भाषा

ENहिગુ
ग्रंथ पाठ

Darpadalana · अध्याय 7

7.1

तपः सदा रागधनाभिमान मोहप्रहाणाय सतामभीष्टम्
तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥

7.2

सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः
कोपोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥

7.3

चित्तं विरक्तं यदि किं तपोभिश् चित्तं सरागं यदि किं तपोभिः
चित्तं प्रसन्नं यदि किं तपोभिश् चित्तं सकोपं यदि किं तपोभिः ॥

7.4

कोपेन शापश्पुरिताधराणां कामेन कम्पस्फुरिताधराणाम्
स्वेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥

7.5

भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव
नीतो वसिष्ठेन रुषाभिशप्तश् चण्डालतां भूमिपतिस्त्रशङ्कुः ॥

7.6

भूमग्नमूर्तिर्वररत्नलोभाद् विपाटयन्तीं नयने सुकन्याम्
तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥

7.7

पाण्डुः प्रियाकण्ठविलम्बिबाहुर् ययौ स्तनन्यस्ततनुर्यदस्तम्
दग्धः परीक्षित्फणिफूत्कृतैर्यत् तपस्विकोपस्य विजृम्भितं तत् ॥

7.8

विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम्
शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥

7.9

न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम्
न दम्भदीक्षाकुहकाकुलं यत् कल्याणमित्त्रं विमलं व्रतं तत् ॥

7.10

ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवाहरभारम्
दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥

7.11

सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम्
प्रद्वेषदोषोष्णममेयमायं संसारचिह्नं व्रतमेतदग्र्यम् ॥

7.12

जटाक्षसूत्राजिनयोगपट्ट कन्यादृढग्रन्थिनिपीड्यमानम्
विवेकहीनं विरतप्रकाशं व्रतं बृहद्बन्धनमामनन्ति ॥

7.13

सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा
लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥

7.14

निःसङ्गयोगं धनभोगसङ्गं विलम्बिकङ्कालकपालमालम्
कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥

7.15

बालस्तपस्वी किमतो ऽस्ति हास्यं युवा वनैषी किमतो ऽस्त्ययोग्यम्
वृद्ध सरागः किमतो ऽस्ति निन्द्यं मूर्खः प्रमाता किमतो ऽस्ति शोच्यम् ॥

7.16

क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन
तपो ऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥

7.17

हिमाचले श्यामलदेवदारु वने पुरा निर्झरचारुहास्ये
तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥

7.18

ततः कदाचिद्भगवान्भवार्ति हारी विहाराय नभःपथेन
समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥

7.19

तस्योदितानां वदनप्रभाणां दीर्घीकृतानेकशशिप्रभाणाम्
विलासहास्येन नभो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥

7.20

देवी विलोक्याथ तपःप्रयत्न तीव्रप्रयासप्रकटास्थिशेषान्
मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥

7.21

देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम्
तप क्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥

7.22

कस्मादमी वर्षसहस्रलग्न क्लेशावलग्नास्तनुशोषमग्नाः
भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥

7.23

पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु
स्वाच्छन्द्यलीलाविपुलावलेपाद् एषु स्वभावः सुलभः प्रभूणाम् ॥

7.24

इति प्रियायाः प्रणयोपपन्नम् आकर्ण्य वाक्यं गिरिशो ऽब्रवीत्ताम्
कुर्वन्विषश्यामलकण्ठकान्तिं दन्तप्रभाभिः प्रतिभाविहीनम् ॥

7.25

देवि त्वयोक्तम् दयया मुनीनां भक्तानुरोधादुचितं ममैतत्
एषां भवोल्लङ्गनविघ्नभूतौ शान्तिं गतौ किं तु न कामकोपौ ॥

7.26

वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः
न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ॥

7.27

प्रत्यक्षमेषां मनसो विकारं संदर्शयाम्येष निषक्तमन्तः
तीव्रव्रतैः शुष्यति काय एव न वासनालीनघनप्रमोहः ॥

7.28

संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहे ऽप्यरागाः सुजने ऽप्यसङ्गाः
भजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ॥

7.29

उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवाग्रादवतीर्य भूमिम्
क्षणादभूदद्भुतरूपराशिर् नग्नव्रतः कान्तिसुधावदातः ॥

7.30

तस्यामराधीशकिरीटरत्न शोणप्रभार्द्राविव पादपद्मौ
प्रचक्रतुर्विद्रुमबालवल्ली नवप्ररोहाद्भुतगर्वमुर्व्याम् ॥

7.31

सुस्पष्टजानु प्रचितोरुशोभि नाभिह्रदावर्तविभक्तमध्यम्
तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम् ॥

7.32

अनन्यलावण्यसुधाब्धिमध्य स्नातैरिवाङ्गैः स्फटिकावदातैः
चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ॥

7.33*

पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितो ऽस्य कण्ठः ।
रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः ॥

7.34

स लोचनाभ्यां पृथुपक्ष्मलाभ्याम् आरक्तपर्यन्तमनोहराभ्याम्
व्यधादिवानङ्गनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥

7.35

दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत्
पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥

7.36

बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन
अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥

7.37

लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ च पुष्पैः
रूपान्तरे निह्नुतजह्नुकन्या फेनावशेषैरिव कीर्णकेशः ॥

7.38

तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै
जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥

7.39

रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत्
लज्जापहाराद्वनदेवतानां सविस्मयो येन नवाभिलाषः ॥

7.40

विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः
नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ॥

7.41

नभःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम्
प्रकम्पशिञ्जानविभूषणानां नेत्रोत्सवो ऽभूद्गतिविघ्नभूतः ॥

7.42

सुसिद्धकन्याञ्जलिपल्लवाग्र विमुक्तनीलोत्पलपुष्पकुञ्जम्
अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवाबभासे ॥

7.43

तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम्
मृगाङ्गनानामपि सस्पृहाभून् नितान्तमन्तःकरणप्रवृत्तिः ॥

7.44

तस्य प्रवेशे वदनाधिवास लोभभ्रमद्भृङ्गगणाञ्चितानाम्
अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्पः ॥

7.45

शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम्
विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ॥

7.46*

तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा ।
उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥

7.47

तासां तदर्चारभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम्
नवेन कामेन खलीकृतानां जृम्भाभवो ऽभूद्भुजयोर्विलासः ॥

7.48

तासां बभौ रोमलता मुखेन्दु भीता तमःश्रीः स्तनरक्षितेव
रागाग्निधूमप्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥

7.49

तस्याधरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव
हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥

7.50

भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः
वाताञ्चितैः पल्लवपणिभिस्ता निवार्यमाणा इव मञ्जरीभिः ॥

7.51

संतर्ज्यमाना इव होमधूम लेखावलीभ्रूभ्रमणेन दिग्भिः
तस्यान्तिके शीलदुकूलमुक्ति सज्जा विलज्जाः प्रसभं बभूवुः ॥

7.52

निःश्वासिनीनां स्मरबाणपुङ्ख पक्षान्तवातैरिव कम्पितानाम्
तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥

7.53

कोपोत्कटव्याघ्रविदीर्यमाण क्षमामृगीरक्तचितेव तेषाम्
आसन्नदोषागमवासरान्त संध्यानिभाभूत्सहसैव दृष्टिः ॥

7.54

दष्टाधराः कम्पविधूर्णमानाः स्वेदार्द्रदेहा विषमं श्वसन्तः
ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥

7.55

अन्तर्ज्वलत्कोपकृशानुधूम संकाशकृष्णाजिनबद्धकक्षः
त्रिदण्डमुद्यम्य जवेन कश्चिद् अभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥

7.56

बृसीं समुत्क्षिप्य सकम्पबाहुश् चिक्षेप कश्चित्क्षमया विहीनः
येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥

7.57

कमण्डलुं कश्चिदकाण्डचण्ड संरम्भपिण्डीकृतकोपतुल्यम्
आदाय मोहेन पिनाकपाणेः पुरः प्रहाराभिमुखो बभूव ॥

7.58

तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम्
प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥

7.59

तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः
आसीत्प्रमोहप्रतिमो ऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥

7.60

ते प्रापुरीर्ष्यापदमन्धकारि वक्त्रं शशाङ्कोपममीक्षमाणाः
कण्ठस्थलालोकनकालकूट संपूरिताक्षा इव मोहमूर्च्छाम् ॥

7.61

ते तं स्मितप्रस्फुरिताधराग्रम् उदग्रलावण्यविशेषतर्षाः
पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वासविकीर्णवर्णाः ॥

7.62

को ऽयं विजातिर्विगुणः कलावान् नग्नो वृषाङ्कः प्रविशत्यलज्जः
प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ॥

7.63

अनेन संसूचयता निगूढ रूपेण दर्पादकुलीनभावम्
नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥

7.64

अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य
केनापि कामत्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥

7.65

उक्त्वेति तस्मै ससृजुः सकोपास् ते दण्डपाषाणबृसीशतानि
द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ॥

7.66

दूरे भवत्यथ शनैः शिशिरांशुमौलौ तेषं प्रकोपविपुलानलतापितानाम्
तद्दर्शनानुसरणप्रसृतस्य यत्नः पत्नीजनस्य सुतरां विनिवर्तने ऽभूत् ॥

7.67

अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर प्रसृतहसितस्तस्मादेशात्क्रमेण तिरोहितः
प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥

7.68

भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः
काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् ॥

7.69

दर्पोत्कोपात्परणितजटासूत्रबन्धच्च मोहाद् अन्तःसीदत्सरसविषयास्वादसंवादसङ्गात्
आशापाशव्यसननिचयाद्वासनालीनदोषान् नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥

7.70

इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थं वचो निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम्
संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं रागद्वेषविमुक्तये च दयया चक्रे हरस्यार्थनाम् ॥

7.71

देव्यार्थितो ऽथ भगवान्कृपया स्मरारिस् तेषामनुग्रहमयेन विलोकनेन
चक्रे स्मितस्नपितदिग्वदनो मुनीनां लीनस्य मोहरजसः सहसैव शान्तिम् ॥

7.72

तपोविशेषैर्निशितप्रयत्नैस् तस्मान्न कार्यः पृथुमोहदर्पः
द्वेषेण रागेण मोहदयेन तपः क्षयं याति सह स्मयेन ॥

7.73

प्रशान्तो ऽन्तस्तृष्णाविषमपरितापः शमजलैर् अशेषः संतोषामृतविसरपानेन वपुषः
असङ्गः संभोगः कमलदलकीलालतुल्या भवारण्ये पुंसां परहितमुदारं खलु तपः ॥

मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc