Darpadalana · अध्याय 4
पद्मोपमानां दिनसुन्दराणां को ऽयं नृणामस्थिररूपदर्पः
रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ॥
पर्यन्तरेखाङ्गविभागहीन चित्रोपमं बालवपुः प्रकृत्या
तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥
अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि
जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥
धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षेण सुधांशुबिम्बम्
शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥
रूपं क्षणस्वीकृतरक्तमांस ग्रासप्रसक्ताकृतकामदोषा
केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥
पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः
करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः ॥
न लक्ष्यते कालगतिः सवेग चक्रभ्रमभ्रान्तिविधायिनीयम्
ह्यो यः शिशुः स स्फुटयौवनो ऽद्य प्रातर्जराजीर्णतनुः स एव ॥
पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत्
तस्मिन्मदोन्मादगदाङ्गभङ्ग व्यङ्ग्यादिदोषोपहते क्व रूपम् ॥
यदा नरः शोचति दुःखतप्तस् त्यक्ताशनः शोकविवर्णवक्त्रः
न स्नाति नोत्तिष्ठति नैव शेते तदा क्व रूपं क्व च यौवनश्रीः ॥
यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः
प्रकीर्णयूकामलकालकायस् तदा क्व रूपस्य गतो ऽभिमानः ॥
यदा सदाङ्गीकृतदैन्यदुःख सेवाप्रवासेन विनष्टकायः
नित्यप्रवासभ्रमभग्नजानुर् न रूपलब्धस्य तदास्ति रुपम् ॥
यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः
युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतस्वरूपम् ॥
यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः
तदा सुरूपादविचाररम्याद् वरं विरूपः स्पृहणीयरूपः ॥
यदा दरिद्रः परिधानहीनस् त्रपानिलीनः कुरुते ऽतियाञ्चाम्
कपोलसंजातवलीविकारस् तदा सुरूपो ऽपि परं विरूपः ॥
विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः परं मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते
विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥
कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम्
रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥
रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभावं विभवं वपुश्च
अश्नाति कालभ्रमरः समन्तात् पुंसां नि किंजल्कमिवाम्बुजानाम् ॥
कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम्
नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥
तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी
उर्वशी स्वमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः ॥
शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः
मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥
नृत्यन्ती सा बभौ हार मध्यरत्नेषु बिम्बिता
युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥
लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः
तत्कटाक्षजितश्चक्रे निद्रां चन्द्रे मृगः क्षणम् ॥
तस्याः सेर्ष्याप्सरोनेत्र मालेव पतिता बभौ
स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली ॥
उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः
वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥
तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं निःश्वासाञ्चितचारुरूप(?)रजसा चक्रे पुरस्तात्पटम्
उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची कोपान्दोलितकेलिपद्ममधुपैर्मध्ये ऽन्धकारं व्यधात् ॥
विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् ।
तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥
देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः
मिथः कथा समभवत् तद्गुणाकृष्टचित्तयोः ॥
एको ऽब्रवीदहो रूपम् अस्यास्तरलचक्षुषः
निमीलन्नियमा येन मुनयो ऽप्याकुलीकृताः ॥
अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः
स्मरसंभोगसंवाद लज्जाकुटिलिता दृशः ॥
वृत्तसंगमयोरेव परस्परविलोकने
न्यासं शृङ्गारसर्वस्वम् अनङ्गेनार्पितं रहः ॥
रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम्
कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥
इति ब्रुवाणमपरः सस्मितस्तमभाषत
अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥
विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः
उर्वशीभोगसुभगं यस्यैतद्गीयते यशः ॥
तेन रूपगुणोत्साहैर् उर्वशीयं वशीकृता
पुरः स्थितापि शक्रस्य मनसा तत्र तिष्ठति ॥
रूपसाम्येन शीतांशु वंशे जातः स लज्जते
न करोति रतेरग्रे तत्कथां मत्सरी स्मरः ॥
न जाने बत हेवाकः को ऽयं कुसुमधन्वनः
नैवार्पयति यत्पाणौ तस्यैव शरपञ्चकम् ॥
भुवः समस्ताम्बुधिमेखलाया वोढारमाजानुविलम्बिबाहुम्
लीलागुरुं तं हृदये वहन्ती तन्वी कथं नृत्यति नैव विद्मः ॥
द्रष्टव्यः स नृपस्तावद् अप्रस्तावे ऽपि यत्नतः
को वेत्ति तद्विधं रत्नं पुण्यैरास्ते कियच्चिरम् ॥
इयुक्त्वा तौ कृतक्षोणी पतिदर्शननिश्चयौ
नृत्ते निवृत्ते जम्भारिं प्रणम्य ययतुर्भुवम् ॥
राजधानीं समासाद्य तौ पुरूरवसः क्षणात्
अवारितौ विविशतुर् वेत्रिभिः सुरगौरवात् ॥
तौ तं ददृशतुः स्नान विहिताभ्यङ्गसंगमम्
पीयूषनवनीतेन लग्नस्नेहमिवोडुपम् ॥
स्नातोत्तारितकेयूर महार्हमणिकंकणम्
लावण्याभरणं तस्य विरराजोर्जितं वपुः ॥
शून्यश्रवणपाशस्य तस्य कण्ठः समाययौ
निर्भूषणनिवेशो ऽपि विशेषरमणीय्ताम् ॥
विचार्य तस्या मर्यादं सौन्दर्योदार्यमश्विनौ
प्रशशंसतुराश्चर्य निर्माणातिशयं विधेः ॥
स तौ कृताञ्जलिः प्रीत्या कृतासनपरिग्रहौ
पप्रच्छ स्वच्छहृदयस्त्व् अरागमनकारणम् ॥
तावूचतुः क्षितिपते महीकुसुमधन्वनः
त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥
निसर्गेण जगत्सर्ग निरर्गलगुणादरात्
कौतुकालोकसारेव दृष्ट्वा सृष्टिः प्रजापतेः ॥
विलोकितस्त्वं वसुधा सुधांशुः पूर्णमण्डलः
रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥
इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः ।
तावूचे नृपतिर्मान्यमानेनाभ्यधिकारः ॥
भवत्संदर्शनेनाहम् अस्म्यनुग्रहभाजनम्
द्रष्टव्या द्रष्टुमायान्ति पुण्यपुण्येन केवलम् ॥
तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः
अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥
स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः
पुण्यसाफल्यनिःशल्य कल्याणायार्चनादरः ॥
अग्न्यागारान्तरे तावन् मुहूर्तं क्रियतां स्थितिः
कृतस्नानः समेष्यामि पूजाप्रणयपात्रताम् ॥
इयुक्तौ तेन ययतुस् तौ हुताशनमन्दिरम्
स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ॥
अथ राजा कृतस्नानः सर्वाभरणभूषितः
पुरोहितेन सहितस् तत्समीपमुपाययौ ॥
तौ दृष्ट्वा पृथिवीपालं तारहारं किरीटिनम्
क्षणं नैवोचतुः किंचिद् विषण्णौ विनताननौ ॥
कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः
अकस्माद्युवयोः कस्माद् अप्रसाद इवेक्ष्यते ॥
विनयातिक्रमो ऽस्माकं यातः कचिन्न हेतुताम्
पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम् ॥
आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः
किं तु कालगलत्सर्व भावालोकनविस्मयः ॥
अधुनैव नरेन्द्रो ऽयं दृष्टो ऽभ्यङ्गे ऽपि यादृशः
क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥
दिनेन्धनवने नित्यं दह्यमाने ऽर्कवह्निना
नीयते कालधूमेन रूपचित्रमचित्रताम् ॥
निश्चित्य सर्वभावानां नित्यमेतामनित्यताम्
रूपे ऽभिमानं कः कुर्यात् स्वप्नचित्रपटोपमे ॥
जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च
आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मदः ॥
यो ऽयं विकोक्यते लोकः स्फाराकारविकारवान्
उच्छूनतामुपगतास् त एते शुक्रबिन्दवः ॥
अहो कालस्य सूक्ष्मो ऽयं को ऽप्यलक्ष्यक्रमः क्रमः
यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥
राज्ञः स्नानक्षणे याभूल् लावण्यलहरी तनोः
पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ॥
संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च
होरायात्राम्बुधारेव गलत्येवानिशं नृणाम् ॥
कलाकाष्ठामुहुर्तानां कालस्य व्रजतां जवात्
न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥
बालः प्रभाते मध्याह्ने तरुणः स्थविरो ऽस्तगः
दिने दिने दिनेशो ऽपि क्रियते काललीलया ॥
शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम्
भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यद्वशात् सर्वाशी सततं प्रधावति महाकालः स को ऽप्याकुलः ॥
इत्युक्त्वा नृपमामन्त्र्य दिवं जग्मतुरश्विनौ
नृपश्च तद्वचश्चिन्ता शान्तरूपमदो ऽभवत् ॥
तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासदर्पः
संसारमोहप्रसरे घने ऽस्मिन् विद्युल्लताविस्फुरितं हि रूपम् ॥
प्रातर्बालतरो ऽथ कुद्मलतया कान्ताकुचाभः शनैर् हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः
पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णे ऽनिलैस् तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥
वैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिर्नलः
सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥
तस्मादस्थिररूपं विचार्य रूपं भवस्वरूपं च ।
अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥
मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0