भाषा

ENहिગુ
ग्रंथ पाठ

दशविधाहेतुनिरूपण · भाग 120

अब्क्üर्zउन्ग्स्वेर्zएइछ्निस्
अग्निप्: अग्निपुराणम्.
आपस्तम्बध्स्: आपस्तम्बीयधर्मसूत्रम्.
आपस्तम्बगृस्: आपस्तम्बगृह्यसूत्रम्.
आस्: आनन्दसंहिता.
अष्टध्यायी: पानिनिऽस् अछ्त् ब्üछेर् ग्रम्मतिस्छेर् रेगेल्न्.
आश्वलायनगृस्: आश्वलायनगृह्यसूत्र.
अव्: अथर्वसंहिता.
भागवतप्: श्रीमद् भागवत महापुराणम्.
बौध्ध्स्: दस् बौधायन-धर्मसूत्र.
बौध्गृस्: थे बोधायन गृह्यसूत्र.
बौध्गृशेष्स्: प्प्. 177-376 इन् बौध्गृस्.
भ्गी: भगवद्गीता. स्. म्भ् (6.23.1-40.78).
ब्रह्मकैवर्तप्: श्रीब्रह्मवैवर्तपुराणम्.
ब्रह्माण्डप्: ब्रह्माण्डपुराण ओf कृष्ण द्वैपायन व्यास.
ब्रह्मप्: सन्स्क्रित् इन्दिचेस् अन्द् तेxत् ओf थे ब्रह्मपुराण.
बृहद्ब्रह्मस्: बृहद्ब्रह्मसंहिता.
छान्दोग्यब्र्: छान्दोग्यब्राह्मण.
छान्दोग्यौ: ख्âन्दोजोपनिस्हद्.
ध्न्[द्]: दशविधहेतुनिरूपण ब्य् श्रीनिवास दीक्षित.
ध्न्[त्]: दशविधहेतुनिरूपण ब्य् श्रीनिवास दीक्षित [तेलुगु छरच्तेर्स्]
ध्न्व्: दशविधहेतुनिरूपणव्याख्यान
गर्भौ: गर्भोपनिषद्.
गरुडप्: श्रीगरुडमहापुराणम्.
गौतमध्स्: थे इन्स्तितुतेस् ओf गौतम.
गोभिलगृस्: गोभिलीयगृह्यसूत्र.
गृह्यपरिशिष्टस्: वैखानसगृह्यपरिशिष्टसूत्र.
हरिव्: थे हरिवंश (सुप्प्ल्. तो म्भ्).
हिर्गृस्: हिरण्यकेशिगृह्यसूत्रम्.
ईश्वरस्: ईश्वरसंहिता.
जयाख्यस्: जयाख्यसंहिता.
कैवल्यौ: कैवल्योपनिषद्.
कपिञ्जलस्: कपिञ्जलसंहिता.
काठकगृस्: थे काठकगृह्यसूत्र.
ख: खिलाधिकार (खिलतन्त्र)
खादिरगृस्: खादिरगृह्यसूत्रम्.
क्ज्क्: ज्ञानकाण्ड (काश्यपसंहिता).
क्र: क्रियाधिकार.
कूर्मप्: श्री-कूर्ममहापुराणम्.
लिङ्गप्: लिङ्गमहापुराणम्.

महाउ: महोपनिषद्.
मनुध्श्: थे मनु स्मृति.
मनुगृस्: मानवगृह्यसूत्र ओf थे मैत्रायणीय शाखा.
मर्कण्डेयप्: श्री-मार्कण्डेयमहापुराणम्.
मत्स्यप्: मत्स्यमहापुराणम्.
म्भ्: महाभारत.
मोप्: मोक्षोपायप्रदीपिका ब्य् रघुपतिभट्टाचार्य.
मुद्गलौ: मुद्गलोपनिषद्.
मुण्डकौ: मुण्डकोपनिषद्.
नारदप्: नारदपुराण.
नरसिंहप्: नृसिंहपुराण.
निरुक्त: [यास्क] थे निघन्तु अन्द् थे निरुक्त.
न्व्ब्: वैखानसकल्पसूत्रभाष्य (वैखानससूत्रभाष्य; वैखानसगृह्यसूत्रभाष्य).
पद्मप्: श्री पद्ममहापुराणम्.
पाद्मस्: पाद्म सम्हिता.
पारमेश्वरस्: पाञ्चरात्रान्तर्गता पारमेश्वरसंहिता.
पराशरस्: पराशर संहिता.
पार्गृस्: पारस्करगृह्यसूत्र.
पौष्करस्: पाञ्चरात्रागमे रत्नत्रयान्तर्गता पौष्करसंहिता.
प्र: प्रकीर्णाधिकार.
प्र्: श्री पाञ्चरात्ररक्षा.
पुरातन्त्र: पुरातन्त्र.
पूर्वप्: पूर्वप्रयोग.
राम्: थे पाद इन्देx ओf थे वाल्मिकि रामायण.
ऋव्: थे ह्य्म्न्स् ओf थे रिग्-वेद इन् थे सम्हित अन्द् पद तेxत्स्.
स: समूर्तार्चनाधिकरण.
साम्बप्: साम्बपुराणम्.
सम्मयू: संस्कारमयूख.
सनत्क्स्: सनत्कुमार-संहिता ओf थे पाञ्चरात्रागम.
शाङ्खायनगृस्: शाङ्खायनगृह्यसूत्र.
सनुक्र्: सूत्रानुक्रमणिका.
शतपथब्र्: थे शतपथ ब्राह्मण इन् थे काण्वीय रेचेन्सिओन्.
सात्त्वतस्: सात्वत-संहिता.
स्द्: सूत्रदर्पण (श्रीवैखानससूत्रदर्पण).
स्द्च्: श्रीनिवासदीक्षितेन्द्रचरित्र.
शेषस्: शेषसंहिता - श्रीपाञ्चरात्राभिधा भगवच्छास्त्रे सकलसंहितासारभूता शेषसंहिता.
स्कन्दप्: थे स्कन्दपुराण.
श्रीप्रश्नस्: श्रीप्रश्न सम्हिता.
स्र्-वृत्ति: प्रयोगवृत्ति.
सुप्रभेदा: [सुप्रभेदागम] सुप्रपेताकमम्.

श्वेतु: श्वेताश्वतरोपनिषद्.
स्य्-न्: निबन्धन.
ता: तैत्तिरीयारण्यकम्.
त्ब्: थे तैत्तिरीय ब्राह्मण ओf थे ब्लच्क् यजुर् वेद.
त्प्च्: तात्पर्यचिन्तामणि.
त्स्: थे तैत्तिरीय संहिता ओf थे ब्लच्क् यजुर्वेद.
व: वासाधिकार (वासनाधिकार).
वैख्स्म्स्: वैखानसस्मार्तसूत्र.
वराहप्: श्री वराहपुराणम्.
वासिष्ठध्श्: वासिष्ठधर्मशास्त्र.
विष्णुध्: विष्णुधर्मः.
विष्णुधर्मोत्तरप्: श्रीविष्णुधर्मोत्तरपुराणम्.
विष्णुप्: श्रीविष्णुमहापुराणम्.
विष्णुस्मृति: विष्णुस्मृतिः.
विष्वक्सेनस्: विष्वक्सेन संहिता.
विश्वमित्रस्: विश्वामित्रसंहिता.
विवाहप्: विवाहप्रयोग.
व्क्: विमानार्चनकल्प (वैखानसागम, मरीचिसंहिता).
व्म्म्: वैखानसमहिममञ्जरी.
व्म्प्: वैखानसमन्त्रप्रश्न (वैखानससंहिता).
वृद्धहारीत: वृद्धहारीतस्मृति.
व्य्-वृत्ति: वृत्ति देस् वसन्तयाजिन्.
य: यज्ञाधिकार
याज्ञवल्क्यध्श्: याज्नवल्क्य स्मृति.
दशविधहेतुनिरूपण
[मङ्गलाचरणम्]
[1.1] श्रीमद्विखनस महागुरवे नमः ।
[1.2] श्री श्रीनिवास परब्रह्मणे नमः ॥
[1.3-4] श्री श्रीनिवासमखिकृते श्रीवैखानसगृह्यसूत्रतात्पर्यचिन्तामणौ दशविधहेतुनिरूपणम्
[1.5] वैखानसकुलोद्भूतं वेङ्कटेशार्चनारतम्*{3}* ।
[1.6] वेदान्तदेशिकं वन्दे श्रीनिवासार्यदीक्षितम् ॥
[1.7] श्रीवेङ्कटेशम् अखिलेशम् अनन्तम् आद्यं कारुण्यवारिधिम् अशेषसुरैस् सुवन्द्यम् ।
[1.8] वन्दे समस्तजगतां स्थितिसृष्टिहेतुं मान्यान् गुरूंश् च शतशो*{4}* भृगुकश्यपादीन् ॥
[1.9] श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङ्कुलम् ।
[1.10] विष्णुभक्त्युदकं शुद्धं वन्दे वैखानसार्णवम्* ॥{5}*
[1.11] येनान्यकॢप्तसूत्राणां*{6}* नेत्रं निस्तिमिरीकृतम् ।
[1.12] सूत्रं वैखानसं ह्य् एतत्*{7}* चतुर्वर्गफलप्रदम् ॥
[1.13] श्रुतिस्मृतीतिहासाद्यैः प्रतिपादितवैभवाम् ।
[1.14] परमात्मपरां वन्दे सूत्रोपनिषदं पराम् ॥
[व्याख्यानकर्तृगोत्रनामादि]

[1.15] श्रीमत्कौशिकवंश्येन*{8}* गोविन्दाचार्यसूनुना ।
[1.16] श्रीवेङ्कटेशपादाब्जसपर्यासु रतात्मना ॥
[1.17] श्रुतिस्मृतिपुराणादिसिद्धमार्गानुवर्तिना ।
[1.18] पूर्वाचार्यपरिक्षुण्णसम्प्रदायानुयायिना ॥
[1.19] वेदान्ताचार्यवर्येण श्रीनिवासार्ययज्वना ।
[1.20] वैखानसस्य सूत्रस्य व्याख्या सम्यक् प्रकाश्यते ॥
!{3}! ध्न्[त्] 1: वेङ्कटेशार्चनावरम्.
[विखानससूत्रस्य तदनुयायिनां च सर्वोत्कृष्टत्वे दशविधहेतूनां निर्देशः]
[2.1-3] अथ सत्यत्वादिसमस्तकल्याणगुणविशिष्टात् परब्रह्मणः श्रीमन्नारायणाद् उत्पन्नेन विखनश्शब्दवाच्येन चतुर्मुखब्रह्मणा प्रणीतस्य वैखानससूत्रस्य सर्वसूत्रोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणां सर्वोत्कृष्टतमत्वे च दशविधहेतवो निरूप्यन्ते.
[2.4] यथा:
[2.5-9] अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वात्.*{9}* सर्वसूत्राणाम् आदित्वात्.*{10}* सर्वकर्मसु श्रुतिमार्गानुसारित्वात्.*{11}* समन्त्रकसर्वक्रियाप्रतिपादकत्वात्.*{12}* निषेकसंस्कारादिमत्वात्.*{13}* अष्टादशशारीरसंस्कारप्रतिपादकत्वात्.*{14}* साङ्गक्रियाकलापवत्त्वात्.*{15}* मन्वाद्यैः स्वीकृतत्वात्.*{16}* अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वात्.*{17}* एतत्सूत्रोक्तधर्मानुष्ठानवताम् एव भगवत्प्रियतमत्वोपपत्तेश् च.*{18}* इति.
[2.10-12] एभिर् हेतुभिर् अस्य सूत्रस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्तधर्मानुष्ठानाद् एव वैखानसानां सर्वेभ्यः श्रेष्ठतमत्वाञ् च श्रुतिस्मृतिपुराणादिमुखेन प्रतिपाद्यते. तत्रादौ अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वाद् इति हेतुर् निरूप्यते.
[2.13] विखनश्शब्दार्थनिर्णयः
[नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वम्]
[2.14] विखना नाम कश्चिद् ऋषिः, उत नारायणः? नारायण एव केवलं.
[2.15-16] मुनिमात्रस्य वैखानसशब्दवाच्यत्वेन प्रतिपादनाभावात्. परमात्मनो नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वं श्रुतिस्मृतिपुराणादिष्व् अवगम्यते. यथा:
[2.17] खिलश्रुतौ: "धेनुर् वहाणाम् अदितिस् सुराणां ब्रह्मा ऋभूणां विखना मुनीनाम्".
[2.18-19] इति श्रुयते. अयम् अर्थः. वहानां अतडुदादीनां धेनुः उत्पत्तिकारणम्. सुराणां इन्द्रादीनाम् अदितिः. ऋभूणां:
[2.20] "साध्या विश्वे च वसवो मरुतो ऋभवस् तथा ।
[2.21] तथैवाङ्गिरसो रुद्रा आदित्याश् च तथैव च ।
[2.22] एते देवगणाश् चाष्टौ मन्वन्तरगणेश्वराः ॥"
[2.23] इति भृगूक्तानां साध्यादीनां ब्रह्मा. मुनीनां मुनिशब्दवाच्यानां विखनाः.
[2.24] ब्रह्मणो मुनिशब्दवाच्यत्वं भारते चावगम्यते
[2.25] "निशां सुप्त्वाथ भगवान् क्षपान्ते प्रत्यबुद्ध्यत* ।{19}* [म्भ् 13, अप्प्. 3.265]
[3.1] पश्चाद् बुद्ध्वा ससर्जापः तासु वीर्यम् अवासृजत्* ॥{20}* [म्भ् 13, अप्प्. 3.266]
[3.2] तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् । [म्भ् 13, अप्प्. 3.267]
[3.3] अहङ्कृत्या*{21}* ततस् तस्मिन् ससर्ज प्रभुर् ईश्वरः । [म्भ् 13, अप्प्. 3.268]
[3.4] हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजं*{22}* मुनिम् ॥" इति [म्भ् 13, अप्प्. 3.269]
[3.5] अण्डबहुत्वाभिप्रायेण मुनीनाम् इति बहुवचनम्. यथा
[3.6] "अण्डानान् तु सहस्राणां सहस्राण्य् अयुतानि च ।
[3.7] ईदृशानाम् अनन्तानां कोटिकोटिशतानि चे॥"ति स्मरणात्.
[3.8] निशा चात्र प्रलयः, सा एतावतीति कुत्रावगम्यत इति चेत्.
[3.9] महाभारते: "चतुर्युगसहस्राणि चतुर्युगशतानि च*{23}* । [म्भ् 13, अप्प्. 3.261]
[3.10] प्राहुः कल्पसहस्रन् तु*{24}* ब्राह्मणास् तत्त्वदर्शिनः । [म्भ् 13, अप्प्. 3.262]
[3.11] दशकल्पसहस्राणि अप्य् अयस् सा महानिशा*{25}* ॥" इति. [म्भ् 13, अप्प्. 3.263]
[3.12-13] अनया खिलश्रुत्या भगवतो विखनश्शब्दवाच्यत्वं कथम् अवगम्यत इति चेत् उच्यते.
[इतिहासपुराणाभ्याम् एव वेदार्थस्य निर्णेयत्वम्]
[3.14] "दुर्बोधा वैदिकाश् शब्दा प्रकीर्णत्वाच् च ये खिलाः ।
[3.15] तद्ज्ञैस् त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥"*{26}* इति
[3.16] "यदि विद्याच् चतुर्वेदान् साङ्गोपनिषदान् द्विजः ।

[3.17] न चेत् पुराणसद्विद्या न वेदार्थविचक्षणः ॥" इति
[3.18] "इतिहासपुराणाभ्यां वेदं समुपबृह्मयेत्*{27}* ।
[3.19] बिभेत्य् अल्पश्रुवाद्*{28}* वेदो माम् अयं प्रतरिष्यति ॥" इति च [म्भ् 1.1.204]
[3.20-21] स्मरणात् इतिहासपुराणाभ्याम् एवार्थनिर्णयः कर्तव्यः. भारते मोक्षधर्मे नारदस्तुतौ:
[3.22-23] "नमस् ते देवदेवेश"*{29}* इत्य् आरभ्य स्तोत्रमध्ये "फेनपाचार्य वालखिल्य विखनो विखनस वैखानसाचार्य अभग्नयोग अभग्नपरिसङ्ख्यान"*{30}* इति.
[3.24] तत्रैव: "यत् तस्मिन्न् उपलभ्यं ते तत् तेजस् तत् त्रयीमयम् ।
[3.25] तद् वैखानः परं ब्रह्म इति वेदविदो विदुः ॥" इति चोक्तम्. [म्भ् ]
!{28}! लिएस् मित् म्भ्: अल्पश्रुताद्.
!{29}! म्भ् 12.325.4अ: नमस् ते देवदेव.
!{30}! बेzउग् औf म्भ् 12.325.4ज्-क्: प्रथमत्रिसौपर्ण [91] पञ्चाग्ने [92] त्रिणाचिकेत [93] षडङ्गविधान [94] प्राग्ज्योतिष [95] ज्येष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98] पञ्चमहाकल्प [99] फेनपाचार्य [100] ॥ वालखिल्य्.अ [101] वैखानस [102] अभग्नयोग [103] अभग्नपरिसंख्यान [104] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] प्राचीनगर्भ [109] कौशिक [110]; स्.उ., ध्न्[द्] 10.1-3.
[विखनश्शब्दनिर्वचनम्]
[4.1-2] तथा नामसहस्राध्याये "वैखानस् सामगायनः"*{31}*" इति स्मर्यते.
[जगत्सृष्टिप्रयोजनम्]
[4.3] पञ्चरात्रे आत्मसंहितायाम्:
[4.4] "महाभूतेन भूतेन व्याप्तं विखनसा जगत् ।
[4.5] तम् एव शरणं गच्छ जगत्कारणम् अच्युतम् ॥" [आत्मसंहिता]
[4.6] इति शाण्डिल्येन शतानन्दम् अभिलक्ष्योक्तम्.
[4.7] वैखानसे आनन्दसंहितायां:
[4.8] "वेदान्ततत्त्वमीमांसाखननं कृतवात् हरिः* ।{32}*
[4.9] नाम्ना विखनसं प्राहुर् यञ् च वैखानसं तथा* ॥{33}*" इति प्रोक्तम्. [आस् ]
[4.10-12] अत्र खननशब्देन सङ्कल्प उच्यते. "सो ऽकामयत. बहु स्यां प्रजायेयेति स तपो ऽतयत"*{34}* इत्यादि श्रुतिभ्यः. अवाप्तसमस्तकामस्यापि भगवतः सृष्टिकार्ये प्रवृत्तिर् भवति.
[समष्टिसृष्टिलक्षणम्]
[4.13] ननु सत्यवादिसमस्तकल्याणगुणविशिष्टस्य भगवतः.
[4.14] "ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
[4.15] ज्ञानवैराग्ययोश् चैव षण्णां भग इतीरणा ॥"
[4.16] इति समग्रषाड्गुण्यपरिपूर्णस्य अवाप्तसमस्तकामस्य किमर्थं सृष्ट्यदिकम्*{35}* इति चेत् उच्यते.
[4.17] "अप्रमेयो ऽनियोज्यश् च यत्र कामगमो वशी । [म्भ् 2, अप्प्. 21.1605]
[4.18] मोदते भगवान् भूतैः बालः कीडनकैर् इव* ॥{36}*" [म्भ् 2, अप्प्. 21.1606]
[4.19] इत्यादि भारतवचनानुसारेण लीलार्थम् एवेति.
[4.20] जगद्सृष्ट्यादिलीलानुभवार्थं भगवता समष्टिसृष्टेर् अनन्तरं व्यष्टिसृष्टौ
[4.21-22] देवमनुष्यादिविविधविशेषसृष्ट्यर्थं चतुर्मुखसृष्टिं प्रति ध्यानं कृतम्. एषा चिदचिदात्मिका सृष्टिः भगवता क्रियते. व्यष्टिसृष्टिस् तु ब्रह्मणा. समष्टिसृष्टिर् नाम:
[4.23] "भूतैस् तु पञ्चभिः प्राणैः स्वान्तैर् दशभिर् इन्द्रियैः ।
[4.24] चतुर्विंशाति तत्त्वानि साङ्ख्यशास्त्रविदो विदुः ॥
!{31}! बेzउग् औf म्भ् 13.135.119: आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः.
[5.1] महान् कालः प्रधानञ् च मायाविद्या च पूरुषः ।
[5.2] इति पौराणिकाः प्राहुः त्रिंशत्तत्वानि तैस् सह ॥"
[व्यष्टिसृष्टिलक्षणम्]
[5.3-9] इति वचनात् तत्त्वसृष्टिर् इत्य् अवगम्यते. "स्वान्तैर्" इत्य् अनेन "मनो बुद्धिर् अहङ्कारश् चित्तञ् च करणान्य् अमी" इत्य् अन्तःकरणचतुष्टयम् उच्यते. व्यष्टिसृष्टिर् नाम: अण्डान्तर्वर्तिभूतजातसृष्टिः. "अजाम् एकां लोहितशुक्लकृष्णाम्" "नित्यो नित्यानाम् चेतनश् चेतनानाम्". इत्यादि श्रुतिभिः नित्यत्वेन श्रुतानां प्रकृतिपुरुषानां सृष्टिर् नाम प्रलयदशायां सूक्ष्मरूपेण अविभक्तनामरूपेण च परमात्मन्य् एकीभूतानां सृष्टिकाले परमात्मनो ऽनुप्रवेशानन्तरं स्थूलरूपवत्वं विभक्तनामरूपभाक्त्वञ् च. "तत् सृष्ट्वा". "तद् एवानुप्राविशत्. तद् अनुप्रविश्य. सच् च त्यच् चाभवत्" इत्यादि श्रुतेः.
[5.10] विष्णुपुराणे: "तद् एतद् अक्षयं नित्यं जगन्मुनिवराखिलम् ।
[5.11] अविर्भावतिरोभावजन्मनाशविकल्पवत्* ॥{37}* [विष्णुप् ]

[5.12] प्रकृतिं पुरुषञ् चैव प्रविश्यात्मेच्छया हरिः ।
[5.13] क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाप्ययौ ॥" इति [विष्णुप् ]
[5.14] गीतासु: "प्रकृतिं पुरुषम् चैव विद्ध्य् अनादी उभाव् अपि ।" [भ्गी = म्भ् 6.35.19अब्]
[5.15] मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् ।
[5.16] सम्भवस् सर्वभूतानां ततो भवति भारत ॥" [भ्गी = म्भ् 6.36.3]
[अण्डोत्पत्त्यादिप्रकारः]
[5.17-21] इति चोक्तरीत्या सृष्टिकाले जगद्योनिभूतं "महब्रह्म" तदीयं प्रकृत्याख्यम् आचिद्वस्तु*{38}* यत्, तस्मिन् चेतनाख्यं गर्भं योजयति. तत्कृताच् चिदचित्संसर्गात् देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां सम्भवो भवति. एवम् एव परमात्मना पञ्चीकृतानां भूतानां अन्योन्यसंयोगादिना अण्डोप्तत्त्यादिकं*{39}* श्रीविष्णुपुराणे प्रतिपाद्यते. यथा:
[5.22] "आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
[5.23] शब्दादिभिर् गुणैर् बह्म*{40}*संयुक्तान्य् उत्तरोत्तरैः ॥ [विष्णुप् 1.2.46]
[5.24] शान्ता घोराश् च मूढाश् च विशेषास् तेन ते स्मृताः ।
[5.25] नानावीर्याः पृथग्भूताः ततः ते संहतिं विना ॥ [विष्णुप् ]
!{37}! लिएस् मित् ध्न्[त्] 72: आविर्भावतिरोभावजन्मनाशविकल्पवत्.
[6.1] नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः ।
[6.2] समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ॥ [विष्णु.प् ]
[6.3] एकसङ्घातलक्ष्याश् च*{41}* संप्राप्यैक्यमशेषतः । [विष्णुप् 1.2.49च्द्]
[6.4] पुरुषाधिष्ठितत्वाच् चाप्य् अव्यक्तानुग्रहेण च* ॥{42}* [विष्णुप् 1.2.50अब्]
[6.5] महदाद्या विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते ।
[6.6] तत्क्रमेण प्रबुद्धं तज्*{43}* जलबुद्बुदवत्समम् ।
[6.7] भूतेभ्यो ऽण्डं महाबुद्धे प्रवृद्धम् उदकेशयम्* ।{44}*
[6.8] प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम् ॥ [विष्णु.प् 1.2.51]
[6.9] तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपी जगत्पतिः ।
[6.10] विष्णुर् ब्रह्मस्वरूपेण स्वयम् एव व्यवस्थितः ॥" [विष्णुप् ]
[6.11] इत्य् आरभ्य
[6.12] "तस्मिन्न् अण्डे ऽभवद् ब्रह्मा*{45}* सदेवासुरमानुषः ॥" [विष्णुप् 1.2.54]
[6.13-14] इत्यादिभिः समष्टिसृष्ट्यादिकम्*{46}* उक्तम्. विशेषेण व्यष्टिसृष्टाव् अपि ब्रह्मणो ऽण्डादिषूत्पत्तिप्रकारः श्रूयते. यथा:
[6.15-21] महोपनिषदि: "अथातो महोपनिषदं व्याख्यास्यामः. एको ह वै नारायण आसीद्" इत्य् आरभ्य "तस्य ध्यानान्तस्स्थस्य यज्ञस्तोमम् उच्यते. तस्मिन् चतुर्दशपुरुषा जायन्ते. एका कन्या*{47}*. दशेन्द्रियाणि मन एकादशं तेजो द्वादशम् अहङ्कारः त्रयोदशः प्रणाश्*{48}* चतुर्दशः आत्मा पञ्चदशः बुद्धिर् भूतानि पञ्च तन्मात्राणि पञ्च महाभूतानि च स एकः पञ्चविंशः पुरुषः."*{49}* "अथ पुनर् एव नारायणस् सो ऽन्यत्कामो*{50}* मनसा ध्यायत तस्य ध्यानान्तस्स्थस्य ललाटात् स्वेदो ऽपतत्, त इमाः प्रतता आपः, तासु तेजः, तत् तेजो*{51}* हिरण्मयम् अण्डम् तत्र ब्रह्मा चतुर्मुखो ऽजायत."*{52}* इति.
[ब्रह्मणो ऽण्डादिषूत्पत्तिप्रकारः]
[6.22] यजुषि: "स प्रजापतिर् एकः पुष्करपर्णे समभवत्" इति च.*{53}*
[6.23] *{54}*मनौ: एवं "अप एव ससर्जादौ तासु वीर्यम् अवासृजत्* ॥{55}*" इत्य् आरभ्य [मनुध्श् 1.8च्द्]
[6.24] "तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥" इति [मनुध्श् 1.9च्द्]
!{41}! विष्णुप्: एकसङ्घातलक्ष्माश् च.
[7.1] *{56}*भारते: "स्वपतस् तस्य देवस्य पद्मं सूर्यसमप्रभम् ।
[7.2] नाभ्यां विनिस्सृतम् अभूत् तत्रोत्पन्नः प्रजापतिः ॥"*{57}* इति च स्मर्यते.*{58}* [म्भ् 3.194.11]
[7.3-4] ननु नाभ्याम् अण्डे चोत्पत्तिर् एकस्य कथम् उपपद्यत*{59}* इति चेत् - तत् कल्पान्तर इति वक्तयम्. तदुक्तं हयशिर उपाख्याने:
[एकस्य ब्रह्मणः नाभ्याम् अण्डे च उत्पत्तिः]
[7.5] "त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
[7.6] चाक्षुषं वै द्वितीयं मे आसीज् जन्म पुरातनम् ॥
[7.7] त्वत्प्रसादाच् च मे जन्म तृतीयं वाचिकं महत् ।
[7.8] त्वत्तो मे श्रावणञ् चापि चतुर्थं जन्म वै प्रभो ॥
[7.9] नासिक्यञ् चैव मे जन्म त्वत्तः पञ्चमम् उच्यते ।

[7.10] अण्डजञ् चापि मे जन्म त्वत्तः षष्ठं विनिर्मित्तम् ॥
[7.11] इदन् तु सप्तमं जन्म पद्मजं मे ऽमितप्रभ* ।{60}*" इति.
[चतुर्मुखस्य वैखानसादिशब्दवाच्यत्वम्]
[7.12-14] अतस् समस्तजगज्जन्मस्थितिध्वंसमहानन्दैकहेतोः भगवतः परब्रह्मणो नारायणस्य वैखानसादिशब्दवाच्यत्वसम्भवात् तन्नाभिनलिनसञ्जातस्य ब्रह्मणो ऽपि "अङ्गाद् अङ्गाद्"*{61}* इति मन्त्रोक्तप्रकारेण भारतादिप्रतिपादितरीत्या च*{62}* वैखानसादिशब्दवाच्यत्वम् उपपद्यते.
[7.15] शान्तिपर्वणि: "विशेषेणाखनत्*{63}* यस्मात् भावनामुनिसृष्टये ।
[7.16] तस्माद् विखनसो नाम स आसीद् अण्डजः प्रियः ॥" इति [म्भ् ]
[7.17] तत्रैव: "स्रष्टुं स तु समुद्युक्तो ब्रह्मयोनिमयः प्रभुः ।
[7.18] खनित्वा चात्मनात्मानं धर्मादिगुणसंयुतम् ।
[7.19] ध्यानम् आविश्य योगेन ह्य् आसीद् विखनसो मुनिः ॥" इति [म्भ् ]
[7.20-21] श्रीभागवते: "न खलु गोपिकानन्दनो भवान् अखिलदेहिनाम् अन्तरात्मदृक् ।
[7.22-23] विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्त्वतां कुले ॥" इति [भागवतप् 10.31.4]
[श्रीरङ्गे वैखानसार्चनम्]
[7.24] गारूडे - श्रीरङ्गमाहात्म्ये:
[7.25] "ब्रह्मापि दिव्यहंसेन सितमेघोपमेन च ।
[7.26] पृष्ठतो ऽनुययौ विष्णुं वस्त्रेणोच्छाद्य*{64}* चाननम् ॥
!{56}! ध्न्[त्] 81 इन्स्. (नाभिपद्मे - भारतम्).
[8.1] तत्रार्चको महाभागो भगवान् विखनास् तदा*{65}* ।
[8.2] ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया* ॥{66}*" इति [गरुडप् ]
[8.3] श्रीवैखानसे - आनन्दसंहितायाम्:
[8.4] "अन्तर्हितानां खननाद् वेदानान् तु विशेषतः ।
[8.5] स विभुः प्रोच्यते सर्वैः विखना ब्रह्मवादिभिः ।
[8.6] वैखानसश् च भगवान् प्रोच्यते स पितामहः* ॥{67}*" इति [आस् ]
[8.7] व्यासनिघण्टौ: "विखनसञ् च विधातारं विरिञ्च*{68}* तं चतुर्मुखम् ।" इति
[8.8] "नाभिजन्माण्डजः पूर्वो विखनाः कमलासनः ॥
[8.9] शतानन्दश् शतधृतिस् सत्यको हंसवाहनः* ।{69}*
[8.10] पद्मासनो विखनसश् चाहर्मुखः*{70}* इतीरितः ॥" इति च प्रतिपादितम्.*{71}*
[8.11-12] एवं कार्यकारणयोर् अभेदावगमात्*{72}* प्रमाणबाहुल्याच् च भगवति नारायणे चतुर्मुखे च वैखानसशब्दप्रयोगप्रकारः*{73}* प्रतिपादितः.
[8.13] वैखानसानाम् उत्पत्तिप्रकारः*{74}*
[श्रुत्युक्तः वैखानसानाम् उत्पत्तिप्रकारः]
[8.14-23] वैखानसानाम् उत्पत्तिः विशेषेण श्रूयते. यजुषि आरुणकेतुके इष्टकोपधानकथनानुवाके सृष्टिप्रकरणे*{75}* - "आपो वा इदम् आसन्*{76}* सलिलम् एव. स प्रजापतिर् एकः पुष्करपर्णे समभवत्. तस्यान्तर् मनसि कामस् समवर्तत. इदं सृजेयम् इति"*{77}* इत्य् आरभ्य "स तपस् तप्त्वा. शरीरम् अधूनुत. तस्य यन् मांसम् आसीत्. ततो ऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्.*{78}* ये ऽनखाः ते वैखानसाः. ये वालाः ते वालखिल्याः."*{79}* इति. अस्यार्थः. समष्टिसृष्टेर् अनन्तरं व्यष्टिसृष्टौ चतुर्मुखः*{80}* देवमनुष्यादिविविधविशेषसृष्ट्यर्थं मत्स्यादिरूपेणावतरिष्यमाणस्य*{81}* भगवतो नारायणस्य परमवैदिकत्वेन सम्प्रतिपन्नश्रीवैखानसभगवच्छास्त्रमार्गेण*{82}* समाराध्दनर्थञ् च स्वात्मतुल्याः प्रजास् सम्भवेयुर् इति स्वान्तर्यामिणं परमात्मानं ध्योनेनानुकृतवान्*{83}* अयम् एवार्थो ब्राह्माण्डे ऽप्य् उच्यते
[8.24] "ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् संस्मरन् हरिम् ।
[8.25] पद्मासनस्थो भगवान् परमं तप आस्थितः ॥" [ब्रह्माण्डप् ]
!{65}! ध्न्[द्] 26.6 लिएस्त् मित् ध्न्[त्] 87: तथा.
[सनकादिसृष्टिप्रकारः]
[9.1-5] इत्य् आरभ्य*{84}* ब्रह्मणा ब्रहुशः*{85}* कृतं तपश्चरणम् उक्तम्. तपश्चरणकाले साक्षात्कृतभगवत्स्वरूपवैभवानुभवातिशयात् भगवद्दत्तसृष्टिशक्तिलाभात् तदुपजनितविशेषवेगाच् च पुलकितसर्वाङ्गः शरीरम् अधूनुत - कम्पम् अकरोत्. "तस्य यन् मांसम् आसीद्"*{86}* मांसं मानसम् इति यावत्. "अर्थात् प्रकरणाल् लिङ्गाद् औचित्याद् अर्थनिर्णयः" इत्य् अर्थादिभिः*{87}* समीचीनार्थनिर्णयविधानात् "अक्षरसाम्यान् निर्ब्रूयाद्"*{88}* इति निरुक्तविधानाञ् च.
[9.6-10] तथा च तस्य मनः परमात्मनि संसक्तम् आसीद् इति यत्, तेन हेतुना तदनुग्रहस् समजनि. तेनानुगृहीतात् ब्रह्मणः "केतवो वातरशनाः ऋषयः उदतिष्ठन्"*{89}*. "अरुणाः" परमात्मनि वसन्तः तदितररविक्ताः "केतवः" उच्छ्रितस्वभावाः परमात्मप्रवणानाम् अग्रेसराः "वातरशना" दिग्वाससः "ऋषयः" सर्वार्थदर्शिनः सनकादयः "उदतिष्ठन्" उत्कृष्य समभवन् इति.*{90}*
[9.11] इदं विष्णुपुराणे ऽपि: "सनन्दनादयो ये च पूर्वं सृष्टास् तु वेधसा ।
[9.12] न ते लोकेष्व् असज्जन्त निरपेक्षाः प्रजाविधौ* ॥{91}* [विष्णुप् 1.7.9]
[9.13] सर्वे ते योगिनो जाता*{92}* वीतरागा विमत्सराः ।
[9.14] तेष्व् एवं निरपेक्षेषु लोकसृष्टौ महात्मनः ॥" इत्यादिना प्रतिपादितम्.*{93}* [विष्णुप् 1.7.10]

[9.15-19] स प्रजापतिः एवंविधान् स्वकार्यासाधकान् तान् दृष्ट्वा किञ्चिद् विषादम् आपन्नः पुनर् अपि स्वकारणं भगवन्तं ध्यानप्रयायेण खननेनातोषत्. "ये नखा" इत्यादि*{94}*. भगवदनुग्रहविकसिते प्रजापतेर् मनसि वैखानसा नाम ऋषयस् सम्भूताः अत्र "ये नखा" इत्य् अत्र आद्यन्तवर्णविपर्ययो भवति. "कश्यपः पश्यको भवती"तिवत् "खना इत्य् एतत् नखा" इति विपर्यस्तम् इति यावत्.*{95}*
[9.20] "सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङञ्*{96}* च ।
[9.21] व्यत्ययम् इच्छिति*{97}* शास्त्रकृद् एषां सो ऽपि च सिद्ध्यति बाहुलकेन ॥"
[9.22-24] इति, "बहुलं छन्दसी"*{98}*ति चात्र प्रणामन्*{99}*. अत्र "अनखा" इति च्छित्त्वा केचिद् एवम् ऊचुः*{100}*. अनखा इत्य् अनेन सौम्येन्द्रियवत्वं उक्तम् इति*{101}*.
!{84}! ध्न्[त्] 93 इन्स्. "शूद्रजातिं मनुष्याणां पशूनाम् अश्वम् एव" चेत्यन्तं (एवं?).
[वैखानसानाम् आचार्यपुरुषत्वम्]
[10.1-3] एवञ् च सति "सौम्यं जितेन्द्रियं"*{102}* "सुप्रसन्नेन्द्रियं"*{103}* इत्यादिना भगवच्छास्त्रेष्व् आचार्यलक्षणस्य*{104}* प्रतिपादितत्वात् "वैखानस विखनसाचर्य"*{105}* इति. विष्णोर्*{106}* आचार्यत्वेन शान्त्य्पर्वण्य् अभिहितत्वात्.
[10.4] "विखना इति विष्णुस् तज्जा वैखानसाः स्मृताः* ।{107}* [क्र 36.28च्द्]
[10.5] विष्णोर् एव समुत्पन्ना भृग्वाद्या मुनयस् तथा ॥"
[वैखानसानाम् त्रिशुक्लत्वम्]
[10.6-7] इति वचनात्, "गुरोस् सानवृत्तिर्*{108}* वैखानस"*{109}* इति बोधायनसूत्रे उक्तत्वाच् च भागवतादिषु*{110}* प्रतिपादितम् "आचार्यपुंस्त्वम् एतेषां वैखानसानाम्*{111}* एवे"त्य् अवगम्यते.
[10.8-9] यद्वा "अनघा" इति पाठः. अनेन*{112}* त्रिशुक्लत्वं सूच्यते. जन्म विद्या कर्म चेति. अद्वारकत्वेन भगवतः चतुर्मुखाच् चोप्तत्तिश्रवणात्*{113}*,
[10.10] "तत्कर्म यन् न बन्धाय सा विद्या या विमुक्तये ।
[10.11] आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥"
[10.12-13] इत्य् उक्तरीत्या अद्वारकभगवत्स्वरूपज्ञानतदाराधनविधिप्रतिपादकशास्त्रनिष्ठत्वेन च एषां त्रिशुक्लत्वम्.*{114}* शुक्लवताम् एवाधिक्यं आरण्यपर्वणि प्रथमाध्याये प्रतिपादितम्. यथा:
[10.14] "येषां त्रीण्य् अवदातानि योनिर्विद्या च कर्म च ।
[10.15] ते सेव्यास् तैस् समास्या हि शास्त्रेभ्यो ऽपि गरीयसी* ॥{115}*" ति [म्भ् 3.1.25]
[आनन्दसंहितानुसारेण वैखानसोत्पत्त्यादिकम्]
[10.16] श्रीवैखानसे आनन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपादितम्:
[10.17] "अथ सस्मार भगवान् विश्वसृष्ट्यर्थम् अच्युतः ।
[10.18] धातारं विश्वनिर्माणचतुरं चतुराननम्* ॥{116}* [आस् 4.6]
[10.19] स्मरणानन्तराद् एव प्रादुर् आसीत् पुरः प्रभोः ।
[10.20] धाता समस्तजगताम् उत्पत्तिकरणक्षमः ॥ [आ.स् 4.7]
[10.21] तं प्राह*{117}* भगवान् विष्णुः प्रणतं पुरतः स्थितम् ।
[10.22] श्रीभगवान् उवाच: ब्रह्मन् त्वया जगत् सर्वं कर्तव्यं सचराचरम् ॥ [आस् 4.8]
[10.23] लोके विहर्तुम् इच्छामि यद् अहं*{118}* पद्मसम्भव ।
[10.24] ततस् त्वत्सृष्टजगताम् अविच्छिन्नप्रवृत्तये ।
[11.1] धर्मसंरक्षणार्थाय वेदशास्त्रार्थसिद्धये* ॥{119}* [आस् 4.9]
[11.2] अलसा अल्पसत्त्वाश् च मनुष्यास् स्वल्पबुद्धयः ।
[11.3] ते परव्यूहविभवान् आत्मानाञ् च न मेनिरे* ॥{120}* [आस् 4.10]
[आनन्दसंहितानुसारेण सनकादिसृष्टिः]
[11.4] सौलभ्याय तु भक्तानां सर्वलोकानुकम्पया* ॥{121}* [आस् 4.11च्द्]
[11.5] अर्चावताररूपेण लोके ऽस्मिंश् चतुरानन ।
[11.6] अवतारं करिष्यामि मह्या*{122}* लक्ष्म्या समन्वितः ॥ [आ.स् 4.12]
[11.7] मदर्चायै सृज ब्रह्मन् सृष्ट्यादौ मुनिसत्तमं* ।{123}* [आस् 4.13अब्]
[11.8] इत्य् आज्ञप्तस् तदा ब्रह्मा मुहूर्तं तत् सिसृक्षया ।
[11.9] चिन्तयामास तत्कर्मा क्षणम् एकं महामुनिः* ॥{124}* [आस् 4.14]
[11.10] ऊचुः न शक्नुयाम् एवं स्रष्टुम् इच्छन् तथाविधम्* ।{125}*
[11.11] तस्य तद् वचनं श्रुत्वा देवदेवो हरिस् स्वयम् ॥ [आ.स् ]
[11.12] चिन्तयामास देवेशः स्वनिर्मलतरात्मनि ।

[11.13] वेदान्ततत्त्वमीमांसा खननं कृतवान् हरिः* ॥{126}* [आस् 4.15]
[11.14] नाम्ना विखनसं चक्रे तत्पदान्वर्थयोगतः*{127}* ।
[11.15] तथा चिन्तयतस् तस्य मनसो द्वौ बभूवतुः* ॥{128}* [आस् 4.18]
[11.16] सङ्कल्पधर्मौ सन्नम्य प्राञ्जलिं पुरतः स्थितम्* ।{129}* [आस् 4.19अब्?]
[11.17] ब्रह्माणम् अब्रवीद् विष्णुर् भूतसृष्ट्यन्तहेतवे (कारकं) ।
[11.18] सङ्कल्पधर्मौ भवतस् तव सृष्ट्यन्तहेतवे* ॥{130}*
[11.19] शुद्धसत्त्वसमुत्पन्नो निर्मितो ऽयं तवाग्रतः* ॥{131}* [आस् 4.35च्द्]
[11.20] मुनिश्रेष्ठो महातेजा मत्कार्यकरणक्षमः* ।{132}* [आस् 4.36अब्?]
[11.21] मत्कार्यसाधकान् एव त्वं वै स्रष्टुम् अथार्हसि ॥
[11.22] हृषीकेशस्य तद्वाक्यं भ्याधाय कृतञ्जलिः* ।{133}*
[11.23] चतुर्मुखश् चापि तथा सनकादिमुनीश्वरान्* ।{134}*
[11.24] ध्यायन् मुखैश् चतुर्भिस् तु क्रमाद् असृजद् अब्जभूः* ॥{135}*
!{119}! आस्: लोके विहर्तुम् इच्छा मे वर्तते पद्मसम्भव । ततस् स्वसृष्टिर् जगताम् अविच्चिन्ना प्रवर्तते । धर्मसंस्थापनार्थाय वेदशास्त्रार्थसिद्धये॥. व्ग्ल्. आस् 15.9।10अब्: लोके विहर्तुम् इच्छामे वर्तते पद्मसम्भव । ततस् त्वत्सृष्टजगताम् अविच्छिन्नप्रसृत्तये ॥ साधुसंरक्षणार्थय वेदशास्त्रर्थसिद्धये ।.
[आनन्दसंहितानुसारेण दक्षादिमुनिदशकसृष्टिः]
[12.1] सनत्कुमारञ् च तथा सनकञ् च सनातनम् ।
[12.2] सनन्दनम् इति ख्यातान् ब्रह्मविद्याविशारदान्* ॥{136}* [आस् 2.20]
[12.3] ततस् ते च मुनिश्रेष्ठा*{137}* ज्ञानातिशयवैभवात् ।
[12.4] विरक्तचित्तास् सञ्जग्मुः कैवल्यं पदम् उत्तमं* ॥{138}* [आस् 4.21]
[12.5] स्वकार्यसाधकान् ब्रह्मा सृष्टवान् पुनर् एव हि* ।{139}*
[12.6] प्राणाच् च चक्षुषस् तद्वद् अभिमानाच् च कर्मणः* ॥{140}* [आस् 4.22]
[12.7] हृदयाच् छिरसः*{141}* श्रोत्राद् उदानाद् व्यानतस् ततः ।
[12.8] समानाच् च तथापानाद् ऋषिश्रेष्ठान् इमान् दश* ॥{142}* [आस् 4.23]
[12.9] दक्षं मरीचिनं*{143}* नीललोहितं भृगुम् एव च ।
[12.10] तथाङ्गिरसम् अत्रिं च पुलस्त्यं पुलहं तथा* ॥{144}* [आस् 4.24]
[12.11] वसिष्ठं च क्रतुं चैव क्रमाद् असृजद् अब्जभूः ।
[12.12] नव ब्रह्माण एवैते विना स्युर् नीललोहितं* ॥{145}* [आस् 4.25]
[आनन्दसंहितानुसारेण वैखानसस्य मुनिश्रेष्ठत्वम्]
[12.13] धर्मसङ्कल्पसहितास् सनकाद्या मुनीश्वराः ।
[12.14] भृग्वादिमुनयश् चैव श्रुतिस्मृत्यादिवेदनात्* ॥{146}* [आस् 4.26]
[12.15] शिष्या विखनसः प्रोक्तास् सर्वशास्त्रार्थपारगाः ।
[12.16] वैखानसानां भृग्वाद्या वंशकर्तार ईरिताः ॥ [आ.स् 4.27]
[12.17] सर्वेषाम् अग्रजं श्रेष्ठम् आत्मपुत्रं मुनिं तथा ।
[12.18] तं हरेः पुरतः कृत्वा प्रोक्तवान् कमलासनः ॥ [आस् 4.28]
[12.19] ब्रह्मोवाच: देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारण ।
[12.20] भगवंस् त्वत्प्रभावेन सृष्टो ऽयं मुनिसत्तमः* ॥{147}* [आस् 4.29]
[12.21] जाताः चिन्तयतो मत्तस् त्वत् सृष्टौ मुनयस् त्व् इमे ।
[12.22] एतैर् अपि कृतं सर्वं जगद् एतच् चराचरं ॥ [आस् 4.30]
[12.23] मत्पुत्राणां च सर्वेषाम् अग्रजः पुरुषोत्तमः ।
[12.24] वैष्णवेष्व् अग्रजश् श्रेष्ठो मुनीनां प्रथमो मुनिः ॥ [आ.स् 4.31]
!{136}! आस्: सनत्कुमारश् च तथा सनकश् च सनातनः । सनन्दन इति ख्याता ब्रह्मविद्याविशारदाः; सो लिएस्त् औछ् ध्न्[त्] 104.

[आनन्दसंहितानुसारेण वैखानस्य गर्भवैष्णवत्वम्]
[13.1] विशेषखननाज् जातो विष्णोर् वैखानसस् तथा ।
[13.2] भृग्वादीन् उपनीयाथ सावित्रीम् उपदेक्ष्यति* ॥{148}* [आस् 4.32]
[13.3] परब्रह्मोपदेष्टासाव् अयम् एव गुरुस् स्मृतः ।
[13.4] एतद् उक्तप्रकारेण सर्वे वै मम सूनवः ॥ [आस् 4.33]
[13.5] चरिष्यन्ति यथान्यायं*{149}* लौकिकाध्यात्मवैदिकान् ।
[13.6] एभिः प्रवर्तिता सृष्टिर् अविच्छिन्ना प्रवर्त्तते* ॥{150}* [आस् 4.34]
[13.7] भवान् अवतरत्व् अत्र मम सृष्टौ जनार्दन* ।{151}*
[13.8] शुद्धसत्त्वसमुत्पन्नो निर्मितो ऽयं त्वया विभो* ॥{152}* [आस् 4.35]
[13.9] ऋषिश्रेष्ठो महातेजाः त्वत्कर्मकरणक्षमः ।
[13.10] तथासौ खननाद् विष्णोः ध्यायाद् अन्तश् च गर्भतः* ॥{153}* [आस् 4.36]
[13.11] यस्मात् तव समुत्पन्नो*{154}* ज्ञेयो ऽसौ गर्भवैष्णवः ।
[13.12] इत्य् उक्तो भगवान् प्राह मुनिश्रेष्ठं तपोनिधिं ॥ [आ.स् 4.37]
[13.13] श्रीभगवान् उवाच: देवब्रह्म ऋषीणान् तु मदीयाराधनं प्रति ।
[13.14] मया सञ्चोदितो यस्मात् त्वम् एव मुनिसत्तम* ॥{155}* [आस् 4.38]
[13.15] तपोधनो भवान् एव धन्यो ऽसि भुवनत्रये ।
[13.16] आत्मार्थं वा परार्थं वा नित्यनैमित्तिकादि यत् ॥ [आ.स् 4.39]
[13.17] तत् सर्वं मत्प्रसादेन मदीयाराधनं कुरु* ।{156}*
[13.18] अथाह स ऋषिस् तस्मै प्रणम्य जगदात्मने ॥ [आस् 4.40]
[आनन्दसंहितानुसारेण वैखानसानाम् अद्वारकभगवद्यजनेन नित्यकर्मानुष्टानपूर्णता]
[13.19] श्रीविखाना उवाच: भवतानुगृहीतो ऽहं धन्यो ऽस्मि पुरुषोत्तम ।
[13.20] नातः परतरं कार्यं किम् अप्य् अन्यद् दिवौकसाम्* ॥{157}* [आस् 4.41]
[13.21] तथापि देवदेवेश स्वकर्म मुनिभिस् सदा ।
[13.22] उदयाद्यस्तपर्यन्तं क्रियते नियतात्मभिः* ॥{158}* [आस् 4.42]
[13.23] सर्वेषाञ् च द्विजातीनां श्रुतिस्मृतिसमीरितम् ।
[13.24] कर्तव्यं सततं देव स्वस्वकर्म प्रयत्नतः ॥ [आ.स् 4.43]
!{148}! लिएस् मित् ध्न्[त्] 106 उन्द् आस्: उपदिष्टवान्.
[14.1] भवदाराधनं विष्णो कथं कारं करोम्य् अहं ।
[14.2] त्वत्कर्म क्रियते चेत् तु कर्मलोपो भवेन् मम* ।{159}*
[14.3] इत्य् उक्तो भगवान् आह मुनिना तत्त्ववेदिना ॥ [आस् 4.44]
[14.4] श्रीभगवान् उवाच: विखनस् त्वं मुनिश्रेष्ठ मदाराधनकर्मणि* ॥{160}* [आस् 4.45]
[14.5] स्वकर्मलोपसंत्रासव्याकुलीकृतचेतसः*{161}* ।
[14.6] तव कर्माण्य् अनूनानि संतु नित्यं मदाज्ञया ॥ [आस् 4.46]
[14.7] त्वद्वंशजानां सर्वेषां काले वै कृतकर्मणाम्* ।{162}*
[14.8] निषेकादिश्मशानान्ताः कार्याः मन्त्रसमन्विताः* ॥{163}* [आस् 4.47]
[14.9] अष्टादश च कर्माणि शारीराणि प्रचक्षते ।
[14.10] यज्ञाश् च विंशतिर् द्वौ च धर्मं वैष्णवम् उत्तमं ॥ [आ.स् 4.48]
[14.11] वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।
[14.12] सर्वैस् स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा* ॥{164}* [आस् 4.49]
[14.13] त्वदाज्ञैव भृग्वाद्या नारायणपरायणाः* ॥{165}* [आस् 4.67च्द्]

[14.14] वदन्ती परमं धर्मं वैष्णवं श्रुतिसम्मतं ।
[14.15] तद्धर्मनिरता ये तु ते वै भागवताः स्मृताः ॥ [आ.स् 4.68]
[14.16] मत्कर्मकारिणां तेषां कर्मलोपो न विद्यते* ।{166}*
[14.17] तिस्रः कोट्यो मुनीनाम् तु कर्म कुर्वन्ति मे सदा* ॥{167}* [आस् 4.69]
[14.18] ज्ञात्वा यजूंषि साङ्गानि मन्मतास् सर्व एव ते ।
[14.19] मन्मन्त्रकल्पजातानि मत्पुराणान्य् अनुक्रमात् ॥ [आ.स् 4.70]
[14.20] अधीत्य सर्वकर्माणि कुर्वते*{168}* ते मदर्चनं ।
[14.21] कृताधिकारिणस् ते तु कृतसम्बन्धिनो मम* ॥{169}* [आस् 4.71]
[14.22] मत्प्रसादभुजस् सौम्या अतिप्रियतमा मम ।
[14.23] षट्कर्मनिरतास् ते वै सात्त्विकाहारतत्पराः ॥ [आ.स् 4.72]
[14.24] वैखानसेन सूत्रेण निषेकादिक्रियान्विताः ।
[15.1] भवन्ति भावितात्मानो मत्कर्मकरणक्षमाः ॥ [आ.स् 4.73]
[15.2] तस्माद् भागवतश्रेष्ठा भवन्त्य् अप्राकृता भुवि ।
[15.3] सर्वधा "ये नखास् ते वैखानसा" इति वेदतः* ॥{170}* [आस् 4.74]
[15.4] तस्माद् वैखानसाश् शुद्धास् सर्वकर्मसु पूजिताः ।
[15.5] ततः प्राह मुनिश्रेष्ठस् तम् एवं वादिनं हरिम्* ॥{171}* [आस् 4.75]
[15.6] श्रीविखनाः: भगवंस् त्वत्प्रसादेन कर्म साङ्गं यथोदितं ।
[15.7] सर्वेषां मत्कुलीनानां भवत्य् एव न संशयः ॥ [आ.स् 4.76]
[महाभारतोक्तो वैखानसानाम् उत्पत्त्यादिप्रकारः]
[15.8-9] अतो ऽत्र श्रुत्युक्तमार्गेण वैखानसानां सृष्ट्यादिकं, अद्वारकभगवद्यजनेनैतेषां नित्यकर्मानुष्ठानपूर्णत्वं च प्रतिपादितम्*{172}*.
[15.10-11] अथ पञ्चमवेदत्वेन प्रसिद्धे महाभारते आनुशासनिकपर्वणि 85तमे अध्याये भृग्वादिमहर्षीणां वैखानसानाञ् चोत्पत्तिः निरूपिता*{173}*. यथा:
[15.12] वसिष्ठ: "अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् ।
[15.13] पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ [म्भ् 13.85.1]
[15.14] देवस्य महतस् तात वारुणीं बिभ्रतस् तनुम् ।
[15.15] ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभोः*{174}* ॥ [म्भ् 13.85.2]
[15.16] आजग्मुर् मुनयः सर्वे देवाश् चाग्निपुरोगमाः ।
[15.17] यज्ञाङ्गानि च सर्वाणि वषट्कारश् च मूर्तिमान् ॥ [म्भ् 13.85.3]
[15.18] मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
[15.19] ऋग्वेदश् चागमत् तत्र पदक्रमविभूषितः ॥ [म्भ् 13.85.4]
[15.20] लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः ।
[15.21] ओङ्कारश् छन्दसां नेत्रं निग्रहप्रग्रहौ तथा* ॥{175}* [म्भ् 13.85.5]
[15.22] तथा वेदास् सोपनिषदो विद्यास्*{176}* सावित्र्य् अथापि च ।
[15.23] भूतं भव्यं भविष्यच् च दधार शिरसा*{177}* शिवः ।
[15.24] सञ्जुहावात्मनात्मानं स्वयम् एव तथा प्रभो*{178}* ॥ [म्भ् 13.85.6]
[15.25] यज्ञञ् च शोभयामास बहुरूपं पिनाकधृत् ॥ [म्भ् 13.395.1]
[16.1] द्यैर् नभः पृथिवी*{179}* खञ् च तथा चैवैष भूपतिः ।
[16.2] सर्वविघ्नेश्वरश्*{180}* श्रीमान् एष चापि विभावसुः ॥
[16.3] एष ब्रह्मा शिवो रुद्रो वरुणो ऽग्निः प्रजापतिः । [म्भ् 13.3954]
[16.4] कीर्त्यते भगवान् देवस् सर्वभूतपतिश् शिवः ॥ [म्ब्.ह् 13.3955]
[16.5] तस्य यज्ञः पशुपतेस् तपः क्रतव एव च । [म्भ् 13.3956]

[16.6] दीक्षा दीप्तव्रता देवी दिशश् च सदिगीश्वराः* ॥{181}* [म्भ् 13.3957]
[16.7] देवपत्न्यश् च कन्याश् च देवानां चैव मातरः ।
[16.8] आजग्मुः सहितास् तत्र तदा भृगुकुलोद्वह ॥ [म्भ् 13.85.7]
[16.9] यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः ।
[16.10] स्वयंभुवस् तु ता दृष्ट्वा रेतः समपतद् भुवि । [म्भ् 13.85.8]
[16.11] तस्य शुक्रस्य निष्ष्यन्दात्*{182}* पांसून् संगृह्य भूमितः ।
[16.12] प्रास्यत् पूषा कराभ्यां वै तस्मिन्न् एव हुताशने ॥ [म्भ् 13.85.9]
[16.13] ततस् तस्मिन् संप्रवृत्ते सत्रे ज्वलितपावके ।
[16.14] ब्रह्मणो जुह्वतस् तत्र प्रादुर्भावो बभूव ह ॥ [म्ब्.ह् 13.85.10]
[16.15] स्कन्नमात्रं च तच् छुक्रं स्रुवेण प्रतिगृह्य सः ।
[16.16] आज्यवन् मन्त्रवच्*{183}* चापि सो ऽजुहोद् भृगुनन्दन ॥ [म्भ् 13.85.11]
[16.17] ततस् तु जनयामास*{184}* भूतग्रामं स वीर्यवान् ।
[16.18] ततस् तु तेजसस्*{185}* तस्माज् जज्ञे लोकेषु तैजसम् ॥ [म्ब्.ह् 13.85.12]
[16.19] तमसस् तामसा भावा व्यापि सत्त्वं तथोभयम् ।
[16.20] स गुणस् तेजसो नित्यस् तस्य चाकाशम्*{186}* एव च ॥ [म्ब्.ह् 13.85.13]
[16.21] सर्वभूतेषु च*{187}* तथा सत्त्वं तेजस् त्व् अथोत्तमम्*{188}* ।
[16.22] शुक्रे हुते ऽग्नौ तस्मिंस् तु प्रादुरासंस् त्रयः प्रभो ॥ [म्ब्.ह् 13.85.14]
[16.23] पुरुषा वपुषा युक्ता तैस् तैः*{189}* प्रसवजैर्*{190}* गुणैः ।
[16.24] भर्जनाद् भृगुर् इत्य् एवम् अङ्गारेभ्यो ऽङ्गिराभवत्* ॥{191}* [म्भ् 13.85.15]
[17.1] (भृग् इत्य् एव भृगुः पूर्वम् अङ्गारेभ्यो ऽङ्गिराभवत् ॥ [म्ब्.ह् 13.85.15च्द्]
[17.2] अङ्गारसंश्रयाच् चैव कविर् इत्य् अपरो ऽभवत् ।
[17.3] सह ज्वालाभिर् उत्पन्नो भृगुस् तस्माद् भृगुः स्मृतः ॥ [म्ब्.ह् 13.85.16]
[17.4] मरीचिभ्यो मरीचिस् तु मारीचः कश्यपो ह्य् अभूत् ।
[17.5] अङ्गारेभ्यो ऽङ्गिरास् तात वालखिल्याः शिलोच्चयात्*{192}* ।
[17.6] अत्रैवात्रेति च विभो जातम् अत्रिं वदन्त्य् अपि ॥ [म्भ् 13.85.17]
[17.7] तथाग्नेस् तस्य भस्मभ्यो ब्रह्मर्षिगणसंमताः* ।{193}*
[17.8] वैखानसाः समुत्पन्नास् तपःश्रुतगुणेप्सवः* ।{194}*
[17.9] अश्रुतो ऽस्य समुत्पन्नाव् अश्विनौ लोकसंमतौ* ॥{195}* [म्भ् 13.85.18]
[17.10] शेषाः प्रजानां पतयः स्रोतोभ्यस् तस्य जज्ञिरे ।
[17.11] ऋषयो रोमकूपेभ्यस् स्वेदाच् छन्दो बलान्मनः* ॥{196}* [म्भ् 13.85.19]
[17.12] एतस्मात् कारणाद् आहुर् अग्निः सर्वाश् चअब् हिएर् तेलुगु देवताः*{197}* ।
[17.13] ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् ॥ [म्ब्.ह् 13.85.20]
[17.14] यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः ।
[17.15] अहोरात्रा मुहूर्तास् तु पित्तं ज्योतिश् च वारुणम् ॥ [म्भ् 13.85.21]
[17.16] रौद्रं लोहितम् इत्य् आहुर् लोहितात् कनकं स्मृतम् ।
[17.17] तन् मैत्रम् इति विज्ञेयं धूमाच् च वसवः स्मृताः ॥ [म्ब्.ह् 13.85.22]
[17.18] अर्चिषो याश् च ते रुद्रास् तथादित्या महाप्रभाः ।
[17.19] उद्दिष्टास् ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ [म्ब्.ह् 13.85.23]
[17.20] आदिकर्ता*{198}* च लोकस्य तत् परं ब्रह्म तद् ध्रुवम् ।
[17.21] सर्वकामदम् इत्य् आहुस् तद्रहस्यम् उवाच च* ॥{199}* [म्भ् 13.85.24]

[17.22] ततो ऽब्रवीन् महादेवो वरुणः पवनात्मकः*{200}* ।
[17.23] [वरुण] मम सत्रम् इदं दिव्यम् अहं गृहपतिस् त्व् इह ॥ [म्भ् 13.85.25]
[17.24] त्रीणि पूर्वाण्य् अपत्यानि मम तानि न संशयः ।
!{192}! ध्न्[त्] 116: कुशोच्चयात्.
[18.1] इति जानीत खगमा मम यज्ञफलं हि तत् ॥ [म्ब्.ह् 13.85.26]
[18.2] अग्नि: मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च ।
[18.3] ममैव तान्य् अपत्यानि वरुणो ह्य् अवशात्मकः ॥ [म्ब्.ह् 13.85.27]
[18.4] ब्रह्मा:अथाब्रवील् लोकगुरुर् ब्रह्मा लोकपितामहः ।
[18.5] ममैव तान्य् अपत्यानि मम शुक्रं हुतं हि तत् ॥ [म्ब्.ह् 13.85.28]
[18.6] ईश्वर: अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव हि*{201}* ।
[18.7] यस्य बीजं फलं तस्य शुक्रं चेत् कारणं मतम् ॥ [म्ब्.ह् 13.85.29]
[18.8] ततो ऽब्रुवन् देवगणाः पितामहम् उपेत्य वै ।
[18.9] कृताञ्जलिपुटाः सर्वे शिरोभिर् प्रणिपत्य वै*{202}* ॥ [म्ब्.ह् 13.85.30]
[18.10] वयं च भगवन् सर्वे जगत् एतच् चराचरम्*{203}* ।
[18.11] तवैव प्रसवं सर्वं*{204}* तस्माद् अग्निर् विभावसुः ।
[18.12] वरुणश् चेश्वरो देवो लभतां कामम् ईप्सितम् ॥ [म्ब्.ह् 13.85.31]
[18.13] निसर्गाद् वरुणश् चापि ब्रह्मणो यादसां पतिः ।
[18.14] जग्राह वै भृगुं पूर्वम् अपत्यं सूर्यवर्चसम् ॥ [म्भ् 13.85.32]
[18.15] ईश्वरो ऽङ्गिरसं चाग्नेर् अपत्यार्थे ह्य् अकल्पयत्*{205}* ।
[18.16] पितामहस् त्व् अपत्यं वै कविं जग्राह धर्मतः*{206}* ॥ [म्ब्.ह् 13.85.33]
[18.17] तदा स वारुणिः*{207}* ख्यातो भृगुः प्रसवकर्मकृत् ।
[18.18] आग्नेयस् त्व् अङ्गिराः श्रीमान् कविर् ब्राह्यो महायाशाः* ।{208}*
[18.19] भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ ॥ [म्भ् 13.85.34]
[18.20] एते हि प्रसवास्*{209}* सर्वे प्रजानां पतयस् त्रयः ।
[18.21] सर्वं संतानम् एतेषाम् इदम् इत्य् अवधारय* ॥{210}* [म्भ् 13.85.35]
[18.22] इत्यादिना वैखानसानाम् उत्पत्त्यादिकं विशेषेण प्रतिपादितम्.
[18.23] पुराणान्तरे:
[18.24] यज्ञे देवस्य वितते महतो वरुणस्य ह ।
[18.25] ब्रह्मणो ऽप्सरसं दृष्ट्वा रेतश् चस्कन्द कर्हिचित् ॥
!{201}! म्भ्: अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह.
[19.1] तत् प्रतीक्ष्य स पर्णेन संजुहाव विभाव् असौ ।
[19.2] ततो ऽर्चिषो ऽभूद् भगवान् भृगुर् अङ्गारतो ऽङ्गिराः ॥
[19.3] अत्रैवान्वेषणाद् अत्रिः खननाद् विखना मुनिः ।
[19.4] खननं तत्त्वमीमांसेत्य् बिस् हिएर् तेलुगुआहुः केचन सूरयः ॥
[19.5] अपरे निगमार्थानां खननाद् इति नश्श्रुतम् ।
[19.6] ततस् तद्वंशजा विप्रा वेदवेदाङ्गवेदिनः ॥" इति.
[19.7-10] "ये वालाः ते वालखिल्याः" इत्य् अत्र बकारस्थाने वकार*{211}*. ज्ञानातिशयवैभवात् कामादिदोषराहित्येन च बाला उच्यन्ते. श्रूयते हि*{212}*: "तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्*{213}* बाल्यञ् च पाण्दित्यञ् च निर्विद्याथ मुनिः" इति.
[19.11-13] अत्र केचिद् एवम् ऊचुः: ब्रह्मणः विधूताच् छरीरात् यन्मांसं विकीर्णम् अभवत् ततो केतवो वातरशना ऋषय उदतिष्ठन्न् इति. तद् असत्. एवम् अर्थस्वीकारे सृष्टिकारणभूतस्य ब्रह्मशरीरस्य शैथिल्यम् उक्तं स्याद् इति.
[19.14-20] किञ् च "तस्यान्तर्मनसि कामस् समवर्तत" इत्यादिना "कामस् तदग्रे समवर्तताधि" इत्य् अन्तेन सोपपत्तिकं वर्तमानं सङ्कल्परूपं मननव्यापारम् उक्त्वा "मनसो रेतः प्रथमं यद् आसीद्" इत्य् अत्र तत्र विद्यमानस्य व्यापारस्य प्रजापतेः सृष्टिकारणत्वं रेतश् शब्देबिस् हिएर् तेलुगुनोक्त्वा "सतो बन्धुम् असति निरविन्दन्न्" इत्य् आरभ्य "य एवं वेद" इत्य् अन्तेन ब्रह्मणस् तत्कालविद्यमानमानसशक्तिमाअब् हिएर् तेलुगुत्रेण व्यष्टिसृष्टेर् अनिष्पन्नत्वम् उक्त्वा मनसो व्यष्टिकारणलाभाय "स तपो ऽतप्यत" इति भगवदुपासनम् अकरोद्" इत्य् उक्तम्. अयम् एवार्थः "ओं इत्य् एकाक्षरं ब्रह्मे"त्यादिना ब्रह्माण्डे ऽप्य् उक्तम्.*{214}*
[भ्र्ग्वादीनां भगवन्मानसपुत्रत्वम्]

[19.21] भगवन्मानसपुत्रा भृग्वादय इति भगवतैवोक्तम्:
[19.22] "महर्षयस् सप्त पूर्वे चत्वारो मनवस् तथा ।
[19.23] मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥" [म्भ् 6.32.6]
[भृग्वादीनां वैखानसवंशकर्तृत्वम्]
[19.24] भृग्वादय एव वैखानसानां वंशकर्तारः इति भारते ऽप्य् उक्तम्.
!{211}! ध्न्[त्] 120: बकारस्य स्थाने वकारः.
[20.1] यथा शान्तिपर्वणि:
[20.2] "भृग्वङ्गिरोमरीच्यत्रि पुलस्त्यपुलहाः क्रतुः*{215}* । [म्भ् 13, अप्प्. 7.49]
[20.3] तथा वसिष्ठो दक्षश् च नव स्वायम्भुवा द्विजाः* ॥{216}*
[20.4] एते वैखानसानान् तु ऋषीणां भावितात्मनां ।
[20.5] वंशकर्तार उच्यन्ते सात्त्विकाहारभोजिनाम् ॥" इति [म्भ् ]
[20.6-8] तस्माद् भगवता नारायणेन ब्रह्मणा च सृष्टानां भृग्वादीनाम् ऋषीणां तद्वंशजानां च निषेकादिक्रियावताम् अद्वारकभगवद्यजनाधिकारवताम् एव लोके वैखानसा इति प्रसिद्धिः.
[चतुर्मुखसृष्टानां सर्वेषां मनुष्याणां वैखानसत्वं समानम् इत्य् आक्षेपस्य परिहारः]
[20.9] ननु ब्रह्मणा सृष्टानां सर्वेषाम् अपि मनुष्यानां वैखानसत्वं समानम्.
[20.10-11] कथम् एतेष्व् एव व्यवह्रियते इति चेत् सत्यम्. नामरूबिस् हिएर् तेलुगुपकृत्यविभागादिकं वेदशब्देभ्य एव ब्रह्मणा कृतम् इति श्रूयते. "वेदेन नामरूपे व्याकरोत् सतासती*{217}* प्रजापतिर्" इति.
[20.12] तथा भारते: "अनादिनिधना ह्य् एषा वागुद्सृष्टा स्वयम्भुवा* ॥{218}* [म्भ् 12.224.55च्द्]
[20.13] आदौ वेदमयी दिव्या यतस् सर्वाः प्रसूतयः* ॥{219}*" इति [म्भ् 12.671.1]
[20.14] श्रीविष्णुपुराणे: "नाम रुपञ् च भूतानां कृत्यानाञ् च प्रअब् हिएर् तेलुगुपञ्चनम् ।
[20.15] वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥" इति. [विष्णुप् 1.5.63]
[20.16] मनु: "सर्वेषाञ् च स नामानि कर्माणि च पृथक् पृथक् ।
[20.17] वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे ॥" [मनुध्श् 1.21]
[20.18-19] इति च नामरूपविभागस्य श्रुतिस्मृतिषु प्रतिपादितत्वात् ब्रह्मणा तादृशश्रुतिस्मृत्यनुसारेण सृष्टानाम् एव वैखानसत्वव्यवहारः. नान्येषाम्.
[20.20-23] किञ्च एकस्मिन् परमपुरुषे मुखादिषु जातानां यथा ब्राह्मणादिव्यवहारः यथा विश्वामित्र भारद्वाजादि गोत्रेषूत्पन्नानाम् एकसूत्रनिष्ठत्वं विना अनेकसूत्रानुसारित्वं, यथा च कुमुदकह्लारादिषु "पङ्के जायत" इति व्युत्पत्त्या पङ्कजत्वे समानो ऽपि योगरूढिभ्यां पङ्कजत्वं तामरस एव वर्तते तथैव वैखानसत्वम् अपि. तथोक्तम्:
[20.24] "कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः ।
[20.25] श्रुतिस्मृतिसदाचार- निर्णेतारस् तु सर्वदा ॥
!{215}! म्भ्: पितामहस्य राजेन्द्र पुलस्त्यपुलहादयः.
[21.1] न काश्चिद् वेदकर्ता ऽस्ति वेदवक्ता चतुर्मुखः ।
[21.2] तथैव धर्मं स्मरति मनुः कल्पान्तरान्तरे ॥"
[तृतीयाश्रमनिष्ठानां न नैसर्गिकं वैखानसत्वम्]
[21.2-6] ननु: "ब्रह्मचारी गृहस्थश् च भिक्षुर् वैखानसस् तथा"*{220}* इति तत्र तत्र तृतीयाश्रमनिष्ठानाम् एव वैखानसत्वावगमात् त एव वैखानसशब्दवाच्याः किं न स्युर् इति चेत् न. श्रुतिस्मृतिपुराणादिषु उक्तप्रकारेण ब्रह्मणा सृष्टानाम् एव वैखानसत्वावगमात् तेषाम् एव तत्र तत्रोत्कृष्टत्वप्रतिपादनाच् च.*{221}*
[वैखानसानां ब्रह्मसभाप्रवेशः]
[21.7-8] तथा हि: श्रुताव् एव वैखानसानाम् उत्पत्तिः श्रूयते. "ये नखाः ते वैखानसाः"*{222}* इति. छन्दोग्यब्राह्मणे: "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्*{223}*"
[21.9-11] "पौरुहन् महं भवति. पुरुहान्नादो वा एतेन वैखानसो ऽञ्जसा स्वर्गं लोकम् अपश्यत्" इति. अत्र इन्द्रशब्देन परमात्मा नारायण उच्यते. "स ब्रह्मा स शिवस्सेन्द्रस्सो ऽक्षरः परमस् स्वराट्" इत्यादि श्रुतिभ्यः.*{224}*
[21.12] "आश्वत्थः कपिला गावस् तुलसी विखनास् तथा* ।{225}*
[21.13] चत्वारो मत्प्रिया राजंस् तेषां वैखानसो वरः* ॥{226}*" [आस् 19.10]
[21.14] इत्य् उपब्रह्मणात्. ब्रह्मसूत्रे इन्द्रप्राणाधिकरणे तथा निर्णयाच् च.*{227}*
[21.15] आनुशासनिके: "तथाग्नेस् तस्य भस्मभ्यो*{228}* ब्रह्मर्षिगणसमिम्ताः*{229}* ।
[21.16] वैखानसास् समुत्पन्नास् तपश्श्रुतगुणेप्सवः॥*{230}*" [म्भ् 13.85.18]
[21.17] इति वैखानसनाम्नैवोत्पत्तिप्रतिपादनात्.*{231}*
[21.18] तथा किष्किन्धाकाण्डे:

[21.19] "शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ [रा.म् 4.39.51च्द्]
[21.20] तत्र पूर्वं पदं कृत्वा पुरा विष्णुस् त्रिविक्रमे ।
[21.21] द्वितीयं शिखरे रौद्रं*{232}* चकार पुरुषोत्तमः ॥ [रा.म् 4.39.52]
[21.22] तदुत्तरे प्रतिक्रम्य*{233}* जम्बूद्वीपं दिवाकरः ।
[21.23] दृश्यो भवति भूयिष्ठं शिखरं तन् महोच्छ्रयम् ॥ [रा.म् 4.39.53]
[21.24] तत्र वैखानसा नाम वालखिल्या महर्षयः ।
[21.25] प्रकाशमाना दृश्यन्ते सूर्यवर्णास् तपस्विनः ॥" इति [राम् 4.39.54]
!{220}! दिएसेर् हल्ब्वेर्स् इस्त् äह्न्लिछ् इन् ध्न्[द्] 53.3 zइतिएर्त्.
[22.1] तत्रैव चत्वारिंशे ऽध्याये:
[22.2] मैनाकश् च*{234}* विचेतव्यस् ससानुप्रस्थकन्दरः ।
[22.3] स्त्रीणाम् अश्वमुखीनाञ् च निकेतास् तत्र तत्र तु ॥ [रा.म् 4.42.30]
[22.4] तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
[22.5] सिद्धा वैखानसास् तत्र वालखिल्याश् च तापसाः ॥ [रा.म् 4.42.31]
[22.6] वन्द्यास् ते तु तपस्सिद्धास् तपसा वीतकल्मषाः ।
[22.7] प्रष्टव्या चापि सीतायाः प्रवृत्तिर् विनायान्वितः*{235}* ॥ [रा.म् 4.42.32]
[22.8] हेमपुष्करसञ्छन्नं तत्र वैखानसं सरः ।" [राम् 4.42.33अब्]
[22.9] इति च वानप्रस्थपरत्वं विना "वैखानसा वालखिल्या" इति वालखिल्यसमानतया पृथग् वंशत्वेन कीर्तनात्.
[22.11] तथा श्रीविष्णुपुराणे - द्वितींयांशे नवमे ऽध्याये:
[22.12] "ततः प्रयाति भगवान् ब्राह्मणैर् अभिरक्षितः ।
[22.13] वालखिल्यादिभिश् चैव प्रभुर् वैखानसैर् अपि ॥ [विष्णुप् 2.8.58]
[22.14] महात्माभिर् महात्मा वै जगतां पालनोद्यतः ॥" इति [विष्णुप् ]
[22.15] तथा सभापर्वणि:
[22.16] पितामहस्य भवनं जग्मुश् च कृपयान्विताः* ॥{236}* [म्भ् 1.203.2च्द्]
[22.17] ततो ददृशुर् आत्मानं सह देवैः पितामहम् ।
[22.18] सिद्धैर् महर्षिभिश् चैव समन्तात् परिवारितम्* ॥{237}* [म्भ् 1.203.3]
[22.19] तत्र विष्णुर् महादेवस् तत्राग्निर् वायुना सह ।
[22.20] चन्द्रादित्यौ च धर्मश् च परमेष्ठी तथा बुधाः* ॥{238}* [म्भ् 1.203.4]
[22.21] वैखानसा वालखिल्यास् सोमपाश् च मरीचिपाः ।
[22.22] अजाश् चैवाजमीढाश् च तेजोगर्भास् तपस्विनः ।
[22.23] ऋषयस् सर्व एवेति पितामहम् उपासते* ॥{239}*" [म्भ् 1.203.5]
[22.24-25] इति च वैखानसानां ब्रह्मसभाप्रवेशवर्णनात्. तस्य च तृतीयाश्रमनिष्ठेष्व् असम्भवात्.
!{234}! राम्: मैनाकस् तु.
[वानप्रस्थानां श्रौतकर्मनिषेधः]
[23.1] आनुशासनिके
[23.2] "शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः । [म्भ् 13.140.15च्द्]
[23.3] वैखानसविधानेन गङ्गातीरं समाश्रिताः ॥ [म्भ् 13.140.647*.1]
[23.4] आदित्यास् सत्रमीहन्ति सरो वैखानसं प्रति*{240}* ॥" इति [म्भ् 13.140.16]
[23.5-7] अत्र वानप्रस्थविधौ सत्रयागक्रमविधानाभावात् वानप्रस्थाश्रमप्रविष्ठानां तेन शारीरेण पुनर् अपि देवत्वयोग्यता ऽसम्भवाच् च वैखानसविधानेनेति वैखानसपदेन वानप्रस्थानां गृहीतुम् अशक्यत्वात्.
[23.8] किञ्च श्रीभागवते एकादशस्कन्धे:
[23.9] "वन्यैश् चरुपुरोडाशैर् निर्वपेत् कालचोदिताम् ।

[23.10] न तु श्रौतेन विधिना मां यजेत वनाश्रमी* ॥{241}*" [भागवतप् 11.18.7]
[23.11] इति वानप्रस्थानां शरुतविधिनिषेधप्रतिपादनात्.
[भगवदर्चनक्रमः]
[23.12] तथा वृद्धमनौ: "वेदान्तवेदिभिर् विप्रैस् तद्वैखानससूत्रिभिः ।
[23.13] याजयेद् यज्ञपुरुषं विष्णुं राजा जगद्धितः ॥" इति
[वैखानसपाञ्चरात्रिकयोः चतुर्मूर्तिषु संज्ञायां वैषम्यम्]
[23.14] तथा आश्वमेधिके:
[23.15] युधिष्ठिरह्: "कथं त्वं अर्चनीयो ऽसि मूर्तयः कीदृशाश् च ते*{242}* । [म्भ् 14, अप्प्. 4.1652]
[23.16] वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः ॥ [म्ब्.ह् 14, अप्प्. 4.1653]
[23.17] श्रीभगवान्: "शृणु पाण्डव तत्सर्वम् अर्चनाक्रमम् आत्मनः । [म्भ् 14, अप्प्. 4.1654]
[23.18] स्थण्डिले पद्मकं कृत्वा साष्टपत्रं*{243}* सकर्णिकम् ॥ [म्ब्.ह् 14, अप्प्. 4.1655]
[23.19] अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः*{244}* । [म्भ् 14, अप्प्. 4.1656]
[23.20] वैदिकैर् अथवा मन्त्रैर् मम सूक्तेन वा पुनः ॥ [म्ब्.ह् 14, अप्प्. 4.1657]
[23.21] स्थितं मां मन्त्रतस् तस्मिन् अर्चयेत् सुसमहितः*{245}* । [म्भ् 14, अप्प्. 4.1658]
[23.22] विष्णुञ् च पुरुषं सत्यम्*{246}* अच्युतञ् च युधिष्ठिर*{247}* ॥ [म्ब्.ह् 14, अप्प्. 4.1659]
[23.23] अनिरुद्धञ् च मां प्राहुर् वैखानसविदो जनाः । [म्भ् 14, अप्प्. 4.1660]
[23.24] अन्ये त्व् एवं विजानान्ति मां राजन् पाञ्चरात्रिकाः*{248}* ॥ [म्ब्.ह् 14, अप्प्. 4.1661]
!{240}! म्भ्: आदित्याः सत्रमासन्त सरो वै मानसं प्रति; ध्न्[द्] इस्त् व्.ल्.
[24.1] वासुदेवञ् च राजेन्द्र सङ्कर्षणम् अथापि वा । [म्भ् 14, अप्प्. 4.1662]
[24.2] प्रद्युम्नञ् चानिरुद्धञ् च चतुर्मूर्तिं प्रचक्षते* ॥{249}* [म्भ् 14, अप्प्. 4.1663]
[24.3] एताश् चान्याश् च राजेन्द्र संज्ञाभेदेन मूर्तयः । [म्भ् 14, अप्प्. 4.1664]
[24.4] विद्ध्य् अनर्थान्तरा एव माम् एवञ् चार्चयेद् बुधः* ॥{250}*" इति [म्भ् 14, अप्प्. 4.1665]
[24.5] तथा पाञ्चरात्रे पौष्करसंहितायाम्:
[24.6] "विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* ॥{251}* [पौष्करस् 36.260च्द्]
[24.7] एकन्तिनस्*{252}* सुसत्त्वस्था देहान्तं नान्ययाजिनः ।
[24.8] कर्तव्यम् इति देवेशं संयजन्ते फलं विना ॥"*{253}* इति [पौष्करस् 36.261]
[शुद्ध, वैदिक, तान्त्रिकभेदेन पूजात्रैविध्यम्]
[24.9] तथा तत्रैव तन्त्रभेदनिर्णये:
[24.10] "शुद्धञ् च वैदिकञ् चेति तान्त्रिकञ् च त्रिधा भवेत् ।
[24.11] पाञ्चरात्रेण पूजा तु शुद्धं विष्णोर् इति स्मृतम् ॥ [पौष्करस् ]
[वैखानसपूजायाः वैदिकत्वं]
[24.12] वैखानसेन सूत्रेण पूजयेद् विष्णुम् अव्ययम् ।
[24.13] वैदिकं तद् इति प्रोक्तं द्विजातीनां प्रशस्यते ॥" इति [पौष्करस् ]
[24.14] तथा विष्णुस्मृतौ:
[24.15] "पौरुषं सूक्तम् आस्थाय ये यजन्ति द्विजोत्तमाः ।
[24.16] संहिताजपमास्थाय ते मां प्राप्स्यन्ति वै द्विजाः ॥
[24.17] अलाभे वेदमन्त्राणां पाञ्चरात्रोदितेन वा ॥" इति
[24.18] तथा सङ्कर्षणसंहितायाम्:
[24.19] "पूजयेत् पञ्चरात्रैस् तु मन्त्रैर् मोक्षफलप्रदैः ।
[24.20] वैखानसोक्तैर् दिव्यैर् वा मन्त्रैस् सर्वार्थसिद्धये ॥" इति [सङ्कर्षणसंहिता]

[24.21] तथा शिल्पे हरिहरादीनां स्थाननिर्णये:
[24.22] "सहस्रविप्रावासेषु शतविप्राधिकेषु च ।
[24.23] पञ्चमूर्तिविधानेन मध्ये विष्णुं समर्चयेत् ॥
[24.24] तद्वास्त्वङ्गालये विष्णुं तान्त्रिकेण न चार्चयेत् ।
[24.25] अर्चयेद् वैदिकोक्तेन वैखानसविधानतः ॥" इति
!{249}! सो औछ् zइतिएर्त् इन् ध्न्[द्] 44.25-45.1.
[वैष्णवसमयस्य त्रैविध्यम्]
[25.1] तथा ज्यौतिषे हयग्रीवसंहितायाम्:
[25.2] "श्रीशास्त्रेणैव कर्तव्यं ग्राममध्यालयार्चनम् ।
[25.3] पाञ्चरात्रविधानेन नाचरेद् इति शासनम् ॥" इति [हयग्रीवसंहिता]
[25.4] तथा शैवे च सुप्रभेदे:
[25.5] "सहस्रभूसुराद् ऊर्ध्वे ग्रामे ब्रह्माङ्कणे ऽपि च ।
[25.6] वैखानसेन सूत्रेण निषेकादिसुसंस्कृतैः* ॥{254}* [सुप्रभेदा ]
[25.7] भार्गवादिमहातन्त्रमन्त्रभेदविचक्षणैः ।
[25.8] अनुद्धृतैर् मन्त्रगणैर् वेदवेदान्तसम्भवैः* ॥{255}* [सुप्रभेदा ]
[25.9] क्रमाध्ययनसम्पन्नैस् साङ्गोपाङ्गैश् च संस्कृतैः ।
[25.10] पञ्चमूर्तिप्रकारेण प्रतिष्ठाप्यार्चयेद् धरिम् ॥ [सुप्रभेद्.आ ]
[25.11] वैदिकं तद् इति प्रोक्तं राजराष्ट्रविवर्धनम्* ॥{256}*" इति. [सुप्रबेधा ]
[25.12] तथा कारणे ग्रामविन्यासविधौ:
[25.13] "ब्रह्मांशं तु चतुर्भागं कृत्वा वायव्यभागतः ।
[25.14] पञ्चमूर्तिक्रमेणैव विष्णुं संस्थाप्य पूजयेत् ॥" इति [सुप्रभेदा ]
[25.15] तथा भीमसंहितायाम् समयभेदोपन्यासावसरे:
[25.16] "शैवम् एवं समाख्यातं वैष्णवन् त्व् अधुनोच्यते ।
[25.17] वैष्णवञ् च त्रिधा प्रोक्तं तथा समयभेदवत् ॥ [भीमसंहिता]
[25.18] पाञ्चरात्रं भागवतं तथा वैखानसं मतम् ।
[25.19] शुद्धं मिश्रं तथा सौम्यं यथा संख्यक्रमेण तु ॥ [भीमसंहिता]
[25.20] वैदिकाचारबाह्यं यत् तद्रौद्रम् इति कीर्तितम् ।
[25.21] वैदिकाचारसम्बन्धात् सौम्यं श्रेष्ठम् उदाहृतम् ॥ [भीमसंहिता]
[25.22] ग्रामादीनां समीपे तु मिश्रोक्तं स्थापयेद् बुधः ।
[25.23] अब्धिनद्यादितीरेषु*{257}* शुद्धोक्तं स्थापयेत् तथा ॥ [भीमसंहिता]
[25.24] विप्रावासेषु सर्वेषु सौम्योक्तेनैव कारयेत् ॥" इति [भीमसंहिता]
!{254}! ध्न्[त्] 145: निषेकाद्यादिसंस्कृतैः.
[26.1] तथा गारुडे: "अध्वर्युभिर् विप्रवरैर् मते विखनसस् स्थितैः ।
[26.2] तत्राराधनम् ईहस्व विष्णोर् अमिततेजसः ॥" इति [गरुडप् ]
[श्रीरङ्गे वैखानसार्चनम्]
[26.3] तथा तत्रैव श्रीरङ्गमाहात्म्ये:
[26.4] "ब्रह्मा ऽपि दिव्यहंसेन सितमेघोपमेन च ।
[26.5] पृष्ठतो ऽनुययौ विष्णुं वस्त्रेणाच्छाद्य*{258}* चाननम् ॥ [गरुड.प् ]
[26.6] तत्रार्चको महाभागो भगवान् विखनास् तथा*{259}* ।
[26.7] ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया* ॥{260}*" इति [गरुडप् ]

[26.8] तथा उपरिचरवसुचरिते:
[26.9] "वैखानसानां वचनैर् जपहोमार्चनादिभिः ।
[26.10] यजेद् धरिं सुरपतिं भूमेर् विवरगो ऽपि सन् ॥" इति [गरुडप् ]
[वृषगिरौ वैखानसार्चनम्]
[26.11] तथा वृषगिरिमाहात्म्ये:
[26.12] "अन्तःप्रविश्य मुनयस् सह वैखानसैर् द्विजैर् ।
[26.13] प्रणमन्त्य् अन्वहं देवं नारायणम् अनामयम् ॥" इति [गरुडप् ]
[26.14] तथा आग्नेयपुराणे फुल्लारण्यमाहात्म्ये:
[26.15] "फुल्लशिष्यास् तु यक्षास् ते पूजयन्ति युगे युगे ।
[26.16] वैखानसेन विधिना यथा फुल्लमुखाच् च्युतम् ॥ [अग्निप् ]
[26.17] मानुषाः पूजयन्तीह वैखानसमते स्थिताः ॥" इति [अग्निप् ]
[26.18] तथा ब्रह्मकैवर्ते पुष्करतीर्थवैभववर्णने:
[26.19] "निम्नगानां यथा गङ्गा देवानां भगवान् हरिः ।
[26.20] वर्णानां ब्राह्मणाश् श्रेष्ठा आश्रमाणां यतिर् यथा ॥ [ब्रह्मकैवर्तप् ]
[26.21] श्रुतीनाम् आदिभूतानाम् आदिर् एकायनी यथा ।
[26.22] व्यूहानाम् आदिभूतस् तु वासुदेवो यथा वरः ।
[26.23] त्रिमूर्तीनां यथा विष्णुश् शिवानान् तु सदाशिवः* ॥{261}* [ब्रह्मकैवर्तप् ]
[विप्रेषु वैखानसानां, सूत्रेषु वैखानससूत्रस्य च श्रेष्ठ्यम्]
[26.24] धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः ।
[26.25] विप्राणां वेदविदुषां यथा वैखानसो वरः* ॥{262}* [ब्रह्मकैवर्तप् ]
!{258}! ध्न्[द्] 7.26: वस्त्रेणोच्छाद्य.
[27.1] सूत्राणां तत्प्रणीतन् तु यथा श्रेष्ठतमं स्मृतम् ।
[27.2] तथैव पुष्करो राजंस् तीर्थानाम् उत्तमोत्तमः* ॥{263}*" [ब्रह्मकैवर्तप् ]
[27.3-6] इति च प्रतिपादनात् ईदृशानां वैखानसानाम् एव श्रुतिस्मृतीतिहासपुराणादिषु चतुर्मुखात् सामान्यत्वेन विना सर्वोत्कृष्टत्वेनोत्पत्तिश्रवणात् ब्रह्मसभाप्रवेशसूर्यपथाद्याश्रयणादिप्रतिपादनाच् च वैखानसा न तृतीयाश्रमनिष्ठाः, न वा ब्रह्मणा सामान्यतः सृष्टा भवितुम् अर्हन्ति.
[जम्बुद्वीपे भारतवर्शस्य श्रेष्ठ्यम्]
[27.7] श्रीविष्णुपुराणे: "अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ।
[27.8] यतो हि कर्मभूर् एषा ह्य् अतो ऽन्या भोगभूमयः ॥ [विष्णु.प् 2.2.22]
[27.9] कृतं त्रेता द्वापरञ् च कलिश्चान्यत्र न क्वचित् ।
[27.10] तपस् तप्यन्ति यतयो जुह्वते चात्र यज्वनः ॥ [विष्णुप् ]
[27.11] दानानि चात्र दीयन्ते परलोकार्थम् आदरात् ।
[27.12] पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ॥ [विष्णु.प् ]
[27.13] यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा ॥ [विष्णुप् ]
[27.14] अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम ।
[27.15] कदाचिल्लभते जन्तुर् मानुष्यं पुण्यसञ्चयात् ॥" [विष्णुप् 2.2.23]
[27.16-19] इति भारतखण्डव्यतिरिक्तस्थलेषु ब्रह्मचर्याद्याश्रमादिव्यवस्थाव्यवहाराद्यभवात् पाञ्चरात्रशिल्पज्यौतिषादिषु एषाम् अद्वारकभगवद्यजनाधिकारित्वपरमवैदिकपरमैकान्तित्वादेः प्रतिपादनाङ् च एष्व् एव वैखानसत्वं नैसर्गिकम्. वानप्रस्थेषु वैखानसत्वं न नैसर्गिकम्.
[27.20-22] किन्तु तेषां सूत्रान्तरेष्व् अनुक्तानां वानप्रस्थाश्रमस्वीकारप्रयोगश्रामणकाग्निकुण्डविधानादीनां विखनस् सूत्रे प्रतिपादितानां तत्सूत्रोक्तप्रकारेण वानप्रस्थाश्रमस्वीकारादिनैव वैखानसत्वसिद्धिर् इति.
[27.23] इदम् एवाह बौधायनः:
[वानप्रस्थानां मुख्यवृत्त्या वैखानसशब्दवाच्यत्वाभावः]
[27.24-28.2] "वानप्रस्थो वैखानसशास्त्रसमुदाचारो वने मूलफलाशी तपश्शीलस् सवनेषूदकम् उपस्पृशन् श्रामणकेनाग्निम् आधायाग्राम्यभोजी देवपितृमनुष्यभूतर्षिपूजकः सर्वातिथिः प्रतिषिद्धवर्जं भैक्षम् अप्य् उपयुञ्जीत. न फालकृष्टम् अधितिष्ठेत् ग्रामं वा न प्रविशेत्"*{264}* इति.
!{263}! दिएसेर् वेर्स् इस्त् औछ् अल्स् "ब्रह्मकैवर्तपुराण" zइतिएर्त् इन् ध्न्[द्] 42.10-11.

[28.3] मनुः: "अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रयम् ॥"*{265}* इत्य् आरभ्य
[28.4] "पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
[28.5] कालपक्वैस् स्वयं शीर्णैर् वैखानसमते स्थितः ॥"*{266}* इति [मनुध्श् 6.21]
[28.6-8] हारीत: "वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत्. त्रेताग्नीनां स्थाने श्रामणकं वाग्निम् आधाय वल्कलशाणचर्मकुशमुञ्जादिवल्कलं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो भवति. अनुज्ञायिको ऽनुप्रस्थायिक" इति.
[28.9] यम: "श्रामणकेन विधानेन सायं प्रातर् उपस्पृशेद्" इति.
[28.10-11] शङ्खलिखितौ: "श्रामणकेनाग्निम् आधाय काले कुरुविन्दवेणुश्यामाकनीवारादिभिर् वर्तयेद्"*{267}* इति.
[28.12] वसिष्ठो ऽपि: "श्रामणकेनाग्निम् आधायाहिताग्निर् वृक्षमूलिक" इति.
[28.13] अस्य यज्ञस्वामिव्याख्याने:
[28.14] "श्रामणकं नाम वैखानसशास्त्रम्. तदुक्तेन विधिनाग्निम् आधाय" इति.
[28.15] शुकानुशासने व्यासो ऽपि:
[28.16] "मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः । [म्भ् 12.236.13च्द्]
[28.17] वर्तयन्ति यथान्यायं वैखानसमते स्थिताः* ॥{268}*" इति [म्भ् 12.236.14अब्]
[28.18] स्मृत्यन्तरम् अपि: "यस्मिन्न् एव तु सम्प्रोक्तं सूत्रे विखनसा परम् ।
[28.19] वनस्थानान् तु सर्वेषां विधिश्रामणकाभिधः* ॥{269}*
[28.20] वानप्रस्थास् ततस् सर्वे ये द्विजास् त्व् अन्यसूत्रिणः ।
[28.21] तत्सूत्रविध्यनुष्ठानात् स्मृता वैखानसास् तु ते* ॥{270}*" इति च वर्णयन्ति.*{271}* [आस् 11.4]
[28.22] अतश् च वानप्रस्था मुख्यत्वेन वैखानसशब्दवाच्या न भवन्ति.*{272}*
[28.23] आनुशासनिके च:
[28.24] "तं पतन्तम् अभिप्रेक्ष्य*{273}* प्रेक्ष्य च र्षिगणानथ । [म्भ् 13, अप्प्. 1अ.313]
[28.25] आसीनान*{274}* वसुभिस् सार्धं सत्रेण जगतीपतेः ॥ [म्भ् 13, अप्प्. 1अ.314]
!{265}! मनुध्श् 6.1अब् व्.ल्. दिएसेर् हल्ब्वेर्स् इस्त् äह्न्लिछ् अल्स् "मनु" zइतिएर्त् इन् ध्न्[द्] 92.5.
[29.1] वैखानसानाम् एतेषां*{275}* वालखिल्यगणान् अपि । [म्भ् 13, अप्प्. 1अ.315]
[29.2] तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत ॥ [म्ब्.ह् 13, अप्प्. 1अ.316]
[29.3] तुण्डेन गृह्य तां शाखाम् उत्पपात खगेश्वरः ॥" इति [म्भ् 13, अप्प्. 1अ.318]
[29.4] तत्रैवोमामहेश्वरसंवादे:
[29.5] "वैखानसानां वै धर्मं श्रोतुम् इच्छामि धर्मतः* ॥{276}* इत्य् आरभ्य
[29.6] तेषु वैखानसा नाम वानप्रस्थाश् शुभेक्षणे । [म्भ् 13, अप्प्. 15.702]
[29.7] तीव्रेण तपसा युक्ता*{277}* दीप्तिमन्तस् सुतेजसः ॥" इति [म्भ् 13, अप्प्. 15.703]
[29.8] हरिवंशे च अक्रूरागमनसमये:
[29.9] "शकपोत्राव्यया? मोदे प्रदोषे ऽभ्याशतस्*{278}* करे* ।{279}* [हरिव् 68.4]
[29.10] किञ्चिद् अभ्युदिते सोमे शातितेषु तमस् सु च* ॥{280}* [हरिव् 68.9]
[29.11] वन्यैर् वैखानसैर् मन्त्रैः हूयमाने हुताशने ॥" इति. [हरिव् 68.5च्द्]
[29.12] पाद्मे च: "ब्राह्मणं वृद्धहारीतं वैखानसमते स्थितम् ॥" इति च वर्णनात्*{281}* [पद्मप् ]
[29.13-15] वानप्रस्थस्य श्रौतविषये पृथक्त्वेन मन्त्रप्रतिपादनाभावाच् च बोधायनादिभिर् उक्तप्रकारेण*{282}* वानप्रस्थस्य वैखानसत्वं वैखानससूत्रोक्तवानप्रस्थाश्रमस्वीकाराद् एवेत्य् अवगन्तव्यम्.*{283}* एतावता विखनश् शब्दार्थो निर्णीतः.*{284}*
[29.16] (आद्यहेतुनिरूपणप्रकारः)
[वैखानससूत्रशास्त्रयोर् विखनसा प्रणीतत्वम्]
[29.17-18] *{285}*अथ वैखानससूत्रशास्त्रयोः*{286}* अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वम् उपपाद्यते.
[29.19] विष्णुधर्मे: "कथयामि यथापूर्वं मत्पित्रा कथितं मम ।
[29.20] तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः* ॥{287}* [विष्णुध् 1.38]
!{275}! म्भ्: वैखानसान् नाम यतीन्.

[30.1] तेनापि भृगुम् आराध्य प्राप्तम्*{288}* आराधनं हरेः ।
[30.2] सकाशाद् ब्रह्मणः प्राप्तं*{289}* भृगुणापि महात्मना ॥ [विष्णुद्.ह् 1.39]
[30.3] प्राप्तं सकाशाद् देवस्य ब्रह्मणो ऽव्यक्तजन्मनः ॥" इति. [विष्णुध् 1.40अब्]
[वैखानसमार्गस्य उपदेशपरमंपरा]
[30.4] हारीतस्मृतौ: "पूर्वं विखनसो*{290}* विष्णुः प्रोक्तवान् स्वयम् अच्युतः ।
[30.5] भृगोः प्रोक्तं विखनसा भृगुणा च ममेरितम् ॥" इति
[पाञ्चरात्रागमोत्पत्त्यादिप्रकारः]
[30.6] गारुडे: "पुरा चतुर्मुखादेशाच् चत्वारो मुनयो ऽमलाः ।
[30.7] प्रणीय वैष्णवं शास्त्रं भूमाव् अभ्यर्चयन् नृप ॥ [गरुडप् ]
[30.8] मरीचिर् मन्दरे विष्णुं अर्चयमास केशवम् ।
[30.9] आदेशाद् ब्रह्मणो विष्णुं श्रीनिवासे ऽत्रिर् अर्चयेत् ॥ [गरुडप् ]
[30.10] कश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगुर् मुनिः ।
[30.11] गङ्गाया दक्षिणे तीरे सीम्नि तस्यान्तिके ऽपि च* ॥{291}* [गरुडप् ]
[30.12] तत्सन्धौ शुचिषण्णामा*{292}* भृगुणा स्थापितो हरिः ॥" इति चोक्तम् [गरुडप् ]
[30.13] पाञ्चरात्रे: "आद्ये कलियुगे प्राप्ते सोमकेन हृता त्रयी ।
[30.14] अवैदिकेषु लोकेषु दैवतेषु मुनिष्व् अपि ॥
[30.15] भगवन्तं समासाद्य नारायणम् अनामयम् ।
[30.16] अनन्तो गरुडश् चैव विष्वक्सेणः पितामहः ॥
[30.17] शङ्करश् चैव पञ्चैते पप्रच्छुः शरणं गताः ।
[30.18] क्षणम् अप्य् अच्युतस्यार्चां त्यक्तुम् एव न शक्नुमः ॥
[30.19] अवैदिकेषु लोकेषु किं कुर्मश् चलमानसाः ।
[30.20] तस्माद् उपायं लक्ष्मीश वदास्माकं चिरन्तन*{293}* ॥
[30.21] इत्य् उक्तस् स हरिस् तेभ्यः*{294}* पञ्चरात्रविधिं क्रमात् ।
[30.22] एकैकरात्रम् एकस्मै तन्त्रं समुपदिष्टवान् ॥
[30.23] पञ्चलक्षप्रमाणेन पञ्चरात्रं प्रपञ्चितम् ॥" इत्य् उपक्रम्य
[30.24] "प्रथमं ब्रह्मरात्रन् तु द्वितीयं रुद्ररात्रकम् ।
[30.25] तृतीयम् इन्द्ररात्रं यच्*{295}* चतुर्थं ग्रहरात्रकम् ॥
!{288}! ध्न्[त्] 160: प्रोक्त (प्राप्त)म्.
[31.1] पञ्चमं मुनिरात्रन् तु पञ्चरात्रं विधीयते ।
[31.2] रात्रिभिः पञ्चभिः प्रोक्तं श्रुतं शिष्यैश् च पञ्चभिः ॥
[31.3] तस्मात् तत् पञ्चरात्राख्यां लब्ध्वा तिष्ठति भूतले ॥"
[31.4-5] इत्य् अन्तेन*{296}* पाञ्चरात्रस्योत्पत्त्यादिकं निरूप्य परमवैदिकस्य श्रीवैखानसस्योत्पत्त्यादिकं प्रतिपाद्यते.*{297}*
[वैखानसशास्त्रोत्पत्त्यादिप्रकारः]
[31.6] अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यमम् ।
[31.7] निर्मथ्य सोमकं वेदान् अदात् पङ्कजयोनये ॥
[31.8] तादृशं पुण्डरीकाक्षं स्तोत्रैस् सन्तोष्य पद्मभूः ।
[31.9] उवाच वचनं प्रेम्णा दण्डवत् प्रणिपत्य च ॥
[31.10] तान्त्रिकेण त्वया प्रोक्तं मार्गेण भवद् अर्चनम्*{298}* ।
[31.11] न प्रसीदति तेनास्मन् मनः कमललोचन ॥
[31.12] वैदिकेन त्वद् अर्चां मे यथापूर्वं वदाच्युत ।

मूल पाठ: Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi) · Edition: (pp. 1-122) the of the Devanāgarī-ed. by R. Parthasarathi Bhattacarya: Śrīvaikhānasagṛhyasūtra (= DHN[D]); 2 vols., Akulamannāḍu, 1967 (reprint Tirupati, 1997/98). · Data entry Ute Hüsken · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc