भाषा

ENहिગુ
ग्रंथ पाठ

Darpadalana · अध्याय 3

3.1

संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम्
तदन्दकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंशुमाला ॥

3.2

शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः
क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥

3.3

सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति
धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥

3.4

यो विद्यागुरुरायाति लघुतां शीलविप्लवात्
तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥

3.5

विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः
तेनात्मा हन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ॥

3.6

विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम्
भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥

3.7

स्पृहणीया सतां तावद् विद्या संतोषशालिनी
यावन्न पार्थिवास्थान पण्यस्थाने प्रसारिता ॥

3.8

सद्गुणाः शुचयस्तावद् यावद्वादेन शोधकैः
प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥

3.9

अश्माप्यहृदयो यस्य गुणसारं परीक्षते
उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥

3.10

कविभिर्नृपसेवासु चित्रालंकारहारिणी
वाणी वेश्येव लोभेन परोपकरणीकृता ॥

3.11

वादिभिः कलहोदर्क तर्कसंपर्ककर्कशा
वाणी क्रकचधारेव धर्ममूले निपातिता ॥

3.12

साधुतेजोवधायैव तार्किकैः कर्कशीकृता
वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥

3.13

शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा
तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां यस्तस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ॥

3.14

ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम्
तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥

3.15

शोच्यतां यात्यशीलेन विद्वेषेणापवित्रताम्
दर्पशापहता विद्या नश्यत्येव सहायुषा ॥

3.16

तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम्
पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥

3.17

पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ
स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥

3.18

भरद्वाजस्य पुत्रो ऽभूद् यवक्रीताभिधः सुताः
भवन्तविद्याः प्रायेण पितृप्रणयलालिताः ॥

3.19

स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ
पश्यन्नात्मनि सासूयः पश्चात्तापाकुलो ऽभवत् ॥

3.20

स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम्
चचार निश्चलतनुस् तीव्रं विद्याप्तये तपः ॥

3.21

तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः
उवाच मिथ्यानिर्बन्धः को ऽयं ते मुनिपुत्रक ॥

3.22

अनधीता गुरुमुखात् कथं विद्याधिगम्यते
अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥

3.23

अधुना विद्यया किं ते विद्यार्हं शैशवं गतम्
यत्फलं किल विद्यायास् तस्मिन्नवहितो भव ॥

3.24

शीलं परहितासक्तिर् अनुत्सेकः क्षमा धृतिः
अलोभश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ॥

3.25

विवेकरहिता विद्या द्वेषरोषोष्मशोषिता
दर्पाशनिनिपातेन हता वल्लीव निष्फला ॥

3.26

एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः
यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥

3.27

त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम्
नानाविपर्ययपथैर् गच्छन्त्यर्थफलार्थिनः ॥

3.28

उपकाराय या पुंसां न परस्य न चात्मनः
पत्रसंचयसंभारैः किं तया भारविद्यया ॥

3.29

अन्यायः प्रौढवादेन नीयते न्यायतां यया
न्यायश्चान्यायतां लोभात् किं तया क्षद्रविद्यया ॥

3.30

स्वजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका
क्रियते या सभामध्ये किं तया धृष्टविद्यया ॥

3.31

अनुष्ठानेन रहिता पाठमात्रेण केवलम्
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥

3.32

गोप्यते या श्रुतज्ञस्य मूर्खस्याग्रे प्रकाश्यते
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥

3.33

परोत्कर्षं समाच्छाद्य विक्रयाय प्रसार्यते
या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥

3.34

न तीर्यते यया घोरः संसारमकराकरः
नित्यं चित्तानुबन्धिन्या किं तया मोहविद्यया ॥

3.35

नित्याभ्यासप्रयासेन जीवितं क्षीयते यया
त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥

3.36

न विवेकोचितां बुद्धिं न वैराग्यमयं मनः
संपादयति या पुंसां किं तया जडविद्यया ॥

3.37

शौचाशौचविवादेन त्यक्ता (?) श्रोत्रियता यया
मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥

3.38

परमात्सर्यशल्येन व्यथा संजायते यया
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥

3.39

परसूक्तापहारेण स्वसृभाषितवादिना
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥

3.40

अनभ्यासहतोत्साहा परेण परिभूयते
या लज्जाजननी जाड्यात् किं तया मन्दविद्यया ॥

3.41

लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च
न यया शान्तिमायाति किं तयालीकविद्यया ॥

3.42

यया भूपतिमाश्रित्य परेषां गुणनिन्दकः
दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥

3.43

गृहे धाराधिरुढापि सभायां न प्रवर्तते
प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ॥

3.44

चण्डं पिण्डार्थिनां द्वेष पिशुनानां शुनामिव
यया संजायते युद्धं किं तया वधविद्यया ॥

3.45

विस्मृता यावलिप्तस्य कण्ठे कृतगतागता
जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ॥

3.46

रसायनी जराजीर्णश् चिररोगी यया भिषक्
धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥

3.47

यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः
आशापाशावलम्बिन्या किं तया लुब्धविद्यया ॥

3.48

परोपतापः क्रियते वश्यादिकुहकैर्यया
यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥

3.49

गुरुर्गर्वात्कविर्द्वेषाद् यतिर्भोगपरिग्रहात्
नृपः पापाद्द्विजः क्रोधात् सा विद्या वार्यते यया ॥

3.50

विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम्
स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥

3.51

वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः
व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥

3.52

द्वेषदर्पहता विद्या कामक्रोधहता मतिः
लोभमोहहता वृत्तिर् येषां तेषां किमायुषा ॥

3.53

दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः
न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवैस् तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥

3.54

इत्युक्तः सुरराजेन निश्चयान्न चचाल सः
अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥

3.55

अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः
शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥

3.56

तं दृष्ट्वा निष्फलक्लेश विफलोद्योगनिश्चलम्
मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥

3.57

ब्रह्मन्क एष निर्बन्धस् तव वन्ध्यसमुद्यमे
निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ॥

3.58

अस्मिन्कुटिलकल्लोल दोलाविक्षोभिते ऽम्भसि
हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥

3.59

इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत
अहो परोपदेशेषु सर्वो भवति पण्डितः ॥

3.60

अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि
यथा त्वं निष्फलारम्भस् तथाहमपरो जडः ॥

3.61

एतद्द्विजवचः श्रुत्वा यथार्थं स्थगितोत्तरः
तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ॥

3.62

अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम्
सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥

3.63

प्राप्तविद्यः स सोत्साहस् तूर्णं गत्वा स्वमाश्रमम्
निजां तपःफलावाप्ति कथां पित्रे न्यवेदयत् ॥

3.64

तं मदाक्रान्तमश्रान्त वृत्तसंस्कृतवादिनम्
भरद्वाजः प्रमोदे ऽपि स्वेदाकुल इवावदत् ॥

3.65

पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते
किं त्वागामिभयादेतन् न युक्तं प्रतिभाति मे ॥

3.66

इतः समीपे रैभ्यस्य कोपनस्य तपोवनम्
विद्यामदान्धौ तत्पुत्राव् अर्वावसुपरावसू ॥

3.67

तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः
तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥

3.68

ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः
अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥

3.69

तव तत्र प्रयातस्य युक्तायुक्तविवादिनः
भविष्यति मुनेः शापाद् अवश्यं मदनिग्रहः ॥

3.70

शुक्तिकारजतज्ञान नीलपीतादिदर्शनैः
उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥

3.71

एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया
रैभ्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥

3.72

इत्युक्तो ऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः
व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ॥

3.73

तं दर्पमत्तं साकोप भीमभ्रूभङ्गदुर्मुखौ
तावूचतुर्मनःसक्त विद्याविद्वेषशूलिनौ ॥

3.74

कनीयानावयोर्यस्माद् वयसा त्वं श्रुतेन च
करोषि वादैराक्षेपं तस्मादायुःक्षयो ऽस्तु ते ॥

3.75

इत्युक्तो ऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः
न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ॥

3.76

अत्रान्तरे भ्रमद्भृङ्ग मालाभ्रूभङ्गविभ्रमः
कालः प्रोषितकान्तानां पुष्पकालः समाययौ ॥

3.77

क्षिप्तपत्त्राः सुमनसां रजःकलुषितेक्षणाः
सद्वेषा इव विद्वांसश् चेरुर्मलयमारुताः ॥

3.78

माधुर्यललितोदार वाणीविलसितैर्मुहुः
कवीनामिव संघर्षः कोकिलानामजायत ॥

3.79

रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम्
भरद्वाजात्मजो ऽभ्येत्य प्रविवेश तदाश्रमम् ॥

3.80

तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं पुरावसोः
सो ऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥

3.81

उटजाङ्गनसक्तानां हरिणीनां विलोकने
विलासदीक्षां कुर्वाणां तरलापाङ्गमङ्गिभिः ॥

3.82

तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम्
बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥

3.83

स ब्रह्मचारी कामेन नवेन तरलीकृतः
अभिलाषोचितं वक्तुम् अनभिज्ञो ऽप्युवाच ताम् ॥

3.84

उन्मादनमिदं रूपम् अनुरूपं मनोभुवः
समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥

3.85

विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम्
त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ॥

3.86

जानामि यत्कृतस्यास्य विपाके कर्मणः फलम्
तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ॥

3.87

न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा
प्रवृत्तं शक्यते रोद्धुं मनोभवपथे मनः ॥

3.88

इत्युक्त्वा तां भयोद्भ्रान्त नयनामाश्रमोन्मुखीम्
गन्तुं प्रवृत्तां सो ऽभ्येत्य जग्राहांशुकपल्लवे ॥

3.89

कदली कुञ्जरेणेव तरसा तेन निर्जने
कृष्यमाणा तमवदत् सा निषेधचलाङ्गुलिः ॥

3.90

मा मा मलिनय स्वच्छं शीलं मम तथात्मनः
विद्याया निरवद्यायाः किमेतदुचितं फलम् ॥

3.91

शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव
गृह्णासि परनारीणां पाणिना पटपल्लवम् ॥

3.92

किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः
उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥

3.93

बिभ्रतो ऽन्तर्गतरसां कुसुमेषुरुचिं नवाम्
जटावल्कलभारस्ते तरोरिव न शान्तये ॥

3.94

पापसंकल्पमात्रेण त्रपयाधोमुखी तव
पतिता स्पर्शभीत्येव कम्पलोलाक्षमालिका ॥

3.95

आसनाब्जे सरस्वत्या जपलोलरदच्छदे
दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ॥

3.96

इयं तपोवनमही विवेकजननी कथम्
जनयत्यभिलाषं ते जननीवाजितात्मनः ॥

3.97

दुर्मदो (दुर्दमो) यौवनभरस् तुरङ्ग इव हारकः
सर्वथा शिथिलात्मानम् अवटे क्षिपति क्षणात् ॥

3.98

धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम्
धार्यते यैर्न संसार विकारस्खलितं मनः ॥

3.99

क्व विद्या विदिताशेष कार्याकार्यविमर्शधीः
मूढता क्व च दुष्कर्म महापापकुटुम्बिनी ॥

3.100

इत्युच्यमानो ऽपि यदा न स तत्याज दुर्ग्रहम्
शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥

3.101

किं करोम्यजने लब्धा विवशाहं प्रमादिना
उत्सृष्टधर्मनिमयाः किं न कुर्वन्त्यवारिताः ॥

3.102

अयं स्मरातुरस्तावद् वचसा न निवर्तते
वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धता ॥

3.103

इति ध्यात्वा तमवदत् सा शनैर्मृदुवादिनी
गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥

3.104

स्नात्वा सपुत्रः काले ऽस्मिन् नायाति श्वशुरो मम
ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥

3.105

इत्युक्तः स तया प्रायात् सत्यं विज्ञाय तद्वचः
दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥

3.106

रैभ्यं ततः समायातम् अग्न्यागाराग्रतः स्थितम्
स्नुषा प्रोवाच कोपाग्नि धूमेनेवाश्रुवर्षिणी ॥

3.107

भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः
ममाद्य विजने शील विप्लवे ऽभ्यर्थितां गतः ॥

3.108

स मया दुर्ग्रहग्रस्तः समेष्यामीति वञ्चितः
विमुच्ये नान्यथा हस्तात् तस्य स्वस्तिमती सती ॥

3.109

एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः
बभूव दुर्निमित्तोल्का पातक्रूरे इवांशुमान् ॥

3.110

विद्यावतां स्फुरत्यन्तर् विवेकः स्वस्थचेतसाम्
विकारकाले संमोहश् चित्ते विद्या च पुस्तके ॥

3.111

स निःश्वसन्नथ क्रोध ज्वरारम्भारुणेक्षणः
अभिचारजपेनेव कम्पमानाधरो ऽभ्यधात् ॥

3.112

अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात्
धर्मोपदेशं यत्नेन नग्नीकर्तुं पराङ्गनः ॥

3.113

इत्युक्त्वामर्षसंरम्भाद् अपरं वक्तुमक्षमः
स प्रविश्याग्निसदनं प्रतीकारपरो ऽभवत् ॥

3.114

उत्पाट्य विकटाटोप कोपः प्रौढाग्निपिङ्गलम्
स जुहाव जटां वह्नौ क्रूरक्रोधसटामिव ॥

3.115

द्वितीयायां हुतायां च शूलभृद्घोरराक्षसः
कृत्यासखः समुद्भूतः प्रोवाच प्रणतो मुनिम् ॥

3.116

किं करोमि मुने कस्य विनाशायास्मि निर्मितः
त्रैलोक्यमपि निर्दग्धुं संनद्धो ऽहं त्वदाज्ञया ॥

3.117

इति ब्रुवाणं तं रैभ्यः क्रूराकारमभाषत
भरद्वाजसुतं गच्छ कवलीकुर्वपण्डितम् ॥

3.118

इति तेन समादिष्टः स व्रजन्कम्पितावनिः
अर्धशौचं मुनिसुतं दृष्ट्वा दुरात्समाद्रवत् ॥

3.119

तस्मिन्नभिद्रुते वेगाद् दीप्तशूले निशाचरे
भयभग्नगतिः प्राप शरणं न मुनेः सुतः ॥

3.120

पलायमानः संप्राप्तः स जवात्पितुराश्रमत्
अग्न्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥

3.121

दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ
रक्षः शूलहतः पश्चात् सहसा भस्मसादभूत् ॥

3.122

अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम्
विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥

3.123

मम पुष्पफलादान प्रत्यावृत्तस्य वह्नयः
सदोत्तिष्ठन्ति पुरतस् ते ऽद्य किं निश्चला इव ॥

3.124

इति संचिन्त्य दृष्ट्वाग्रे भस्मभीतं सुतं मुनिः
श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ॥

3.125

स लब्धसंज्ञः शनकैर् अवदद्बाष्पगद्गदम्
रैभ्यो ऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥

3.126

हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना
न जीवामि सदोषेण कायेनेव त्वया विना ॥

3.127

इत्युक्त्वा पुत्रशोकेन चिताग्निमविशन्मुनिः
महत्स्वपि नवोत्सेकाद् अभग्नप्रसराः शुचः ॥

3.128

अथ याते शनैः काले बृहद्युम्नस्य भूपतेः
याजकौ जग्मतुर्गेहम् अर्वावसुपरावसू ॥

3.129

प्रवृत्ते विधिवत्तस्य दीर्घसत्त्रे पृथुश्रियः
दानमानोदयः को ऽपि तयोर्याजकयोरभूत् ॥

3.130

कदाचिद्दिनपर्यन्त संध्यायां निजमाश्रमम्
परावसुः समागच्छन् दृष्ट्वा पितरमग्रतः ॥

3.131

कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया
जघान शापविवशः स तेनाभूद्विचेतनः ॥

3.132

जनकं हतमालोक्य ब्रह्महत्याभयाकुलः
गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥

3.133

अर्वावसुस्तमवदद् भ्रातः किं क्रियते विधेः
भवन्ति यस्य संकल्पाद् एवंरूपा विपर्ययाः ॥

3.134

धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम्
विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ॥

3.135

ब्रह्महत्याव्रतं तीव्रं भवतो ऽर्थे चराम्यहम्
त्वमस्य कुरु भूभर्तुः संपूर्णां याजनक्रियाम् ॥

3.136

उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतव्रतः
चकार सर्वतीर्थेषु तीव्रनिष्कृतिपारणम् ॥

3.137

तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम्
दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥

3.138

अयं मे दक्षिणाकाले भागहर्ता समागतः
मदभाग्यैश्चिरं तीव्र व्रतक्लिष्टो ऽपि जीवति ॥

3.139

इति संचिन्त्य सो ऽभ्येत्य प्रोवाच पृथिवीपतिम्
लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ॥

3.140

राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया
प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥

3.141

इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात्
तस्य प्रवेशमज्ञानान् निष्पापस्य न्यवारयत् ॥

3.142

अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम्
पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥

3.143

मिथ्यापवाददानेन नैव भ्रात्रे चुकोप सः
निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥

3.144

तेन तस्यानृशंस्येन निर्विकारतया तया
तुष्टाः क्रतुसमासीनास् तमूचुस्त्रिदिवौकसः ॥

3.145

प्रशमेन तवानेन प्रसन्नास्ते वयं मुने
वरार्हो ऽपि वराचार गृह्यतां प्रवरो वरः ॥

3.146

इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः
यदि युष्मद्वरार्हो ऽहं दीयतां यन्ममेप्सितम् ॥

3.147

मत्पित्रा यो ऽभिचारेण भरद्वाजात्मजो हतः
स जीवत्वस्मृतक्रूर निकारः स च तत्पिता ॥

3.148

अस्मत्पिता मृगधिया यः परावसुना हतः
सो ऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥

3.149

इत्यर्थिते वरे तेन तथेत्याख्यायि तैः सुरैः
यवक्रीतभरद्वाज रैभ्याः प्रापुः स्वजीवितम् ॥

3.150

इत्येते मुनयो ऽपि दर्पविफले याते श्रुते शोच्यतां क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते
शीले रागमहोष्मणा विगलिते द्वेषेण नाशं गताः कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥

3.151

चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन
विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥

3.152

अलोभः परमं वित्तम् अहिंसा परमं तपः
अमाया परमा विद्या निरवद्या मनीषिणाम् ॥

3.153

शुक्रस्य विद्या धनदार्थहर्तुम् आर्याप्रपञ्चोपचितस्य शोच्या
कचस्य वाचस्पतिजन्मनो ऽपि व्याजेन विद्या विफलीबभूव ॥

3.154*

स्पृशति मतिं नहि तेषां द्वेषविषः कलिसर्पः ।
यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ॥

मूल पाठ: Darpadalana · Edition: Durgaparasad and Kashinath Pandurang Parab, Bombay 1890, Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series], Part VI, pp. 66-118. · Data entry members of the Rasala team · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc