दशविधाहेतुनिरूपण · भाग 6168
[108.17] "नेक्षेत पूजावेलायां नरं वत्स बहिष्कृतम् ।
[108.18] दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः ॥ [स्कन्दप् ]
[108.19] कलाव् अवतरिष्यन्ति निन्दितास्*{834}* ते बहिष्कृताः ॥" इति [स्कन्दप् ]
[108.20] साम्बपुराणे: "श्रुतिभ्रष्टः स्मृतिप्रोक्त*{835}* प्रायश्चित्ते भयं गतः ।
[108.21] क्रमेण श्रुतिसिद्ध्यर्थं मनुष्यस् तन्त्रम् आश्रयेत् ॥ [साम्बप्]
[108.22] धर्मशास्त्रे पुराणे च प्रोक्तं हि मरणान्तिकम् ।
[108.23] प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥ [साम्बप्]
!{823}! कूर्मप्: न वेदबाह्ये पुरुषे.
[पाञ्चरात्रमार्गानुसारिणां श्रौतस्मार्तबाह्यत्वम्]
[109.1] भयं दुर्बलचित्तानां मरणे जायते भृशम् ।
[109.2] तेषाम् एवाभिरक्षार्थं तद् अहं तन्त्रम् उक्तवान् ॥ [साम्बप्]
[109.3] पाञ्चरात्रं भागवतं तन्त्रं सात्त्वतनामकम् ।
[109.4] वेदभ्रष्टान् समुद्दिश्य कमलापतिर् अब्रवीत्* ॥{836}*" इति [साम्बप्]
[109.5] अन्यत्र: "अथांशोः सात्त्वतो नाम विष्णुभक्तः प्रतापवान् ।
[109.6] महात्मा दाननिरतो धनुर्वेदविदां वरः ॥
[109.7] स नारदस्य वचनाद् वासुदेवार्चने रतः ।
[109.8] शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् ॥
[109.9] तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ।
[109.10] प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम् ॥" इति
[109.11] वासिष्ठे: "बृद्धशावक निर्गन्धाः पाञ्चरात्रविदो जनाः* ।{837}*
[109.12] कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ [वासिष्ठध्श् ]
[109.13] यस्याश्नन्ति हवींश्य् एते दुरात्मानस् तु तामसाः ।
[109.14] न तस्य तद् भवेच् छास्त्रं प्रेत्येह च न तत्फलम् ॥" इति. [वासिष्ठध्श् ]
[109.15] लैङ्गे - नवमाध्याये युगधर्मे
[109.16] "अङ्किताश् च भविष्यन्ति देवतायुधलाञ्छनैः ।
[109.17] नारायणम् अशृण्वन्ति युगान्ते समुपस्थिते ॥ [लिङ्गप्]
[109.18] अन्यानि यानि कर्माणि श्रौतानि मुनिसत्तम ।
[109.19] स्मार्तानि नाचरिष्यन्ति कलौ ब्रह्मन्*{838}* नरास् सदा ॥ [लिङ्गप्]
[109.20] आम्नायं धर्मशास्त्रञ् च पुराणं भारतं मुने ।
[109.21] अल्पमात्रम् इति ब्रह्मन्*{839}* वदिष्यन्ति कलौ युगे ॥ [लिङ्गप्]
[109.22] न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम ।
[109.23] स्वधर्मे रुचिता नास्ति ब्राह्मणानां कलौ युगे ॥ [लिङ्गप्]
[109.24] पाञ्चरात्रं प्रशंसन्ति केचिद् भागवतं मुने ।
[109.25] केचित् कापालम् इच्छन्ति केचित् पाशुपतं मुने ॥ [लिङ्गप्]
!{836}! ध्न्[त्] 622: उक्तवान्.
[चक्राङ्कनस्य भावनारूपेणैव कर्तव्यता]
[110.1] केचिद् बौद्धं प्रशंसन्ति केचिद् दैगम्बरं तथा ।
[110.2] केचिल् लोकायतं ब्रह्मन्*{840}* केचित् सौमं*{841}* महामुने ॥ [लिङ्गप्]
[110.3] लाकुलं केचिद् इच्छन्ति तथा केचित् तु भैरवम् ।
[110.4] केचिद् वामं प्रशंसन्ति केचिच् छाक्तं तथैव च ॥ [लिङ्गप्]
[110.5] शाम्भवं केचिद् इच्छन्ति यामलं भुवि केचन ।
[110.6] अन्यानि यानि शास्त्राणि विरुद्धानि महामुने ॥ [लिङ्गप्]
[110.7] तीर्थविक्रयिणः केचिद् देवविक्रयिणः परे ।
[110.8] क्षीरविक्रयिणः केचिद् आज्यविक्रयिणः परे ॥ [लिङ्गप्]
[110.9] मांसविक्रयिणः केचित् सुराविक्रयिणः परे ।
[110.10] पुत्रविक्रयिणः केचिद् दारविक्रयिणः परे ॥ [लिङ्गप्]
[110.11] भर्तृविक्रयिणः केचिद् भविष्यन्ति कलौ नराः ॥" इति [लिङ्गप्]
[110.12] अतः पाञ्चरातोक्तं तप्तचक्रधारणं*{842}* सर्वसाधारणं न भवन्तीति सिद्धम्.*{843}*
[110.13-16] अथ यद् उक्तं सर्वसाधारणं न भवतीति तन् नोपपद्यते - आथर्वणे "चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममितस्य विष्णोः. स एति नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः, "चरणं पवित्रं विततं पुराणं"*{844}* इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वात् इति चेत् - न.
[110.17-20] तप्तचक्रधारणे प्रायश्चित्तविधानात्. अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण. सर्वसाधारणश्रुतिस् तु वैखानसेतरविषया*{845}*. "यस्य मे श्रियम्" इत्यादि श्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात्. अतः तप्तचक्राङ्कनं सर्वसाधारणं न भवति.
[110.21] किञ् च: "यत्र शास्त्रगतिर् भिन्ना सर्वकर्मसु भारत ।
[110.22] उदिते ऽनुदिते चैव होमभेदे यथा भवेत् ।
[110.23] स गरीयान् महाबाहो सर्वशास्त्रोदिताद् अपि ॥"
[110.24] इति सुमन्तुस्मरणाच् च व्यवस्थितविकल्पोत्र वक्तव्यः.
!{840}! ध्न्[त्] 624: ब्रह्मान्.
[विष्णोर् एव संहारकर्तृत्वम्]
[111.1-2] किञ्च ब्रह्मरुद्रादीनाम् अपि संहारकर्ता हरिर् एवेति श्रूयते. यजुषि - हरिं हरन्तम् अनुयन्ति देवाः विश्वस्येशानं*{846}* वृषभं मतीनाम्" इति.अब् हिएर् तेलुगु üबेर्प्र्üfएन्
[विष्णुकर्तृकरुद्रोपासनस्य कारणम्]
[111.3] ब्रह्मपुराणे: "ब्रह्माणम् इन्द्रं रुद्रञ् च यमं वरुणम् एव च ।
[111.4] निगृह्याहरते यस्मात् तस्माद् धरिर् इहोच्यते ॥ [ब्रह्म.प् ]
[111.5] ब्रह्मा शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः ।
[111.6] एवम् आद्यास् तथैवान्ये युक्ता वैष्णवतेजसा ॥ [ब्रह्म.प् ]
[111.7] जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा ।
[111.8] तेजसश् चैव ते सर्वे पञ्चत्वम् उपयान्ति च॥" इति [ब्रह्मप् ]
[111.9-14] ननु - "हरिं हरन्तं" इति पूर्वोपात्तयजुषि ईशानशब्दश्रवणात् रुद्र एव संहारकर्तेति श्रूयते इति चेत् - तद् असत्. तत्र "विश्वस्येशान," इति जगन्नियामकत्वम् उच्यते. बिस् हिएर् तेलुगु नोछ् üबेर्प्र्üfएन्तथा च "पतिं विश्रस्यात्मेश्वर," इतिवत् नारायण एव अत्र प्रतिपाद्यः. "अस्येशाना जगतो विष्णुपत्नी" स हरिः सुवित्तमः, "पेरुर् इन्द्राय पिन्वत" "विराड् असि", "बृहती श्रवसीन्द्रपत्नी धर्मपत्नी", "स ब्रह्मा स शिवस् सेन्द्रः", इत्यादि श्रुतयोत्र विभावनीयाः.
[111.15] ननु कौर्मे अष्टमाध्याये - रामायणसंक्षेपे:
[111.16] "स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ* ॥{847}* [कूर्मप् 21.44च्द्]
[111.17] सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥" [कूर्मप् 21.45अब्]
[111.18] इति रावणवधादिकं प्रतिपाद्य:
[111.19] "सेतुमध्ये महादेवम् ईशानं कृत्तिवाससम् ॥ [कूर्मप् 21.46च्द्]
[111.20] स्थापयामास लिङ्गस्थं पूजयामास राघवः ।
[111.21] तस्य देवो महादेवः पार्वत्या सह शङ्करः ॥ [कूर्मप् 21.47]
[111.22] प्रत्यक्षम् एव भगवान् दत्तवान् वरम् उत्तमम् ।" [कूर्मप् 21.48अब्]
!{846}! ध्न्[त्] 702: विश्वस्येशानिं.
[रुद्रस्य वरदातृत्वं विष्णुप्रसादलब्धम्]
[112.1-2] इति भगवते रुद्रोपासनम् उच्यते इति चेत् - सत्यम्. रुद्रस्य तद् अपि भगवद्वरप्रसादलब्धम्. एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते, यथा -
[112.3] अगस्त्यं प्रति रुद्रः:
[112.4] "ब्रह्मणाहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः ।
[112.5] अविज्ञातासमर्थो ऽहं निमग्नस्सलिले द्विज ॥" इत्य् आरभ्य [वराहप्]
[112.6-7] जलमध्ये कालमेधसङ्काशः अतिशोभनः पुण्डरीकाक्षः कश्चित् पुरुषो रुद्रेण दृष्टः कस्त्वम् इति रुद्रेण पृष्टस्य तस्य प्रतिवचनम्:
[112.8] "अहं नारायणो देवो जलशायी सनातनः ।
[112.9] दिव्यं चक्षुर् भवतु ते तेन मां पश्य यत्नतः ॥" इति प्रतिपाद्य [वराहप्]
[112.10] "एवम् उक्तस् तदा तेन यावत् पश्याम्म्*{848}* अहं तनुम् ।
[112.11] तावद् अङ्गुष्ठमात्रन् तु ज्वलद्भास्करतेजसम् ॥ [वराहप्]
[112.12] तम् एवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ।
[112.13] ब्रह्माणं तत्र पश्यामि ह्य् आत्मानञ् च तदङ्कतः ॥ [वराहप्]
[112.14] एवं दृष्ट्वा महात्मानं ततो हर्षम् उपागतः ।
[112.15] तं स्तोतुं द्विजशार्दूल मतिर् मे समजायत ॥" [वराहप्]
[112.16-17] इत्य् उपक्रम्य महत्स्तोत्रम् उक्त्वा अन्ते रुद्रेण भगवन्तं प्रत्यभीष्टनिवेदनं प्रतिपादितम्. यथा:
[112.18] "इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश् च ।
[112.19] सृष्टिं सृजस्वेति तु चोदितस्य सर्वज्ञतां देहि नमो ऽस्तु विष्णो ॥" इति [वराहप्]
[112.20] एवं स्तोत्रे परिसमापिते
[112.21] "वरं वरव भद्रं ते देवदेव उमापते ॥" [वराहप्]
[112.22] इति भगवता नियुक्तः रुद्र:
[112.23] "ब्रह्मणा चाहम् उक्तस् तु प्रजास् सृज इति प्रभो ।
[112.24] तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन ॥" इति प्रार्थयामास. [वराहप्]
[विष्णोः शरभरूपरुद्रादिसंहारकत्वम्]
[113.1] तदा श्रीभगवान्:
[113.2] "सर्वज्ञस् त्वं न सन्देहो ज्ञानराशिसनातनः ।
[113.3] देवानाञ् च सदा पूज्यः सर्वदा त्वं भविष्यसि ॥ [वराहप्.]
[113.4] एवम् उक्ते पुनर्वाक्यम् उवाचोमापतिर् मुदा ।
[113.5] अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ [वराहप्]
[113.6] मर्त्यो भूत्वा भवान् एव मामाराधय केशव ।
[113.7] मां वहस्य च देवेश वरं मत्तो गृहाण च ॥ [वराहप्.]
[113.8] येनाहं सर्वदेवानां पूज्यात् पूज्यतरो ऽभवत् ॥" इति पुनः तेन प्रार्थितः [वराहप्]
[113.9] श्रीभगवान्: "देवकार्यावतारेषु मानुष्यत्वम् उपागतः ।
[113.10] त्वाम् एवाराधयिष्यामि त्वञ् च मे वरदो भव ॥ [वराहप्]
[113.11] यत्त्वयोक्तं वहस्वेति देवदेव उमापते ।
[113.12] स त्वां वहामि देव त्वां मेघो भूत्वा शतं समाः ॥" इति वरम् अपि ददौ.
[113.13] "एवम् एव हरिर् देवः सर्वेशस् सर्वभावनः ।
[113.14] वरदो ऽभूत् पुरा मह्यं तेनाहं दैवतैर् वृतः ॥ [वराहप्.]
[113.15] नारायणात् परो देवो न भूतो न भविष्यति ।
[113.16] एतद् रहस्यं देवानां पुराणानाञ् च सत्तम ॥" इति [वराहप्]
[113.17] किञ्च
[113.18] श्रीविष्णुपुराणे: "देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
[113.19] लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ [विष्णुप् ]
[113.20] देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया ।
[113.21] जगताम् उपकाराय न सा कर्मनिमित्तजा ॥" इति [विष्णुप् ]
[113.22-23] एवं नृसिंहरूपिणा भगवता शरभरूपेणागतानां ब्रह्मरुद्रादीनाम् अपि संहारादिकं नारसिंहपुराणादिष्व् अवगम्यते. यथा:
[शरभनिर्माणादिप्रकारः]
[114.1] हिरण्यकवधानन्तरं: तत्र सप्तत्रिंशाध्याये
[114.2] "हिरण्यकशिपोस् त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः ।
[114.3] क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः ॥ [नरसिंहप्]
[114.4] युष्माभिस् संस्तुतो विष्णुः प्रसन्नो भवति क्षणात्॥" इत्य् आरभ्य [नरसिंहप्]
[114.5] "युष्मद् आगमनं सर्वं जानाम्य् असुरमर्दनाः ।
[114.6] हिरण्यकविनाशार्थं स्तुतो ऽहं शङ्करेण च ॥ इत्य् उक्त्वा [नरसिंहप्]
[114.7] हिरण्यकवधानन्तरं
[114.8] "तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः ।
[114.9] दृष्ट्वा भयानकं रूपं वित्रेसुर् देवदानवाः ॥" [नरसिंहप्]
[114.10] इत्य् आरभ्योक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य:
[114.11] "तस्मिन् भगवति क्रुद्धे नृसिंहे परमात्मनि ।
[114.12] प्रवेपितं जगद् इदं देवेशे कुपिते भृशम् ॥ [नरसिंहप्]
[114.13] त्वत्तो हि नान्यश् शरणं देवानाम् इह विद्यते ।
[114.14] नरसिंहसमुद्भूतं भयं नाशय मे हरे ॥" [नरसिंहप्]
[114.15] इत्यादिना रुद्रप्रार्थनादिकम् उक्त्वा
[114.16] "हतो हिरण्यकशिपुः येन दैत्यो महाबलः ।
[114.17] को नश् शमयिता तस्य कोपस्य हरिमेधसः ॥ [नरसिंहप्.]
[114.18] त्वं मे जनयिता देव स ते जनयिता हरिः ।
[114.19] तस्य देवस्य कश् शक्तो विष्णोर् वै निग्रहे भवेत् ॥ [नरसिंहप्]
[114.20] यद् भयात् पवते वायुः सूर्यस् तपति यद् भयात् ।
[114.21] यद् भयाद् धरणी धत्ते निग्रहे तस्य कः प्रभुः ।
[114.22] तथाप्य् उपायो दृश्यो मे परमेण समाधिना ॥ [नरसिंहप्]
[114.23] कृते तस्मिन् भवेच् छ्रेयः तूष्णीं भावो न रोचते ।
[114.24] अश्वानां महिषः शत्रुः वारणानां मृगाधिपः ॥ [नरसिंहप्.]
[115.1] वानराणां तथा मेषः फणीनां गरुडः स्मृतः ।
[115.2] मूषकानान् तु मार्जारो मृगाणां श्वा प्रकीर्तितः ॥ [नरसिंहप्.]
[115.3] वायसानां दिवाभीतः सिंहानां शरभस् तथा ।
[115.4] ततो निर्मापयिष्यामः शरभं भयशान्तये ॥ [नरसिंहप्.]
[115.5] शरभो ऽधिष्ठितो ऽस्माभिः नृसिंहं शमयिष्यति ।
[115.6] इत्य् एवम् उक्त्वा भगवान् ससर्ज शरभं तथा ॥ [नरसिंहप्.]
[115.7] यस्य सन्दर्शनाद् एव त्रस्तमासीज् जगत्त्रयम् ।
[115.8] ततस् तस्य भवानीशः तुण्डस्थानम् अरोचत ॥ [नरसिंहप्]
[115.9] पृष्ठभागे चतुर्वक्तं तस्य रुद्रो न्यवेशयत् ।
[115.10] सोमसूर्यौ नयनयोः मारुतं पक्षयोर् द्वयोः ॥ [नरसिंहप्]
[115.11] पादेषु भूधरान् सर्वान् शिवस् तस्य न्यवेशयत् ।
[115.12] एवं निर्माय शरभं भवः प्रमथनायकः ॥ [नरसिंहप्]
[115.13] जगर्ज नरसिंहं तं समुद्दिश्य भयानकम् ॥" [नरसिंहप्]
[115.14] इति शरभनिर्माणादिकं प्रतिपाद्य
[115.15] "ततः क्षणेन शरभो नादपूरितदिङ्मुखः ।
[115.16] अभ्याशम् अगमद् विष्णोः निनदन् भैरवं स्वनम् ॥ [नरसिंहप्]
[115.17] तम् अभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा ।
[115.18] जघान निशितैर् उग्रैः नखैर् नखवरायुधः ॥ [नरसिंहप्]
[115.19] निहते शरभे तस्मिन् रौद्रे मधुविघातिना ।
[115.20] तुष्टुबुः पुण्डरीकाक्षं देवा देवर्षयस् तथा ॥" [नरसिंहप्]
[115.21] इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम्.
[115.22] गारुडे अष्टनवतितमाध्याये:
[115.23] "हन्तुं अभ्यागतं रौद्रं शरभं नरकेसरी ।
[115.24] नखैर् विदारयामास हिरण्यकशिपुं यथा ॥ [गरुडप् ]
[116.1] निकृत्तबाहूरुशिराः वज्रकल्पमुखैर् नखैः ।
[116.2] मेरुपृष्ठे नृसिंहेन शरभस् सहसापतत् ॥" [गरुडप् ]
[116.3] पाद्मे: "तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ ।
[116.4] विनाशं जग्मतुर् देवौ नृसिंहशरभाव् इति ॥ [पद्म.प् ]
[116.5] ततः क्रुद्धो महाबाहुः नृसिंहो भीमनिस्स्वनः ।
[116.6] सहस्रकरपन्नेत्रः*{849}* तस्य गात्राण्य् अकर्तयत् ॥ [पद्म.प् ]
[116.7] पतितं भीमम् अत्युग्रं गतांसुं द्रष्टुम् आगताः ।
[116.8] ऋषयो देवगन्धर्वा यत्र शेते भवो हरः ॥ [पद्म.प् ]
[116.9] तं दृष्ट्वा परमं जग्मुः विस्मयन्तु दिवौकसः ।
[116.10] पशशंसुस् तथा कर्म नृसिंहस्य महाद्भुतम् ॥" इति [पद्मप् ]
[116.11] श्रीभागवते: "ततस् त्वरितम् आदाय रुद्रं शरभरूपिणम् ।
[116.12] विददार नखैस् तीक्ष्णैः हिरण्यकशिपुं यथा ॥" इति [भागवतप् ]
[रुद्रोपासकानां शूद्रतुल्यत्वम्]
[116.13-14] किञ्च आनुशासनिके उमामहेश्वरसंवादे भगवतो ऽङ्गभावेन विना रुद्रोपासनं कुर्वतां शुद्रतुल्यत्वम् उक्तम्. यथा दक्षाध्वरे:
[116.15] रुद्राणी: अहं ज्येष्ठा विशिष्टा च तस्मात् त्वं मां सुपूजय ।
[116.16] दक्ष: न तु ज्येष्ठा विशिष्टा त्वं मम पूज्या इमास् सुराः*{850}* ॥" [म्भ् ]
[116.17] इत्यादिना रुद्राणीदूषणम् अध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते.
[116.18] "एतद् वंशसमुद्भूतैर् अस्पृश्यस् त्वं भविष्यसि ।
[116.19] नैतद् वंशेषु यः कश्चित् त्वद्भक्तो हि जनिष्यति ॥ [म्भ् ]
[116.20] अजानात् त्वां हि यः कश्चित् मुनिर् वा ब्राह्मणो ऽपि वा ।
[116.21] अनुजीवति चेत् तस्मात् तुल्यश् शूद्रेण गर्हितः ॥ [म्भ् ]
[116.22] भवेद् देवलकश् चैव रुद्रकाल्युपजीवकः ॥" इति [म्भ् ]
!{849}! लिएस्: सहस्रकरवन्नेत्रः.
[बोधायनादीनां परमैकान्तित्वाभावे हेतवः]
[कात्यायनसूत्रिणां परमैकान्तित्वाभावः]
[116.23-117.2] अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात् बोधायनापस्तम्बादिसूत्रेषु षद्विधतात्पर्यलिङ्गाभावात् तेषां सृष्टिकालाद् आरभ्य नारायणैकपरत्वाभावात् नानादेवतोपासकत्वदर्शनाच् च परमैकान्तित्वं न सम्भवति. एवं कात्यायनसूत्रिणाम् अपि:
[117.3] "ब्राह्मवैष्णवरौद्रैस् तु सावित्रैर् मैत्रवारुणैः ।
[117.4] तल्लिङ्गैर् एव मन्त्रैस् तु अर्चयेत् तु समाहितः ॥" [कात्यायनसूत्र]
[117.5] इति प्रतिपादनात् न परमैकान्तित्वम्.
[117.6] द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनम् उक्तम्.
[117.7-9] अतः श्रीमन्नारायणैकपरत्वात् परमैकान्तित्वं श्रीमद्वैखानसानाम् एवेति प्रतिज्ञा कर्तुम् उचिता. एवं "अखिलजगदेककारणश्रीमन्नारायणैकपरत्वात्" इति नवमहेतुर् निरूपितः.
[117.10] इति नवमहेतुनिरूपणम्.
[दशमहेतुनिरूपणम्]
[वैखानसानां भगवत्प्रियतमत्वम्]
[118.1-3] अथास्य श्रीवैखानससूत्रस्य शीमन्नारायणैकपरत्वाद् तत्सूत्रानुष्ठानवताम् एव भगवत्प्रियतमत्वम् उपपद्यत इति प्रतिपादनाय "भगवत्प्रियतमत्वोपपत्तेर्" इति दशमहेतुर् निरूप्यते.
[118.4-5] छन्दोगब्राह्मणे: "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्"*{851}* इति. अत्र इन्द्रशब्दः परमात्मपर इति पूर्वम् एवोक्तम्.
[118.6] वाराहे: "अश्वत्थः कपिला गावः तुलसी विखनास् तथा* ।{852}*
[118.7] चत्वारो मत्प्रिया राजन् तेषां वैखानसो वरः* ॥{853}* [वराहप्]
[118.8] यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः ।
[118.9] यत्र बिल्वाः पलाशाश् च तत्र सन्निहितो हरिः* ॥{854}*" इति [वराहप्]
[118.10] कौर्मे: "मच्चिता मद्गतप्राणा मयि सङ्गतमानसाः ।
[118.11] अनन्यशरणा राजन् तस्माद् वैखानसा वराः* ॥{855}*" [कूर्मप् ]
[118.12] पाञ्चरात्रे पौष्करे: "विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* ॥{856}* [पौष्करस् 36.260च्द्]
[118.13] एकन्तिनः*{857}* सुसत्वस्था देहान्तं नान्ययाजिनः ।
[118.14] कर्तव्यम् इति देवेशं संयजन्ते फलं विना* ॥{858}* [पौष्करस् 36.261]
[118.15] प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज* ॥{859}* [पौष्करस् 36.262अब्]
[देवार्चनपराणां श्रैष्ठ्यम्]
[118.16] बृहन्नारदीये: "देवार्चनपरा ये च ये च तत्साधका नराः ।
[118.17] पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥ [बृहन्नारदप्.]
[118.18] यस् तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा ।
[118.19] स भवेत् परमैकान्ती महाभागवतोत्तमः ॥ [बृहन्नारदप्.]
[118.20] य ऐकान्त्यगता विष्णौ भगवत्यात्मभावने ।
[118.21] ते वैष्णवा भागवतास् सन्त इत्य् अपि कीर्तिताः ॥ [बृहन्नारदप्]
!{851}! छान्दोग्यब्र् 2.23.1; एबेन्fअल्ल्स् zइतिएर्त् इन् ध्न्[द्] 21.8, 41.8 उन्द् 61.13-15.
[विष्णुनिवेदितान्नादेः भोज्यत्वम्]
[119.1] मन्मानसाश् च मद्भक्ता मम पूजासु लोलुपाः ।
[119.2] मत्कथाश्रवणे सत्तास् ते वै भागवताः स्मृताः ॥" इति [बृहन्नारदप्]
[119.3] "ये ऽर्चयन्ति नरा भक्त्या नारायणम् अनामयम् ।
[119.4] तान् अर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः* ॥{860}*
[119.5] मयि भक्तिपरो यस् तु मद्याजी मत्परायणः ।
[119.6] मद्ध्यानी स्वकुलं सर्वं नयत्य् अच्युतरूपताम् ॥
[119.7] ये ऽर्चयन्ति सदा विष्णुं न ते प्राकृतमानुषाः ।
[119.8] विष्णुलोकात् समुत्पन्नास् ते देवा नात्र संशयः ॥ [आस् 14.58]
[119.9] नाविष्णुर् जयते विष्णुर् नाविष्णुर् विष्णुम् अर्चयेत्*{861}* ।
[119.10] रूपद्वयं हरेः प्रोक्तं बिम्बम् अर्चक एव च ॥ [क्र 36.59च्द्]
[119.11] बिम्बे त्व् आवाहनाद् ऊर्ध्वं सदा सन्निहितो ऽर्चके । [क्र 36.60अब्]
[119.12] अर्चकस् तु प्रसन्नात्मा हरिर् एव न संशयः ॥
[119.13] कलिः कृतयुगस् तेषां क्लेशाश् चैव सुखावहाः ।
[119.14] येषां शरीरम् अनिशं हरिशुश्रूषणे रतम् ॥" इति
[119.15] भागवते: "सा वाग् अनन्तरस्य*{862}* गुणान् गृणीते करौ च तत्कर्मकरौ मनश् च ।
[119.16] स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास् स कर्णः* ॥{863}*
[119.17] शिरश् च तस्याङ्घ्रिषु नम्रमाणं तम् एव यः पश्यति तद्धि चक्षुः ।
[119.18] अङ्गानि विष्णोर् अथ तज्जनानां पादोदकं यानि वहन्ति नित्यम्* ॥{864}* [भागवतप् 10.80.4]
[119.19] हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।
[119.20] पादोदकञ् च निर्माल्यं यस्य मूर्ध्नि स वैष्णवः ॥" इति [भागवतप् ]
!{860}! औछ् zइतिएर्त् इन् ध्न्[द्] 60.15-16.
[119.21-120.3] श्रुतिर् अपि: "तद् अस्य प्रियम् अभिपाथो अश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः" इति. अस्यार्थः: विष्णोः ऽप्रियंऽ; तत्पाथः निवेदितम् अन्नादिकम् ऽअभ्यश्याम्ऽ. ऽदेवयवो नराःऽ; देवाराधकाः ऽयत्र मदन्तिऽ; यस्मिन् निवेदिततीर्थप्रसादादिके स्वीकृते ऽमदन्तिऽ; हृष्टा भवन्ति. यद्वा: ब्रह्मादीन् अपि न गणयन्ति. ऽइत्थाऽ; इत्थं प्रतिदिनं वर्तमानः ऽउरुक्रमस्य विष्णोर् बन्धुःऽ; जात्येकवचनम्. स एवातीवाभिमतः ऽपरमेऽ; सर्वोत्कृष्टे ऽमध्वेऽ; मधुवत् भोग्यतमे विष्णोः पदे ऽउत्सऽ; उत्सुकः. यद्वा उत्कृष्टः.
[120.4-5] श्रुत्यन्तरे: "विष्णुनाशितम् अश्नन्ति विष्णुना पीतं पिबन्ति विष्णुन घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद् विद्वांसो विष्णूपहृतं भक्षयेयुः" इति.
[120.7] भागवते: "त्वयोपभुक्तस्रग्गन्ध वासो ऽलङ्कारचर्चिताः ।
[120.8] उच्छिष्टभोजिनो दासास् तव मायां तरेमहि* ॥{865}*" इति [भागवतप् 11.6.46]
[120.9] हारीत: "कृपादत्तं हस्तगतं विष्णुभुक्तोज्झितन्तु यत् ।
[120.10] उपवासछलान्नात्ति तेन भुक्तं सुरोपमम् ॥" इति
[120.11] भृगु: "हविः कृत्वा चतुर्भागम् ऊर्ध्वभागौ निवेदयेत् ।
[120.12] अधस्ताद् एकभागेन होम बलिम् अथाचरेत् ॥
[120.13] यदंशं पात्रसंशिष्टं पूजकायैव निर्मितम् ।
[120.14] अग्निकार्यावशिष्टञ् च बलिशिष्टञ् च यद् धविः ।
[120.15] सर्वं तत्पूजकायैव प्रोक्तम् एवं मनीषिभिः ॥" इति
[120.16] यज्ञाधिकारे भृगु: "आत्मनश् च चतुर्थांशं वैश्वदेवार्थम् अर्चकः ।
[120.17] आदाय वैश्वदेवान्ते शिष्टान्नं भोजयेत् पुनः ॥ [य्.अ ]
[120.18] बलिशेषं होमशेषं वैश्वदेवे विशेषतः ।
[120.19] गृह्णीयाद् वैश्वदेवार्थं भोजनार्थञ् च ऋत्विजः ॥" इति [य ]
[120.20-23] काश्यप: "सर्वहविः पात्रेषु शिष्टम् अन्नं सर्वं भगवन्निवेदितम् अपूपादिकञ् च पूजका गृह्णीयुः. यथा गुरोर् उच्छिष्टं पुत्रशिष्यभृत्यानां भोज्यं. तथा सर्वस्य रक्षितुः सौम्यमूर्ते सर्वव्यापिनो विष्णोः जगद्गुरोर् निवेदितम् अन्नाद्यं विश्वं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमताम् अभोज्यम्" इति.
[120.24] श्रीपाञ्चरात्रे ईश्वरसंहितायां समाराधनाध्याये
[120.25] स्कन्द: "त्वया निषेध आख्यातो मन्त्रदत्तस्य वस्तुनः ।
[120.26] सर्वस्य पत्रपुष्पान्न पूर्वस्य परमेश्वर ॥ [ईश्वरस् ]
!{865}! भागवतप्: त्वयोपभुक्तस्रग्गन्धवासो ऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास् तव मायां जयेम हि.
[अर्चावतारस्य सकललोकोज्जीवनार्थता]
[121.1] तस्येदानीं प्रदानञ् च प्राशनञ् च प्रशंससि ।
[121.2] किम् एतद् अत्र मे जातस् संशयः परमेश्वर ॥ [ईश्वरस् ]
[121.3] ईश्वर:प्रदानं प्राशनं पुत्र उपभोग्यत्वम् एव च ।
[121.4] शैवे पाशुपते दृष्टम् अचिराद् एव पापकृत् ॥
[121.5] तत्पुनर् वैष्णवे मार्गे वर्तते व्यत्ययेन तु ।
[121.6] अनन्तफलदं दानात् प्राशानात् कोष्टशुद्धिकृत् ॥" इति [ईश्वरस् ]
[121.7] तत्रैव देवतार्चने: "कर्षं नयति पापानि पुण्यवृद्धिं करोति च ।
[121.8] दानैर् धर्मैः तथा पुण्यैस् तपोभिश् च न तत्फलम् ॥ [ईश्वरस् ]
[121.9] भगवद्भक्तिपूतानां यत्फलं प्रापणादनात् ॥" इति [ईश्वरस् ]
[121.10] अन्यत्र: "सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः ।
[121.11] स याति विष्णोः परमं पदं यद्देहावसाने ऽच्युततुल्यतेजाः ॥" इति
[121.12] अन्यत्र: "नारायणैकनिष्ठा ये सात्त्विकास् तान् निबोधत ।
[121.13] पुरुषा राजसाश् चैव नानादैवतयाजिनः ॥
[121.14] बाह्या निर्देवताश् चैव तामसाः परिकीर्तिताः ।
[121.15] रजस्तमो ऽभिभूतानां न तु मोक्षः कथञ्चन ॥" इति
[121.16] पुराणान्तरे: "यत्रैव पूज्यते विष्णुर् विधिना प्रयतैर् नरैः ।
[121.17] न तत्र ह्य् आधिदौर्गत्य व्याधिचौरादिकं भयम् ॥" इति
[121.18] किञ्च: "नित्यमुक्तोपभोग्यत्वात् परव्यूहात्मनो हरेः ।
[121.19] तत्कालसन्निकृष्टैक लक्ष्यत्वाद् विभवात्मनः ॥ [आ.स् 14.14]
[121.20] विशुद्धैर् योगसंसिद्धैश् चिन्त्यत्वाद् अन्तरात्मनः ।
[121.21] अर्चात्मन्य् एव सर्वेषाम् अधिकारो निरङ्कुशः ॥ [आ.स् 14.15]
[121.22] अर्चावतारविषये ममाप्य् उद्देशतस् तथा*{866}* ।
[121.23] उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैर् अपि ॥ [आ.स् 14.16]
[122.1] एवं पञ्चप्रकारो ऽहम् आत्मनां पततामधः ।
[122.2] पूर्वस्माद् अपि पूर्वस्मात् ज्यायांश् चैवोत्तरोत्तरः ॥ [आ.स् ]
[122.3] सौलभ्यतं*{867}* जगत्स्वामी सुलभो ह्य् उत्तरोत्तरः ॥" [आस् ]
[122.4-7] इति प्रतिपादितरित्या भगवतः परत्वादिषु सौलभ्याभावात् अखिललोकसमुज्जीवनार्थम् अर्चावतारः. तदेकपरत्वाद् वैखानसाः तत्प्रियतमाः. एतदृशनारायणायणैकपरत्वाभावाद् बोधायनस्य आपस्तम्बादीनाञ् न कथञ्चद् अपि परमैकान्तित्वं भगवत्प्रियतमत्वञ् च सम्भवति.
[122.8-9] एवं च वैखानसानाम् एव परमैकान्तित्वं भगवत्प्रियतमत्वञ् चोपपद्यते इति सर्वं समञ्जसम् इति दशमो हेतुर् निरूपितम्.
[122.10] इति दशमहेतुनिरूपणम्
[122.11-14] इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दसपर्यानिरतस्य सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखिवेदान्तदेशिकस्य कृतिषु श्रीवैखानससूत्रतात्पर्यचिन्तामणौ दशविधहतुनिरूपणम् उपोद्घातभागः समाप्तः.
!{866}! आस्: गुरुणोद्दिश्य माम् पुरा.
मूल पाठ: Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi) · Edition: (pp. 1-122) the of the Devanāgarī-ed. by R. Parthasarathi Bhattacarya: Śrīvaikhānasagṛhyasūtra (= DHN[D]); 2 vols., Akulamannāḍu, 1967 (reprint Tirupati, 1997/98). · Data entry Ute Hüsken · GRETIL (Göttingen) · CC BY-NC-SA 4.0