भाषा

ENहिગુ
ग्रंथ पाठ

Darpadalana · अध्याय 5

5.1

अहं शूरः क्रूरप्रतिभटघटापाटनपटुस् तरस्वी सेनायां हयगजघटानामधिपतिः
इति प्रौढः पुंसां निजभुजबलाक्रान्तजगतां भवत्यन्तर्दर्पः परिभवपदं कालगलितः ॥

5.2

शौर्येण दर्पः पुरुषस्य को ऽयं दृष्टस्तिरश्चामपि शूरभावः
औचित्यहीनं विनयव्यपेतं दयादरिद्रं न वदन्ति शौर्यम् ॥

5.3

बालस्य शौर्यं कुसुमोपमस्य मातुः प्रहारे प्रणयस्मितेषु
वृद्धस्य शौर्यं शिथिलाङ्गसंधेः स्वश्लाघया पूर्वकथापथेषु ॥

5.4

वयस्त्रिभागे तरुणस्य शौर्यं यदेव दर्पप्रभवाभिभूतम्
तच्चित्तवृत्तेर्विविधस्वभावात् पर्यायशो यात्यतिवैपरीत्यम् ॥

5.5

........... ...........
चित्तस्य जात्यानिलचञ्चलस्य नानागुणत्वात्क्रियते किमस्य ॥

5.6

ह्यो येन भग्नाः पुरतो ऽरिसेना भीतः स एवाद्य भवत्यधीरः
वृत्रेण शक्रः समरे निगीर्णः फेनेन शक्रः स जघान वृत्रम् ॥

5.7

........ ........
एकं समालिङ्गति दर्पलोला क्षीबेव वेश्या नहि राजलक्ष्मीः ॥

5.8*

यः कार्तवीर्यस्य च दोःसहस्रं विच्छेद वीरो नहि युधि जामदग्न्यः ।
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥

5.9*

रामो ऽपि साहायकलाभलोभाच्चक्रे कपेः संश्रयदैन्यसेवाम् ।
शूरप्रतापः शिशिरर्तुनेव कालेन लीढस्तनुतामुपैति ॥

5.10

वाली प्रसह्य प्लवगः करेण सोल्लासकैलाससहं दशास्यम्
निक्षिप्य कक्षाञ्चलसंधिबन्धे सप्ताब्धिसंध्याविधिमन्वतिष्ठत् ॥

5.11

युद्धोद्धता भूपतयः प्रसिद्धा बद्धा जरासंधनृपेण पूर्वम्
सभीमसेनेन भुजायुधेन द्विधा कृतः संधिविदारणेन ॥

5.12

भीमो ऽपि कर्णेन विकीर्णधैर्यः प्रमूढशक्तिः कृपया विमुक्तः
कर्णे ऽर्जुनस्याततकार्मुकस्य क्षणात्क्षणं याचकतां प्रयातः ॥

5.13

त्यक्त्वार्जुनः कृष्णकलत्रवर्गं जगाम गोपालबलाभिभूतः
न ज्ञायते दैवपथानुयाता शौर्यस्य वृत्तिः करिकर्णलोला ॥

5.14

भीरुः शूरत्वमायाति शूरो ऽप्यायाति भीरुताम्
न क्वचिच्चपलस्यास्य शौर्यस्य नियता स्थितिः ॥

5.15

बाणस्त्र्यक्षेण कंसारि चक्रधारापथातिथिः
आजन्मभक्तिप्रणयी रक्षणार्हो न रक्षितः ॥

5.16

वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत्
शौरिः शयनपर्यङ्क तलसंकुचिताकृतिः ॥

5.17

शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा
दृष्टिः कृता न चापेषु नृपैस्तत्पक्षिपातिभिः ॥

5.18

भीमनिष्पीयमाणसृग् दृष्टो दुर्योधनानुजः
अशस्त्राभिरेव स्त्रीभिर् द्रोणकर्णकृपादिभिः ॥

5.19

स्फाराजगरसंरुद्ध भुजद्वन्द्वो वृकोदरः
जननीकरुणाक्रन्द निनादमुखरो ऽभवत् ॥

5.20

महतामपि पूर्वेषाम् एवंरूपा मदक्षितिः
सामान्यविक्रमोद्दाम श्लाघा केनाभिनन्द्यते ॥

5.21

अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता
छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥

5.22

निष्कारणनृशंसस्य शौर्यं हिंस्रत्वमुच्यते
यः सर्प इव संनद्धः प्राणभाधाय देहिनाम् ॥

5.23

एतदेव परं शौर्यं यत्परप्राणरक्षणम्
नहि प्राणहरः शूरः शूरः प्राणप्रदो ऽर्थिनाम् ॥

5.24

न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः
पर्जन्यगर्जितामर्षी श्वभ्रे पतति केसरी ॥

5.25

किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः
बन्धकीलाभलोभेन यः क्षिपत्यवटे तनुम् ॥

5.26

शौर्यं विक्रीतकायस्य सेवकस्य किमद्भुतम्
मेषस्येव वधो यस्य सूनाबद्धस्य निश्चितः ॥

5.27

न दर्पविकृतं शौर्यं न मायामलिनं मनः
न द्वेषोष्णं श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥

5.28

कुलं कुतनयेनेव लोभेनेव गुणोदयः
ऐश्वर्यं दुर्नयेनेव शौर्यं दर्पेण नश्यति ॥

5.29

प्रभावभवनस्तम्भ इव दम्भोद्भवो ऽभवत्
सप्ताब्धिपरिखालेख मेखलायाः प्रभुर्भुवः ॥

5.30

तस्य निःशेषितारातेः सदा युद्धमनोरथः
अप्राप्तप्रतिमल्लस्य ययौ हृदयशल्यताम् ॥

5.31

स सुरासुरयुद्धाप्त दर्पदर्पितमानसः
कः को ऽस्ति शूरः संरम्भाद् इत्यपृच्छत्सदाजनम् ॥

5.32

दर्पकण्डूलदोर्दण्डं पृच्छन्तं रभसेन तम्
सर्वावमानसंनद्धं जगादाभ्येत्य नारदः ॥

5.33

नास्ति त्वत्सदृशः शूरस् त्रैलोक्ये सत्यमुच्यते
किं तु जाने रणार्हौ ते नरनारायणावृषी ॥

5.34

बदर्याश्रमसंसक्तौ तीव्रे तपसि निष्ठितौ
युद्धेच्छौ तौ यदि स्यातां तत्पूर्णस्ते मनोरथः ॥

5.35

नारदेनेत्यभिहिते स बदर्याश्रमं ययौ
विलोकयन्निजभुजौ प्रत्यासन्नरणोत्सवौ ॥

5.36

दृष्ट्वा तेजोनिधी तत्र नरनारायणौ नृपः
मनोरथपथाभ्यस्तं ययाचे युद्धमुद्धतः ॥

5.37

तं युद्धकामुकं तिर्यग् दृशा गम्भीरधीरया
विलोक्योवाच सावज्ञ स्मितदिग्धाधरं नरः ॥

5.38

महीपते निवर्तस्व न वयं युद्धकोविदाः
युक्तस्तैरेव सङ्ग्रामस् तव ये भूम्यनन्तराः ॥

5.39

इत्युक्तो ऽपि यदा राजा न चचाल रणादरात्
तदा तं दृप्तमैषीक निशितास्त्रैरपूरयत् ॥

5.40

प्रदीप्तज्वलनाकारैः शरैराकीर्णविग्रहः
विनष्टविग्रहरुचिर् नृपस्तत्याज धीरताम् ॥

5.41

अकाण्डखण्डितोच्चण्ड दर्पज्वरभरो नृपः
कृपणः प्राणरक्षायै तमेव शरणं ययौ ॥

5.42

वारितास्त्रस्ततस्तेन भग्नमानमनोरथः
लज्जाविकुण्ठकण्ठः स्वां राजधानीं ययौ नृपः ॥

5.43

इति मानस्य महताम् अपि घोराशनिर्मदः
लोहस्य स्वमलेनेव क्षयो दर्पेण तेजसः ॥

5.44

तस्मात्सदा मानधनेन पुंसा दर्पः प्रयत्नेन निवारणीयः
दर्पोग्रवक्त्रस्य सुहृज्जनो ऽपि सर्वात्मना तिव्रनिपातसज्जः ॥

5.45

अदर्पशौर्यस्पृहणीयसत्त्वा गोविप्ररक्षाक्षपितस्वदेहाः
प्रयान्ति वीराः सुकृतामृताद्रैर् यशःशरीरैरजरामरत्वम् ॥

मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc