भाषा

ENहिગુ
ग्रंथ पाठ

Darpadalana · अध्याय 6

6.1

जगत्येको भद्रद्विरद इव दानार्द्रसरणिर् यशस्वी निःस्वानामहमभिमताशाफलतरुः
इति त्यागोदग्रं वहति किल दर्पं मनसि यस् तदुद्भूतं सर्वं सुकृतमपहाय व्रजति सः ॥

6.2

स्वर्गादिसंभोगफलाभिलाषात् पात्राय पूजां प्रतिपद्यते यः
धर्मार्थपण्यक्रयविक्रयो ऽसौ कस्तेन दानप्रभवो ऽभिमानः ॥

6.3

यद्विद्यादिगुणोत्कर्ष विशेषपरितोषितैः
दीयते प्रीतिधनयोः स पण्यक्रयविक्रयः ॥

6.4

लोकप्रसिद्धिसिद्ध्यै यः प्रयच्छति गुणस्तवैः
करोति वित्तयशसोः स तदा क्रयविक्रयम् ॥

6.5

अवमानहतं यच्च दत्तमश्रद्धया धनम्
ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥

6.6

त्यागिनो ऽन्यस्य संघर्षे कीर्त्युत्कर्षजिगीषया
दत्तं कारणभूतस्य तस्यैवान्ते फलप्रदम् ॥

6.7

परार्तिशमनं वित्तम् अज्ञातमनुदीरितम्
अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम् ॥

6.8

कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु
आत्मोपकारमात्रेण पात्रे दानेन किं मदः ॥

6.9

देशकालक्रियापात्राण्य् अविचार्यैव केवलम्
परेषामार्तिशमनं दयार्द्रं दानमुच्यते ॥

6.10

रक्षायै संपदां पुत्र कलत्रसुखसिद्धये
दीयते यत्प्रयत्नेन लोभदानेन तेन किम् ॥

6.11

वादे खलैः खलीकृत्य वेधद्रुतपरीक्षया
दीयते यच्चिरक्लिष्टं कष्टदानेन तेन किम् ॥

6.12

त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य दीयते
यत्तदुच्छ्वाससंतप्तं दग्धदानेन तेन किम् ॥

6.13

अन्यदाभाषितं पूर्वं दत्तमन्यत्ततो ऽल्पकम्
यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥

6.14

चिरसेवानुरोधेन लोभकृच्छ्रादनिच्छया
अप्रसादेन यद्दत्तं बलादानेन तेन किम् ॥

6.15

यत्पुष्पधूपतिलक प्रतिपत्तिप्रदर्शितम्
दत्तमत्यल्पनिःसारं दम्भदानेन तेन किम् ॥

6.16

प्रभूतभारसंभारं राजचौरादिविप्लवे
दत्त्वा यद्दुष्टमुद्घुष्टं शल्यदानेन तेन किम् ॥

6.17

अनास्वाद्यमविक्रेयम् अनादेयमनीप्सितम्
दत्तं निरुपकारं यद् वन्ध्यदानेन तेन किम् ॥

6.18

ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम्
यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥

6.19

एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये
भेदाद्यदर्पितं राग द्वेषदानेन तेन किम् ॥

6.20

ऋणदैः स्वजनैः पुत्रैर् लब्धक्षामप्रतिग्रहः
नित्यमायास्यते येन कलिदानेन तेन किम् ॥

6.21

न परस्यार्तिशनमं नात्मनः पुण्यकारणम्
दत्ताल्पमूल्येनाप्तं यत् स्वल्पदानेन तेन किम् ॥

6.22

दुर्ग्रहेषु विरुद्धेषु दशापाके ऽतिदारुणे
दीयते दोषशान्त्यै यद् भयदानेन तेन किम् ॥

6.23

मुमूर्षस्त्यक्तसर्वाशः शयनस्थो ददाति यत्
मूर्च्छास्थानेन मनसा मोहदानेन तेन किम् ॥

6.24

दत्तं प्रियवियोगोग्र शोकशल्यार्तचेतसा
यत्पश्चात्तापजननं बाष्पदानेन तेन किम् ॥

6.25

पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने
दीयते यत्प्रसङ्गेन भृतिदानेन तेन किम् ॥

6.26

यत्संत्यक्तफलस्पृहं यदुचितं सर्वस्वभूतं च यन् नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत्
दत्त्वा दुःखशतं न यत्स्ववचसा पश्चान्न यद्गण्यते तद्दानं धनबीजवापनिपुणः शेषः प्रकारः कृषेः ॥

6.27

प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया
आपन्नार्तिविलोकने करुणया श्रद्धासुधापूरितं सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् ॥

6.28

युधिष्ठिरस्य भूभर्तुः पुरा कनकवर्षिणः
अश्वमेधे विधानेन वर्तमाने महाक्रतौ ॥

6.29

सज्जासु राजभोज्यासु विविधास्वन्नपालिषु
अनिशं रत्नपात्रेषु भुञ्जानेषु द्विजन्मसु ॥

6.30

विप्रेषु पूर्यमाणेषु मणिकाञ्चनशासनैः
उच्छिष्टभूमिं नकुलः स्वबिलात्समुपाययौ ॥

6.31

दीप्तकाञ्चनवर्णेन पार्श्वेनैकेन शोभितः
अपरेणासुवर्णेन वितीर्णजनकौतुकः ॥

6.32

सो ऽभ्येत्य तूर्णमुच्छिष्ट हेमपात्रच्युते ऽम्भसि
लुलोठ शफरोत्फाल परिवर्तविवर्तनैः ॥

6.33

सुवर्णपार्श्वं नकुलं दृष्ट्वा सर्वे कुतूहलात्
मज्जन्तमुच्छिष्टजले क्षितिपाय न्यवेदयन् ॥

6.34

प्राप्तेन भूभुजा दृष्ट्वा दृष्ट्या पृष्ट इवेष्टया
सो ऽवदद्विस्मयभुवा सुस्पष्टाक्षरया गिरा ॥

6.35

राजन्नस्यातिदानस्य न पश्याम्युचितं फलम्
अस्मात्प्रभूतसंभारात् सक्तुपात्रं वरं परम् ॥

6.36

प्रवृत्ते ऽस्मिन्महादाने महतस्ते महीपते
वित्ते वृत्ते च चित्ते च शुद्धिं को वेत्ति तत्त्वतः ॥

6.37

संभारो ऽयं भुवनभवनव्याप्तिपर्याप्तभोगः सर्वाशासु प्रततजनतापूरणे ऽत्यन्ततुच्छः
आपन्नार्तिप्रशमनविधौ सत्त्वशुद्धिप्रदाने संनद्धानामपि तृणकणः काञ्चनाद्रित्वमेति ॥

6.38

श्रूयताम् यन्मया दृष्टं भूपते स्वयमद्भुतम्
उदेत्युदीरिते यस्मिन् काये रोमाञ्चकञ्चुकः ॥

6.39

शिलोञ्छवृत्तिना पूर्वं विप्रेण क्षेत्रचारिणा
उपवासकृशेनाप्तं यवस्तोकं कलत्रिणा ॥

6.40

सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः
जायापुत्रविभागेन स्वं भागं भोक्तुमुद्ययौ ॥

6.41

स प्राणाहुतितोयार्थी ददर्शातिथिमागतम्
क्षुत्क्षामकुक्षिं संक्षिप्त सर्वाङ्गशिथिलाकृतिम् ॥

6.42

तस्मै विहितसत्कारः सप्रसादेन चेतसा
श्रद्धासुधावसिक्तं तत् स ददौ निजभोजनम् ॥

6.43

निगीर्णो ऽतिथिना तस्मिन्न् अक्षीणक्षुद्विकारिणा
तद्भार्याप्यादरवती तस्मै स्वमशनं ददौ ॥

6.44

तेनाप्यतृप्तिमालोक्य तत्सूनुः श्रद्धयातिथिम्
स्वभोजनेन विदधे संपूर्णाशननिर्वृत्तम् ॥

6.45

गते भुक्त्वातिथौ तस्मिन्न् उपवासकृशो द्विजः
सत्त्वोत्साहयुतस्तस्थौ क्लान्तो ऽपि निशि निर्व्यथः ॥

6.46

अथाहं सक्तुगन्धेन निर्गतः क्षुधितो बिलात्
प्राप्तस्तत्पर्णकुटिकाम् उत्सृष्टोच्छिष्टवर्तिनीम् ॥

6.47

तत्राचमनतोयेन स्पृष्टमात्रस्य मे नृप
पस्य मे दक्षिणं पार्श्वं जतं हेममयच्छवि ॥

6.48

ततो ऽहं वामपार्श्वस्य हेमच्छायाप्तये सदा
निर्निद्रश्चिन्तया यातः कृशतामेव केवलम् ॥

6.49

यद्यत्प्राप्नोति पुरुषः कर्मयोगात्समीहितम्
तत्तत्संपूरणायैव याति चिन्ताविधेयताम् ॥

6.50

अधुना वर्तमाने ऽस्मिन्न् अश्वमेधे तव क्रतौ
हेमपार्श्वाशयायातो विप्रोच्छिष्टामहीमहम् ॥

6.51

रत्नकाञ्चनपात्राम्बु सिक्तस्य लुठतश्चिरम्
मम कान्तिलवो ऽप्यङ्गे न कश्चिदिह दृश्यते ॥

6.52

सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे
नमो महाफलायैव न भोगाङ्गप्रसङ्गिने ॥

6.53

इत्युक्त्वा नकुले याते तत्तथेति युधिष्ठिरः
विचिन्त्य संततोच्छ्वासः क्षणं स्तिमिततां ययौ ॥

6.54

तस्मात्सुवर्णाम्बररत्नभूमि दानैर्न दर्पः पुरुषेण कार्यः
भवत्युदारं करुणार्द्रसत्त्वं दानं सदा कस्यचिदेव पुण्यैः ॥

मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc