तैस् सर्वैर् इति ब्रह्माब्रवीत् स्वयम्* ॥{482}* [म्भ् 13.117.33]
[54.19] मां स भक्षयिताम् उत्र यस्य मांसम् इहाद्म्य् अहम् ।
[54.20] एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः* ॥{483}* [म्भ् 13.117.34]
[54.21] न हि मांसं तृणात् कष्ठाद् उपलाद् वापि जयते ।
[54.22] हत्वा जन्तुं भवेन् मांसं तस्मात् तत् परिवर्जयेत्* ॥{484}* [म्भ् 13.116.26]
[54.23] हन्ता चैवानुमन्ता च विशस् ता क्रयविक्रयी ।
[54.24] संस्कर्ता चोपकर्ता च खादकश् चाष्ट घातुकाः* ॥{485}* [म्भ् 13.116.47]
!{474}! व्ग्ल्. आस् 16.47अब्: किं एभिर् बहुभिर् वाक्यैस् सत्यम् एव वदाम्य् अहं.
[55.1] धनेन क्रायको हन्ति खादकश् चोपभोगतः ।
[55.2] घातुको वधबन्धाभ्याम् इत्य् एष त्रिविधो वधः* ॥{486}* [म्भ् 13.116.38]
[55.3] स्वमांसं परमांसेन यो वर्धयितुम् इच्छति ।
[55.4] नारदः प्राह धर्मात्मा नरके स विपच्यते* ॥{487}*" [म्भ् 13.117.10]
[कुत्रचिद् धर्मस्याप्य् अधर्मं, अधर्मस्यापि धर्मत्वञ् च]
[55.5-6] इत्यादि वचनैः मांसभक्षणेन नरकपतनस्मरणात् भगवत्प्रीत्यर्थं क्रियमाणेषु यज्ञेष्व् अपि मांसभक्षणसत्त्वात् याज्ञिकानाम्*{488}* अपि नरकपतनं सम्भवतीति यागस्यापि त्यागप्रसङ्गात्*{489}*.
[55.7] "तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ*{490}* ।
[55.8] ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ॥" [म्भ् 6.38.24]
[55.9-12] इति भगवद्वचनात् शास्त्रोक्तानां कर्मणां दोषो नास्तीति चेत्. "मद्द्रव्योपभोगादौ दोषो नास्ती"ति भगवता प्रतिपादित्वात् प्रकृते ऽपि दोषो नास्त्य् एव. "वचनात् प्रवृत्तिर् वचनान् निवृत्तिर्" इति खलु शिष्टोक्तिः. एवं कुत्रचिद् धर्मो ऽधर्मः अधर्मश् च धर्मो भवति.*{491}*
[55.13] यथा
[55.14] "उक्ते ऽनृते भवेत् किञ्चित् प्राणिनां प्राणरक्षणम् ।
[55.15] अनृतं तत्र सत्यं स्यात् सत्यम् अत्रानृतं भवेत् ॥
[55.16] कामिनीषु विवाहेषु गवां*{492}* पीडासु बाधने ।
[55.17] ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातकम् ॥"
[55.18-19] "यद्ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयातां ब्राह्मणायाधिब्रूयात् यद्ब्राह्मणायाध्यात्मने*{493}* ऽध्याह यद् ब्राह्मणं पराहात्मानं पराह तस्माद् ब्राह्मणो न परोच्यः" इत्य् श्रुतिश् च.
[55.20-21] श्रौतसूत्रे च: "सर्व एवम् अभिवादयन्ति नाभिवादयति न जुहोत्य् अन्यत्र सोमाङ्गेभ्यः" इत्यादि प्रतिपाद्यते.*{494}*
[55.22] "सर्वस्वहरणे भार्यावेश्ययोः (?) प्राणसंशये ।
[55.23] गोद्विजार्थे विवादे च शपथे नास्ति पातकम् ॥"
[55.24] इत्यादि स्मृतिश् च.*{495}*
[55.25] एवं च शास्त्रोक्तप्रकारेण भगवदर्चनं कुर्वतां तद्द्रव्योपभोगे*{496}* न दोषः.
!{486}! म्भ्: घातको.
[देवलकत्वलक्षणविचारः]

[56.1-2] किञ्च - किं देवलकत्वं जातिपरम्, उत कर्मपरम्? जातिपरम् इति वक्तुं न शक्यते. तथानुक्तत्वात्*{497}*. इच्छया कल्पितुम् अशक्यत्वाच् च.*{498}*
[अविहितकर्मकर्तृत्वम् एव देवलकत्वम्]
[56.3-4] अथ कर्मपरम् इति चेत्. विहितकर्मपरम्, उत अविहितकर्मपरम्?*{499}* विहितकर्मपरम् इति वक्तुम् अशक्यम् - श्रुतिस्मृतीतिहाससूत्रपुराणादीनाम्*{500}* अप्रमाण्यप्रसङ्गात्.
[56.5] विहितधर्मपरत्वेनानुक्तत्वात्.*{501}*
[56.6] "श्रुतिस्मृती ममैवाज्ञा यस् ताम् उल्लङ्घ्य वर्तते ।
[56.7] आज्ञाच् छेदी मम द्रोही मद्भक्तो ऽपि न वैष्णवः* ॥{502}*"
[परद्रव्यकृतस्याप्य् आराधनस्य निर्दोषत्वम्]
[56.8] इति भगवदाज्ञाभङ्गदोषाच् च. एवं च अविहितकर्मपरम् इति हि परिशिष्यते.*{503}*
[56.9-10] ननु - परद्रव्येण कृतं भगवदाराधनं क्रतुवत् परार्थम् एव भवतीति चेत् मैवम्.*{504}*
[56.11] "अन्यधर्मपरो विप्रो भ्रष्टो गच्छत्य् अधोगतिम् ।
[56.12] मत्कर्मनिरतो विप्रो नाधः पतति कुत्रचित् ॥"
[56.13] इति भगवद्वचनात्*{505}*.
[56.14] पुराणान्तरे: "स्वस्मिन्न् अर्पितमात्रेण येन केनापि कर्मणा ।
[56.15] तुष्टो ददाति स्वपदम् अहो वत्सलता*{506}* हरेः ॥" इति.
[56.16] किञ्च:
[दक्षिणाप्रतिग्रहे दोषाभवः]
[56.17] "एकविंशतिनिष्कन्तु दद्याद् आचार्यदक्षिणाम् ।
[56.18] ऋत्विजान् तु तदर्धं स्यात् तदर्धम् इतरस्य च ॥"
[56.19] इति दक्षिणादानं प्रतिपाद्यते.*{507}*
[56.20] ननु - "प्रतिग्रहेण विप्रस्य ब्राह्मं तेजो विनश्यति* ॥{508}*" इति मनुवचनात्*{509}* [मनुध्श् 4.186च्द्]
[56.21-25] "प्रतिग्रहेण तेजो हि विप्राणां शाम्यते" इत्य् आनुशासनिकवचनाच् च प्रतिग्रहेण ब्रह्मतेजोनाशनं स्मर्यते. श्रूयते प्रतिग्रहे प्रायश्चित्तम् अपि. "यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वानश्नंस् त्रिस् स्वाध्यायम् अधीयीत त्रिरात्रं सावित्रीं गायत्रीम् अन्वतिरेचयति वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वरः" इति.
[56.25] अतः प्रतिग्रहे दोषो ऽस्तीति चेत् - न.*{510}*
!{497}! ध्न्[त्] 242: अनुक्तत्वात्.
[हरिस्मरणस्य मोक्षप्रदत्वम्]
[57.1] "त्रायन्ते खलु नात्यन्तम् अन्यधर्मास् स्वनुष्टिताः ।
[57.2] अपि मत्कर्म विगुणं त्रायते महतो भयात् ॥
[57.3] मेरुमन्दरमात्रो ऽपि राशिः पापस्य कर्मणः ।
[57.4] केशवं वैद्यम् आसाद्य अब् हिएर् नोछ् तेलुगु वेर्ग्लेइछेन्दुर्व्याधिर् इव नश्यति ॥
[57.5] निधिस्थानं खनन् द्वेषात् मृदर्थं वाप्नुयान् निधिम् ।
[57.6] अज्ञः कामाच् च दोषाच् च स्मृत्वैवं मोक्षभाक्तथा ॥
[57.7] द्वेषिणा वाप्रयत्नेन क्षिप्तो ऽग्निः कक्षमादहेत् ।
[57.8] कथम् अभ्यर्चितो विष्णुः न दहेत् सर्वकिल्बिषम् ॥
[57.9] यथाज्ञो वज्रकायस् स्यात् स्पर्धन्न् अपि सुधां पिबन् ।
[57.10] एवं विरुद्धभावो ऽपि मुच्यत्य् एव हरिं स्मरन् ॥" इति
[57.11] नारदीये: "कृतापि दम्भहास्याद्यैर् यत् सेवा तारयेज् जनान् ।
[57.12] विफला नान्यकर्मेव कृपालुः को ऽन्वतः परम् ॥ [नारदप्.]
[57.13] हास्यानादरमायाभिर् अपि भक्तिः कृता त्वयि ।
[57.14] नृणां ददातीन्द्रपदं सात्त्विकानां किम् उच्यते ॥ [नारदप्]
[57.15] वस्तुस्वभाव एवैष यन्मोक्षाय हरिस्मृतिः ।
[57.16] पूषेव ध्यान्तनाशाय श्शीतशान्त्यै यथानलः ॥ [नारदप्.]

[57.17] सैषा हरिस्मृतिऋ दैत्यं क्रोधाद् अपि कृता सती ।
[57.18] आनयेत् सद्गतिं विप्रं सानुगं किमु वर्ण्यते ॥ [नारदप्.]
[57.19] यथामृतार्थं यततां सुराणाम् अब्धिमन्थने ।
[57.20] पारिजातादिकान्य् आसन् फलान्य् अप्रार्थितान्य् अपि ॥ [नारदप्.]
[57.21] एवं मोक्षैकचित्तानां यतताम् ईशसंस्मृतौ ।
[57.22] भवन्ति सिद्धयो दिव्याः पुण्य*{511}* पुण्यानुबन्धि यत् ॥" इत्यादि [नारदप्]
[57.23] तत्रैव: "सुरातिथ्यर्चनकृते गुरुभृत्यर्थम् एव च ।
[57.24] सर्वतः प्रतिगृह्णीयात् न तु दुष्येत् स्वयं ततः ॥" [नारदप्]
!{511}! लिएस्: पुण्यं.
[58.1-2] इति च स्मरणात्. अतः शास्त्रोक्तमार्गेण भगवद्यजनविधौ प्रवृत्तानां तत्तत्कर्मसु दक्षिणाप्रतिग्रहे कृते ऽपि न दोषः.
[आलयार्चनायाः महाभारतादिसंमतत्वम्]
[58.3] गृहार्चनाव्यतिरेकेणालयार्चना भारतादिषु प्रतिपादिता दृश्यते. यथा -
[58.4] महाभारते आश्वमेधिके "कथं त्वम् अर्चनीयो ऽसी"त्य् आदि. [म्भ् 14 अप्प्. 4.1652प्र्]
[58.5] विष्णुधर्मोत्तरे षष्ठे ऽध्याये:
[58.6] "यस् तु देवगृहस्यार्थं प्राकारं परिकल्पयेत् ।
[58.7] स तु स्वर्गं समासद्य विमानाधिपतिर् भवेत् ॥ [विष्णुधर्मोत्तर.प् ]
[58.8] यस् तु देवालयस्याग्रे शिलादारुभिर् एव वा ।
[58.9] करोति तोरणं रम्यं स तु स्वर्गाधिपो भवेत् ॥ [विष्णुधर्मोत्तर.प् ]
[58.10] यस् तु देवालयं विष्णोर् दारुशैलमृदा तथा ।
[58.11] इष्टकाकल्पितं वापि कुर्यात् तस्य फलं बहु ॥ [विष्णुधर्मोत्तर.प् ]
[58.12] अहन्यहन्य् अश्वमेध- सहस्राणि करोति यः ।
[58.13] प्राप्नोति मण्डपं विष्णोः यः कारयति मानवः ॥ [विष्णुधर्मोत्तर.प् ]
[58.14] केशवस्य स तल्लोकम् अक्षय्यं प्रतिपद्यते ।
[58.15] प्रतिमार्थं महाविष्णोस् साधयेद् उत्तमां शिलाम् ॥ [विष्णुधर्मोत्तरप् ]
[58.16] षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते ॥" इति. [विष्णुधर्मोत्तरप् ]
[58.17-19] एतेषां च प्राकारतोरणमण्डपविग्रहशिलादीणां गृहदेवतास्वसंभवः श्रीवैखानससंहितासु प्रतिपादितः. प्रसङ्गाद् अर्चकमहिमादीह कथ्यते.
[अर्चकमाहात्म्यम्]
[58.20] बृहन्नारदीये: "स कदाचिन् महापापो जन्तूनामन्तकोपमः ॥" [बृहन्नारदप्]
[58.21] इत्य् आरभ्य
[58.22] "तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् ।
[58.23] छादितं हेमकवचैः दृष्ट्वा व्याधो मुदा ययौ ॥ [बृहन्नारदप्]
[58.24] हराम्य् अत्र सुवर्णानि बहूनीति स निश्चितः ।
[58.25] जगाम विष्णुभवनं कीनाशश् चौर्यलोलुपः ॥ [बृहन्नारदप्]
[59.1] तत्रापश्यद् द्विजवरं शान्तं तत्त्वार्थकोविदम् ।
[59.2] परिचर्यापरं विष्णोर् उदङ्कं तपसां निधिम् ॥ [बृहन्नारदप्]
[59.3] एकान्तिनं दयालुञ् च निस्स्पृहं ध्यानलोलुपम् ।
[59.4] दृष्ट्वा तं लुब्धको मेने स्वकार्यस्यान्तरायिनम् ॥ [बृहन्नारदप्]
[59.5] देवस्य द्रव्यजातन् तु समादातुमना निशि ॥" [बृहन्नारदप्]
[59.6-7] इत्यादिनापृथगालयार्चकसद्भावादिकं उक्त्वा स्वकार्यान्तराय भूतार्चकहिंसायां प्रवृत्तस्य तस्य मरणम् अपि प्रतिपाद्य.
[विष्णुपादोदकमाहात्म्यम्]

[59.8] "उदङ्कः पतितं प्रेक्ष्य लुब्धकन्तु दयापरः ।
[59.9] विष्णुपादोदकेनैनम् अभ्यषिञ् चन्महामुनिः ॥
[59.10] हरिपादोदकस् पर्शाल् लुब्धको वीतकल्मषः ।
[59.11] दिव्यं विमानमारुह्य मुनिम् एनम् अथाब्रवीत् ॥"
[59.12] इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम्.
[59.13] तत्रैव - यज्ञध्वजवीतिहोत्रसंवादे:
[आलये दीपस्थापनादेः फलम्]
[59.14] "स कदाचित् तु कामान्धो रन्तुकामः परस्त्रियम् ।
[59.15] शून्यं पूजादिभिर् विष्णोर् मन्दिरं प्राप्तवान् निशि ॥
[59.16] तत्र कामोपभोगार्थं शयितुं तेन कामिना ।
[59.17] स्ववस्त्रप्रान्ततो ब्रह्मन् कृतं तद्देशमार्जनम् ॥
[59.18] यावन्तः पांसुकणिकाः तेन सम्मार्जितास् तदा ।
[59.19] तावज् जन्मकृतं पापं तदैव क्षयम् आगतम् ॥
[59.20] प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम ।
[59.21] तेनापि तस्य दुष्कर्म निश्शेषं क्षयम् आगतम् ॥
[59.22] अवशेनापि यत्कर्म कृत्वेमां सिद्धिम् आगतः ।
[59.23] भक्तिमद्भिः प्रशान्तैश् च किं पुनस् सम्यगर्चनात् ॥
[आलयप्रदक्षिणफलम्]
[60.1] तस्माच् छ्रुणुत विप्रेन्द्राः देवो नारायणो ऽव्ययः ।
[60.2] ज्ञानतो ऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥"
[60.3] तथा तत्रैव - इन्द्रसुधर्मसंवादे:
[60.4] "अहमासं पुरा शक्र गृध्रः पापावशेषतः ।
[60.5] स्थितश् च भूमिभागे वै अमेध्यामिषभोजनः ॥
[60.6] एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभोः ।
[60.7] पतितो व्याधशस्त्रेण सायं विष्णुगृहं गते ॥
[60.8] मयि कण्ठगतप्राणे कश्चित् श्वा मांसलोलुपः ।
[60.9] जग्रह मां स्ववक्त्रेण श्वभिर् अन्यैर् अभिद्रुतः ॥
[60.10] गतः प्रदक्षिणाकारं विष्णोस् तन्मन्दिरं प्रभोः ।
[60.11] तेनैव तुष्टिम् आपन्नः अन्तरात्मा जगन्मयः ॥
[60.12] मम चापि शुनश् चापि दत्तवान् परमं पदम् ।
[60.13] प्रदक्षिणाकारतबिस् हिएर् नोछ् तेलुगु वेर्ग्लेइछेन्या गतस्य सदृशं फलम् ॥
[60.14] सम्प्राप्तं तु मया शक्र*{512}* किं पुनस् सम्यग् अर्चनात् ।
[60.15] ये ऽर्चयन्ति सदा भक्त्या नारायणम् अनामयम् ।
[60.16] तान् अर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ॥"*{513}* इति
[अमेध्यानि पञ्च]
[60.17] एवम् आश्वमेधिके: "लोके त्रीण्य् अपवित्राणि पञ्चामेध्यानि भारत । [म्भ् 13, अप्प्. 4.3249]
[60.18] श्वा च शूद्रश् श्वपाकश् च त्र्यपवित्राणि पाण्डव* ।{514}* [म्भ् 13, अप्प्. 4.3250]
[60.19] देवलः कुक्कुटो यूपः उदक्या वृषलीपतिः ॥" [म्भ् 13, अप्प्. 4.3251]
[60.20] पञ्चमेध्यानि*{515}* इति.
[भगवत्पूजाद्यनधिकारिणः]

[60.21] श्रीवैखानसे: "सूतादिप्रतिलोमाश् च पाषण्डाः पतितास् तथा ।
[60.22] नास्तिका भिन्नमर्यादास् तथा वेदविदूषकाः ॥
[60.23] पापरोगयुताश् चैव तथैव गुरुनिन्दका ।
[60.24] अर्चनं देवदेवस्य हविर्दानञ् च वीक्षितुम् ।
!{512}! ध्न्[त्] 253: सम्प्राप्तं विबुधश्रेष्ठ.
[61.1] नार्हन्ति तस्मात् कुर्वीत द्वारं यवनिकावृतम् ॥"
[61.2-3] इति प्रतिपादनात् भगवदर्चनदर्शनादिषु योग्यतारहितानां निकृष्टानां (देवलकानां) औत्कृष्ट्यं न सम्भवति.*{516}*
[अद्वारकभगवद्याजिनाम् उत्कृष्टत्वम्]
[61.4-6] श्रुतिस्मृतिपुराणादिषूक्तप्रकारेण कल्पसूत्रे*{517}* येषाम् अद्वारकभगवद्यजनाधिकारो विधीयते ते उत्कृष्टा ज्ञेयाः*{518}*. यथा श्रुतिः: "यथा क्रतुर् अस्मिन् लोके भवति तथेतः प्रेत्य भवति"*{519}* इति.
[61.7] स्मृतिश् च*{520}*: "वेदोक्तेनैव भार्गेण*{521}* सर्वभूतहृदि स्थितम् ।
[61.8] माम् अर्चयन्ति ये भक्तास्*{522}* सायुज्यं यान्ति ते मम ॥
[61.9] तस्माद् यावज् जनो जीवेत् तावत् सम्पूजयेद् धरिम् ।
[61.10] पापैर् न लिप्यते मर्त्यो*{523}* हरिमन्दिरम् आप्नुयात् ॥
[61.11] जगत् पवित्रास् ते नित्यं विष्णुम् अभ्यर्चयन्ति ये ।
[61.12] दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ॥"
[वैखानसानां भगवत्प्रीतिपात्रत्वम्]
[61.13-16] व्यासेनपि*{524}* आनुशासनिके (90. अध्याये) पात्रकथनावसरे*{525}* देवलकानाम् अपात्रतां सत्कर्मनिष्ठानां पात्रताञ् च प्रतिपाद्य स्ववचनदृढीकरणार्थं "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्"*{526}* इति भगवत्प्रीतिविषयाणां*{527}* वैखानसानां वचनम् अपि श्रूयते इति प्रतिपादितम्. यथा:
[61.17] *{528}*"ऋषीणां समयं नित्यं ये रक्षन्ति युधिष्ठिर* ।{529}*
[61.18] निश्चिताः सर्वधर्मज्ञास् तान् देवा ब्राह्मणान् विदुः ॥ [म्ब्.ह् 13.9.42]
[61.19] स्वाध्यायनिष्ठा ऋषयो*{530}* ज्ञाननिष्ठास् तथैव च ।
[61.20] तपोनिष्ठाश् च बोद्धव्याः कर्मनिष्ठाश् च भारत ॥ [म्भ् 13.9.43]
[61.21] कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत ।
[61.22] तत्र ये ब्राह्मणान् के चिन् न च निन्दन्ति ते वराः* ॥{531}* [म्भ् 13.9.44]
[61.23] ये तु निन्दन्ति जल्पेषु न ताञ् श्राद्धेषु भोजयेत् ।
[61.24] ब्राह्मणा निन्दिता राजन् हन्युस् त्रिपुरुषं कुलम्* ॥{532}* [म्भ् 13.9.45]
!{516}! ध्न्[त्] 254 स्तत्त् ध्न्[द्] 61.2-3: (इति) भगवद्दर्शनादिषु योग्यतारहितानां निकृष्टानां उत्कृष्टत्वादिकं न सम्भवति. भगवदर्चकानाम् औत्कृष्ट्यं.
[62.1] वैखानसानां वचनम् ऋषीणां श्रूयते नृप ।
[62.2] दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् ।
[62.3] प्रियो वा यदि वा द्वेष्यः तेषु तच् छ्राद्धम् आवपेत्* ॥{533}* [म्भ् 13.9.46]
[62.4] यः सहस्रं सहस्राणां भोजयेद् अनृचां नरः ।
[62.5] एकस् तान् मन्त्रवित् पूतः सर्वान् अर्हति भारत* ॥{534}*" [म्भ् 13.9.47]
[अष्टाक्षरादिमन्त्रजपनिष्ठानां महिमा]
[62.6-7] एवं अष्टाक्षर द्वादशाक्षर पुरुषसूक्तादिमन्त्रजपनिष्ठानां दर्शनेन ब्रह्महा ऽपि शुद्ध्यतीति पुराणोक्तम्. यथा*{535}*:
[62.8] *{536}*पद्मपुराणे: "साङ्गं समन्त्रं सन्यासं सर्षिच्छन्दोधिदैवतम् ।
[62.9] सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् ॥ [पद्म.प् ]
[62.10] साष्टाक्षरञ् च मन्त्रेशं ये जपन्ति नरोत्तमाः ।
[62.11] तान् दृष्ट्वा ब्रह्महा शुद्ध्येत् किं पुनर् वैष्णवस् स्वयम् ॥" इति [पद्मप् ]
[62.12-14] श्रुयते ऽपि. "यो ह वै नारायणस्याष्टाक्षरं पदम् अध्येति अनुपब्रवस् सर्वम् आयुर् एति विन्दते प्राजापत्यं रायस्पोषं गौपत्यं ततो ऽमृतत्वम् अश्नुते ततो ऽमृतत्वम् अश्नुत इति".
[62.15] श्रीपाञ्चरात्रे कपिञ्जलसंहितायाम्:
[62.16] "याजनाध्यापनयुतः शिष्यानुग्रहकारकः ।

[62.17] आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः* ॥{537}* [कपिञ्जलस्]
[62.18] आश्रमे वा वने वा ऽपि स वैखानस उच्यते* ।{538}*
[62.19] ग्राम्यधर्माणि सर्वाणि वर्जयेद् वनवासकः ॥"*{539}* इति. [कपिञ्जलस्]
[62.20] यमस्मृतौ: "यो ऽनुचानं*{540}* द्विजं मर्त्यो हतवान् अर्थलोभतः ।
[62.21] स वदेत् पौरुषं सूक्तं जलस्थश् चिन्तयेद् धरिम्* ॥{541}*"
[62.22-24] इति केवलाष्टाक्षरमन्त्रजपनिष्ठानाम् अप्य् एवं विधाः प्रभावाः श्रूयन्त इति चेत् श्रुतिस्मृतिविहितैस् तैर् एव मन्त्रैः अद्वारकभगवदर्चने मुख्यादिकारिणां वैखानसानां कैमुतिकन्यायसिद्धम् औत्कृष्ट्यं केनापोदितुं शक्यम्.*{542}*
!{533}! म्भ्: प्रियान् वा यदि वा द्वेष्यांस्.
[देवलकनिरूपणम्]
[63.1-3] किञ्च - यथा वैखानसानाम् उत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं तथा इतरेषां विशेषेण प्रतिपादितञ् चेत् तदा वैखानससाम्यम् इतरेषां स्यात्. तथा न दृश्यते हि.
[63.4] अथ वस्तुतो देवलका निरूप्यन्ते.*{543}*
[63.5] वैखानसे: "अवैखानसविप्रो यः पूजयेद् आलये हरिम् ।
[63.6] स वै देवलको नाम हव्यकव्यबहिष्कृतः* ॥{544}*
[63.7] वैखानसकुले जातः पाञ्चरात्रेण दीक्षितः ।
[63.8] न दीक्षितो न सञ्जातो (?) लोभान् मोहान् मदर्चनम्* ।{545}*
[63.9] कुर्याच् चेत् तु विशेषेण भवेद् देवलकस् तो सः ॥"*{546}*
[देवलकत्रैविद्यम्]
[63.10] पाञ्चरात्रे संकर्षणसंहितायाम्: "कर्मदेवलकाः केचित् कल्पदेवलकाः परे ।
[63.11] शुद्धदेवलकाश् चान्ये त्रिधा देवलकाः स्मृताः ॥ [सङ्कर्षणसंहिता.]
[कर्मदेवलकलक्षणम्]
[63.12] अर्थार्थी कालनिर्देशी यो देवं पूजयेत् स हि ।
[63.13] कर्मदेवलको नाम सर्वकर्मबहिष्कृतः ॥ [सङ्कर्षणसंहिता.]
[63.14] पाञ्चरात्रविधानज्ञो दीक्षाविरहितो ऽर्चकः ।
[63.15] चतुर्वेदाधिकारो ऽपि कल्पदेवलकः स्मृतः ॥ [सङ्कर्षणसंहिता.]
[63.16] आगमोक्तविधानज्ञो भद्रकाल्युपजीवकः*{547}* ।
[63.17] शुद्धदेवलकः प्रोक्तः सर्वकर्मबहिष्कृतः ॥ [सङ्कर्षणसंहिता.]
[63.18] आर्षोक्तेन विधानेन देवलत्वं न विद्यते ।
[63.19] तस्मात् सर्वप्रयत्नेन वैदिकेनैव पूजयेत् ॥" इति [सङ्कर्षणसंहिता]
[63.20] शिवशेखरतन्त्रे - रुद्रः:
[63.21] "अथ देवलकान् वक्ष्ये शृणु देवि समाहिता ।
[63.22] कर्मदेवलकाः केचित् कल्पदेवलकाः परे ॥ [शिवशेखरतन्त्र]
[63.23] शुद्धदेवलकास् त्व् अन्ये त्रिधा देवलकास्मृताः ।
[63.24] अन्यसूत्रोक्तमार्गेण यस् संवत्सरपूजकः ॥
!{543}! ध्न्[त्] 263-4 स्तत्त् ध्न्[द्] 63.1-4: पुनर् देवलकत्वादिविचारः. किञ्च - यथा वैखानसानाम् उत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं एवम् इतरेषां ब्राह्मणसामान्यत्वेन विना विशेषेण प्रतिपादितं चेत् तदानीमेतादृगुणविशिष्टा वयम् इति. तैर् वक्तुम् उचितम् अन्यथा असंतं? निन्द्याम् आत्मस्तुतिं मूढेतराः स्वपरगतविशेषज्ञाः के वा ब्रूयः? देवलकलक्षणं निरूप्यते यथा.
[शिवशेखरतन्त्र]
[कल्पदेवलकलक्षणम्]
[64.1] अदीक्षितः स्वयं तन्त्रे कर्मदेवलकस् तु सः ।
[64.2] अनेनैव प्रकारेण वत्सरत्र्यपूजकः ।
[64.3] कल्पदेवलकः प्रोक्तः स वै शैलसुते ध्रुवम् ॥ [शिवशेखरतन्त्र]
[शुद्धदेवलकलक्षणम्]
[64.4] अननुज्ञातम् आचार्यात् आगमं शुश्रुवे च यः ।

मूल पाठ: Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi) · Edition: (pp. 1-122) the of the Devanāgarī-ed. by R. Parthasarathi Bhattacarya: Śrīvaikhānasagṛhyasūtra (= DHN[D]); 2 vols., Akulamannāḍu, 1967 (reprint Tirupati, 1997/98). · Data entry Ute Hüsken · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc